| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय ३० ॥
॥ नाट्य-शास्त्रम् अध्याय- ॥
.. nāṭya-śāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
त्रिंशोऽध्यायः
त्रिंशः अध्यायः
triṃśaḥ adhyāyaḥ
अतोद्यं सुषिरं नाम ज्ञेयं वंशगतं बुधैः । वैण एव विधिस्तत्र स्वरग्रामसमाश्रयः ॥ १ ॥
अतोद्यम् सुषिरम् नाम ज्ञेयम् वंश-गतम् बुधैः । वैणः एव विधिः तत्र स्वर-ग्राम-समाश्रयः ॥ १ ॥
atodyam suṣiram nāma jñeyam vaṃśa-gatam budhaiḥ . vaiṇaḥ eva vidhiḥ tatra svara-grāma-samāśrayaḥ .. 1 ..
द्विकत्रिकचतुष्कास्तु ज्ञेया वंशगताः स्वराः । कम्प्यमानार्थमुक्ताश्च व्यक्तमुक्तास्तथैव च ॥ २ ॥
द्विक-त्रिक-चतुष्काः तु ज्ञेयाः वंश-गताः स्वराः । कम्प्यमान-अर्थ-मुक्ताः च व्यक्त-मुक्ताः तथा एव च ॥ २ ॥
dvika-trika-catuṣkāḥ tu jñeyāḥ vaṃśa-gatāḥ svarāḥ . kampyamāna-artha-muktāḥ ca vyakta-muktāḥ tathā eva ca .. 2 ..
तत्रोपरि यथा ह्येकः स्वरो वैणस्वरान्तरे । प्राप्नोत्यन्यत्वमेवेह तथा वंशगतोऽपि हि ॥ ३ ॥
तत्र उपरि यथा हि एकः स्वरः वैण-स्वर-अन्तरे । प्राप्नोति अन्य-त्वम् एवा इह तथा वंश-गतः अपि हि ॥ ३ ॥
tatra upari yathā hi ekaḥ svaraḥ vaiṇa-svara-antare . prāpnoti anya-tvam evā iha tathā vaṃśa-gataḥ api hi .. 3 ..
द्विकस्त्रिकश्चतुष्को वा श्रुतिसङ्ख्यो भवेत् स्वरः । अनीरणात्तु शेषाणां स्वराणामपि सम्भवः । अङ्गुलीवादनकृतं तच्च मे सन्निबोधत ॥ ४ ॥
द्विकः त्रिकः चतुष्कः वा श्रुति-सङ्ख्यः भवेत् स्वरः । अनीरणात् तु शेषाणाम् स्वराणाम् अपि सम्भवः । अङ्गुलीवादन-कृतम् तत् च मे सन् निबोधत ॥ ४ ॥
dvikaḥ trikaḥ catuṣkaḥ vā śruti-saṅkhyaḥ bhavet svaraḥ . anīraṇāt tu śeṣāṇām svarāṇām api sambhavaḥ . aṅgulīvādana-kṛtam tat ca me san nibodhata .. 4 ..
व्यक्तमुक्ताङ्गुलिस्तत्र स्वरो ज्ञेयश्चतुःश्रुतिः । कम्प्यमानाङ्गुलिश्चैव त्रिश्रुतिः परिकीर्तितः । द्विकोऽर्धाङ्गुलिमुक्तः स्यादिति श्रुत्याश्रिताः स्वराः ॥ ५ ॥
व्यक्त-मुक्त-अङ्गुलिः तत्र स्वरः ज्ञेयः चतुर्-श्रुतिः । कम्प्यमान-अङ्गुलिः च एव त्रि-श्रुतिः परिकीर्तितः । द्विकः अर्ध-अङ्गुलि-मुक्तः स्यात् इति श्रुति-आश्रिताः स्वराः ॥ ५ ॥
vyakta-mukta-aṅguliḥ tatra svaraḥ jñeyaḥ catur-śrutiḥ . kampyamāna-aṅguliḥ ca eva tri-śrutiḥ parikīrtitaḥ . dvikaḥ ardha-aṅguli-muktaḥ syāt iti śruti-āśritāḥ svarāḥ .. 5 ..
एते स्युर्मध्यमग्रामे भूयः षड्जाश्रिताः पुनः । व्यक्तमुक्ताङ्गुलिकृताः षड्जमध्यमपञ्चमाः ॥ ६ ॥
एते स्युः मध्यम-ग्रामे भूयस् षड्ज-आश्रिताः पुनर् । व्यक्त-मुक्त-अङ्गुलि-कृताः षड्ज-मध्यम-पञ्चमाः ॥ ६ ॥
ete syuḥ madhyama-grāme bhūyas ṣaḍja-āśritāḥ punar . vyakta-mukta-aṅguli-kṛtāḥ ṣaḍja-madhyama-pañcamāḥ .. 6 ..
ऋषभो धैवतश्चापि कम्प्यमानाङ्गुलीकृतौ । अर्धमुक्ताङ्गुलिश्चैव गान्धारोऽथ निषादवान् ॥ ७ ॥
ऋषभः धैवतः च अपि कम्प्यमान-अङ्गुलीकृतौ । अर्ध-मुक्त-अङ्गुलिः च एव गान्धारः अथ निषादवान् ॥ ७ ॥
ṛṣabhaḥ dhaivataḥ ca api kampyamāna-aṅgulīkṛtau . ardha-mukta-aṅguliḥ ca eva gāndhāraḥ atha niṣādavān .. 7 ..
स्वरसाधारणश्चापि काकल्यन्तरसंज्ञया । निषादगान्धारकृतौ षड्जमध्यमयोरपि ॥ ८ ॥
स्वर-साधारणः च अपि काकली-अन्तर-संज्ञया । निषाद-गान्धार-कृतौ षड्ज-मध्यमयोः अपि ॥ ८ ॥
svara-sādhāraṇaḥ ca api kākalī-antara-saṃjñayā . niṣāda-gāndhāra-kṛtau ṣaḍja-madhyamayoḥ api .. 8 ..
विपर्यया सन्निकर्षे श्रुतिलक्षणसिद्धितः । वैणकण्ठप्रवेशेन सिद्धा एकाश्रिताः स्वराः ॥ ९ ॥
विपर्यया सन्निकर्षे श्रुति-लक्षण-सिद्धितः । वैण-कण्ठ-प्रवेशेन सिद्धाः एक-आश्रिताः स्वराः ॥ ९ ॥
viparyayā sannikarṣe śruti-lakṣaṇa-siddhitaḥ . vaiṇa-kaṇṭha-praveśena siddhāḥ eka-āśritāḥ svarāḥ .. 9 ..
यं यं गाता स्वरं गच्छेत् तं तं वंशेन वादयेत् । शारीरवैणवंश्यानामेकीभावः प्रशस्यते ॥ १० ॥
यम् यम् गाता स्वरम् गच्छेत् तम् तम् वंशेन वादयेत् । शारीर-वैण-वंश्यानाम् एकीभावः प्रशस्यते ॥ १० ॥
yam yam gātā svaram gacchet tam tam vaṃśena vādayet . śārīra-vaiṇa-vaṃśyānām ekībhāvaḥ praśasyate .. 10 ..
अविचलितमविच्छिन्नं वर्णालङ्कारसंयुतं विधिवत् । ललितं मधुरं स्निग्धं वेणोरेवं स्मृतं वाद्यम् ॥ ११ ॥
अविचलितम् अविच्छिन्नम् वर्ण-अलङ्कार-संयुतम् विधिवत् । ललितम् मधुरम् स्निग्धम् वेणोः एवम् स्मृतम् वाद्यम् ॥ ११ ॥
avicalitam avicchinnam varṇa-alaṅkāra-saṃyutam vidhivat . lalitam madhuram snigdham veṇoḥ evam smṛtam vādyam .. 11 ..
एवमेतत् स्वरगतं विज्ञेयङ्गानयोक्तृभिः । अतः परं प्रवक्ष्यामि धनातोद्यविकल्पनम् ॥ १२ ॥
एवम् एतत् स्वर-गतम् विज्ञेयम् अङ्ग । अतस् परम् प्रवक्ष्यामि धन-आतोद्य-विकल्पनम् ॥ १२ ॥
evam etat svara-gatam vijñeyam aṅga . atas param pravakṣyāmi dhana-ātodya-vikalpanam .. 12 ..
इति भरतीये नाट्यशास्त्रे सुषिरातोद्यलक्षणं नामाध्यायस्त्रिंशः ॥
इति भरतीये नाट्य-शास्त्रे सुषिरातोद्यलक्षणम् नाम अध्यायः त्रिंशः ॥
iti bharatīye nāṭya-śāstre suṣirātodyalakṣaṇam nāma adhyāyaḥ triṃśaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In