| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ३३ ॥
॥ नाट्यशास्त्रम् अध्याय ॥
.. nāṭyaśāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ त्रयस्त्रिंशोऽध्यायः ।
अथ त्रयस्त्रिंशः अध्यायः ।
atha trayastriṃśaḥ adhyāyaḥ .
गुणात् प्रवर्तते गानं दोषं चैव निरस्यते । तस्माद्यत्नेन विज्ञेयौ गुणदोषौ समासतः ॥ १ ॥
गुणात् प्रवर्तते गानम् दोषम् च एव निरस्यते । तस्मात् यत्नेन विज्ञेयौ गुण-दोषौ समासतस् ॥ १ ॥
guṇāt pravartate gānam doṣam ca eva nirasyate . tasmāt yatnena vijñeyau guṇa-doṣau samāsatas .. 1 ..
गाता प्रत्यग्रवयाः स्निग्धो मधुरस्वरोपचितकण्ठः । लयतालकलापातप्रमाणयोगेषु तत्त्वज्ञः ॥ २ ॥
गाता प्रत्यग्र-वयाः स्निग्धः मधुर-स्वर-उपचित-कण्ठः । ॥ २ ॥
gātā pratyagra-vayāḥ snigdhaḥ madhura-svara-upacita-kaṇṭhaḥ . .. 2 ..
रूपगुणकान्तियुक्ता माधुर्योपेतसत्वसम्पन्नाः । पेशलमधुरस्निग्धानुनादिसमरक्त गुरु (शुभ) कण्ठाः ॥ ३
रूप-गुण-कान्ति-युक्ताः माधुर्य-उपेत-सत्व-सम्पन्नाः । गुरु (शुभ-कण्ठाः ॥ ३
rūpa-guṇa-kānti-yuktāḥ mādhurya-upeta-satva-sampannāḥ . guru (śubha-kaṇṭhāḥ .. 3
सुविहितगमकविधायिन्योऽक्षोभ्यो(भ्यास्)ताललयकुशलाः । आतोद्यार्पितकरणा विज्ञेया गायिकाः श्यामाः ॥ ४ ॥
सु विहित-गमक-विधायिन्यः अक्षोभ्यः(भ्यास्-ताल-लय-कुशलाः । आतोद्य-अर्पित-करणाः विज्ञेयाः गायिकाः श्यामाः ॥ ४ ॥
su vihita-gamaka-vidhāyinyaḥ akṣobhyaḥ(bhyās-tāla-laya-kuśalāḥ . ātodya-arpita-karaṇāḥ vijñeyāḥ gāyikāḥ śyāmāḥ .. 4 ..
प्रायेण तु स्वभावात् स्त्रीणां गानं नृणां च पाठ्यविधिः । स्त्रीणां स्वभावमधुरः कण्ठो नृणां बलित्वं च ॥ ५ ॥
प्रायेण तु स्वभावात् स्त्रीणाम् गानम् नृणाम् च पाठ्य-विधिः । स्त्रीणाम् स्वभाव-मधुरः कण्ठः नृणाम् बलि-त्वम् च ॥ ५ ॥
prāyeṇa tu svabhāvāt strīṇām gānam nṛṇām ca pāṭhya-vidhiḥ . strīṇām svabhāva-madhuraḥ kaṇṭhaḥ nṛṇām bali-tvam ca .. 5 ..
यत्र स्त्रीणां पाठ्यात्(ठ्यं) गुणैर्नराणां च गानमधुरत्वम् । ज्ञेयोऽलङ्कारोऽसौ न हि स्वभावो ह्ययं तेषाम् ॥ ६ ॥
यत्र स्त्रीणाम् पाठ्यात्(गुणैः नराणाम् च गान-मधुर-त्वम् । ज्ञेयः अलङ्कारः असौ न हि स्वभावः हि अयम् तेषाम् ॥ ६ ॥
yatra strīṇām pāṭhyāt(guṇaiḥ narāṇām ca gāna-madhura-tvam . jñeyaḥ alaṅkāraḥ asau na hi svabhāvaḥ hi ayam teṣām .. 6 ..
सुनिविष्टपाणिलययतियोगज्ञौसुमधुरलघुहस्तौ । गातृगुणैश्चोपेताववहितमनसौ सुसङ्गीतौ ॥ ७ ॥
सु निविष्ट-पाणि-लय-यति-योग-ज्ञौ सु मधुर-लघु-हस्तौ । गातृ-गुणैः च उपेतौ अवहित-मनसौ सु सङ्गीतौ ॥ ७ ॥
su niviṣṭa-pāṇi-laya-yati-yoga-jñau su madhura-laghu-hastau . gātṛ-guṇaiḥ ca upetau avahita-manasau su saṅgītau .. 7 ..
स्फुटरचितचित्रकरणौ गीतश्रवणाचलौप्रवीणौ च । चित्रादिवाद्यकुशलौवीणाभ्यां वादकौ भवतः ॥ ८ ॥
स्फुट-रचित-चित्र-करणौ च । चित्र-आदि-वाद्य-कुश-लौवीणाभ्याम् वादकौ भवतः ॥ ८ ॥
sphuṭa-racita-citra-karaṇau ca . citra-ādi-vādya-kuśa-lauvīṇābhyām vādakau bhavataḥ .. 8 ..
बलवानवहितबुद्धिर्गीतलयज्ञस्तथासुसङ्गीतः । श्रावकमधुरस्निग्धो दृढपाणिर्वंशवादको ज्ञेयः ॥ ९ ॥
बलवान् अवहित-बुद्धिः गीत-लय-ज्ञः तथा असु-सङ्गीतः । श्रावक-मधुर-स्निग्धः दृढ-पाणिः वंश-वादकः ज्ञेयः ॥ ९ ॥
balavān avahita-buddhiḥ gīta-laya-jñaḥ tathā asu-saṅgītaḥ . śrāvaka-madhura-snigdhaḥ dṛḍha-pāṇiḥ vaṃśa-vādakaḥ jñeyaḥ .. 9 ..
अविचलितमविच्छन्नं वर्णालङ्कारबोधकंमधुरम् । स्निग्धं दोषविहीनं वेणोरेवं स्मृतं वाद्यम् ॥ १० ॥
अविचलितम् अविच्छन्नम् वर्ण-अलङ्कार-बोधकम् मधुरम् । स्निग्धम् दोष-विहीनम् वेणोः एवम् स्मृतम् वाद्यम् ॥ १० ॥
avicalitam avicchannam varṇa-alaṅkāra-bodhakam madhuram . snigdham doṣa-vihīnam veṇoḥ evam smṛtam vādyam .. 10 ..
ज्ञानविज्ञानकरणवचनप्रयोगसिद्धिनिष्पादनानि षडाचार्यगुणा इति । तत्र ज्ञानं शास्त्रावबोधः । यथा च क्रियासम्पादनं विज्ञानम् । कण्ठहस्तगौण्यं करणम् । जितग्रन्थता वचनम् । देशादिसम्पदाराधनं प्रयोगसिद्धिः । शिष्यस्वभावमविशेष्योपात्तय उपदेशाच्छिष्यनिष्पादनमिति ॥ ११ ॥
ज्ञान-विज्ञान-करण-वचन-प्रयोग-सिद्धि-निष्पादनानि षट् आचार्य-गुणाः इति । तत्र ज्ञानम् शास्त्र-अवबोधः । यथा च क्रिया-सम्पादनम् विज्ञानम् । कण्ठ-हस्त-गौण्यम् करणम् । जित-ग्रन्थ-ता वचनम् । । शिष्य-स्वभावम् अ विशेष्य-उपात्तये उपदेशात् शिष्य-निष्पादनम् इति ॥ ११ ॥
jñāna-vijñāna-karaṇa-vacana-prayoga-siddhi-niṣpādanāni ṣaṭ ācārya-guṇāḥ iti . tatra jñānam śāstra-avabodhaḥ . yathā ca kriyā-sampādanam vijñānam . kaṇṭha-hasta-gauṇyam karaṇam . jita-grantha-tā vacanam . . śiṣya-svabhāvam a viśeṣya-upāttaye upadeśāt śiṣya-niṣpādanam iti .. 11 ..
श्रावणोऽथ घनः स्निग्धो मधुरोह्यवधानवान् । त्रिस्थानशोभीत्येवं तु षट् कण्ठस्य गुणा मताः ॥ १२ ॥
श्रावणः अथ घनः स्निग्धः मधुरः हि अवधानवान् । त्रि-स्थान-शोभि इति एवम् तु षट् कण्ठस्य गुणाः मताः ॥ १२ ॥
śrāvaṇaḥ atha ghanaḥ snigdhaḥ madhuraḥ hi avadhānavān . tri-sthāna-śobhi iti evam tu ṣaṭ kaṇṭhasya guṇāḥ matāḥ .. 12 ..
उदात्तं श्रूयते यस्मात्तस्माच्छ्रावण उच्यते । श्रावणः सुस्वरो यस्मादच्छिन्नः स घनो मतः ॥ १३ ॥
उदात्तम् श्रूयते यस्मात् तस्मात् श्रावणः उच्यते । श्रावणः सु स्वरः यस्मात् अच्छिन्नः स घनः मतः ॥ १३ ॥
udāttam śrūyate yasmāt tasmāt śrāvaṇaḥ ucyate . śrāvaṇaḥ su svaraḥ yasmāt acchinnaḥ sa ghanaḥ mataḥ .. 13 ..
अरूक्षध्वनिसंयुक्तः स्निग्धस्तज्ज्ञैः प्रकीर्तितः । मनःप्रह्लादनकरः स वै मधुर उच्यते ॥ १४ ॥
अरूक्ष-ध्वनि-संयुक्तः स्निग्धः तद्-ज्ञैः प्रकीर्तितः । मनः-प्रह्लादन-करः स वै मधुरः उच्यते ॥ १४ ॥
arūkṣa-dhvani-saṃyuktaḥ snigdhaḥ tad-jñaiḥ prakīrtitaḥ . manaḥ-prahlādana-karaḥ sa vai madhuraḥ ucyate .. 14 ..
स्वरेऽधिके च हीने च ह्यविरक्तो विधानवान् । शिरःकण्ठेष्वभिहितन्त्रिस्थानमधुरस्वरः । त्रिस्थानशोभीत्येवं तु स हि तज्ज्ञैरुदाहृतः ॥ १५ ॥
स्वरे अधिके च हीने च हि अविरक्तः विधानवान् । शिरः-कण्ठेषु अभिहित-त्रि-स्थान-मधुर-स्वरः । त्रि-स्थान-शोभि इति एवम् तु स हि तद्-ज्ञैः उदाहृतः ॥ १५ ॥
svare adhike ca hīne ca hi aviraktaḥ vidhānavān . śiraḥ-kaṇṭheṣu abhihita-tri-sthāna-madhura-svaraḥ . tri-sthāna-śobhi iti evam tu sa hi tad-jñaiḥ udāhṛtaḥ .. 15 ..
कपिलो ह्यवस्थितश्चैव तथा सन्दष्ट एव च । काकी च तुम्बकी चैव पञ्च दोषा भवन्ति हि ॥ १६ ॥
कपिलः हि अवस्थितः च एव तथा सन्दष्टः एव च । काकी च तुम्बकी च एव पञ्च दोषाः भवन्ति हि ॥ १६ ॥
kapilaḥ hi avasthitaḥ ca eva tathā sandaṣṭaḥ eva ca . kākī ca tumbakī ca eva pañca doṣāḥ bhavanti hi .. 16 ..
वैस्वर्यं च भवेद्यत्र तथा स्याद् घर्घरायितम् । कपिलः स तु विज्ञेयः श्लेष्मकण्ठस्तथैव च ॥ १७ ॥
वैस्वर्यम् च भवेत् यत्र तथा स्यात् घर्घरायितम् । कपिलः स तु विज्ञेयः श्लेष्मकण्ठः तथा एव च ॥ १७ ॥
vaisvaryam ca bhavet yatra tathā syāt ghargharāyitam . kapilaḥ sa tu vijñeyaḥ śleṣmakaṇṭhaḥ tathā eva ca .. 17 ..
ऊनताऽधिकता चापि स्वराणां यत्र दृश्यते । रूक्षदोषहतश्चैव ज्ञेयः स त्वव्यवस्थितः ॥ १८ ॥
ऊन-ता अधिक-ता च अपि स्वराणाम् यत्र दृश्यते । रूक्ष-दोष-हतः च एव ज्ञेयः स तु अव्यवस्थितः ॥ १८ ॥
ūna-tā adhika-tā ca api svarāṇām yatra dṛśyate . rūkṣa-doṣa-hataḥ ca eva jñeyaḥ sa tu avyavasthitaḥ .. 18 ..
दण्डप्रयोगात् सन्दष्टस्त्वाचार्यैः परिकीर्तितः । यो न विस्तरति स्थाने स्वरमुच्चारणागतम् ॥ १९ ॥
दण्ड-प्रयोगात् सन्दष्टः तु आचार्यैः परिकीर्तितः । यः न विस्तरति स्थाने स्वरम् उच्चारण-आगतम् ॥ १९ ॥
daṇḍa-prayogāt sandaṣṭaḥ tu ācāryaiḥ parikīrtitaḥ . yaḥ na vistarati sthāne svaram uccāraṇa-āgatam .. 19 ..
नासाग्रग्रस्तशब्दस्तुतुम्बकी सोऽभिधीयते ॥ २० ॥
नासा-अग्र-ग्रस्त-शब्दः तुतुम्बकी सः अभिधीयते ॥ २० ॥
nāsā-agra-grasta-śabdaḥ tutumbakī saḥ abhidhīyate .. 20 ..
अन्ये तु समप्रहरणे चैव जविनौ विशदौ तथा । जितश्रमौ विकृष्टौ च मधुरौ स्वेदवर्जितौ । तथा बृयन्नखौ चैव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
अन्ये तु सम-प्रहरणे च एव जविनौ विशदौ तथा । जित-श्रमौ विकृष्टौ च मधुरौ स्वेद-वर्जितौ । तथा बृयत्-नखौ च एव ज्ञेयौ हस्तस्य वै गुणाः ॥ २१ ॥ इति
anye tu sama-praharaṇe ca eva javinau viśadau tathā . jita-śramau vikṛṣṭau ca madhurau sveda-varjitau . tathā bṛyat-nakhau ca eva jñeyau hastasya vai guṇāḥ .. 21 .. iti
एते गुणाश्च दोषाश्च तत्त्वतः कथितो मया । अत ऊर्ध्वं प्रवक्ष्यामि ह्यवनद्धविधिं पुनः ॥ २२ ॥
एते गुणाः च दोषाः च तत्त्वतः कथितः मया । अतस् ऊर्ध्वम् प्रवक्ष्यामि हि अवनद्ध-विधिम् पुनर् ॥ २२ ॥
ete guṇāḥ ca doṣāḥ ca tattvataḥ kathitaḥ mayā . atas ūrdhvam pravakṣyāmi hi avanaddha-vidhim punar .. 22 ..
पूर्वं यदुक्तं प्रपितामहेन । कुर्यात् य एवं तु नरः प्रयोगे सम्मानमग्रयं लभते स लोके ॥ २३ ॥
पूर्वम् यत् उक्तम् प्रपितामहेन । कुर्यात् यः एवम् तु नरः प्रयोगे सम्मानम् अग्रयम् लभते स लोके ॥ २३ ॥
pūrvam yat uktam prapitāmahena . kuryāt yaḥ evam tu naraḥ prayoge sammānam agrayam labhate sa loke .. 23 ..
इति भरतीये नाट्यशास्त्रे गुणदोषविचारो नामाध्यायस्त्रयस्त्रिंशः ॥ ३३ ॥
इति भरतीये नाट्य-शास्त्रे गुणदोषविचारः नाम अध्यायः त्रयस्त्रिंशः ॥ ३३ ॥
iti bharatīye nāṭya-śāstre guṇadoṣavicāraḥ nāma adhyāyaḥ trayastriṃśaḥ .. 33 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In