| |
|

This overlay will guide you through the buttons:

॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ तृतीयोध्यायः ।
अथ तृतीयः उध्यायः ।
atha tṛtīyaḥ udhyāyaḥ .
सर्वलक्षणसंपन्ने कृते नाट्यगृहे शुभे । गावो वसेयुः सप्ताहं सह जप्यपरैर्द्विजैः ॥ १॥
सर्व-लक्षण-संपन्ने कृते नाट्य-गृहे शुभे । गावः वसेयुः सप्त-अहम् सह जप्य-परैः द्विजैः ॥ १॥
sarva-lakṣaṇa-saṃpanne kṛte nāṭya-gṛhe śubhe . gāvaḥ vaseyuḥ sapta-aham saha japya-paraiḥ dvijaiḥ .. 1..
ततोऽधिवासयेद्वेश्म रङ्गपीठं तथैव च । मन्त्रपूतेन तोयेन प्रोक्षिताङ्गो निशागमे ॥ २॥
ततस् अधिवासयेत् वेश्म रङ्ग-पीठम् तथा एव च । मन्त्र-पूतेन तोयेन प्रोक्षित-अङ्गः निशा-आगमे ॥ २॥
tatas adhivāsayet veśma raṅga-pīṭham tathā eva ca . mantra-pūtena toyena prokṣita-aṅgaḥ niśā-āgame .. 2..
यथास्थानान्तरगतो दीक्षितः प्रयतः शुचिः । त्रिरात्रोपोषितो भूत्वा नाट्याचार्योऽहताम्बरः ॥ ३॥
यथास्थान-अन्तर-गतः दीक्षितः प्रयतः शुचिः । त्रि-रात्र-उपोषितः भूत्वा नाट्य-आचार्यः अहत-अम्बरः ॥ ३॥
yathāsthāna-antara-gataḥ dīkṣitaḥ prayataḥ śuciḥ . tri-rātra-upoṣitaḥ bhūtvā nāṭya-ācāryaḥ ahata-ambaraḥ .. 3..
नमस्कृत्य महादेवं सर्वलोकोद्भवं भवम् । जगत्पितामहं चैव विष्णुमिन्द्रं गुहं तथा ॥ ४॥
नमस्कृत्य महादेवम् सर्व-लोक-उद्भवम् भवम् । जगत्-पितामहम् च एव विष्णुम् इन्द्रम् गुहम् तथा ॥ ४॥
namaskṛtya mahādevam sarva-loka-udbhavam bhavam . jagat-pitāmaham ca eva viṣṇum indram guham tathā .. 4..
सरस्वतीं च लक्ष्मीं च सिद्धिं मेधां धृतिं स्मृतिम् । सोमं सूर्यं च मरुतो लोकपालांस्तथाश्विनौ ॥ ५॥
सरस्वतीम् च लक्ष्मीम् च सिद्धिम् मेधाम् धृतिम् स्मृतिम् । सोमम् सूर्यम् च मरुतः लोकपालान् तथा अश्विनौ ॥ ५॥
sarasvatīm ca lakṣmīm ca siddhim medhām dhṛtim smṛtim . somam sūryam ca marutaḥ lokapālān tathā aśvinau .. 5..
मित्रमग्निं सुरान्वर्णान् रुद्रान्कालं कलिं तथा । मृत्युं च नियतिं चैव कालदण्डं तथैव च ॥ ६॥
मित्रम् अग्निम् सुरान् वर्णान् रुद्रान् कालम् कलिम् तथा । मृत्युम् च नियतिम् च एव कालदण्डम् तथा एव च ॥ ६॥
mitram agnim surān varṇān rudrān kālam kalim tathā . mṛtyum ca niyatim ca eva kāladaṇḍam tathā eva ca .. 6..
विष्णुप्रहरणं चैव नागराजं च वासुकिम् । वज्रं विद्युत्समुद्रांश्च गन्धर्वाप्सरसो मुनीन् ॥ ७॥
विष्णु-प्रहरणम् च एव नाग-राजम् च वासुकिम् । वज्रम् विद्युत्-समुद्रान् च गन्धर्व-अप्सरसः मुनीन् ॥ ७॥
viṣṇu-praharaṇam ca eva nāga-rājam ca vāsukim . vajram vidyut-samudrān ca gandharva-apsarasaḥ munīn .. 7..
भूतान् पिशाचान् यक्षांश्च गुह्यकांश्च महेश्वरान् । असुरान्नाट्यविघ्नांश्च तथाऽन्यान्दैत्यराक्षसान् ॥ ८॥
भूतान् पिशाचान् यक्षान् च गुह्यकान् च महेश्वरान् । असुरान् नाट्य-विघ्नान् च तथा अन्यान् दैत्य-राक्षसान् ॥ ८॥
bhūtān piśācān yakṣān ca guhyakān ca maheśvarān . asurān nāṭya-vighnān ca tathā anyān daitya-rākṣasān .. 8..
तथा नाट्यकुमारीश्च महाग्रामण्यमेव च । यक्षांश्च गुह्यकांश्चैव भूतसङ्घास्तथैव च ॥ ९॥
तथा नाट्य-कुमारीः च महा-ग्रामण्यम् एव च । यक्षान् च गुह्यकान् च एव भूत-सङ्घाः तथा एव च ॥ ९॥
tathā nāṭya-kumārīḥ ca mahā-grāmaṇyam eva ca . yakṣān ca guhyakān ca eva bhūta-saṅghāḥ tathā eva ca .. 9..
एतांश्चान्यांश्च देवर्षीन्प्रणम्य रचिताञ्जलिः । यथास्थानान्तरगतान्समावाह्य ततो वदेत् ॥ १०॥
एतान् च अन्यान् च देवर्षीन् प्रणम्य रचित-अञ्जलिः । यथास्थान-अन्तर-गतान् समावाह्य ततस् वदेत् ॥ १०॥
etān ca anyān ca devarṣīn praṇamya racita-añjaliḥ . yathāsthāna-antara-gatān samāvāhya tatas vadet .. 10..
भवद्भिर्नो निशायां तु कर्तव्यः सम्परिग्रहः । साहाय्यं चैव दातव्यमस्मिन्नाट्ये सहानुगैः ॥ ११॥
भवद्भिः नः निशायाम् तु कर्तव्यः सम्परिग्रहः । साहाय्यम् च एव दातव्यम् अस्मिन् नाट्ये सह अनुगैः ॥ ११॥
bhavadbhiḥ naḥ niśāyām tu kartavyaḥ samparigrahaḥ . sāhāyyam ca eva dātavyam asmin nāṭye saha anugaiḥ .. 11..
सम्पूज्य सर्वानेकत्र कुतपं सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजां नाट्यप्रसिद्धये ॥ १२॥
सम्पूज्य सर्वान् एकत्र कुतपम् सम्प्रयुज्य च । जर्जराय प्रयुञ्जीत पूजाम् नाट्य-प्रसिद्धये ॥ १२॥
sampūjya sarvān ekatra kutapam samprayujya ca . jarjarāya prayuñjīta pūjām nāṭya-prasiddhaye .. 12..
त्वं महेन्द्रप्रहरणं सर्वदानवसूदनम् । निर्मितस्सर्वदेवैश्च सर्वविघ्ननिबर्हण ॥ १३॥
त्वम् महा-इन्द्र-प्रहरणम् सर्व-दानव-सूदनम् । निर्मितः सर्व-देवैः च सर्व-विघ्न-निबर्हण ॥ १३॥
tvam mahā-indra-praharaṇam sarva-dānava-sūdanam . nirmitaḥ sarva-devaiḥ ca sarva-vighna-nibarhaṇa .. 13..
नृपस्य विजयं शंस रिपूणां च पराजयम् । गोब्राह्मणशिवं चैव नाट्यस्य च विवर्धनम् ॥ १४॥
नृपस्य विजयम् शंस रिपूणाम् च पराजयम् । गो ब्राह्मण-शिवम् च एव नाट्यस्य च विवर्धनम् ॥ १४॥
nṛpasya vijayam śaṃsa ripūṇām ca parājayam . go brāhmaṇa-śivam ca eva nāṭyasya ca vivardhanam .. 14..
एवं कृत्वा यथान्यायमुपास्यं नाट्यमण्डपे । निशायां तु प्रभातायां पूजनं प्रक्रमेदिह ॥ १५॥
एवम् कृत्वा यथान्यायम् उपास्यम् नाट्य-मण्डपे । निशायाम् तु प्रभातायाम् पूजनम् प्रक्रमेत् इह ॥ १५॥
evam kṛtvā yathānyāyam upāsyam nāṭya-maṇḍape . niśāyām tu prabhātāyām pūjanam prakramet iha .. 15..
आर्द्रायां वा मघायां वा याम्ये पूर्वेषु वा त्रिषु । आश्लेषामूलयोर्वापि कर्तव्यं रङ्गपूजनम् ॥ १६॥
आर्द्रायाम् वा मघायाम् वा याम्ये पूर्वेषु वा त्रिषु । आश्लेषा-मूलयोः वा अपि कर्तव्यम् रङ्ग-पूजनम् ॥ १६॥
ārdrāyām vā maghāyām vā yāmye pūrveṣu vā triṣu . āśleṣā-mūlayoḥ vā api kartavyam raṅga-pūjanam .. 16..
आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्योद्योतनं कार्यं देवतानां च पूजनम् ॥ १७॥
आचार्येण तु युक्तेन शुचिना दीक्षितेन च । रङ्गस्य उद्योतनम् कार्यम् देवतानाम् च पूजनम् ॥ १७॥
ācāryeṇa tu yuktena śucinā dīkṣitena ca . raṅgasya udyotanam kāryam devatānām ca pūjanam .. 17..
दिनान्ते दारुणे घोरे मुहूर्ते यमदैवते । आचम्य तु यथान्यायं देवता वै निवेशयत् ॥ १८॥
दिन-अन्ते दारुणे घोरे मुहूर्ते यम-दैवते । आचम्य तु यथान्यायम् देवताः वै निवेशयत् ॥ १८॥
dina-ante dāruṇe ghore muhūrte yama-daivate . ācamya tu yathānyāyam devatāḥ vai niveśayat .. 18..
रक्ताः प्रतिसराः सूत्रं रक्तगन्धाश्च पूजिताः । रक्ताः सुमनसश्चैव यच्च रक्तं फलं भवेत् ॥ १९॥
रक्ताः प्रतिसराः सूत्रम् रक्त-गन्धाः च पूजिताः । रक्ताः सुमनसः च एव यत् च रक्तम् फलम् भवेत् ॥ १९॥
raktāḥ pratisarāḥ sūtram rakta-gandhāḥ ca pūjitāḥ . raktāḥ sumanasaḥ ca eva yat ca raktam phalam bhavet .. 19..
यवैस्सिद्धार्थकैर्लाजैरक्षतैः शालितण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥ २०॥
यवैः सिद्धार्थकैः लाजैः अक्षतैः शालि-तण्डुलैः । नागपुष्पस्य चूर्णेन वितुषाभिः प्रियङ्गुभिः ॥ २०॥
yavaiḥ siddhārthakaiḥ lājaiḥ akṣataiḥ śāli-taṇḍulaiḥ . nāgapuṣpasya cūrṇena vituṣābhiḥ priyaṅgubhiḥ .. 20..
एतैर्द्रव्यैर्युतं कुर्याद्देवतानां निवेशनम् । आलिखेन्मण्डलं पूर्वं यथास्थानं यथाविधिः ॥ २१॥
एतैः द्रव्यैः युतम् कुर्यात् देवतानाम् निवेशनम् । आलिखेत् मण्डलम् पूर्वम् यथास्थानम् यथा विधिः ॥ २१॥
etaiḥ dravyaiḥ yutam kuryāt devatānām niveśanam . ālikhet maṇḍalam pūrvam yathāsthānam yathā vidhiḥ .. 21..
समन्तस्तश्च कर्तव्यं हस्ता षोडश मण्डलम् । द्वाराणि चात्र कुर्वीत विधानेन चतुर्दिशम् ॥ २२॥
समन्तस्तस् च कर्तव्यम् हस्ता षोडश मण्डलम् । द्वाराणि च अत्र कुर्वीत विधानेन चतुर्दिशम् ॥ २२॥
samantastas ca kartavyam hastā ṣoḍaśa maṇḍalam . dvārāṇi ca atra kurvīta vidhānena caturdiśam .. 22..
मध्ये चैवात्र कर्तव्ये द्वे रेखे तिर्यगूर्ध्वगे । तयोः कक्ष्याविभागेन दैवतानि निवेशयत् ॥ २३॥
मध्ये च एव अत्र कर्तव्ये द्वे रेखे तिर्यक्-ऊर्ध्व-गे । तयोः कक्ष्या-विभागेन दैवतानि निवेशयत् ॥ २३॥
madhye ca eva atra kartavye dve rekhe tiryak-ūrdhva-ge . tayoḥ kakṣyā-vibhāgena daivatāni niveśayat .. 23..
पद्मोपविष्टं ब्रह्माणं तस्य मध्ये निवेशयेत् । आदौ निवेश्यो भगवान्सार्धं भूतगणैः शिवः ॥ २४॥
पद्म-उपविष्टम् ब्रह्माणम् तस्य मध्ये निवेशयेत् । आदौ निवेश्यः भगवान् सार्धम् भूत-गणैः शिवः ॥ २४॥
padma-upaviṣṭam brahmāṇam tasya madhye niveśayet . ādau niveśyaḥ bhagavān sārdham bhūta-gaṇaiḥ śivaḥ .. 24..
नारायणो महेन्द्रश्च स्कन्दः सूर्योऽश्विनौ शशी । सरस्वती च लक्ष्मीश्च श्रद्धा मेधा च पूर्वतः ॥ २५॥
नारायणः महा-इन्द्रः च स्कन्दः सूर्यः अश्विनौ शशी । सरस्वती च लक्ष्मीः च श्रद्धा मेधा च पूर्वतस् ॥ २५॥
nārāyaṇaḥ mahā-indraḥ ca skandaḥ sūryaḥ aśvinau śaśī . sarasvatī ca lakṣmīḥ ca śraddhā medhā ca pūrvatas .. 25..
पूर्वदक्षिणतो वह्निर्निवेश्यः स्वाहया सह । विश्वेदेवाः सगन्धर्वा रुद्राः सर्पगणास्तथा ॥ २६॥
पूर्व-दक्षिणतस् वह्निः निवेश्यः स्वाहया सह । विश्वेदेवाः स गन्धर्वाः रुद्राः सर्प-गणाः तथा ॥ २६॥
pūrva-dakṣiṇatas vahniḥ niveśyaḥ svāhayā saha . viśvedevāḥ sa gandharvāḥ rudrāḥ sarpa-gaṇāḥ tathā .. 26..
दक्षिणेन निवेश्यस्तु यमो मित्रश्च सानुगः । पितॄन्पिशाचानुरगान् गुह्यकांश्च निवेशयत् ॥ २७॥
दक्षिणेन निवेश्यः तु यमः मित्रः च स अनुगः । पितॄन् पिशाचान् उरगान् गुह्यकान् च निवेशयत् ॥ २७॥
dakṣiṇena niveśyaḥ tu yamaḥ mitraḥ ca sa anugaḥ . pitṝn piśācān uragān guhyakān ca niveśayat .. 27..
नैॠत्यां राक्षसांश्चैव भूतानि च निवेशयत् । पश्चिमायां समुद्रांश्च वरुणं यादसां पतिम् ॥ २८॥
नैॠत्याम् राक्षसान् च एव भूतानि च निवेशयत् । पश्चिमायाम् समुद्रान् च वरुणम् यादसाम् पतिम् ॥ २८॥
naiṝtyām rākṣasān ca eva bhūtāni ca niveśayat . paścimāyām samudrān ca varuṇam yādasām patim .. 28..
वायव्यायां दिशि तथा सप्त वायून्निवेशयेत् । तत्रैव विनिवेश्यस्तु गरुडः पक्षिभिः सह ॥ २९॥
वायव्यायाम् दिशि तथा सप्त वायून् निवेशयेत् । तत्र एव विनिवेश्यः तु गरुडः पक्षिभिः सह ॥ २९॥
vāyavyāyām diśi tathā sapta vāyūn niveśayet . tatra eva viniveśyaḥ tu garuḍaḥ pakṣibhiḥ saha .. 29..
उत्तरस्यां दिशि तथा धनदं संनिविएशयेत् । नाट्यस्य मातॄश्च तथा यक्षानथ सगुह्यकान् ॥ ३०॥
उत्तरस्याम् दिशि तथा धनदम् संनिवेशयेत् । नाट्यस्य मातॄः च तथा यक्षान् अथ स गुह्यकान् ॥ ३०॥
uttarasyām diśi tathā dhanadam saṃniveśayet . nāṭyasya mātṝḥ ca tathā yakṣān atha sa guhyakān .. 30..
तथैवोत्तरपूर्वायां नन्द्याद्यांश्च गणेश्वरान् । ब्रह्मर्षिभूतसंघांश्च यथाभागं निवेशयत् ॥ ३१॥
तथा एव उत्तर-पूर्वायाम् नन्दि-आद्यान् च गणेश्वरान् । ब्रह्मर्षि-भूत-संघान् च यथाभागम् निवेशयत् ॥ ३१॥
tathā eva uttara-pūrvāyām nandi-ādyān ca gaṇeśvarān . brahmarṣi-bhūta-saṃghān ca yathābhāgam niveśayat .. 31..
स्तम्भे सनत्कुमारं तु दक्षिणे दक्षमेव च । ग्रामण्यमुत्तरे स्तम्भे पूजार्थं संनिविशयेत् ॥ ३२॥
स्तम्भे सनत्कुमारम् तु दक्षिणे दक्षम् एव च । ग्रामण्यम् उत्तरे स्तम्भे पूजा-अर्थम् ॥ ३२॥
stambhe sanatkumāram tu dakṣiṇe dakṣam eva ca . grāmaṇyam uttare stambhe pūjā-artham .. 32..
अनेनैअव विधानेन यथास्थानं यथाविधि । सुप्रसादानि सर्वाणि दैवतानि निवेशयत् ॥ ३३॥
अनेन एअव विधानेन यथास्थानम् यथाविधि । सु प्रसादानि सर्वाणि दैवतानि निवेशयत् ॥ ३३॥
anena eava vidhānena yathāsthānam yathāvidhi . su prasādāni sarvāṇi daivatāni niveśayat .. 33..
स्थाने स्थाने यथान्यायं विनिवेश्य तु देवताः । तासां प्रकुर्वीत ततः पूजनं तु यथार्हतः ॥ ३४॥
स्थाने स्थाने यथान्यायम् विनिवेश्य तु देवताः । तासाम् प्रकुर्वीत ततस् पूजनम् तु यथार्हतः ॥ ३४॥
sthāne sthāne yathānyāyam viniveśya tu devatāḥ . tāsām prakurvīta tatas pūjanam tu yathārhataḥ .. 34..
देवताभ्यस्तु दातव्यं सितमाल्यानुलेपनम् । गन्धर्ववह्निसूर्योभ्यो रक्तमाल्यानुलेपनम् ॥ ३५॥
देवताभ्यः तु दातव्यम् सित-माल्य-अनुलेपनम् । गन्धर्व-वह्नि-सूर्योभ्यः रक्त-माल्य-अनुलेपनम् ॥ ३५॥
devatābhyaḥ tu dātavyam sita-mālya-anulepanam . gandharva-vahni-sūryobhyaḥ rakta-mālya-anulepanam .. 35..
गन्धं माल्यं च धूपं च यथावदनुपूर्वशः । दत्वा ततः प्रकुर्वीत बलिं पूजां यथाविधिः ॥ ३६॥
गन्धम् माल्यम् च धूपम् च यथावत् अनुपूर्वशस् । द-त्वा ततस् प्रकुर्वीत बलिम् पूजाम् यथा विधिः ॥ ३६॥
gandham mālyam ca dhūpam ca yathāvat anupūrvaśas . da-tvā tatas prakurvīta balim pūjām yathā vidhiḥ .. 36..
ब्रह्माणं मदुकर्पेण पायसेन सरस्वतीम् । शिवविष्णुमहेन्द्राद्याः सम्पूज्या मोदकैरथ ॥ ३७॥
ब्रह्माणम् मदु-कर्पेण पायसेन सरस्वतीम् । शिव-विष्णु-महा-इन्द्र-आद्याः सम्पूज्याः मोदकैः अथ ॥ ३७॥
brahmāṇam madu-karpeṇa pāyasena sarasvatīm . śiva-viṣṇu-mahā-indra-ādyāḥ sampūjyāḥ modakaiḥ atha .. 37..
घृतौदनेन हुतभुक्सोमर्कौ तु गुडौदनैः । विश्वेदेवाः सगन्धर्वा मुनयो मधुपायसैः ॥ ३८॥
घृतौदनेन हुतभुज् सोम-ऋकौ तु गुड-ओदनैः । विश्वेदेवाः स गन्धर्वाः मुनयः मधु-पायसैः ॥ ३८॥
ghṛtaudanena hutabhuj soma-ṛkau tu guḍa-odanaiḥ . viśvedevāḥ sa gandharvāḥ munayaḥ madhu-pāyasaiḥ .. 38..
यममित्रौ च सम्पूज्यावपूपैर्मोदकैस्तथा । पितॄन्पिशाचानुरगान् सर्पिःक्षीरेण तर्पयेत् ॥ ३९॥
यम-मित्रौ च सम्पूज्यौ अपूपैः मोदकैः तथा । पितॄन् पिशाचान् उरगान् सर्पिः-क्षीरेण तर्पयेत् ॥ ३९॥
yama-mitrau ca sampūjyau apūpaiḥ modakaiḥ tathā . pitṝn piśācān uragān sarpiḥ-kṣīreṇa tarpayet .. 39..
पक्वानेन तु मांसेन सुरासीथुफलासवैः । अर्चयेद्भूतसंघांश्च चणकैः पललाप्लुतैः ॥ ४०॥
पक्वा अनेन तु मांसेन सुरा-सीथु-फल-आसवैः । अर्चयेत् भूत-संघान् च चणकैः पलल-आप्लुतैः ॥ ४०॥
pakvā anena tu māṃsena surā-sīthu-phala-āsavaiḥ . arcayet bhūta-saṃghān ca caṇakaiḥ palala-āplutaiḥ .. 40..
अनेनैव विधानेन सम्पूज्या मत्तवारणी । पक्वामेन तु मांसेन सम्पूज्या रक्षसां गणाः ॥ ४१॥
अनेन एव विधानेन सम्पूज्या मत्तवारणी । पक्व-आमेन तु मांसेन सम्पूज्याः रक्षसाम् गणाः ॥ ४१॥
anena eva vidhānena sampūjyā mattavāraṇī . pakva-āmena tu māṃsena sampūjyāḥ rakṣasām gaṇāḥ .. 41..
सुरामांसप्रदानेअन दानवान्प्रतिपूजयेत् । शेषान्देवगणांस्तज्ज्ञः सापूपोत्कारिकौदनैः ॥ ४२॥
दानवान् प्रतिपूजयेत् । शेषान् देव-गणान् तद्-ज्ञः स अपूप-उत्कारिका-ओदनैः ॥ ४२॥
dānavān pratipūjayet . śeṣān deva-gaṇān tad-jñaḥ sa apūpa-utkārikā-odanaiḥ .. 42..
मत्स्यैश्च पिष्टभक्ष्यैश्च सागरान्सरितस्तथा । सम्पूज्य वरुणं चापि दातव्यं घृतपायसम् ॥ ४३॥
मत्स्यैः च पिष्ट-भक्ष्यैः च सागरान् सरितः तथा । सम्पूज्य वरुणम् च अपि दातव्यम् घृत-पायसम् ॥ ४३॥
matsyaiḥ ca piṣṭa-bhakṣyaiḥ ca sāgarān saritaḥ tathā . sampūjya varuṇam ca api dātavyam ghṛta-pāyasam .. 43..
नानाफूलफलश्चापि मुनीन्सम्प्रतिपूजयेत् । वायूंश्च पक्षिणश्चैव विचित्रैर्भक्ष्यभोजनैः ॥ ४४॥
नाना फूल-फलः च अपि मुनीन् सम्प्रतिपूजयेत् । वायून् च पक्षिणः च एव विचित्रैः भक्ष्य-भोजनैः ॥ ४४॥
nānā phūla-phalaḥ ca api munīn sampratipūjayet . vāyūn ca pakṣiṇaḥ ca eva vicitraiḥ bhakṣya-bhojanaiḥ .. 44..
मातॄर्नाट्यस्य सर्वास्ता धनदं च सहानुगैः । अपूपैर्लाजिकामिश्रैर्भक्ष्यभोज्यैश्च पूजयेत् ॥ ४५॥
मातॄः नाट्यस्य सर्वाः ताः धनदम् च सह अनुगैः । अपूपैः लाजिका-मिश्रैः भक्ष्य-भोज्यैः च पूजयेत् ॥ ४५॥
mātṝḥ nāṭyasya sarvāḥ tāḥ dhanadam ca saha anugaiḥ . apūpaiḥ lājikā-miśraiḥ bhakṣya-bhojyaiḥ ca pūjayet .. 45..
एवमेषां बलिः कार्यो नानाभोजनसंश्रयः । पुनर्मन्त्रविधानेन बलिकर्म च वक्ष्यते ॥ ४६॥
एवम् एषाम् बलिः कार्यः नाना भोजन-संश्रयः । पुनर् मन्त्र-विधानेन बलि-कर्म च वक्ष्यते ॥ ४६॥
evam eṣām baliḥ kāryaḥ nānā bhojana-saṃśrayaḥ . punar mantra-vidhānena bali-karma ca vakṣyate .. 46..
देवदेव महाभाग सर्वलोकपितामह । मन्त्रपूतमिमं सर्वं प्रतिगृह्णीष्व मे बलिम् ॥ ४७॥
देवदेव महाभाग सर्व-लोक-पितामह । मन्त्र-पूतम् इमम् सर्वम् प्रतिगृह्णीष्व मे बलिम् ॥ ४७॥
devadeva mahābhāga sarva-loka-pitāmaha . mantra-pūtam imam sarvam pratigṛhṇīṣva me balim .. 47..
देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ४८॥
देवदेव महाभाग गणेश त्रिपुरान्तक । प्रगृह्यताम् बलिः देव मन्त्र-पूतः मया उद्यतः ॥ ४८॥
devadeva mahābhāga gaṇeśa tripurāntaka . pragṛhyatām baliḥ deva mantra-pūtaḥ mayā udyataḥ .. 48..
नारायणामितगते पद्मनाभ सुरोत्तम । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयार्पितः ॥ ४९॥
नारायण अमित-गते पद्मनाभ सुरोत्तम । प्रगृह्यताम् बलिः देव मन्त्र-पूतः मया अर्पितः ॥ ४९॥
nārāyaṇa amita-gate padmanābha surottama . pragṛhyatām baliḥ deva mantra-pūtaḥ mayā arpitaḥ .. 49..
पुरन्दरामरपते वज्रपाणे शतक्रतो । प्रगृह्यतां बलिर्देव विधिमन्त्रपुरस्कृतः ॥ ५०॥
पुरन्दर अमरपते वज्रपाणे शतक्रतो । प्रगृह्यताम् बलिः देव विधि-मन्त्र-पुरस्कृतः ॥ ५०॥
purandara amarapate vajrapāṇe śatakrato . pragṛhyatām baliḥ deva vidhi-mantra-puraskṛtaḥ .. 50..
देवसेनापते स्कन्द भगवन् शङ्करप्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥ ५१॥
देव-सेनापते स्कन्द भगवन् शङ्कर-प्रिय । बलिः प्रीतेन मनसा षण्मुख प्रतिगृह्यताम् ॥ ५१॥
deva-senāpate skanda bhagavan śaṅkara-priya . baliḥ prītena manasā ṣaṇmukha pratigṛhyatām .. 51..
( महादेव महायोगिन्देवदेव सुरोत्तम । संप्रगृह्य बलिं देव रक्ष विघ्नात्सदोत्थितात् ॥ )
( महादेव महायोगिन् देवदेव सुरोत्तम । संप्रगृह्य बलिम् देव रक्ष विघ्नात् सदा उत्थितात् ॥ )
( mahādeva mahāyogin devadeva surottama . saṃpragṛhya balim deva rakṣa vighnāt sadā utthitāt .. )
देवि देवमहाभागे सरस्वति हरिप्रिये । प्रगृह्यतां बलिर्मातर्मया भक्त्या समर्पितः ॥ ५२॥
देवि देव-महाभागे सरस्वति हरिप्रिये । प्रगृह्यताम् बलिः मातर् मया भक्त्या समर्पितः ॥ ५२॥
devi deva-mahābhāge sarasvati haripriye . pragṛhyatām baliḥ mātar mayā bhaktyā samarpitaḥ .. 52..
नानानिमित्तसम्भूताः पौलस्त्याः सर्व एव तु राक्षसेन्द्रा महासत्वाः प्रतिगृह्णीत मे बलिम् ॥ ५३॥
नाना निमित्त-सम्भूताः पौलस्त्याः सर्वे एव तु राक्षस-इन्द्राः महा-सत्वाः प्रतिगृह्णीत मे बलिम् ॥ ५३॥
nānā nimitta-sambhūtāḥ paulastyāḥ sarve eva tu rākṣasa-indrāḥ mahā-satvāḥ pratigṛhṇīta me balim .. 53..
लक्ष्मीः सिद्धिर्मतिर्मेधा सर्वलोकनमस्कृताः । मन्त्रपूतमिमं देव्यः प्रतिगृह्णन्तु मे बलिम् ॥ ५४॥
लक्ष्मीः सिद्धिः मतिः मेधा सर्व-लोक-नमस्कृताः । मन्त्र-पूतम् इमम् देव्यः प्रतिगृह्णन्तु मे बलिम् ॥ ५४॥
lakṣmīḥ siddhiḥ matiḥ medhā sarva-loka-namaskṛtāḥ . mantra-pūtam imam devyaḥ pratigṛhṇantu me balim .. 54..
सर्वभूतानुभावज्ञ लोकजीवन मारुत । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ५५॥
सर्व-भूत-अनुभाव-ज्ञ लोक-जीवन मारुत । प्रगृह्यताम् बलिः देव मन्त्र-पूतः मया उद्यतः ॥ ५५॥
sarva-bhūta-anubhāva-jña loka-jīvana māruta . pragṛhyatām baliḥ deva mantra-pūtaḥ mayā udyataḥ .. 55..
देववक्त्र सुरश्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ५६॥
देव-वक्त्र सुर-श्रेष्ठ धूमकेतो हुताशन । भक्त्या समुद्यतः देव बलिः सम्प्रति गृह्यताम् ॥ ५६॥
deva-vaktra sura-śreṣṭha dhūmaketo hutāśana . bhaktyā samudyataḥ deva baliḥ samprati gṛhyatām .. 56..
सर्वग्रहाणां प्रवर तेजोराशे दिवाकर । भक्त्या मयोद्यतो देव बलिः सम्प्रति गृह्यताम् ॥ ५७॥
सर्व-ग्रहाणाम् प्रवर तेजः-राशे दिवाकर । भक्त्या मया उद्यतः देव बलिः सम्प्रति गृह्यताम् ॥ ५७॥
sarva-grahāṇām pravara tejaḥ-rāśe divākara . bhaktyā mayā udyataḥ deva baliḥ samprati gṛhyatām .. 57..
सर्वग्रहपते सोम द्विजराज जगत्प्रिय । प्रगृह्यतामेष बलिर्मन्त्रपूतो मयोद्यतः ॥ ५८॥
सर्व-ग्रह-पते सोम द्विजराज जगत्-प्रिय । प्रगृह्यताम् एष बलिः मन्त्र-पूतः मया उद्यतः ॥ ५८॥
sarva-graha-pate soma dvijarāja jagat-priya . pragṛhyatām eṣa baliḥ mantra-pūtaḥ mayā udyataḥ .. 58..
महागणेश्वराः सर्वे नन्दीश्वरपुरोगमाः । प्रगृतां बलिर्भक्त्या मया सम्प्रति चोदितः ॥ ५९॥
महा-गणेश्वराः सर्वे नन्दि-ईश्वर-पुरोगमाः । प्रगृताम् बलिः भक्त्या मया सम्प्रति चोदितः ॥ ५९॥
mahā-gaṇeśvarāḥ sarve nandi-īśvara-purogamāḥ . pragṛtām baliḥ bhaktyā mayā samprati coditaḥ .. 59..
नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्त्विमं बलिम् । ( भूतेभ्यश्च नमो नित्यं येषामेष बलिः प्रियः ।) कामपाल नमो नित्यं यस्यायं ते विधिः कृतः ॥ ६०॥
नमः पितृभ्यः सर्वेभ्यः प्रतिगृह्णन्तु इमम् बलिम् । ( भूतेभ्यः च नमः नित्यम् येषाम् एष बलिः प्रियः ।) कामपाल नमः नित्यम् यस्य अयम् ते विधिः कृतः ॥ ६०॥
namaḥ pitṛbhyaḥ sarvebhyaḥ pratigṛhṇantu imam balim . ( bhūtebhyaḥ ca namaḥ nityam yeṣām eṣa baliḥ priyaḥ .) kāmapāla namaḥ nityam yasya ayam te vidhiḥ kṛtaḥ .. 60..
नारदस्तुम्बरुश्चैव विश्वावसुपुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वा बलिमुद्यतम् ॥ ६१॥
नारदः तुम्बरुः च एव विश्वावसु-पुरोगमाः । परिगृह्णन्तु मे सर्वे गन्धर्वाः बलिम् उद्यतम् ॥ ६१॥
nāradaḥ tumbaruḥ ca eva viśvāvasu-purogamāḥ . parigṛhṇantu me sarve gandharvāḥ balim udyatam .. 61..
यमो मित्रश्च भगवानीश्वरौ लोकपूजितौ । इमं मे प्रतिगृह्णीतां बलिः मन्त्रपुरस्कृतम् ॥ ६२॥
यमः मित्रः च भगवान् ईश्वरौ लोक-पूजितौ । इमम् मे प्रतिगृह्णीताम् बलिः मन्त्र-पुरस्कृतम् ॥ ६२॥
yamaḥ mitraḥ ca bhagavān īśvarau loka-pūjitau . imam me pratigṛhṇītām baliḥ mantra-puraskṛtam .. 62..
रसातलगतेभ्यश्च पन्नगेभ्यो नमो नमः । दिशन्तु सिद्धिं नाट्यस्य पूजिताः पापनाशनाः ॥ ६३॥
रसातल-गतेभ्यः च पन्नगेभ्यः नमः नमः । दिशन्तु सिद्धिम् नाट्यस्य पूजिताः पाप-नाशनाः ॥ ६३॥
rasātala-gatebhyaḥ ca pannagebhyaḥ namaḥ namaḥ . diśantu siddhim nāṭyasya pūjitāḥ pāpa-nāśanāḥ .. 63..
सर्वाम्भसां पतिर्देवो वरुणो हंसवाहनः । पूजितः प्रीतमानस्तु ससमुद्रनदीनदः ॥ ६४॥
सर्व-अम्भसाम् पतिः देवः वरुणः हंस-वाहनः । पूजितः प्रीत-मानः तु स समुद्र-नदीनदः ॥ ६४॥
sarva-ambhasām patiḥ devaḥ varuṇaḥ haṃsa-vāhanaḥ . pūjitaḥ prīta-mānaḥ tu sa samudra-nadīnadaḥ .. 64..
वैनतेय महासत्व सर्वपक्षिपते विभो । प्रगृह्यतां बलिर्देव मन्त्रपूतो मयोद्यतः ॥ ६५॥
वैनतेय महा-सत्व सर्व-पक्षि-पते विभो । प्रगृह्यताम् बलिः देव मन्त्र-पूतः मया उद्यतः ॥ ६५॥
vainateya mahā-satva sarva-pakṣi-pate vibho . pragṛhyatām baliḥ deva mantra-pūtaḥ mayā udyataḥ .. 65..
धनाध्यक्षो यक्षपतिर्लोकपालो धनेश्वरः । सगुह्यकस्सयक्षश्च प्रतिगृह्णातु मे बलिम् ॥ ६६॥
। स गुह्यकः स यक्षः च प्रतिगृह्णातु मे बलिम् ॥ ६६॥
. sa guhyakaḥ sa yakṣaḥ ca pratigṛhṇātu me balim .. 66..
नमोऽस्तु नाट्यमातृभ्यो ब्राह्म्याद्याभ्यो नमोनमः । सुमुखीभिः प्रसन्नाभिर्बलिरद्य प्रगृह्यताम् ॥ ६७॥
नमः अस्तु नाट्य-मातृभ्यः ब्राह्मी-आद्याभ्यः नमः नमः । सु मुखीभिः प्रसन्नाभिः बलिः अद्य प्रगृह्यताम् ॥ ६७॥
namaḥ astu nāṭya-mātṛbhyaḥ brāhmī-ādyābhyaḥ namaḥ namaḥ . su mukhībhiḥ prasannābhiḥ baliḥ adya pragṛhyatām .. 67..
रुद्रप्रहरणं सर्वं प्रतिगृह्णातु मे बलिम् । विष्णुप्रहरणं चैव विष्णुभक्त्या मयोद्यतम् ॥ ६८॥
रुद्र-प्रहरणम् सर्वम् प्रतिगृह्णातु मे बलिम् । विष्णु-प्रहरणम् च एव विष्णु-भक्त्या मया उद्यतम् ॥ ६८॥
rudra-praharaṇam sarvam pratigṛhṇātu me balim . viṣṇu-praharaṇam ca eva viṣṇu-bhaktyā mayā udyatam .. 68..
तथा कृतान्तः कालश्च सर्वप्राणिवधेश्वरौ । मृत्युश्च नियतिश्चैव प्रतिगृह्णातु मे बलिम् ॥ ६९॥
तथा कृतान्तः कालः च सर्व-प्राणि-वध-ईश्वरौ । मृत्युः च नियतिः च एव प्रतिगृह्णातु मे बलिम् ॥ ६९॥
tathā kṛtāntaḥ kālaḥ ca sarva-prāṇi-vadha-īśvarau . mṛtyuḥ ca niyatiḥ ca eva pratigṛhṇātu me balim .. 69..
याश्चास्यां मत्तवारण्यां संश्रिता वस्तुदेवताः । मन्त्रपूतमिमं सम्यक्प्रतिगृह्णन्तु मे बलिम् ॥ ७०॥
याः च अस्याम् मत्तवारण्याम् संश्रिताः वस्तु-देवताः । मन्त्र-पूतम् इमम् सम्यक् प्रतिगृह्णन्तु मे बलिम् ॥ ७०॥
yāḥ ca asyām mattavāraṇyām saṃśritāḥ vastu-devatāḥ . mantra-pūtam imam samyak pratigṛhṇantu me balim .. 70..
अन्ये ये देवगन्धर्वा दिशो दश समाश्रिताः । दिव्यान्तरिक्षाभौमाश्च तेभ्यश्चायं बलिः कृतः ॥ ७१॥
अन्ये ये देव-गन्धर्वाः दिशः दश समाश्रिताः । दिव्य-आन्तरिक्ष-आभौमाः च तेभ्यः च अयम् बलिः कृतः ॥ ७१॥
anye ye deva-gandharvāḥ diśaḥ daśa samāśritāḥ . divya-āntarikṣa-ābhaumāḥ ca tebhyaḥ ca ayam baliḥ kṛtaḥ .. 71..
कुम्भं सलिलसम्पूर्णं पुष्पमालापुरस्कृतम् । स्थापयेद्रङ्गमध्ये तु सुवर्णं चात्र दापयेत् ॥ ७२॥
कुम्भम् सलिल-सम्पूर्णम् पुष्प-माला-पुरस्कृतम् । स्थापयेत् रङ्ग-मध्ये तु सुवर्णम् च अत्र दापयेत् ॥ ७२॥
kumbham salila-sampūrṇam puṣpa-mālā-puraskṛtam . sthāpayet raṅga-madhye tu suvarṇam ca atra dāpayet .. 72..
आतोद्यानि तु सर्वाणि कृत्वा वस्त्रोत्तराणि तु । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यैर्भोज्यैश्च पूजयेत् ॥ पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरस्त्वभिसम्पूज्यः स्यात्ततो विघ्नजर्जरः ॥ ७३॥
आतोद्यानि तु सर्वाणि कृत्वा वस्त्र-उत्तराणि तु । गन्धैः माल्यैः च धूपैः च भक्ष्यैः भोज्यैः च पूजयेत् ॥ पूजयित्वा तु सर्वाणि दैवतानि यथाक्रमम् । जर्जरः तु अभिसम्पूज्यः स्यात् ततस् विघ्न-जर्जरः ॥ ७३॥
ātodyāni tu sarvāṇi kṛtvā vastra-uttarāṇi tu . gandhaiḥ mālyaiḥ ca dhūpaiḥ ca bhakṣyaiḥ bhojyaiḥ ca pūjayet .. pūjayitvā tu sarvāṇi daivatāni yathākramam . jarjaraḥ tu abhisampūjyaḥ syāt tatas vighna-jarjaraḥ .. 73..
श्वेतं शिरसि वस्त्रं स्यान्नीलं रौद्रे च पर्वणि । विष्णुपर्वणि वै पीतं रक्तं स्कन्दस्य पर्वणि ॥ ७४॥
श्वेतम् शिरसि वस्त्रम् स्यात् नीलम् रौद्रे च पर्वणि । विष्णु-पर्वणि वै पीतम् रक्तम् स्कन्दस्य पर्वणि ॥ ७४॥
śvetam śirasi vastram syāt nīlam raudre ca parvaṇi . viṣṇu-parvaṇi vai pītam raktam skandasya parvaṇi .. 74..
मृडपर्वणि चित्रं तु देयं वस्त्रं हितार्थिना । सदृशं च प्रदातव्यं धूपमाल्यानुलेपनम् ॥ ७५॥
मृड-पर्वणि चित्रम् तु देयम् वस्त्रम् हित-अर्थिना । सदृशम् च प्रदातव्यम् धूप-माल्य-अनुलेपनम् ॥ ७५॥
mṛḍa-parvaṇi citram tu deyam vastram hita-arthinā . sadṛśam ca pradātavyam dhūpa-mālya-anulepanam .. 75..
आतोद्यानि तु सर्वाणि वासोभिरवगुण्ठयेत् । गन्धैर्माल्यैश्च धूपैश्च भक्ष्यभोजैश्च पूजयेत् ॥ ७६॥
आतोद्यानि तु सर्वाणि वासोभिः अवगुण्ठयेत् । गन्धैः माल्यैः च धूपैः च भक्ष्य-भोजैः च पूजयेत् ॥ ७६॥
ātodyāni tu sarvāṇi vāsobhiḥ avaguṇṭhayet . gandhaiḥ mālyaiḥ ca dhūpaiḥ ca bhakṣya-bhojaiḥ ca pūjayet .. 76..
सर्वमेवं विधिं कृत्वा गन्धमाल्यानुलेपनैः । विघ्नजर्जरणार्थं तु जर्जरं त्वभिमन्त्रयेत् ॥ ७७॥
सर्वम् एवम् विधिम् कृत्वा गन्ध-माल्य-अनुलेपनैः । विघ्न-जर्जरण-अर्थम् तु जर्जरम् तु अभिमन्त्रयेत् ॥ ७७॥
sarvam evam vidhim kṛtvā gandha-mālya-anulepanaiḥ . vighna-jarjaraṇa-artham tu jarjaram tu abhimantrayet .. 77..
अत्र विघ्नविनाशार्थं पितामहमुखैस्सुरैः । निर्मितस्त्वं महावीर्यो वज्रसारो महातनुः ॥ ७८॥
अत्र विघ्न-विनाश-अर्थम् पितामह-मुखैः सुरैः । निर्मितः त्वम् महा-वीर्यः वज्र-सारः महा-तनुः ॥ ७८॥
atra vighna-vināśa-artham pitāmaha-mukhaiḥ suraiḥ . nirmitaḥ tvam mahā-vīryaḥ vajra-sāraḥ mahā-tanuḥ .. 78..
शिरस्ते रक्षतु ब्रम्हा सर्वैर्देवगुणैअः तह । द्वितीयं च हरः पर्व तृतीयं च जनार्दनः ॥ ७९॥
शिरः ते रक्षतु ब्रम्हा सर्वैः देव-गुणैः । द्वितीयम् च हरः पर्व तृतीयम् च जनार्दनः ॥ ७९॥
śiraḥ te rakṣatu bramhā sarvaiḥ deva-guṇaiḥ . dvitīyam ca haraḥ parva tṛtīyam ca janārdanaḥ .. 79..
चतुर्थं च कुमारस्ते पञ्चमं पन्नगोत्तमः । नित्यं सर्वेऽपि पान्तु त्वां सुरार्थे च शिवो भव ॥ ८०॥
चतुर्थम् च कुमारः ते पञ्चमम् पन्नग-उत्तमः । नित्यम् सर्वे अपि पान्तु त्वाम् सुर-अर्थे च शिवः भव ॥ ८०॥
caturtham ca kumāraḥ te pañcamam pannaga-uttamaḥ . nityam sarve api pāntu tvām sura-arthe ca śivaḥ bhava .. 80..
नक्षत्रेऽभिजिति त्वं हि प्रसूतोऽहितसूदन । जयं चाभ्युदयं चैव पार्थिवस्य समावह ॥ ८१॥
नक्षत्रे अभिजिति त्वम् हि प्रसूतः अहित-सूदन । जयम् च अभ्युदयम् च एव पार्थिवस्य समावह ॥ ८१॥
nakṣatre abhijiti tvam hi prasūtaḥ ahita-sūdana . jayam ca abhyudayam ca eva pārthivasya samāvaha .. 81..
जर्जरं पूजयित्वैअवं बलिं सर्वं निविद्य च । अग्नौ होमं ततः कुर्यान्मन्त्राहुइतिपुरस्कृतम् ॥ ८२॥
जर्जरम् पूजयित्वा एअवम् बलिम् सर्वम् निविद्य च । अग्नौ होमम् ततस् कुर्यात् मन्त्र-आहु-इति पुरस्कृतम् ॥ ८२॥
jarjaram pūjayitvā eavam balim sarvam nividya ca . agnau homam tatas kuryāt mantra-āhu-iti puraskṛtam .. 82..
हुताश एव दीप्ताभिरुल्काभिः परिमार्जनम् । नृपतेर्नर्तकीनां च कुर्याद्दीप्त्यभिवर्धनम् ॥ ८३॥
हुताशः एव दीप्ताभिः उल्काभिः परिमार्जनम् । नृपतेः नर्तकीनाम् च कुर्यात् दीप्ति-अभिवर्धनम् ॥ ८३॥
hutāśaḥ eva dīptābhiḥ ulkābhiḥ parimārjanam . nṛpateḥ nartakīnām ca kuryāt dīpti-abhivardhanam .. 83..
अभिद्योत्य सहातोद्यैर्नृपतिं नर्तकीस्तथा । मन्त्रपूतेन तोयेन पुनरभ्युक्ष्य तान्वदेत् ॥ ८४॥
अभिद्योत्य सह आतोद्यैः नृपतिम् नर्तकीः तथा । मन्त्र-पूतेन तोयेन पुनर् अभ्युक्ष्य तान् वदेत् ॥ ८४॥
abhidyotya saha ātodyaiḥ nṛpatim nartakīḥ tathā . mantra-pūtena toyena punar abhyukṣya tān vadet .. 84..
महाकुले प्रसूताः स्थ गुणौघैश्चाप्यलङ्कृताः । यद्वो जन्मगुणोपेतं तद्वो भवतु नित्यशः ॥ ८५॥
महा-कुले प्रसूताः स्थ गुण-ओघैः च अपि अलङ्कृताः । यत् वः जन्म-गुण-उपेतम् तत् वः भवतु नित्यशस् ॥ ८५॥
mahā-kule prasūtāḥ stha guṇa-oghaiḥ ca api alaṅkṛtāḥ . yat vaḥ janma-guṇa-upetam tat vaḥ bhavatu nityaśas .. 85..
एवमुक्त्वा ततो वाक्यं नृपतैर्भूतये बुधः । नाट्ययोगप्रसिद्ध्यर्थमाशिषस्सम्प्रयोजयेत् ॥ ८६॥
एवम् उक्त्वा ततस् वाक्यम् नृप-तैः भूतये बुधः । नाट्य-योग-प्रसिद्धि-अर्थम् आशिषः सम्प्रयोजयेत् ॥ ८६॥
evam uktvā tatas vākyam nṛpa-taiḥ bhūtaye budhaḥ . nāṭya-yoga-prasiddhi-artham āśiṣaḥ samprayojayet .. 86..
सरस्वती धृतिर्मेधा ह्रीः श्रीर्लक्ष्मीस्स्मृतिर्मतिः । पान्तु वो मातरः सौम्यास्सिद्धिदाश्च भवन्तु वः ॥ ८७॥
सरस्वती धृतिः मेधा ह्रीः श्रीः लक्ष्मीः स्मृतिः मतिः । पान्तु वः मातरः सौम्याः सिद्धि-दाः च भवन्तु वः ॥ ८७॥
sarasvatī dhṛtiḥ medhā hrīḥ śrīḥ lakṣmīḥ smṛtiḥ matiḥ . pāntu vaḥ mātaraḥ saumyāḥ siddhi-dāḥ ca bhavantu vaḥ .. 87..
होमं कृत्वा यथान्यायं हविर्मन्त्रपुरस्कृतम् । भिन्द्यात्कुम्भं ततश्चैव नाट्याचार्यः प्रयत्नतः ॥ ८८॥
होमम् कृत्वा यथान्यायम् हविः-मन्त्र-पुरस्कृतम् । भिन्द्यात् कुम्भम् ततस् च एव नाट्य-आचार्यः प्रयत्नतः ॥ ८८॥
homam kṛtvā yathānyāyam haviḥ-mantra-puraskṛtam . bhindyāt kumbham tatas ca eva nāṭya-ācāryaḥ prayatnataḥ .. 88..
अभिन्ने तु भवेत्कुम्भे स्वामिनः शत्रुतो भयम् । भिन्ने चैव तु विज्ञेयः स्वामिनः शत्रुसंक्षयः ॥ ८९॥
अ भिन्ने तु भवेत् कुम्भे स्वामिनः शत्रुतः भयम् । भिन्ने च एव तु विज्ञेयः स्वामिनः शत्रु-संक्षयः ॥ ८९॥
a bhinne tu bhavet kumbhe svāminaḥ śatrutaḥ bhayam . bhinne ca eva tu vijñeyaḥ svāminaḥ śatru-saṃkṣayaḥ .. 89..
भिन्ने कुम्भे ततश्चैव नाट्यचार्यः प्रयत्नतः । प्रगृह्य दीपिकां दीप्तां सर्वं रङ्गं प्रदीपयेत् ॥ ९०॥
भिन्ने कुम्भे ततस् च एव नाट्य-चार्यः प्रयत्नतः । प्रगृह्य दीपिकाम् दीप्ताम् सर्वम् रङ्गम् प्रदीपयेत् ॥ ९०॥
bhinne kumbhe tatas ca eva nāṭya-cāryaḥ prayatnataḥ . pragṛhya dīpikām dīptām sarvam raṅgam pradīpayet .. 90..
क्ष्वेडितैः स्फोटितैश्चैव वल्गितैश्च प्रधावितैः । रङ्गमध्ये तु तां दीप्तां सशब्दां सम्प्रयोजयेत् ॥ ९१॥
क्ष्वेडितैः स्फोटितैः च एव वल्गितैः च प्रधावितैः । रङ्ग-मध्ये तु ताम् दीप्ताम् स शब्दाम् सम्प्रयोजयेत् ॥ ९१॥
kṣveḍitaiḥ sphoṭitaiḥ ca eva valgitaiḥ ca pradhāvitaiḥ . raṅga-madhye tu tām dīptām sa śabdām samprayojayet .. 91..
शङ्खदुन्दुभिनिर्घोषैर्मृदङ्गपणवैस्तथा । सर्वातोद्यैः प्रणदितै रङ्गे युद्धानि कारयेत् ॥ ९२॥
शङ्ख-दुन्दुभि-निर्घोषैः मृदङ्ग-पणवैः तथा । सर्व-आतोद्यैः प्रणदितैः रङ्गे युद्धानि कारयेत् ॥ ९२॥
śaṅkha-dundubhi-nirghoṣaiḥ mṛdaṅga-paṇavaiḥ tathā . sarva-ātodyaiḥ praṇaditaiḥ raṅge yuddhāni kārayet .. 92..
तत्र च्छिन्नं व भिन्नं च दारितं च सशोणितम् । क्षतं प्रदीप्तमायस्तं निमित्तं सिद्धिलक्षणम् ॥ ९३॥
तत्र छिन्नम् भिन्नम् च दारितम् च स शोणितम् । क्षतम् प्रदीप्तम् आयस्तम् निमित्तम् सिद्धि-लक्षणम् ॥ ९३॥
tatra chinnam bhinnam ca dāritam ca sa śoṇitam . kṣatam pradīptam āyastam nimittam siddhi-lakṣaṇam .. 93..
सम्यगिष्टस्तु रङ्गो वै स्वामिनः शुभमावहेत् । पुरस्याबालवृद्धस्य तथा जानपदस्य च ॥ ९४॥
सम्यक् इष्टः तु रङ्गः वै स्वामिनः शुभम् आवहेत् । पुरस्य आ बाल-वृद्धस्य तथा जानपदस्य च ॥ ९४॥
samyak iṣṭaḥ tu raṅgaḥ vai svāminaḥ śubham āvahet . purasya ā bāla-vṛddhasya tathā jānapadasya ca .. 94..
दुरिष्टस्तु तथा रङ्गो दैवतैर्दुरधिष्ठितः । नाट्यविध्वसनं कुर्यान्नृपस्य च तथाऽशुभम् ॥ ९५॥
दुरिष्टः तु तथा रङ्गः दैवतैः दुरधिष्ठितः । नाट्य-विध्वसनम् कुर्यात् नृपस्य च तथा अशुभम् ॥ ९५॥
duriṣṭaḥ tu tathā raṅgaḥ daivataiḥ duradhiṣṭhitaḥ . nāṭya-vidhvasanam kuryāt nṛpasya ca tathā aśubham .. 95..
य एवं विधिमुत्सृज्य यथेष्टं सम्प्रयोजयेत् । प्राप्नोत्यपचयं शीघ्रं तिर्यग्योनिं च गच्छति ॥ ९६॥
यः एवम् विधिम् उत्सृज्य यथा इष्टम् सम्प्रयोजयेत् । प्राप्नोति अपचयम् शीघ्रम् तिर्यग्योनिम् च गच्छति ॥ ९६॥
yaḥ evam vidhim utsṛjya yathā iṣṭam samprayojayet . prāpnoti apacayam śīghram tiryagyonim ca gacchati .. 96..
यज्ञेन सम्मितं ह्येतद्रङ्गदैवतपूजनम् । अपूजयित्वा रङ्गं तु नैव प्रेक्षां प्रयोजयेत् ॥ ९७॥
यज्ञेन सम्मितम् हि एतत् रङ्ग-दैवत-पूजनम् । अ पूजयित्वा रङ्गम् तु ना एव प्रेक्षाम् प्रयोजयेत् ॥ ९७॥
yajñena sammitam hi etat raṅga-daivata-pūjanam . a pūjayitvā raṅgam tu nā eva prekṣām prayojayet .. 97..
पूजिताः पूजयन्त्येते मानिता मानयन्ति च । तस्मात्सर्वप्रयत्नेन कर्तव्यं रङ्गपूजनम् ॥ ९८॥
पूजिताः पूजयन्ति एते मानिताः मानयन्ति च । तस्मात् सर्व-प्रयत्नेन कर्तव्यम् रङ्ग-पूजनम् ॥ ९८॥
pūjitāḥ pūjayanti ete mānitāḥ mānayanti ca . tasmāt sarva-prayatnena kartavyam raṅga-pūjanam .. 98..
न तथा प्रदहत्यग्निः प्रभञ्जनसमीरितः । यथा ह्यपप्रयोगस्तु प्रयुक्तो दहति क्षणात् ॥ ९९॥
न तथा प्रदहति अग्निः प्रभञ्जन-समीरितः । यथा हि अपप्रयोगः तु प्रयुक्तः दहति क्षणात् ॥ ९९॥
na tathā pradahati agniḥ prabhañjana-samīritaḥ . yathā hi apaprayogaḥ tu prayuktaḥ dahati kṣaṇāt .. 99..
शास्त्रज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्याचार्येण शान्तेन कर्तव्यं रङ्गपूजनम् ॥१००॥
शास्त्र-ज्ञेन विनीतेन शुचिना दीक्षितेन च । नाट्य-आचार्येण शान्तेन कर्तव्यम् रङ्ग-पूजनम् ॥१००॥
śāstra-jñena vinītena śucinā dīkṣitena ca . nāṭya-ācāryeṇa śāntena kartavyam raṅga-pūjanam ..100..
स्थानभ्रष्टं तु यो दद्याद्बलिमुद्विग्नमानसः । मन्त्रहीनो यथा होता प्रायश्चित्ती भवेत्तु सः ॥ १०१॥
स्थान-भ्रष्टम् तु यः दद्यात् बलिम् उद्विग्न-मानसः । मन्त्र-हीनः यथा होता प्रायश्चित्ती भवेत् तु सः ॥ १०१॥
sthāna-bhraṣṭam tu yaḥ dadyāt balim udvigna-mānasaḥ . mantra-hīnaḥ yathā hotā prāyaścittī bhavet tu saḥ .. 101..
इत्ययं यो विधिर्दृष्टो रङ्गदैवतपूजने । नवे नाट्यगृहे कार्यः प्रेक्षायां च प्रयोक्तृभिः ॥ १०२॥
इति अयम् यः विधिः दृष्टः रङ्ग-दैवत-पूजने । नवे नाट्य-गृहे कार्यः प्रेक्षायाम् च प्रयोक्तृभिः ॥ १०२॥
iti ayam yaḥ vidhiḥ dṛṣṭaḥ raṅga-daivata-pūjane . nave nāṭya-gṛhe kāryaḥ prekṣāyām ca prayoktṛbhiḥ .. 102..
इति भारतीये नाट्यशास्त्रे रङ्गदैवतपूजनं नाम तृतीयोऽध्यायः समाप्तः
इति भारतीये नाट्य-शास्त्रे रङ्गदैवतपूजनम् नाम तृतीयः अध्यायः समाप्तः
iti bhāratīye nāṭya-śāstre raṅgadaivatapūjanam nāma tṛtīyaḥ adhyāyaḥ samāptaḥ

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In