| |
|

This overlay will guide you through the buttons:

॥ नाट्यशास्त्रम् अध्याय २० ॥
॥ नाट्य-शास्त्रम् अध्याय- ॥
.. nāṭya-śāstram adhyāya- ..
॥ श्रीरस्तु ॥
॥ श्रीः अस्तु ॥
.. śrīḥ astu ..
अथ विंशोऽध्यायः ।
अथ विंशः अध्यायः ।
atha viṃśaḥ adhyāyaḥ .
समुत्थानं तु वृत्तीनां व्याख्याम्यनुपूर्वशः । यथा वस्तूद्भवं चैव काव्यानां च विकल्पनम् ॥ १॥
समुत्थानम् तु वृत्तीनाम् व्याख्यामि अनुपूर्वशस् । यथा वस्तु-उद्भवम् च एव काव्यानाम् च विकल्पनम् ॥ १॥
samutthānam tu vṛttīnām vyākhyāmi anupūrvaśas . yathā vastu-udbhavam ca eva kāvyānām ca vikalpanam .. 1..
एकार्णवं जगत् कृत्वा भगवानच्युतो यदा । शेते स्म नागपर्यङ्के लोकान् संक्षिप्य मायया ॥ २॥
एकार्णवम् जगत् कृत्वा भगवान् अच्युतः यदा । शेते स्म नाग-पर्यङ्के लोकान् संक्षिप्य मायया ॥ २॥
ekārṇavam jagat kṛtvā bhagavān acyutaḥ yadā . śete sma nāga-paryaṅke lokān saṃkṣipya māyayā .. 2..
अथ वीर्यबलोन्मतावसुरौ मधुकैअटभौ । तर्जयामासतुर्देवं तरसा युद्धकाङ्क्षया ॥ ३॥
अथ वीर्य-बल-उन्मतौ असुरौ मधु-कैअटभौ । तर्जयामासतुः देवम् तरसा युद्ध-काङ्क्षया ॥ ३॥
atha vīrya-bala-unmatau asurau madhu-kaiaṭabhau . tarjayāmāsatuḥ devam tarasā yuddha-kāṅkṣayā .. 3..
निजबाहू विमृदनन्तौ भूतभावनमक्षयम् । जानुभिर्मुष्टिभिश्चैव योधयामासतुः प्रभुम् ॥ ४॥
निज-बाहू भूतभावनम् अक्षयम् । जानुभिः मुष्टिभिः च एव योधयामासतुः प्रभुम् ॥ ४॥
nija-bāhū bhūtabhāvanam akṣayam . jānubhiḥ muṣṭibhiḥ ca eva yodhayāmāsatuḥ prabhum .. 4..
बहुभिः परुषैर्वाक्यैरन्योन्यसमभिद्रवम् । नानाधिक्षेपवचनैः कम्पयन्ताविवोदधिम् ॥ ५॥
बहुभिः परुषैः वाक्यैः अन्योन्य-समभिद्रवम् । नाना अधिक्षेप-वचनैः कम्पयन्तौ इव उदधिम् ॥ ५॥
bahubhiḥ paruṣaiḥ vākyaiḥ anyonya-samabhidravam . nānā adhikṣepa-vacanaiḥ kampayantau iva udadhim .. 5..
तयोर्नानाप्रकाराणि वचांसि वदतोस्तदा । श्रुत्वा त्वभिहतमना द्रुहिणो वाक्यमब्रवीत् ॥ ६॥
तयोः नाना प्रकाराणि वचांसि वदतोः तदा । श्रुत्वा तु अभिहत-मनाः द्रुहिणः वाक्यम् अब्रवीत् ॥ ६॥
tayoḥ nānā prakārāṇi vacāṃsi vadatoḥ tadā . śrutvā tu abhihata-manāḥ druhiṇaḥ vākyam abravīt .. 6..
किमिदं भरतीवृत्तिर्वाग्भिरेव प्रवर्तते । उत्तरोत्तरसम्बद्धा नन्विमौ निधनं नयः ॥ ७॥
किम् इदम् भरती-वृत्तिः वाग्भिः एव प्रवर्तते । उत्तर-उत्तर-सम्बद्धाः ननु इमौ निधनम् नयः ॥ ७॥
kim idam bharatī-vṛttiḥ vāgbhiḥ eva pravartate . uttara-uttara-sambaddhāḥ nanu imau nidhanam nayaḥ .. 7..
पितामहवचः श्रुत्वा प्रोवाच मधुसूदनः । कार्यहेतोर्मया ब्रह्मन् भारतीयं विनिर्मिता ॥ ८॥
पितामह-वचः श्रुत्वा प्रोवाच मधुसूदनः । कार्य-हेतोः मया ब्रह्मन् भारती इयम् विनिर्मिता ॥ ८॥
pitāmaha-vacaḥ śrutvā provāca madhusūdanaḥ . kārya-hetoḥ mayā brahman bhāratī iyam vinirmitā .. 8..
वदतां वाक्यभूयिष्ठा भारतीयं भविष्यति । तस्मादेतौ निहन्म्यद्येत्युवाच वचनं हरिः ॥ ९॥
वदताम् वाक्य-भूयिष्ठा भारती इयम् भविष्यति । तस्मात् एतौ निहन्मि अद्य इति उवाच वचनम् हरिः ॥ ९॥
vadatām vākya-bhūyiṣṭhā bhāratī iyam bhaviṣyati . tasmāt etau nihanmi adya iti uvāca vacanam hariḥ .. 9..
शुद्धैरविकृतैरङ्गैः साङ्गहारैस्तथा भृशम् । योधयामासतुर्दैत्यौ युद्धमार्गविशारदौ ॥ १०॥
शुद्धैः अविकृतैः अङ्गैः स अङ्गहारैः तथा भृशम् । योधयामासतुः दैत्यौ युद्ध-मार्ग-विशारदौ ॥ १०॥
śuddhaiḥ avikṛtaiḥ aṅgaiḥ sa aṅgahāraiḥ tathā bhṛśam . yodhayāmāsatuḥ daityau yuddha-mārga-viśāradau .. 10..
भूमिसंयोगसंस्थानैः पदन्यासैर्हरेस्तदा । अतिभारोऽभवद् भूमेर्भारती तत्र निर्मिता ॥ ११॥
भूमि-संयोग-संस्थानैः पदन्यासैः हरेः तदा । अतिभारः अभवत् भूमेः भारती तत्र निर्मिता ॥ ११॥
bhūmi-saṃyoga-saṃsthānaiḥ padanyāsaiḥ hareḥ tadā . atibhāraḥ abhavat bhūmeḥ bhāratī tatra nirmitā .. 11..
वल्गितैः शार्ङ्गधनुषस्तीव्रैर्दीप्ततथैरथ । सत्वाधिकैरसम्भ्रान्तैः सात्त्वती तत्र निर्मिता ॥ १२॥
वल्गितैः शार्ङ्ग-धनुषः तीव्रैः दीप्त-तथैः अथ । सत्त्व-अधिकैः असम्भ्रान्तैः सात्त्वती तत्र निर्मिता ॥ १२॥
valgitaiḥ śārṅga-dhanuṣaḥ tīvraiḥ dīpta-tathaiḥ atha . sattva-adhikaiḥ asambhrāntaiḥ sāttvatī tatra nirmitā .. 12..
विचित्रैरङ्गहारैस्तु देवो लीलासमन्वितैः । बबन्ध यच्छिखापाशं कैशिकी तत्र निर्मिता ॥ १३॥
विचित्रैः अङ्गहारैः तु देवः लीला-समन्वितैः । बबन्ध यत् शिखा-पाशम् कैशिकी तत्र निर्मिता ॥ १३॥
vicitraiḥ aṅgahāraiḥ tu devaḥ līlā-samanvitaiḥ . babandha yat śikhā-pāśam kaiśikī tatra nirmitā .. 13..
संरम्भावेगबहुलैर्नानाचारी समुत्थितैः । नियुद्धकरणैश्चित्रैरुत्पन्नारभटी ततः ॥ १४॥
संरम्भ-आवेग-बहुलैः नाना चारी समुत्थितैः । नियुद्ध-करणैः चित्रैः उत्पन्ना आरभटी ततस् ॥ १४॥
saṃrambha-āvega-bahulaiḥ nānā cārī samutthitaiḥ . niyuddha-karaṇaiḥ citraiḥ utpannā ārabhaṭī tatas .. 14..
यां यां देवः समाचष्टे क्रियां वृत्तिषु संस्थिताम् । तां तदर्थानुगैर्जप्येऐर्द्रुहिणः प्रत्यपूजयत् ॥१५॥
याम् याम् देवः समाचष्टे क्रियाम् वृत्तिषु संस्थिताम् । ताम् तद्-अर्थ-अनुगैः जप्येऐः द्रुहिणः प्रत्यपूजयत् ॥१५॥
yām yām devaḥ samācaṣṭe kriyām vṛttiṣu saṃsthitām . tām tad-artha-anugaiḥ japyeaiḥ druhiṇaḥ pratyapūjayat ..15..
यदा हतौ तावसुरौ हरिणा मधुकैटभौ । ततोऽब्रवीत् पद्मयोनिर्नारायणमरिन्दमम् ॥ १६॥
यदा हतौ तौ असुरौ हरिणा मधु-कैटभौ । ततस् अब्रवीत् पद्मयोनिः नारायणम् अरिन्दमम् ॥ १६॥
yadā hatau tau asurau hariṇā madhu-kaiṭabhau . tatas abravīt padmayoniḥ nārāyaṇam arindamam .. 16..
अहो विचित्रैर्विषमैः स्फुटैः सललितैरपि । अङ्गहारैः कृतं देव त्वया दानवनाशनम् ॥ १७॥
अहो विचित्रैः विषमैः स्फुटैः स ललितैः अपि । अङ्गहारैः कृतम् देव त्वया दानव-नाशनम् ॥ १७॥
aho vicitraiḥ viṣamaiḥ sphuṭaiḥ sa lalitaiḥ api . aṅgahāraiḥ kṛtam deva tvayā dānava-nāśanam .. 17..
तस्मादयं हि लोकस्य नियुद्धसमयक्रमः । सर्वशस्त्रविमोक्षेषु न्यायसन्ज्ञो भविष्यति ॥ १८॥
तस्मात् अयम् हि लोकस्य नियुद्ध-समय-क्रमः । सर्व-शस्त्र-विमोक्षेषु न्याय-सन्ज्ञः भविष्यति ॥ १८॥
tasmāt ayam hi lokasya niyuddha-samaya-kramaḥ . sarva-śastra-vimokṣeṣu nyāya-sanjñaḥ bhaviṣyati .. 18..
न्यायाश्रितैरङ्गहारैर्न्यायाच्चैव समुत्थितैः । यस्माद्युद्धानि वर्तन्ते तस्मान्यायाः प्रकीर्तिताः ॥ १९॥
न्याय-आश्रितैः अङ्गहारैः न्यायात् च एव समुत्थितैः । यस्मात् युद्धानि वर्तन्ते तस्मात् न्यायाः प्रकीर्तिताः ॥ १९॥
nyāya-āśritaiḥ aṅgahāraiḥ nyāyāt ca eva samutthitaiḥ . yasmāt yuddhāni vartante tasmāt nyāyāḥ prakīrtitāḥ .. 19..
[चारीषु च समुत्पन्नो नानाचारीसमाश्रयः । न्यायसन्ज्ञः कृतो ह्येष द्रुहिणेन महात्मना॥ २०॥
[चारीषु च समुत्पन्नः नाना चारी-समाश्रयः । न्याय-सन्ज्ञः कृतः हि एष द्रुहिणेन महात्मना॥ २०॥
[cārīṣu ca samutpannaḥ nānā cārī-samāśrayaḥ . nyāya-sanjñaḥ kṛtaḥ hi eṣa druhiṇena mahātmanā.. 20..
ततो वेदेषु निक्षिप्ता द्रुहिणेन महात्मना । पुनरिष्वस्त्रजाते च नानाचारीसमाकुले ॥ २१॥
ततस् वेदेषु निक्षिप्ताः द्रुहिणेन महात्मना । पुनर् इषु-अस्त्र-जाते च नाना चारी-समाकुले ॥ २१॥
tatas vedeṣu nikṣiptāḥ druhiṇena mahātmanā . punar iṣu-astra-jāte ca nānā cārī-samākule .. 21..
पुनर्नाट्यप्रयोगेषु नानाभावसम्न्विताः । वृत्तिसन्ज्ञाः कृता ह्येताः काव्यबन्धसमाश्रयाः] ॥ २२॥
पुनर् नाट्य-प्रयोगेषु नाना भाव-सम्न्विताः । वृत्ति-सन्ज्ञाः कृताः हि एताः काव्य-बन्ध-समाश्रयाः ॥ २२॥
punar nāṭya-prayogeṣu nānā bhāva-samnvitāḥ . vṛtti-sanjñāḥ kṛtāḥ hi etāḥ kāvya-bandha-samāśrayāḥ .. 22..
चरितैर्यस्य देवस्य जप्यं यद्यादृशं कृतम् । ऋषिभिस्तादृशी वृत्तिअः कृता पाठ्यादिसंयुता ॥ २३॥
चरितैः यस्य देवस्य जप्यम् यत् यादृशम् कृतम् । ऋषिभिः तादृशी कृता पाठ्य-आदि-संयुता ॥ २३॥
caritaiḥ yasya devasya japyam yat yādṛśam kṛtam . ṛṣibhiḥ tādṛśī kṛtā pāṭhya-ādi-saṃyutā .. 23..
नाट्यवेदसमुत्पना वागङ्गाभिनयात्मिका । मया काव्यक्रिअयाहेतोः प्रक्षिप्ता द्रुहिणाज्ञया ॥ २४॥
। मया काव्य-क्रिअया-अहेतोः प्रक्षिप्ताः द्रुहिण-आज्ञया ॥ २४॥
. mayā kāvya-kriayā-ahetoḥ prakṣiptāḥ druhiṇa-ājñayā .. 24..
ऋग्वेदाद्भारती क्षिप्ता यजुर्वेदाच्च सात्त्वती । कैशिकी सामवेदाच्च शेषा चाथर्वणादपि ॥ २५॥
ऋग्वेदात् भारती क्षिप्ता यजुर्वेदात् च सात्त्वती । कैशिकी सामवेदात् च शेषा च आथर्वणात् अपि ॥ २५॥
ṛgvedāt bhāratī kṣiptā yajurvedāt ca sāttvatī . kaiśikī sāmavedāt ca śeṣā ca ātharvaṇāt api .. 25..
या वाक्प्रधाना पुरुषप्रयोज्या स्त्रीवर्जिता सङ्कृतपाठ्ययुक्ता । स्वनामधेयैर्भरतैः प्रयुक्ता सा भारती नाम भवेत्तु वृत्तिः ॥ २६॥
या वाच्-प्रधाना पुरुष-प्रयोज्या स्त्री-वर्जिता सङ्कृत-पाठ्य-युक्ता । स्व-नामधेयैः भरतैः प्रयुक्ता सा भारती नाम भवेत् तु वृत्तिः ॥ २६॥
yā vāc-pradhānā puruṣa-prayojyā strī-varjitā saṅkṛta-pāṭhya-yuktā . sva-nāmadheyaiḥ bharataiḥ prayuktā sā bhāratī nāma bhavet tu vṛttiḥ .. 26..
भेदास्तस्यास्तु विज्ञेयाश्चत्वारोऽङ्गत्वमागताः । प्ररोचनामुखं चैव वीथी प्रहसनं तथा ॥ २७॥
भेदाः तस्याः तु विज्ञेयाः चत्वारः अङ्ग-त्वम् आगताः । प्ररोचनामुखम् च एव वीथी प्रहसनम् तथा ॥ २७॥
bhedāḥ tasyāḥ tu vijñeyāḥ catvāraḥ aṅga-tvam āgatāḥ . prarocanāmukham ca eva vīthī prahasanam tathā .. 27..
जयाभ्युदयिनी चैव मङ्गल्या विजयावहा । सर्वपापप्रशमनी पूर्वरङ्गे प्ररोचना ॥ २८॥
जयाभ्युदयिनी च एव मङ्गल्या विजयावहा । सर्व-पाप-प्रशमनी पूर्वरङ्गे प्ररोचना ॥ २८॥
jayābhyudayinī ca eva maṅgalyā vijayāvahā . sarva-pāpa-praśamanī pūrvaraṅge prarocanā .. 28..
[उपक्षेपेण काव्यस्य हेतुयुक्तिसमाश्रया । सिद्धेनामन्त्रणा या तु विज्ञेया सा प्ररोचना] ॥ २९॥
[उपक्षेपेण काव्यस्य हेतु-युक्ति-समाश्रया । सिद्धेन आमन्त्रणा या तु विज्ञेया सा प्ररोचना ॥ २९॥
[upakṣepeṇa kāvyasya hetu-yukti-samāśrayā . siddhena āmantraṇā yā tu vijñeyā sā prarocanā .. 29..
नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्तु कुर्वते ॥ ३०॥
नटी विदूषकः वा अपि पारिपार्श्विकः एव वा । सूत्रधारेण सहिताः संलापम् यत् तु कुर्वते ॥ ३०॥
naṭī vidūṣakaḥ vā api pāripārśvikaḥ eva vā . sūtradhāreṇa sahitāḥ saṃlāpam yat tu kurvate .. 30..
चित्रैर्वाक्यैः स्वकार्यारोत्थैर्वीत्थ्यङ्गेरन्यथापि वा । आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि वा ॥ ३१॥
चित्रैः वाक्यैः स्व-कार्य-आर-उत्थैः वीत्थि-अङ्गेः अन्यथा अपि वा । आमुखम् तत् तु विज्ञेयम् बुधैः प्रस्तावना अपि वा ॥ ३१॥
citraiḥ vākyaiḥ sva-kārya-āra-utthaiḥ vītthi-aṅgeḥ anyathā api vā . āmukham tat tu vijñeyam budhaiḥ prastāvanā api vā .. 31..
[लक्षणं पूर्वमुक्तं तु वीत्थ्याः प्रहसनस्य च । आमुखाङ्गान्यतो वक्ष्ये यथावदनुपूर्वशः] ॥ ३२॥
[लक्षणम् पूर्वम् उक्तम् तु वीत्थ्याः प्रहसनस्य च । आमुख-अङ्गानि अतस् वक्ष्ये यथावत् अनुपूर्वशस् ॥ ३२॥
[lakṣaṇam pūrvam uktam tu vītthyāḥ prahasanasya ca . āmukha-aṅgāni atas vakṣye yathāvat anupūrvaśas .. 32..
उद्धात्यकः कथोद्धातः प्रयोगातिशयस्तथा । प्रवृत्तकावलगिते पञ्चाङ्गान्यामुखस्य तु ॥ ३३॥
उद्धात्यकः कथोद्धातः प्रयोगातिशयः तथा । प्रवृत्तक-अवलगिते पञ्चाङ्गानि आमुखस्य तु ॥ ३३॥
uddhātyakaḥ kathoddhātaḥ prayogātiśayaḥ tathā . pravṛttaka-avalagite pañcāṅgāni āmukhasya tu .. 33..
उद्धात्यकावलगितलक्षणं कथितं मया । शेषाणां लक्षणं विप्रा व्याख्यास्याम्यानुपूर्वशः ॥ ३४॥
उद्धात्यक-अवलगित-लक्षणम् कथितम् मया । शेषाणाम् लक्षणम् विप्राः व्याख्यास्यामि आनुपूर्वशस् ॥ ३४॥
uddhātyaka-avalagita-lakṣaṇam kathitam mayā . śeṣāṇām lakṣaṇam viprāḥ vyākhyāsyāmi ānupūrvaśas .. 34..
सुत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा । गृहीतां प्रविशेत्पात्रं कथोद्धातः स कीर्तितः ॥ ३५॥
सुत्रधारस्य वाक्यम् वा यत्र वाक्य-अर्थम् एव वा । गृहीताम् प्रविशेत् पात्रम् कथोद्धातः स कीर्तितः ॥ ३५॥
sutradhārasya vākyam vā yatra vākya-artham eva vā . gṛhītām praviśet pātram kathoddhātaḥ sa kīrtitaḥ .. 35..
प्रयोगे तु प्रयोगं तु सूत्रधारः प्रयोजयेत् । ततश्च प्रविशेत्पात्रं प्रयोगातिशयो हि सः ॥ ३६॥
प्रयोगे तु प्रयोगम् तु सूत्रधारः प्रयोजयेत् । ततस् च प्रविशेत् पात्रम् प्रयोग-अतिशयः हि सः ॥ ३६॥
prayoge tu prayogam tu sūtradhāraḥ prayojayet . tatas ca praviśet pātram prayoga-atiśayaḥ hi saḥ .. 36..
कालप्रवृत्तिमाश्रित्य वर्णना या प्रयुज्यते । तदाश्रयाच्च पात्रस्य प्रवेशस्तत्प्रवृत्तकम् ॥ ३७॥
काल-प्रवृत्तिम् आश्रित्य वर्णना या प्रयुज्यते । तद्-आश्रयात् च पात्रस्य प्रवेशः तत्प्रवृत्तकम् ॥ ३७॥
kāla-pravṛttim āśritya varṇanā yā prayujyate . tad-āśrayāt ca pātrasya praveśaḥ tatpravṛttakam .. 37..
एषामन्यतमं श्लिष्टं योजयित्वार्थयुक्तिभिः । [तस्मादङ्गद्वयस्यापि सम्भवो न निवार्यते ॥ ३८॥
एषाम् अन्यतमम् श्लिष्टम् योजयित्वा अर्थ-युक्तिभिः । [तस्मात् अङ्ग-द्वयस्य अपि सम्भवः न निवार्यते ॥ ३८॥
eṣām anyatamam śliṣṭam yojayitvā artha-yuktibhiḥ . [tasmāt aṅga-dvayasya api sambhavaḥ na nivāryate .. 38..
पात्रग्रन्थैरसम्बाध प्रकुर्यादामुखं ततः । एवमेतद्बुधैर्ज्ञेयमामुखं विविधाश्रयम् ॥ ३९॥
पात्र-ग्रन्थैः असंबाध प्रकुर्यात् आमुखम् ततस् । एवम् एतत् बुधैः ज्ञेयम् आमुखम् विविध-आश्रयम् ॥ ३९॥
pātra-granthaiḥ asaṃbādha prakuryāt āmukham tatas . evam etat budhaiḥ jñeyam āmukham vividha-āśrayam .. 39..
लक्षणं पूर्वमुक्तं तु वीथ्याः प्रहसनस्य च । [इत्यष्टार्धविकल्पा वृत्तिरियं भारती मयाभिहिता । सात्त्वत्यास्तु विधानं लक्षणयुक्त्या प्रवक्ष्यामि ] ॥ ४०॥
लक्षणम् पूर्वम् उक्तम् तु वीथ्याः प्रहसनस्य च । [इति अष्टार्ध-विकल्पा वृत्तिः इयम् भारती मया अभिहिता । सात्त्वत्याः तु विधानम् लक्षण-युक्त्या प्रवक्ष्यामि ॥ ४०॥
lakṣaṇam pūrvam uktam tu vīthyāḥ prahasanasya ca . [iti aṣṭārdha-vikalpā vṛttiḥ iyam bhāratī mayā abhihitā . sāttvatyāḥ tu vidhānam lakṣaṇa-yuktyā pravakṣyāmi .. 40..
या सात्त्वतेनेह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च । हर्षोत्कटा संहृतशोकभावा सा सात्त्वती नाम भवेत्तु वृत्तिः ॥ ४१॥
या सात्त्वतेन इह गुणेन युक्ता न्यायेन वृत्तेन समन्विता च । हर्ष-उत्कटा संहृत-शोक-भावा सा सात्त्वती नाम भवेत् तु वृत्तिः ॥ ४१॥
yā sāttvatena iha guṇena yuktā nyāyena vṛttena samanvitā ca . harṣa-utkaṭā saṃhṛta-śoka-bhāvā sā sāttvatī nāma bhavet tu vṛttiḥ .. 41..
वागङ्गाभिनयवती सत्त्वोत्थानवचनप्रकरणेषु । सत्त्वाधिकारयुक्ता विज्ञेया सात्त्वती वृत्तिः ॥ ४२॥
वाच्-अङ्गा अभिनयवती सत्त्व-उत्थान-वचन-प्रकरणेषु । सत्त्व-अधिकार-युक्ता विज्ञेया सात्त्वती वृत्तिः ॥ ४२॥
vāc-aṅgā abhinayavatī sattva-utthāna-vacana-prakaraṇeṣu . sattva-adhikāra-yuktā vijñeyā sāttvatī vṛttiḥ .. 42..
वीराद्भुतरौद्ररसा निरस्तशृङ्गारकरुणनिर्वेदा । उद्धतपुरुषप्राया परस्पराधर्षणकृता च ॥ ४३॥
वीर-अद्भुत-रौद्र-रसा निरस्त-शृङ्गार-करुण-निर्वेदा । उद्धत-पुरुष-प्राया परस्पर-आधर्षण-कृता च ॥ ४३॥
vīra-adbhuta-raudra-rasā nirasta-śṛṅgāra-karuṇa-nirvedā . uddhata-puruṣa-prāyā paraspara-ādharṣaṇa-kṛtā ca .. 43..
उत्थापकश्च परिवर्तकश्च सल्लापकश्च सङ्घात्यः । चत्वारोऽस्या भेदा विज्ञेया नाट्यकोविदैअः ॥ ४४॥
उत्थापकः च परिवर्तकः च सल्लापकः च सङ्घात्यः । चत्वारः अस्याः भेदाः विज्ञेयाः नाट्य-कोविदैः ॥ ४४॥
utthāpakaḥ ca parivartakaḥ ca sallāpakaḥ ca saṅghātyaḥ . catvāraḥ asyāḥ bhedāḥ vijñeyāḥ nāṭya-kovidaiḥ .. 44..
अहमप्युत्थास्यामि त्वं तावद्दर्शयात्मनः शक्तिम् । इति सङ्घर्षसमुत्थस्तज्ज्ञैरुत्थापको ज्ञेयः ॥ ४५॥
अहम् अपि उत्थास्यामि त्वम् तावत् दर्शय आत्मनः शक्तिम् । इति सङ्घर्ष-समुत्थः तद्-ज्ञैः उत्थापकः ज्ञेयः ॥ ४५॥
aham api utthāsyāmi tvam tāvat darśaya ātmanaḥ śaktim . iti saṅgharṣa-samutthaḥ tad-jñaiḥ utthāpakaḥ jñeyaḥ .. 45..
उत्थानसमारब्धानर्थानुत्सृज्य योऽर्थयोगवशात् । अन्यानर्थान् भजते स चापि परिवर्तको ज्ञेयः ॥ ४६॥
उत्थान-समारब्धान् अर्थान् उत्सृज्य यः अर्थ-योग-वशात् । अन्यान् अर्थान् भजते स च अपि परिवर्तकः ज्ञेयः ॥ ४६॥
utthāna-samārabdhān arthān utsṛjya yaḥ artha-yoga-vaśāt . anyān arthān bhajate sa ca api parivartakaḥ jñeyaḥ .. 46..
[निर्दिष्टवस्तुविषयः प्रपञ्चबद्धस्त्रिहास्यसंयुक्तः । सङ्घर्षविशेषकृतस्त्रिविधः परिवर्तको ज्ञेयः] ॥ ४७॥
[ । सङ्घर्ष-विशेष-कृतः त्रिविधः परिवर्तकः ज्ञेयः ॥ ४७॥
[ . saṅgharṣa-viśeṣa-kṛtaḥ trividhaḥ parivartakaḥ jñeyaḥ .. 47..
साधर्षजो निराधर्षजोऽपि वा रागवचसंयुक्तः । साधिक्षेपालापो ज्ञेयः सल्लापकः सोऽपि ॥ ४८॥
स आधर्ष-जः निराधर्ष-जः अपि वा राग-वच-संयुक्तः । स अधिक्षेप-आलापः ज्ञेयः सल्लापकः सः अपि ॥ ४८॥
sa ādharṣa-jaḥ nirādharṣa-jaḥ api vā rāga-vaca-saṃyuktaḥ . sa adhikṣepa-ālāpaḥ jñeyaḥ sallāpakaḥ saḥ api .. 48..
[धर्माधर्मसमुत्थं यत्र भवेद्रागदोषसंयुक्तम् । साधिक्षेपं च वचो ज्ञेयः संलापको नाम] ॥ ४९॥
[धर्म-अधर्म-समुत्थम् यत्र भवेत् राग-दोष-संयुक्तम् । स अधिक्षेपम् च वचः ज्ञेयः संलापकः नाम ॥ ४९॥
[dharma-adharma-samuttham yatra bhavet rāga-doṣa-saṃyuktam . sa adhikṣepam ca vacaḥ jñeyaḥ saṃlāpakaḥ nāma .. 49..
मन्त्रर्थवाक्यशक्त्या दैववशादात्मदोषयोगाद्वा । सङ्घातभेदजननस्तज्ज्ञैः सङ्घात्यको ज्ञेयः ॥ ५०॥
मन्त्र-अर्थ-वाक्य-शक्त्या दैव-वशात् आत्म-दोष-योगात् वा । सङ्घात-भेद-जननः तद्-ज्ञैः सङ्घात्यकः ज्ञेयः ॥ ५०॥
mantra-artha-vākya-śaktyā daiva-vaśāt ātma-doṣa-yogāt vā . saṅghāta-bheda-jananaḥ tad-jñaiḥ saṅghātyakaḥ jñeyaḥ .. 50..
[बहुकपटसंश्रयाणां परोपघाताशयप्रयुक्तानाम् । कूटानां सङ्घातो विज्ञेयः कूटसङ्घात्यः ] ॥ ५१॥
[बहुक-पट-संश्रयाणाम् पर-उपघात-आशय-प्रयुक्तानाम् । कूटानाम् सङ्घातः विज्ञेयः कूट-सङ्घात्यः ॥ ५१॥
[bahuka-paṭa-saṃśrayāṇām para-upaghāta-āśaya-prayuktānām . kūṭānām saṅghātaḥ vijñeyaḥ kūṭa-saṅghātyaḥ .. 51..
इत्यष्टार्धविकल्पा वृत्तिरियं सात्त्वती मयाभिहिता । कैशिक्यास्त्वथ लक्षणमतःपरं सम्प्रवक्ष्यामि ॥ ५२॥
इति अष्टार्ध-विकल्पा वृत्तिः इयम् सात्त्वती मया अभिहिता । कैशिक्याः तु अथ लक्षणम् अतस् परम् सम्प्रवक्ष्यामि ॥ ५२॥
iti aṣṭārdha-vikalpā vṛttiḥ iyam sāttvatī mayā abhihitā . kaiśikyāḥ tu atha lakṣaṇam atas param sampravakṣyāmi .. 52..
या श्लक्ष्णनैपथ्यविशेषचित्रा स्त्रीसंयुता या बहुनृत्तगीता । कामोपभोगप्रभवोपचारा तां कैशिकीं वृत्तिमुदाहरन्ति ॥ ५३॥
या श्लक्ष्ण-नैपथ्य-विशेष-चित्रा स्त्री-संयुता या बहु-नृत्त-गीता । काम-उपभोग-प्रभव-उपचारा ताम् कैशिकीम् वृत्तिम् उदाहरन्ति ॥ ५३॥
yā ślakṣṇa-naipathya-viśeṣa-citrā strī-saṃyutā yā bahu-nṛtta-gītā . kāma-upabhoga-prabhava-upacārā tām kaiśikīm vṛttim udāharanti .. 53..
[बहुवद्यनृत्तगीता शृङ्गाराभिनयचित्रनैपथ्या । माल्यालङ्कारयुक्ता प्रशस्तवेषा च कान्ता च ॥ ५४॥
[बहुवद्य-नृत्त-गीता शृङ्गार-अभिनय-चित्र-नैपथ्या । माल्य-अलङ्कार-युक्ता प्रशस्त-वेषा च कान्ता च ॥ ५४॥
[bahuvadya-nṛtta-gītā śṛṅgāra-abhinaya-citra-naipathyā . mālya-alaṅkāra-yuktā praśasta-veṣā ca kāntā ca .. 54..
चित्रपदवाक्यबन्धैरलङ्कृता हसितरुदितरोषादैः । स्त्रीपुरुषकामयुक्ता विज्ञेया कैशिकीवृत्तिः] ॥ ५५॥
चित्र-पद-वाक्यबन्धैः अलङ्कृताः हसित-रुदित-रोष-आदैः । स्त्री-पुरुष-काम-युक्ता विज्ञेया कैशिकी-वृत्तिः ॥ ५५॥
citra-pada-vākyabandhaiḥ alaṅkṛtāḥ hasita-rudita-roṣa-ādaiḥ . strī-puruṣa-kāma-yuktā vijñeyā kaiśikī-vṛttiḥ .. 55..
नर्म च नर्मस्फुञ्जो नर्मस्फोटोऽथ नर्मगर्भश्च । कैशिक्याश्चत्वारो भेदा ह्येते समाख्याताः ॥ ५६॥
नर्म च नर्मस्फुञ्जः नर्मस्फोटः अथ नर्मगर्भः च । कैशिक्याः चत्वारः भेदाः हि एते समाख्याताः ॥ ५६॥
narma ca narmasphuñjaḥ narmasphoṭaḥ atha narmagarbhaḥ ca . kaiśikyāḥ catvāraḥ bhedāḥ hi ete samākhyātāḥ .. 56..
आस्थापितशृङ्गारं विशुद्धकरणं निवृत्तवीररसम् । हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् ॥ ५७॥
आस्थापित-शृङ्गारम् विशुद्ध-करणम् निवृत्त-वीर-रसम् । हास्य-प्रवचन-बहुलम् नर्म त्रिविधम् विजानीयात् ॥ ५७॥
āsthāpita-śṛṅgāram viśuddha-karaṇam nivṛtta-vīra-rasam . hāsya-pravacana-bahulam narma trividham vijānīyāt .. 57..
ईर्ष्याक्रोधप्रायं सोपालम्भकरणानुविद्धं च । आत्मोपक्षेपकृतं सविप्रलम्भं स्मृतं नर्म ॥ ५८॥
ईर्ष्या-क्रोध-प्रायम् स उपालम्भ-करण-अनुविद्धम् च । आत्म-उपक्षेप-कृतम् स विप्रलम्भम् स्मृतम् नर्म ॥ ५८॥
īrṣyā-krodha-prāyam sa upālambha-karaṇa-anuviddham ca . ātma-upakṣepa-kṛtam sa vipralambham smṛtam narma .. 58..
नवसङ्गमसम्भोगो रतिसमुदयवेषवाक्यसंयुक्तः । ज्ञेयो नर्मस्फुञ्जो ह्यवसानभयात्मकश्चैव ॥ ५९॥
। ज्ञेयः नर्मस्फुञ्जः हि अवसान-भय-आत्मकः च एव ॥ ५९॥
. jñeyaḥ narmasphuñjaḥ hi avasāna-bhaya-ātmakaḥ ca eva .. 59..
विविधानां भवानां लवैर्लवैर्भूषितो बहुविशेषैः । असमग्राक्षिप्तरसो नर्मस्फोटस्तु विज्ञेयः ॥ ६०॥
विविधानाम् भवानाम् लवैः लवैः भूषितः बहु-विशेषैः । असमग्र-आक्षिप्त-रसः नर्मस्फोटः तु विज्ञेयः ॥ ६०॥
vividhānām bhavānām lavaiḥ lavaiḥ bhūṣitaḥ bahu-viśeṣaiḥ . asamagra-ākṣipta-rasaḥ narmasphoṭaḥ tu vijñeyaḥ .. 60..
विज्ञानरूपशोभा धनादिभिर्नायको गणैर्यत्र । प्रच्छनां व्यवहर्ते कर्यवषान्नर्मगर्भोऽसौ ॥ ६१॥
विज्ञान-रूप-शोभाः धन-आदिभिः नायकः गणैः यत्र । प्रच्छनाम् व्यवहर्ते कर्य-वषात् नर्मगर्भः असौ ॥ ६१॥
vijñāna-rūpa-śobhāḥ dhana-ādibhiḥ nāyakaḥ gaṇaiḥ yatra . pracchanām vyavaharte karya-vaṣāt narmagarbhaḥ asau .. 61..
[पूर्वस्थितौ विपद्येत नायको यत्र चापरस्तिष्ठेत् । तमपीह नर्मगर्भं विद्यान्नाट्यप्रयोगेषु ] ॥ ६२॥
[पूर्व-स्थितौ विपद्येत नायकः यत्र च अपरः तिष्ठेत् । तम् अपि इह नर्मगर्भम् विद्यात् नाट्य-प्रयोगेषु ॥ ६२॥
[pūrva-sthitau vipadyeta nāyakaḥ yatra ca aparaḥ tiṣṭhet . tam api iha narmagarbham vidyāt nāṭya-prayogeṣu .. 62..
इत्यष्टार्शविकल्पा वृत्तिरियं कैशिकी मयाभिहिता । अत ऊर्ध्वमुद्धतरसामरभटिं सम्प्रवक्ष्य्यमि ॥ ६३॥
इति अष्ट-अर्श-विकल्पा वृत्तिः इयम् कैशिकी मया अभिहिता । अतस् ऊर्ध्वम् उद्धत-रसाम् अरभटिम् सम्प्रवक्ष्यमि ॥ ६३॥
iti aṣṭa-arśa-vikalpā vṛttiḥ iyam kaiśikī mayā abhihitā . atas ūrdhvam uddhata-rasām arabhaṭim sampravakṣyami .. 63..
आरभटप्रायगुणा तथैव बहुकपटवञ्चनोपेता । दम्भानृतवचनवती त्वारभटी नाम विज्ञेया ॥ ६४॥
आरभट-प्राय-गुणा तथा एव बहु-कपट-वञ्चन-उपेता । दम्भ-अनृत-वचनवती तु आरभटी नाम विज्ञेया ॥ ६४॥
ārabhaṭa-prāya-guṇā tathā eva bahu-kapaṭa-vañcana-upetā . dambha-anṛta-vacanavatī tu ārabhaṭī nāma vijñeyā .. 64..
[आवपाताप्लुलङ्गितानि च्छेद्यानि मायाकृतमिन्द्रजालम् । चित्राणी युद्धानि च यत्र नित्यं तां तादृशीमारभटीं वदन्ति ॥ ६५॥
[आवप अतस् आप्लुलङ्गितानि छेद्यानि माया-कृतम् इन्द्रजालम् । चित्राणी युद्धानि च यत्र नित्यम् ताम् तादृशीम् आरभटीम् वदन्ति ॥ ६५॥
[āvapa atas āplulaṅgitāni chedyāni māyā-kṛtam indrajālam . citrāṇī yuddhāni ca yatra nityam tām tādṛśīm ārabhaṭīm vadanti .. 65..
शाड्गुण्यसमार्ब्धा हठातिसन्धानविद्रवोपेता । लाभालाभार्थकृता विज्ञेया वृत्तिरारभटी ॥ ६६॥
शाड्गुण्य-समार्ब्धा हठ-अतिसन्धान-विद्रव-उपेता । लाभ-अ लाभ-अर्थ-कृता विज्ञेया वृत्तिः आरभटी ॥ ६६॥
śāḍguṇya-samārbdhā haṭha-atisandhāna-vidrava-upetā . lābha-a lābha-artha-kṛtā vijñeyā vṛttiḥ ārabhaṭī .. 66..
संक्षिप्तकावपतौ वस्तूत्थापनमथापि सम्फेटः । एते ह्यस्या भेदा लक्षणमेषं प्रवक्ष्यामि ॥ ६७॥
संक्षिप्तक-अवपतौ वस्तु-उत्थापनम् अथ अपि सम्फेटः । एते हि अस्याः भेदाः लक्षणम् एषम् प्रवक्ष्यामि ॥ ६७॥
saṃkṣiptaka-avapatau vastu-utthāpanam atha api sampheṭaḥ . ete hi asyāḥ bhedāḥ lakṣaṇam eṣam pravakṣyāmi .. 67..
अन्वर्थशिल्पयुक्तो बहुपुस्तोत्थानचित्रनेपथ्यः । संक्षिप्तवस्तु विषयो ज्ञेयः संक्षिप्तकओ नाम ॥ ६८॥
अन्वर्थ-शिल्प-युक्तः बहु-पुस्त-उत्थान-चित्र-नेपथ्यः । संक्षिप्त-वस्तु विषयः ज्ञेयः संक्षिप्तकः नाम ॥ ६८॥
anvartha-śilpa-yuktaḥ bahu-pusta-utthāna-citra-nepathyaḥ . saṃkṣipta-vastu viṣayaḥ jñeyaḥ saṃkṣiptakaḥ nāma .. 68..
भयहर्षसमुत्थानं विद्रवविनिपातसम्भ्रमाचरणम् । क्षिप्रप्रवेशनिर्गममवपातमिमं विजानीयात् ॥ ६९॥
भय-हर्ष-समुत्थानम् विद्रव-विनिपात-सम्भ्रम-आचरणम् । क्षिप्र-प्रवेश-निर्गमम् अवपातम् इमम् विजानीयात् ॥ ६९॥
bhaya-harṣa-samutthānam vidrava-vinipāta-sambhrama-ācaraṇam . kṣipra-praveśa-nirgamam avapātam imam vijānīyāt .. 69..
सर्वरससमासकृतं सविद्रव्व्विद्रवाश्रयं व्वपि । नाट्यं विभाव्यते यत्तद्वस्तूत्थापनं ज्ञेयम् ॥ ७०॥
सर्व-रस-समास-कृतम् अपि । नाट्यम् विभाव्यते यत् तत् वस्तु-उत्थापनम् ज्ञेयम् ॥ ७०॥
sarva-rasa-samāsa-kṛtam api . nāṭyam vibhāvyate yat tat vastu-utthāpanam jñeyam .. 70..
संरम्भसम्प्रयुक्तो बहुयुद्धकपटनिर्भेदः । शस्त्रप्रहरबहुलः सम्फेटो नाम विज्ञेयः ॥ ७१॥
संरम्भ-सम्प्रयुक्तः बहु-युद्ध-कपट-निर्भेदः । शस्त्र-प्रहर-बहुलः सम्फेटः नाम विज्ञेयः ॥ ७१॥
saṃrambha-samprayuktaḥ bahu-yuddha-kapaṭa-nirbhedaḥ . śastra-prahara-bahulaḥ sampheṭaḥ nāma vijñeyaḥ .. 71..
एवमेता बुधैर्ज्ञेया वृत्तयो नाट्यसंश्रया । रसप्रयोगमासां च कीर्त्यमानं निबोधत ॥ ७२॥
एवम् एताः बुधैः ज्ञेयाः वृत्तयः नाट्य-संश्रया । रस-प्रयोगम् आसाम् च कीर्त्यमानम् निबोधत ॥ ७२॥
evam etāḥ budhaiḥ jñeyāḥ vṛttayaḥ nāṭya-saṃśrayā . rasa-prayogam āsām ca kīrtyamānam nibodhata .. 72..
हास्यशृङ्गरबहुला कैशिकी परिचक्षिता । सत्त्वती चापि विज्ञेया वीराद्भुतशमाश्रयाः ॥ ७३॥
हास्य-शृङ्गर-बहुला कैशिकी परिचक्षिता । सत्त्वती च अपि विज्ञेया वीर-अद्भुत-शम-आश्रयाः ॥ ७३॥
hāsya-śṛṅgara-bahulā kaiśikī paricakṣitā . sattvatī ca api vijñeyā vīra-adbhuta-śama-āśrayāḥ .. 73..
रौद्रे भयानके चैव विज्ञेयारभटी बुधैः । बीभत्से करुणे चैव भारती सम्प्रकीर्तिता ॥ ७४॥
रौद्रे भयानके च एव विज्ञेया आरभटी बुधैः । बीभत्से करुणे च एव भारती सम्प्रकीर्तिता ॥ ७४॥
raudre bhayānake ca eva vijñeyā ārabhaṭī budhaiḥ . bībhatse karuṇe ca eva bhāratī samprakīrtitā .. 74..
[ न ह्येकरसजं कव्यं किञ्चिदस्ति प्रयोगतः । भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव वा ॥ ७५॥
[ न हि एक-रस-जम् कव्यम् किञ्चिद् अस्ति प्रयोगतः । भावः वा अपि रसः वा अपि प्रवृत्तिः वृत्तिः एव वा ॥ ७५॥
[ na hi eka-rasa-jam kavyam kiñcid asti prayogataḥ . bhāvaḥ vā api rasaḥ vā api pravṛttiḥ vṛttiḥ eva vā .. 75..
सर्वेषां समवेतानां यस्य रूपं भवेद्बहु । स मन्तव्यो रस स्थायि शेषाः सञ्चारिणः स्मृताः] ॥ ७६॥
सर्वेषाम् समवेतानाम् यस्य रूपम् भवेत् बहु । स मन्तव्यः रस-स्थायि-शेषाः सञ्चारिणः स्मृताः ॥ ७६॥
sarveṣām samavetānām yasya rūpam bhavet bahu . sa mantavyaḥ rasa-sthāyi-śeṣāḥ sañcāriṇaḥ smṛtāḥ .. 76..
वृत्यन्त एशोऽभिनयो मयोक्तो वागङ्गसत्त्वप्रभवो यथावद् । आहार्यमेवाभिनयं प्रयोगे वक्ष्यामि नेपथ्यकृतं तु भूयः ॥ ७७॥
वृति-अन्ते एशः अभिनयः मया उक्तः वाच्-अङ्ग-सत्त्व-प्रभवः यथावत् । आहार्यम् एव अभिनयम् प्रयोगे वक्ष्यामि नेपथ्य-कृतम् तु भूयस् ॥ ७७॥
vṛti-ante eśaḥ abhinayaḥ mayā uktaḥ vāc-aṅga-sattva-prabhavaḥ yathāvat . āhāryam eva abhinayam prayoge vakṣyāmi nepathya-kṛtam tu bhūyas .. 77..
इति भारतीये नाट्यशास्त्रे वृत्तिविकल्पनं नाम विंशोऽध्यायः ।
इति भारतीये नाट्य-शास्त्रे वृत्तिविकल्पनम् नाम विंशः अध्यायः ।
iti bhāratīye nāṭya-śāstre vṛttivikalpanam nāma viṃśaḥ adhyāyaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In