ॐ अग्ना॑विष्णो स॒जोष॑से॒माव॑र्धन्तु वां॒ गिरः॑ । द्यु॒म्नैर्वाजे॑भि॒राग॑तम् । वाज॑श्च मे प्रस॒वश्च॑ मे॒ प्रय॑तिश्च मे॒ प्रसि॑तिश्च मे धी॒तिश्च॑ मे क्रतु॑श्च मे॒ स्वर॑श्च मे॒ श्लोक॑श्च मे श्रा॒वश्च॑ मे॒ श्रुति॑श्च मे॒ ज्योति॑श्च मे॒ सुव॑श्च मे प्रा॒णश्च॑ मेऽपा॒नश्च॑ मे व्या॒नश्च॒ मेऽसु॑श्च मे चि॒त्तं च॑ म॒ आधी॑तं च मे॒ वाक्च॑ मे॒ मन॑श्च मे॒ चक्षु॑श्च मे॒ श्रोत्रं॑ च मे॒ दक्ष॑श्च मे॒ बलं॑ च म॒ ओज॑श्च मे॒ सह॑श्च म॒ आयु॑श्च मे ज॒रा च॑ म आ॒त्मा च॑ मे त॒नूश्च॑ मे॒ शर्म॑ च मे॒ वर्म॑ च॒ मेऽङ्गा॑नि च मे॒ऽस्थानि॑ च मे॒ परूग्ं॑षि च मे॒ शरी॑राणि च मे ॥ 1 ॥
जैष्ठ्यं॑ च म॒ आधि॑पत्यं च मे म॒न्युश्च॑ मे॒ भाम॑श्च॒ मेऽम॑श्च॒ मेऽम्भ॑श्च मे जे॒मा च॑ मे महि॒मा च॑ मे वरि॒मा च॑ मे प्रथि॒मा च॑ मे व॒र्ष्मा च॑ मे द्राघु॒या च॑ मे वृ॒द्धं च॑ मे॒ वृद्धि॑श्च मे स॒त्यं च॑ मे श्र॒द्धा च॑ मे॒ जग॑च्च मे॒ धनं॑ च मे॒ वश॑श्च मे॒ त्विषि॑श्च मे क्री॒डा च॑ मे॒ मोद॑श्च मे जा॒तं च॑ मे जनि॒ष्यमा॑णं च मे सू॒क्तं च॑ मे सुकृ॒तं च॑ मे वि॒त्तं च॑ मे॒ वेद्यं॑ च मे भू॒तं च॑ मे भवि॒ष्यच्च॑ मे सु॒गं च॑ मे सु॒पथं॑ च म ऋ॒द्धं च॑ म ऋद्धि॑श्च मे कॢ॒प्तं च॑ मे॒ कॢप्ति॑श्च मे म॒तिश्च॑ मे सुम॒तिश्च॑ मे ॥ 2 ॥
शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमनस॒श्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च॑ मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विँच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातु॑श्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥ 3 ॥
ऊर्क्च॑ मे सू॒नृता॑ च मे॒ पय॑श्च मे॒ रस॑श्च मे घृ॒तं च॑ मे॒ मधु॑ च मे॒ सग्धि॑श्च मे॒ सपी॑तिश्च मे कृ॒षिश्च॑ मे॒ वृष्टि॑श्च मे॒ जैत्रं॑ च म॒ औद्भि॑द्यं च मे र॒यिश्च॑ मे॒ राय॑श्च मे पु॒ष्टं च मे॒ पुष्टि॑श्च मे वि॒भु च॑ मे प्र॒भु च॑ मे ब॒हु च॑ मे॒ भूय॑श्च मे पू॒र्णं च॑ मे पू॒र्णत॑रं च॒ मेऽक्षि॑तिश्च मे॒ कूय॑वाश्च॒ मेऽन्नं॑ च॒ मेऽक्षु॑च्च मे व्री॒हय॑श्च मे॒ यवा᳚श्च मे॒ माषा᳚श्च मे॒ तिला᳚श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा᳚श्च मे गो॒धूमा᳚श्च मे म॒सुरा᳚श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका᳚श्च मे नी॒वारा᳚श्च मे ॥ 4 ॥
अश्मा॑ च मे॒ मृत्ति॑का च मे गि॒रय॑श्च मे॒ पर्व॑ताश्च मे॒ सिक॑ताश्च मे॒ वन॒स्पत॑यश्च मे॒ हिर॑ण्यं च॒ मेऽय॑श्च मे॒ सीसं॑ च॒ मे त्रपु॑श्च मे श्या॒मं च॑ मे लो॒हं च॑ मेऽग्निश्च॑ म आप॑श्च मे वी॒रुध॑श्च म॒ ओष॑धयश्च मे कृष्टप॒च्यं च॑ मेऽकृष्टपच्यं च॑ मे ग्रा॒म्याश्च॑ मे प॒शव॑ आर॒ण्याश्च॑ य॒ज्ञेन॑ कल्पन्तां-विँ॒त्तं च॑ मे॒ वित्ति॑श्च मे भू॒तं च॑ मे॒ भूति॑श्च मे॒ वसु॑ च मे वस॒तिश्च॑ मे॒ कर्म॑ च मे॒ शक्ति॑श्च॒ मेऽर्थ॑श्च म॒ एम॑श्च म इति॑श्च मे॒ गति॑श्च मे ॥ 5 ॥
अ॒ग्ं॒शुश्च॑ मे र॒श्मिश्च॒ मेऽदा᳚भ्यश्च॒ मेऽधि॑पतिश्च म उपा॒ग्ं॒शुश्च॑ मेऽन्तर्या॒मश्च॑ म ऐन्द्रवाय॒वश्च॑ मे मैत्रावरु॒णश्च॑ म आश्वि॒नश्च॑ मे प्रतिप्र॒स्थान॑श्च मे शु॒क्रश्च॑ मे म॒न्थी च॑ म आग्रय॒णश्च॑ मे वैश्वदे॒वश्च॑ मे ध्रु॒वश्च॑ मे वैश्वान॒रश्च॑ म ऋतुग्र॒हाश्च॑ मेऽतिग्रा॒ह्या᳚श्च म ऐन्द्रा॒ग्नश्च॑ मे वैश्वदे॒वश्च॑ मे मरुत्व॒तीया᳚श्च मे माहे॒न्द्रश्च॑ म आदि॒त्यश्च॑ मे सावि॒त्रश्च॑ मे सारस्व॒तश्च॑ मे पौ॒ष्णश्च॑ मे पात्नीव॒तश्च॑ मे हारियोज॒नश्च॑ मे ॥ 7 ॥
PADACHEDA
a̠gṃ̠śuścha\' mē ra̠śmiścha̠ mē-'dā\"bhyaścha̠ mē-'dhi\'patiścha ma upā̠gṃ̠śuścha\' mē-'ntaryā̠maścha\' ma aindravāya̠vaścha\' mē maitrāvaru̠ṇaścha\' ma āśvi̠naścha\' mē pratipra̠sthāna\'ścha mē śu̠kraścha\' mē ma̠nthī cha\' ma āgraya̠ṇaścha\' mē vaiśvadē̠vaścha\' mē dhru̠vaścha\' mē vaiśvāna̠raścha\' ma ṛtugra̠hāścha\' mē-'tigrā̠hyā\"ścha ma aindrā̠gnaścha\' mē vaiśvadē̠vaścha\' mē marutva̠tīyā\"ścha mē māhē̠ndraścha\' ma ādi̠tyaścha\' mē sāvi̠traścha\' mē sārasva̠taścha\' mē pau̠ṣṇaścha\' mē pātnīva̠taścha\' mē hāriyōja̠naścha\' mē ॥ 7 ॥
TRANSLITERATION
a̠gṃ̠śuścha̍ mē ra̠śmiścha̠ mē-'dā̎bhyaścha̠ mē-'dhi̍patiścha ma upā̠gṃ̠śuścha̍ mē-'ntaryā̠maścha̍ ma aindravāya̠vaścha̍ mē maitrāvaru̠ṇaścha̍ ma āśvi̠naścha̍ mē pratipra̠sthāna̍ścha mē śu̠kraścha̍ mē ma̠nthī cha̍ ma āgraya̠ṇaścha̍ mē vaiśvadē̠vaścha̍ mē dhru̠vaścha̍ mē vaiśvāna̠raścha̍ ma ṛtugra̠hāścha̍ mē-'tigrā̠hyā̎ścha ma aindrā̠gnaścha̍ mē vaiśvadē̠vaścha̍ mē marutva̠tīyā̎ścha mē māhē̠ndraścha̍ ma ādi̠tyaścha̍ mē sāvi̠traścha̍ mē sārasva̠taścha̍ mē pau̠ṣṇaścha̍ mē pātnīva̠taścha̍ mē hāriyōja̠naścha̍ mē .. 7 ..
इ॒ध्मश्च॑ मे ब॒र्हिश्च॑ मे॒ वेदि॑श्च मे॒ दिष्णि॑याश्च मे॒ स्रुच॑श्च मे चम॒साश्च॑ मे॒ ग्रावा॑णश्च मे॒ स्वर॑वश्च म उपर॒वाश्च॑ मेऽधि॒षव॑णे च मे द्रोणकल॒शश्च॑ मे वाय॒व्या॑नि च मे पूत॒भृच्च॑ म आधव॒नीय॑श्च म॒ आग्नी᳚ध्रं च मे हवि॒र्धानं॑ च मे गृ॒हाश्च॑ मे॒ सद॑श्च मे पुरो॒डाशा᳚श्च मे पच॒ताश्च॑ मेऽवभृथश्च॑ मे स्वगाका॒रश्च॑ मे ॥ 8 ॥
गर्भा᳚श्च मे व॒त्साश्च॑ मे॒ त्र्यवि॑श्च मे त्र्य॒वीच॑ मे दित्य॒वाट् च॑ मे दित्यौ॒ही च॑ मे॒ पञ्चा॑विश्च मे पञ्चा॒वी च॑ मे त्रिव॒त्सश्च॑ मे त्रिव॒त्सा च॑ मे तुर्य॒वाट् च॑ मे तुर्यौ॒ही च॑ मे पष्ठ॒वाट् च॑ मे पष्ठौ॒ही च॑ म उ॒क्षा च॑ मे व॒शा च॑ म ऋष॒भश्च॑ मे वे॒हच्च॑ मेऽन॒ड्वाञ्च मे धे॒नुश्च॑ म॒ आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतामपा॒नो य॒ज्ञेन॑ कल्पतां॒-व्याँ॒नो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ग्॒ श्रोत्रं॑-यँ॒ज्ञेन॑ कल्पतां॒ मनो॑ य॒ज्ञेन॑ कल्पतां॒-वाँग्य॒ज्ञेन॑ कल्पतामा॒त्मा य॒ज्ञेन॑ कल्पतां-यँ॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥ 10 ॥
एका॑ च मे ति॒स्रश्च॑ मे॒ पञ्च॑ च मे स॒प्त च॑ मे॒ नव॑ च म॒ एका॑दश च मे॒ त्रयो॑दश च मे॒ पञ्च॑दश च मे स॒प्तद॑श च मे॒ नव॑दश च म॒ एक॑विग्ंशतिश्च मे॒ त्रयो॑विग्ंशतिश्च मे॒ पञ्च॑विग्ंशतिश्च मे स॒प्तविग्ं॑शतिश्च मे॒ नव॑विग्ंशतिश्च म॒ एक॑त्रिग्ंशच्च मे॒ त्रय॑स्त्रिग्ंशच्च मे॒ चत॑स्रश्च मे॒ऽष्टौ च॑ मे॒ द्वाद॑श च मे॒ षोड॑श च मे विग्ंश॒तिश्च॑ मे॒ चतु॑र्विग्ंशतिश्च मे॒ऽष्टाविग्ं॑शतिश्च मे॒ द्वात्रिग्ं॑शच्च मे॒ षट्-त्रिग्ं॑शच्च मे चत्वारि॒ग्ं॒शच्च॑ मे॒ चतु॑श्चत्वारिग्ंशच्च मेऽष्टाच॑त्वारिग्ंशच्च मे॒ वाज॑श्च प्रस॒वश्चा॑पि॒जश्च क्रतु॑श्च॒ सुव॑श्च मू॒र्धा च॒ व्यश्नि॑यश्चान्त्याय॒नश्चान्त्य॑श्च भौव॒नश्च॒ भुव॑न॒श्चाधि॑पतिश्च ॥ 11 ॥
PADACHEDA
ēkā\' cha mē ti̠sraścha\' mē̠ pañcha\' cha mē sa̠pta cha\' mē̠ nava\' cha ma̠ ēkā\'daśa cha mē̠ trayō\'daśa cha mē̠ pañcha\'daśa cha mē sa̠ptada\'śa cha mē̠ nava\'daśa cha ma̠ ēka\'vigṃśatiścha mē̠ trayō\'vigṃśatiścha mē̠ pañcha\'vigṃśatiścha mē sa̠ptavig\'ṃśatiścha mē̠ nava\'vigṃśatiścha ma̠ ēka\'trigṃśachcha mē̠ traya\'strigṃśachcha mē̠ chata\'sraścha mē̠-'ṣṭau cha\' mē̠ dvāda\'śa cha mē̠ ṣōḍa\'śa cha mē vigṃśa̠tiścha\' mē̠ chatu\'rvigṃśatiścha mē̠-'ṣṭāvig\'ṃśatiścha mē̠ dvātrig\'ṃśachcha mē̠ ṣaṭ-trig\'ṃśachcha mē chatvāri̠g̠ṃśachcha\' mē̠ chatu\'śchatvārigṃśachcha mē-'ṣṭācha\'tvārigṃśachcha mē̠ vāja\'ścha prasa̠vaśchā\'pi̠jaścha kratu\'ścha̠ suva\'ścha mū̠rdhā cha̠ vyaśni\'yaśchāntyāya̠naśchāntya\'ścha bhauva̠naścha̠ bhuva\'na̠śchādhi\'patiścha ॥ 11 ॥
TRANSLITERATION
ēkā̍ cha mē ti̠sraścha̍ mē̠ pañcha̍ cha mē sa̠pta cha̍ mē̠ nava̍ cha ma̠ ēkā̍daśa cha mē̠ trayō̍daśa cha mē̠ pañcha̍daśa cha mē sa̠ptada̍śa cha mē̠ nava̍daśa cha ma̠ ēka̍vigṃśatiścha mē̠ trayō̍vigṃśatiścha mē̠ pañcha̍vigṃśatiścha mē sa̠ptavig̍ṃśatiścha mē̠ nava̍vigṃśatiścha ma̠ ēka̍trigṃśachcha mē̠ traya̍strigṃśachcha mē̠ chata̍sraścha mē̠-'ṣṭau cha̍ mē̠ dvāda̍śa cha mē̠ ṣōḍa̍śa cha mē vigṃśa̠tiścha̍ mē̠ chatu̍rvigṃśatiścha mē̠-'ṣṭāvig̍ṃśatiścha mē̠ dvātrig̍ṃśachcha mē̠ ṣaṭ-trig̍ṃśachcha mē chatvāri̠g̠ṃśachcha̍ mē̠ chatu̍śchatvārigṃśachcha mē-'ṣṭācha̍tvārigṃśachcha mē̠ vāja̍ścha prasa̠vaśchā̍pi̠jaścha kratu̍ścha̠ suva̍ścha mū̠rdhā cha̠ vyaśni̍yaśchāntyāya̠naśchāntya̍ścha bhauva̠naścha̠ bhuva̍na̠śchādhi̍patiścha .. 11 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.