| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २३ ॥
॥ नाट्य-शास्त्रम् अध्याय ॥
.. nāṭya-śāstram adhyāya ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ त्रयोविंशोऽध्यायः ।
अथ त्रयोविंशः अध्यायः ।
atha trayoviṃśaḥ adhyāyaḥ .
विशेषयेत्कलाः सर्वा यस्मात्तस्मात्तु वैशिकः । वेशोपचारे साधुर्वा वैशिकः परिकीर्तितः ॥ १॥
विशेषयेत् कलाः सर्वाः यस्मात् तस्मात् तु वैशिकः । वेश-उपचारे साधुः वा वैशिकः परिकीर्तितः ॥ १॥
viśeṣayet kalāḥ sarvāḥ yasmāt tasmāt tu vaiśikaḥ . veśa-upacāre sādhuḥ vā vaiśikaḥ parikīrtitaḥ .. 1..
यो हि सर्वकलोपेतः सर्वशिल्पविचक्षणः । स्त्रीचित्तग्रहणाभिज्ञो वैशिकः स भवेत्पुमान् ॥ २॥
यः हि सर्व-कला-उपेतः सर्व-शिल्प-विचक्षणः । स्त्री-चित्त-ग्रहण-अभिज्ञः वैशिकः स भवेत् पुमान् ॥ २॥
yaḥ hi sarva-kalā-upetaḥ sarva-śilpa-vicakṣaṇaḥ . strī-citta-grahaṇa-abhijñaḥ vaiśikaḥ sa bhavet pumān .. 2..
गुणस्तस्य तु विज्ञेयाः स्वशरीरसमुत्थिताः । आहार्याः सहजाश्चैव त्रयस्त्रिंशत्समासतः ॥ ३॥
गुणः तस्य तु विज्ञेयाः स्व-शरीर-समुत्थिताः । आहार्याः सहजाः च एव त्रयस्त्रिंशत् समासतस् ॥ ३॥
guṇaḥ tasya tu vijñeyāḥ sva-śarīra-samutthitāḥ . āhāryāḥ sahajāḥ ca eva trayastriṃśat samāsatas .. 3..
शास्त्रविच्छिल्पसम्पन्नो रूपवान् प्रियदर्शनः विक्रान्तो धृतिमांश्चैव वयोवेषकुलान्वितः ॥ ४॥
शास्त्र-विद् शिल्प-सम्पन्नः रूपवान् प्रिय-दर्शनः विक्रान्तः धृतिमान् च एव वयः-वेष-कुल-अन्वितः ॥ ४॥
śāstra-vid śilpa-sampannaḥ rūpavān priya-darśanaḥ vikrāntaḥ dhṛtimān ca eva vayaḥ-veṣa-kula-anvitaḥ .. 4..
सुरभिर्मधुरस्त्यागि सहिष्णुरविकत्थनः अशङ्कितः प्रियाभाषी चतुरः शुभदः शुचिः ॥ ५॥
सुरभिः मधुरः त्यागि सहिष्णुः अविकत्थनः अशङ्कितः प्रिय-आभाषी चतुरः शुभ-दः शुचिः ॥ ५॥
surabhiḥ madhuraḥ tyāgi sahiṣṇuḥ avikatthanaḥ aśaṅkitaḥ priya-ābhāṣī caturaḥ śubha-daḥ śuciḥ .. 5..
कामोपचारकुशलो दक्षिणो देशकालवित् । अदीनवाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः ॥ ६॥
काम-उपचार-कुशलः दक्षिणः देश-काल-विद् । अदीन-वाक्यः स्मितवान् वाग्मी दक्षः प्रियंवदः ॥ ६॥
kāma-upacāra-kuśalaḥ dakṣiṇaḥ deśa-kāla-vid . adīna-vākyaḥ smitavān vāgmī dakṣaḥ priyaṃvadaḥ .. 6..
स्त्रीलुब्धाः संविभागी च श्रद्धधानो दृढस्मृतिः । गम्यासु चाप्यविस्रम्भी मानी चेति हि वैशिकः ॥ ७॥
स्त्री-लुब्धाः संविभागी च दृढ-स्मृतिः । गम्यासु च अपि अविस्रम्भी मानी च इति हि वैशिकः ॥ ७॥
strī-lubdhāḥ saṃvibhāgī ca dṛḍha-smṛtiḥ . gamyāsu ca api avisrambhī mānī ca iti hi vaiśikaḥ .. 7..
अनुयुक्तः शुचिर्दक्षो दक्षिणः प्रतिपत्तिमान् । भवेच्चित्राभिधायी च वयस्यस्तस्य तद्गुणः ॥ ८॥
अनुयुक्तः शुचिः दक्षः दक्षिणः प्रतिपत्तिमान् । भवेत् चित्र-अभिधायी च वयस्यः तस्य तद्-गुणः ॥ ८॥
anuyuktaḥ śuciḥ dakṣaḥ dakṣiṇaḥ pratipattimān . bhavet citra-abhidhāyī ca vayasyaḥ tasya tad-guṇaḥ .. 8..
विज्ञानगुणसम्पना कथिनी लिङ्गिनी तथा । प्रातिवेश्या सखी दासी कुमारी कारुशिल्पिनी ॥ ९॥
कथिनी लिङ्गिनी तथा । प्रातिवेश्या सखी दासी कुमारी कारु-शिल्पिनी ॥ ९॥
kathinī liṅginī tathā . prātiveśyā sakhī dāsī kumārī kāru-śilpinī .. 9..
धात्री पाषण्डिनी चैव तथा रङ्गोपजीविनी । प्रोत्साहनेऽथकुशला मधुरकथा दक्षिणाथकालज्ञा ॥ १०॥
धात्री पाषण्डिनी च एव तथा रङ्गोपजीविनी । प्रोत्साहने अथ कुशला मधुर-कथा दक्षिणा अथ काल-ज्ञा ॥ १०॥
dhātrī pāṣaṇḍinī ca eva tathā raṅgopajīvinī . protsāhane atha kuśalā madhura-kathā dakṣiṇā atha kāla-jñā .. 10..
लडहा संवृतमन्त्रा दूती त्वेभिर्गुणैः कार्या । तयाप्युत्साहनं कार्यं नानादर्शितकारणम् ॥ ११॥
लडहा संवृत-मन्त्रा दूती तु एभिः गुणैः कार्या । तया अपि उत्साहनम् कार्यम् नाना दर्शित-कारणम् ॥ ११॥
laḍahā saṃvṛta-mantrā dūtī tu ebhiḥ guṇaiḥ kāryā . tayā api utsāhanam kāryam nānā darśita-kāraṇam .. 11..
यथोक्तकथनं चैव तथा भावप्रदर्शनम् । न जडं रूपसम्पन्नं नार्थवन्तं न चातुरम् ॥ १२॥
यथा उक्त-कथनम् च एव तथा भाव-प्रदर्शनम् । न जडम् रूप-सम्पन्नम् न अर्थवन्तम् न चातुरम् ॥ १२॥
yathā ukta-kathanam ca eva tathā bhāva-pradarśanam . na jaḍam rūpa-sampannam na arthavantam na cāturam .. 12..
दूतं वाऽप्यथवा दूतीं बुधः कुर्यात्कदाचन । कुलभोगधनाधिक्यैः कृत्वाधिकविकत्थनम् ॥ १३॥
दूतम् वा अपि अथवा दूतीम् बुधः कुर्यात् कदाचन । कुल-भोग-धन-आधिक्यैः कृत्वा अधिक-विकत्थनम् ॥ १३॥
dūtam vā api athavā dūtīm budhaḥ kuryāt kadācana . kula-bhoga-dhana-ādhikyaiḥ kṛtvā adhika-vikatthanam .. 13..
दूती निवेदयेत्काममर्थांश्चैवानुवर्णयेत् । न चाकामप्रवृत्तायाः कृद्धाया वापि सङ्गमः ॥ १४॥
दूती निवेदयेत् कामम् अर्थान् च एव अनुवर्णयेत् । न च अ काम-प्रवृत्तायाः कृद्धायाः वा अपि सङ्गमः ॥ १४॥
dūtī nivedayet kāmam arthān ca eva anuvarṇayet . na ca a kāma-pravṛttāyāḥ kṛddhāyāḥ vā api saṅgamaḥ .. 14..
नानुपायः प्रकर्तव्यो दूत्या हि पुरुषाश्रयः । उत्सवे रत्रिसञ्चार उद्द्याने मित्रवेश्मनि ॥ १५॥
न अनुपायः प्रकर्तव्यः दूत्याः हि पुरुष-आश्रयः । उत्सवे रत्रि-सञ्चारे उद्द्याने मित्र-वेश्मनि ॥ १५॥
na anupāyaḥ prakartavyaḥ dūtyāḥ hi puruṣa-āśrayaḥ . utsave ratri-sañcāre uddyāne mitra-veśmani .. 15..
धात्रिगृहेषु सख्या वा तथा चैव निमन्त्रणे । व्याधितव्यपदेशेन शुन्यागारनिवेशने ॥ १६॥
धात्रि-गृहेषु सख्याः वा तथा च एव निमन्त्रणे । व्याधित-व्यपदेशेन शुनी-आगार-निवेशने ॥ १६॥
dhātri-gṛheṣu sakhyāḥ vā tathā ca eva nimantraṇe . vyādhita-vyapadeśena śunī-āgāra-niveśane .. 16..
कार्यः समागमो नॄणां स्त्रीभिः प्रथमसङ्गमे । एवं समागमं कृत्वा सोपायं विधिपूर्वकम् ॥ १७॥
कार्यः समागमः नॄणाम् स्त्रीभिः प्रथम-सङ्गमे । एवम् समागमम् कृत्वा स उपायम् विधि-पूर्वकम् ॥ १७॥
kāryaḥ samāgamaḥ nṝṇām strībhiḥ prathama-saṅgame . evam samāgamam kṛtvā sa upāyam vidhi-pūrvakam .. 17..
अनुरक्ता विरक्ता वा लिङ्गाकारैस्तु लक्षयेत् । स्वभावभावातिशयैर्नारी या मदनाश्रया ॥ १८॥
अनुरक्ता विरक्ता वा लिङ्ग-आकारैः तु लक्षयेत् । स्वभाव-भाव-अतिशयैः नारी या मदन-आश्रया ॥ १८॥
anuraktā viraktā vā liṅga-ākāraiḥ tu lakṣayet . svabhāva-bhāva-atiśayaiḥ nārī yā madana-āśrayā .. 18..
करोति निभृतां लीलां नित्यं सा मदनातुरा । सखीमध्ये गुणान् ब्रूते स्वधनं च प्रयच्छति ॥ १९॥
करोति निभृताम् लीलाम् नित्यम् सा मदन-आतुरा । सखी-मध्ये गुणान् ब्रूते स्व-धनम् च प्रयच्छति ॥ १९॥
karoti nibhṛtām līlām nityam sā madana-āturā . sakhī-madhye guṇān brūte sva-dhanam ca prayacchati .. 19..
पूजयत्यस्य मित्राणि द्वेष्टि शत्रुजनं सदा । गमागमे सखीनां या हृष्टा भवति चाधिकम् ॥ २०॥
पूजयति अस्य मित्राणि द्वेष्टि शत्रु-जनम् सदा । गम-आगमे सखीनाम् या हृष्टा भवति च अधिकम् ॥ २०॥
pūjayati asya mitrāṇi dveṣṭi śatru-janam sadā . gama-āgame sakhīnām yā hṛṣṭā bhavati ca adhikam .. 20..
तुष्यत्यस्य कथाभिस्तु सस्नेहं च निरीक्षते । सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति ॥ २१॥
तुष्यति अस्य कथाभिः तु स स्नेहम् च निरीक्षते । सुप्ते तु पश्चात् स्वपिति चुम्बिता प्रतिचुम्बति ॥ २१॥
tuṣyati asya kathābhiḥ tu sa sneham ca nirīkṣate . supte tu paścāt svapiti cumbitā praticumbati .. 21..
उत्तिष्ठत्यपि पूर्वं च तथा क्लेशसहापि च । उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ २२॥
उत्तिष्ठति अपि पूर्वम् च तथा क्लेश-सहा अपि च । उत्सवे मुदिता या च व्यसने या च दुःखिता ॥ २२॥
uttiṣṭhati api pūrvam ca tathā kleśa-sahā api ca . utsave muditā yā ca vyasane yā ca duḥkhitā .. 22..
एवंविधैर्गुणैर्युक्ता त्वनुरक्ता तु सा स्मृता । विरक्तायास्तु चिन्हानि चुम्बिता नाभिचुम्बति ॥ २३॥
एवंविधैः गुणैः युक्ता तु अनुरक्ता तु सा स्मृता । विरक्तायाः तु चिन्हानि चुम्बिता न अभिचुम्बति ॥ २३॥
evaṃvidhaiḥ guṇaiḥ yuktā tu anuraktā tu sā smṛtā . viraktāyāḥ tu cinhāni cumbitā na abhicumbati .. 23..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥
इति भारतीये नाट्य-शास्त्रे त्रयोविंशः ॥
iti bhāratīye nāṭya-śāstre trayoviṃśaḥ ..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥
इति भारतीये नाट्य-शास्त्रे त्रयोविंशः ॥
iti bhāratīye nāṭya-śāstre trayoviṃśaḥ ..
इति भारतीये नाट्यशास्त्रे त्रयोविंशः ॥
इति भारतीये नाट्य-शास्त्रे त्रयोविंशः ॥
iti bhāratīye nāṭya-śāstre trayoviṃśaḥ ..
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check
this is not complete text - please check

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In