| |
|

This overlay will guide you through the buttons:

॥ श्रीः ॥
॥ श्रीः ॥
.. śrīḥ ..
Shree
॥ मुण्डकोपनिषत्॥
॥ मुण्डक-उपनिषद्॥
.. muṇḍaka-upaniṣad..
Mundaka Upanishad
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओम् भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येम अक्षभिः यजत्राः । स्थिरैः अङ्गैः तुष्टुवाँसः तनूभिः वि अशेम देव-हितम् यत् आयुः ॥
om bhadram karṇebhiḥ śṛṇuyāma devāḥ bhadram paśyema akṣabhiḥ yajatrāḥ . sthiraiḥ aṅgaiḥ tuṣṭuvām̐saḥ tanūbhiḥ vi aśema deva-hitam yat āyuḥ ..
Om! O gods, may we hear auspicious words with the ears; While engaged in sacrifices, May we see auspicious things with the eyes; While praising the gods with steady limbs, May we enjoy a life that is beneficial to the gods.
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
स्वस्ति नः इन्द्रः वृद्ध-श्रवाः स्वस्ति नः पूषा विश्व-वेदाः । स्वस्ति नः तार्क्ष्यः अरिष्ट-नेमिः स्वस्ति नः बृहस्पतिः दधातु ॥
svasti naḥ indraḥ vṛddha-śravāḥ svasti naḥ pūṣā viśva-vedāḥ . svasti naḥ tārkṣyaḥ ariṣṭa-nemiḥ svasti naḥ bṛhaspatiḥ dadhātu ..
May Indra of ancient fame be auspicious to us; May the supremely rich (or all-knowing) Pusa (god of the earth) Be propitious to us; May Garuda, the destroyer of evil, Be well disposed towards us; May Brihaspati ensure our welfare.
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ ओम् शान्तिः शान्तिः शान्तिः ॥
.. om śāntiḥ śāntiḥ śāntiḥ ..
Om! Peace! Peace! Peace!
॥ ॐ ब्रह्मणे नमः ॥
॥ ओम् ब्रह्मणे नमः ॥
.. om brahmaṇe namaḥ ..
Salutations to the holy brahma.
ॐ ब्रह्मा देवानां प्रथमः संबभूव विश्वस्य कर्ताभुवनस्य गोप्ता । स ब्रह्मविद्यां सर्वविद्याप्रतिष्ठामथर्वायज्येष्ठपुत्राय प्राह ॥ १॥
ओम् ब्रह्मा देवानाम् प्रथमः संबभूव विश्वस्य कर्ता अ भुवनस्य गोप्ता । स ब्रह्म-विद्याम् सर्व-विद्या-प्रतिष्ठाम् अथर्वाय ज्येष्ठ-पुत्राय प्राह ॥ १॥
om brahmā devānām prathamaḥ saṃbabhūva viśvasya kartā a bhuvanasya goptā . sa brahma-vidyām sarva-vidyā-pratiṣṭhām atharvāya jyeṣṭha-putrāya prāha .. 1..
Om! Brahma, the creator of the Universe and the protector of the world, was the first among the gods to manifest Himself. To His eldest son Atharva He imparted that knowledge of Brahman that is the basis of all knowledge.
अथर्वणे यां प्रवदेत ब्रह्माऽथर्वा तंपुरोवाचाङ्गिरे ब्रह्मविद्याम् । स भारद्वाजाय सत्यवाहाय प्राहभारद्वाजोऽङ्गिरसे परावराम् ॥ २॥
अथर्वणे याम् प्रवदेत ब्रह्मा अथर्वा तम् पुरा उवाच अङ्गिरे ब्रह्म-विद्याम् । स भारद्वाजाय सत्यवाहाय प्राह भारद्वाजः अङ्गिरसे परावराम् ॥ २॥
atharvaṇe yām pravadeta brahmā atharvā tam purā uvāca aṅgire brahma-vidyām . sa bhāradvājāya satyavāhāya prāha bhāradvājaḥ aṅgirase parāvarām .. 2..
The Knowledge of Brahman that Brahma imparted to Atharva, Atharva transmitted to Angir in days of yore. He (Angir) passed it on to Satyavaha of the line of Bharadvaja. He of the line of Bharadvaja handed down to Angiras this knowledge that had been received in succession from the higher by the lower ones.
शौनको ह वै महाशालोऽङ्गिरसं विधिवदुपसन्नः पप्रच्छ । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति ॥ ३॥
शौनकः ह वै महाशालः अङ्गिरसम् विधिवत् उपसन्नः पप्रच्छ । कस्मिन् नु भगवः विज्ञाते सर्वम् इदम् विज्ञातम् भवति इति ॥ ३॥
śaunakaḥ ha vai mahāśālaḥ aṅgirasam vidhivat upasannaḥ papraccha . kasmin nu bhagavaḥ vijñāte sarvam idam vijñātam bhavati iti .. 3..
Saunaka, well known as a great householder, having approached Angiras duly, asked, 'O adorable sir, (which is that thing) which having been known, all this becomes known?'
तस्मै स होवाच । द्वे विद्ये वेदितव्ये इति ह स्मयद्ब्रह्मविदो वदन्ति परा चैवापरा च ॥ ४॥
तस्मै स ह उवाच । द्वे विद्ये वेदितव्ये इति ह स्मयत्-ब्रह्म-विदः वदन्ति परा च एव अपरा च ॥ ४॥
tasmai sa ha uvāca . dve vidye veditavye iti ha smayat-brahma-vidaḥ vadanti parā ca eva aparā ca .. 4..
To him he said, '"There are two kinds of knowledge to be acquired - the higher and the lower"; this is what, as tradition runs, the knowers of the import of the Vedas say.'
तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदःशिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते ॥ ५॥
तत्र अपराः ऋग्वेदः यजुर्वेदः सामवेदः अथर्ववेदः शिक्षा कल्पः व्याकरणम् निरुक्तम् छन्दः ज्योतिषम् इति । अथ परा यया तत् अक्षरम् अधिगम्यते ॥ ५॥
tatra aparāḥ ṛgvedaḥ yajurvedaḥ sāmavedaḥ atharvavedaḥ śikṣā kalpaḥ vyākaraṇam niruktam chandaḥ jyotiṣam iti . atha parā yayā tat akṣaram adhigamyate .. 5..
Of these, the lower comprises the Rig-Veda, Yajur-Veda, Sama-Veda, Atharva-Veda, the science of pronunciation etc., the code of rituals, grammar, etymology, metre and astrology. Then there is the higher (knowledge) by which is attained that Imperishable.
यत्तदद्रेश्यमग्राह्यमगोत्रमवर्ण-मचक्षुः श्रोत्रं तदपाणिपादम् । नित्यं विभुं सर्वगतं सुसूक्ष्मंतदव्ययं यद्भूतयोनिं परिपश्यन्ति धीराः ॥ ६॥
यत् तत् अ द्रेश्यम् अ ग्राह्यम् अ गोत्रम् अ वर्णम् अ चक्षुः श्रोत्रम् तत् अ पाणि-पादम् । नित्यम् विभुम् सर्व-गतम् सु सूक्ष्मम् तत् अव्ययम् यत् भूतयोनिम् परिपश्यन्ति धीराः ॥ ६॥
yat tat a dreśyam a grāhyam a gotram a varṇam a cakṣuḥ śrotram tat a pāṇi-pādam . nityam vibhum sarva-gatam su sūkṣmam tat avyayam yat bhūtayonim paripaśyanti dhīrāḥ .. 6..
(By the higher knowledge) the wise realize everywhere that which cannot be perceived and grasped, which is without source, features, eyes, and ears, which has neither hands nor feet, which is eternal, multiformed, all-pervasive, extremely subtle, and un-diminishing and which is the source of all.
यथोर्णनाभिः सृजते गृह्णते चयथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाऽक्षरात्संभवतीह विश्वम् ॥ ७॥
यथा ऊर्णनाभिः सृजते गृह्णते च यथा पृथिव्याम् ओषधयः संभवन्ति । यथा सतः पुरुषात् केश-लोमानि तथा अक्षरात् संभवति इह विश्वम् ॥ ७॥
yathā ūrṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyām oṣadhayaḥ saṃbhavanti . yathā sataḥ puruṣāt keśa-lomāni tathā akṣarāt saṃbhavati iha viśvam .. 7..
As a spider spreads out and withdraws (its thread), as on the earth grow the herbs (and trees), and as from a living man issues out hair (on the head and body), so out of the Imperishable does the Universe emerge here (in this phenomenal creation).
तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् ॥ ८॥
तपसा चीयते ब्रह्म ततस् अन्नम् अभिजायते । अन्नात् प्राणः मनः सत्यम् लोकाः कर्मसु च अमृतम् ॥ ८॥
tapasā cīyate brahma tatas annam abhijāyate . annāt prāṇaḥ manaḥ satyam lokāḥ karmasu ca amṛtam .. 8..
Through knowledge Brahman increases in size. From that is born food (the Un-manifested). From food evolves Prana (Hiranyagarbha); (thence the cosmic) mind; (thence) the five elements; (thence) the worlds; (thence) the immortality that is in karmas.
तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते ॥ ९॥
तस्मात् एतत् ब्रह्म नाम रूपम् अन्नम् च जायते ॥ ९॥
tasmāt etat brahma nāma rūpam annam ca jāyate .. 9..
From Him, who is omniscient in general and all-knowing in detail and whose austerity is constituted by knowledge, evolve this (derivative) Brahman, name, colour and food.
॥ इति मुण्डकोपनिषदि प्रथममुण्डके प्रथमः खण्डः ॥
॥ इति मुण्डकोपनिषदि प्रथम-मुण्डके प्रथमः खण्डः ॥
.. iti muṇḍakopaniṣadi prathama-muṇḍake prathamaḥ khaṇḍaḥ ..
Thus ends the First Canto of the First Chapter of the Holy Mundaka Upanishads.
॥ प्रथममुण्डके द्वितीयः खण्डः ॥
॥ प्रथम-मुण्डके द्वितीयः खण्डः ॥
.. prathama-muṇḍake dvitīyaḥ khaṇḍaḥ ..
Thus begins the Second Chapter Mundaka Upanishad
तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा संततानि । तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके ॥ १॥
तत् एतत् सत्यम् मन्त्रेषु कर्माणि कवयः यानि अपश्यन् तानि त्रेतायाम् बहुधा संततानि । तानि आचरथ नियतम् सत्य-कामाः एष वः पन्थाः सुकृतस्य लोके ॥ १॥
tat etat satyam mantreṣu karmāṇi kavayaḥ yāni apaśyan tāni tretāyām bahudhā saṃtatāni . tāni ācaratha niyatam satya-kāmāḥ eṣa vaḥ panthāḥ sukṛtasya loke .. 1..
That thing that is such, is true. The karmas that the wise discovered in the mantras are accomplished variously (in the context of the sacrifice) where the three Vedic duties get united. You perform them for ever with desire for the true results. This is your path leading to the fruits of karma acquired by yourselves.
यदा लेलायते ह्यर्चिः समिद्धे हव्यवाहने । तदाऽऽज्यभागावन्तरेणाऽऽहुतीः प्रतिपादयेत् ॥ २॥
यदा लेलायते हि अर्चिः समिद्धे हव्यवाहने । तदा आज्यभागौ अन्तरेण आ आहुतीः प्रतिपादयेत् ॥ २॥
yadā lelāyate hi arciḥ samiddhe havyavāhane . tadā ājyabhāgau antareṇa ā āhutīḥ pratipādayet .. 2..
When, the fire being set ablaze, the flame shoots up, one should offer the oblations into that part that is in between the right and the left.
यस्याग्निहोत्रमदर्शमपौर्णमास मचातुर्मास्यमनाग्रयणमतिथिवर्जितं च । अहुतमवैश्वदेवमविधिना हुत मासप्तमांस्तस्य लोकान् हिनस्ति ॥ ३॥
यस्य अग्निहोत्रम् अदर्शम् अपौर्णमासम् अचातुर्मास्यम् अन् आग्रयणम् अतिथि-वर्जितम् च । अ हुतम् अ वैश्वदेवम् अ विधिना हुत आ सप्तमान् तस्य लोकान् हिनस्ति ॥ ३॥
yasya agnihotram adarśam apaurṇamāsam acāturmāsyam an āgrayaṇam atithi-varjitam ca . a hutam a vaiśvadevam a vidhinā huta ā saptamān tasya lokān hinasti .. 3..
It (i.e. the Agnihotra) destroys the seven worlds of that man whose Agnihotra (sacrifice) is without Darsa and Paurnamasa (rites), devoid of Chaturmasya, bereft of Agrayana, unblest with guests, goes unperformed, is unaccompanied by Vaisvadeva (rite) and is performed perfunctorily.
काली कराली च मनोजवा चसुलोहिता या च सुधूम्रवर्णा । स्फुलिङ्गिनी विश्वरुची च देवीलेलायमाना इति सप्त जिह्वाः ॥ ४॥
काली कराली च मनोजवा चसुलोहिता या च सुधूम्र-वर्णा । स्फुलिङ्गिनी विश्वरुची च देवी-लेलायमानाः इति सप्त जिह्वाः ॥ ४॥
kālī karālī ca manojavā casulohitā yā ca sudhūmra-varṇā . sphuliṅginī viśvarucī ca devī-lelāyamānāḥ iti sapta jihvāḥ .. 4..
Kali, Karali, Manojava and Sulohita and that which is Sudhumravarna, as also Sphulingini, and the shining Visvaruchi - these are the seven flaming tongues
एतेषु यश्चरते भ्राजमानेषु यथाकालंचाहुतयो ह्याददायन् । तं नयन्त्येताः सूर्यस्य रश्मयो यत्र देवानां पतिरेकोऽधिवासः ॥ ५॥
एतेषु यः चरते भ्राजमानेषु यथाकालम् च आहुतयः । तम् नयन्ति एताः सूर्यस्य रश्मयः यत्र देवानाम् पतिः एकः अधिवासः ॥ ५॥
eteṣu yaḥ carate bhrājamāneṣu yathākālam ca āhutayaḥ . tam nayanti etāḥ sūryasya raśmayaḥ yatra devānām patiḥ ekaḥ adhivāsaḥ .. 5..
These oblations turn into the rays of the sun and taking him up they lead him, who performs the rites in these shining flames at the proper time, to where the single lord of the gods presides over all.
एह्येहीति तमाहुतयः सुवर्चसः सूर्यस्य रश्मिभिर्यजमानं वहन्ति । प्रियां वाचमभिवदन्त्योऽर्चयन्त्य एष वः पुण्यः सुकृतो ब्रह्मलोकः ॥ ६॥
एहि एहि इति तम् आहुतयः सु वर्चसः सूर्यस्य रश्मिभिः यजमानम् वहन्ति । प्रियाम् वाचम् अभिवदन्त्यः अर्चयन्त्यः एष वः पुण्यः सु कृतः ब्रह्म-लोकः ॥ ६॥
ehi ehi iti tam āhutayaḥ su varcasaḥ sūryasya raśmibhiḥ yajamānam vahanti . priyām vācam abhivadantyaḥ arcayantyaḥ eṣa vaḥ puṇyaḥ su kṛtaḥ brahma-lokaḥ .. 6..
Saying, 'Come, come', uttering pleasing words such as, 'This is your well-earned, virtuous path which leads to heaven', and offering him adoration, the scintillating oblations carry the sacrificer along the rays of the sun.
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढाजरामृत्युं ते पुनरेवापि यन्ति ॥ ७॥
प्लवाः हि एते अदृढाः यज्ञ-रूपाः अष्टादश उक्तम् अवरम् येषु कर्म । एतत् श्रेयः ये अभिनन्दन्ति मूढ-अजर-मृत्युम् ते पुनर् एवा अपि यन्ति ॥ ७॥
plavāḥ hi ete adṛḍhāḥ yajña-rūpāḥ aṣṭādaśa uktam avaram yeṣu karma . etat śreyaḥ ye abhinandanti mūḍha-ajara-mṛtyum te punar evā api yanti .. 7..
Since these eighteen constituents of a sacrifice, on whom the inferior karma has been said to rest, are perishable because of their fragility, therefore those ignorant people who get elated with the idea 'This is (the cause of) bliss', undergo old age and death over again.
अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितंमन्यमानाः । जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥ ८॥
अविद्यायाम् अन्तरे वर्तमानाः स्वयम् धीराः पण्डितम् मन्यमानाः । जङ्घन्यमानाः परियन्ति मूढाः अन्धेन एव नीयमानाः यथा अन्धाः ॥ ८॥
avidyāyām antare vartamānāḥ svayam dhīrāḥ paṇḍitam manyamānāḥ . jaṅghanyamānāḥ pariyanti mūḍhāḥ andhena eva nīyamānāḥ yathā andhāḥ .. 8..
Remaining within the fold of ignorance and thinking, 'We are ourselves wise and learned', the fools, while being buffeted very much, ramble about like the blind led by the blind alone
अविद्यायां बहुधा वर्तमाना वयंकृतार्था इत्यभिमन्यन्ति बालाः । यत्कर्मिणो न प्रवेदयन्ति रागा त्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥ ९॥
अविद्यायाम् बहुधा वर्तमानाः वयम् कृतार्थाः इति अभिमन्यन्ति बालाः । यत् कर्मिणः न प्रवेदयन्ति रागाः तेन आतुराः क्षीण-लोकाः च्यवन्ते ॥ ९॥
avidyāyām bahudhā vartamānāḥ vayam kṛtārthāḥ iti abhimanyanti bālāḥ . yat karmiṇaḥ na pravedayanti rāgāḥ tena āturāḥ kṣīṇa-lokāḥ cyavante .. 9..
Continuing diversely in the midst of ignorance, the unenlightened take airs by thinking, 'We have attained the goal.' Since the men, engaged in karma, do not understand (the truth) under the influence of attachment, thereby they become afflicted with sorrow and are deprived of heaven on the exhaustion of the results of karma.
इष्टापूर्तं मन्यमाना वरिष्ठं नान्यच्छ्रेयो वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति ॥ १०॥
इष्टापूर्तम् मन्यमानाः वरिष्ठम् न अन्यत् श्रेयः वेदयन्ते प्रमूढाः । नाकस्य पृष्ठे ते सुकृते अनुभूत्वा इमम् लोकम् हीनतरम् वा विशन्ति ॥ १०॥
iṣṭāpūrtam manyamānāḥ variṣṭham na anyat śreyaḥ vedayante pramūḍhāḥ . nākasya pṛṣṭhe te sukṛte anubhūtvā imam lokam hīnataram vā viśanti .. 10..
The deluded fools, believing the rites inculcated by the Vedas and the Smritis to be the highest, do not understand the other thing (that leads to) liberation. They, having enjoyed (the fruits of actions) in the abode of pleasure on the heights of heaven, enter this world or an inferior one.
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये शान्ता विद्वांसो भैक्ष्यचर्यां चरन्तः । सूर्यद्वारेण ते विरजाः प्रयान्तियत्रामृतः स पुरुषो ह्यव्ययात्मा ॥ ११॥
तपः-श्रद्धे ये हि उपवसन्ति अरण्ये शान्ताः विद्वांसः भैक्ष्य-चर्याम् चरन्तः । सूर्य-द्वारेण ते विरजाः प्रयान्ति यत्र अमृतः स पुरुषः हि अव्यय-आत्मा ॥ ११॥
tapaḥ-śraddhe ye hi upavasanti araṇye śāntāḥ vidvāṃsaḥ bhaikṣya-caryām carantaḥ . sūrya-dvāreṇa te virajāḥ prayānti yatra amṛtaḥ sa puruṣaḥ hi avyaya-ātmā .. 11..
Those who live in the forest, while begging for alms - viz. those (forest-dwellers and hermits) who resort to the duties of their respective stages of life as well as to meditation - and the learned (householders) who have their senses under control - (they) after becoming freed from dirt, go by the path of the sun to where lives that Purusha, immortal and un-decaying by nature.
परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ १२॥
परीक्ष्य लोकान् कर्म-चितान् ब्राह्मणः निर्वेदम् आयात् न अस्ति अकृतः कृतेन । तद्-विज्ञान-अर्थम् स गुरुम् एव अभिगच्छेत् समिध्-पाणिः श्रोत्रियम् ब्रह्मनिष्ठम् ॥ १२॥
parīkṣya lokān karma-citān brāhmaṇaḥ nirvedam āyāt na asti akṛtaḥ kṛtena . tad-vijñāna-artham sa gurum eva abhigacchet samidh-pāṇiḥ śrotriyam brahmaniṣṭham .. 12..
A Brahmana should resort to renunciation after examining the worlds acquired through karma, with the help of this maxim: 'There is nothing (here) that is not the result of karma; so what is the need of (performing) karma?' For knowing that Reality he should go, with sacrificial faggots in hand, only to a teacher versed in the Vedas and absorbed in Brahman.
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाचतां तत्त्वतो ब्रह्मविद्याम् ॥ १३॥
तस्मै स विद्वान् उपसन्नाय सम्यक् प्रशान्त-चित्ताय शम-अन्विताय । येन अक्षरम् पुरुषम् वेद सत्यम् प्रोवाचताम् तत्त्वतः ब्रह्म-विद्याम् ॥ १३॥
tasmai sa vidvān upasannāya samyak praśānta-cittāya śama-anvitāya . yena akṣaram puruṣam veda satyam provācatām tattvataḥ brahma-vidyām .. 13..
To him who has approached duly, whose heart is calm and whose outer organs are under control, that man of enlightenment should adequately impart that knowledge of Brahman by which one realizes the true and imperishable Purusha.
॥ इति मुण्डकोपनिषदि प्रथममुण्डके द्वितीयः खण्डः ॥
॥ इति मुण्डक-उपनिषदि प्रथम-मुण्डके द्वितीयः खण्डः ॥
.. iti muṇḍaka-upaniṣadi prathama-muṇḍake dvitīyaḥ khaṇḍaḥ ..
Thus ends the Second Canto of the First Chapter of the Holy Mundaka Upanishads.
॥ द्वितीय मुण्डके प्रथमः खण्डः ॥
॥ द्वितीय-मुण्डके प्रथमः खण्डः ॥
.. dvitīya-muṇḍake prathamaḥ khaṇḍaḥ ..
Thus begins the first canto of the Second Chapter of the Holy Mundaka Upanishads
यथा सुदीप्तात्पावकाद्विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाऽक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवापियन्ति ॥ १॥
यथा सु दीप्तात् पावकात् विस्फुलिङ्गाः सहस्रशस् प्रभवन्ते सरूपाः । तथा अक्षरात् विविधाः सोम्य भावाः प्रजायन्ते तत्र च एव अपियन्ति ॥ १॥
yathā su dīptāt pāvakāt visphuliṅgāḥ sahasraśas prabhavante sarūpāḥ . tathā akṣarāt vividhāḥ somya bhāvāḥ prajāyante tatra ca eva apiyanti .. 1..
That thing that is such is true. As from a fire fully ablaze, fly off sparks in their thousands that are akin to the fire, similarly O good-looking one, from the Imperishable originate different kinds of creatures and into It again they merge.
दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः परः ॥ २॥
दिव्यः हि अमूर्तः पुरुषः स बाह्य-अभ्यन्तरः हि अजः । अ प्राणः हि अ मनाः शुभ्रः हि अक्षरात् परतस् परः ॥ २॥
divyaḥ hi amūrtaḥ puruṣaḥ sa bāhya-abhyantaraḥ hi ajaḥ . a prāṇaḥ hi a manāḥ śubhraḥ hi akṣarāt paratas paraḥ .. 2..
The Purusha is transcendental, since He is formless. And since He is coextensive with all that is external and internal and since He is birthless, therefore He is without vital force and without mind; He is pure and superior to the (other) superior imperishable (Maya).
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥ ३॥
एतस्मात् जायते प्राणः मनः सर्व-इन्द्रियाणि च । खम् वायुः ज्योतिः आपः पृथिवी विश्वस्य धारिणी ॥ ३॥
etasmāt jāyate prāṇaḥ manaḥ sarva-indriyāṇi ca . kham vāyuḥ jyotiḥ āpaḥ pṛthivī viśvasya dhāriṇī .. 3..
From Him originates the vital force as well as the mind, all the senses, space, air, fire, water, and earth that support everything.
अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौदिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यांपृथिवी ह्येष सर्वभूतान्तरात्मा ॥ ४॥
अग्निः मूर्धा चक्षुषी चन्द्र-सूर्यौ दिशः श्रोत्रे वाच् विवृताः च वेदाः । वायुः प्राणः हृदयम् विश्वम् अस्य पद्भ्याम् पृथिवी हि एष सर्व-भूत-अन्तरात्मा ॥ ४॥
agniḥ mūrdhā cakṣuṣī candra-sūryau diśaḥ śrotre vāc vivṛtāḥ ca vedāḥ . vāyuḥ prāṇaḥ hṛdayam viśvam asya padbhyām pṛthivī hi eṣa sarva-bhūta-antarātmā .. 4..
The indwelling Self of all is surely He of whom the heaven is the head, the moon and sun are the two eyes, the directions are the two ears, the revealed Vedas are the speech, air is the vital force, the whole Universe is the heart, and (It is He) from whose two feet emerged the earth.
तस्मादग्निः समिधो यस्य सूर्यः सोमात्पर्जन्य ओषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायांबह्वीः प्रजाः पुरुषात्संप्रसूताः ॥ ५॥
तस्मात् अग्निः समिधः यस्य सूर्यः सोमात् पर्जन्यः ओषधयः पृथिव्याम् । पुमान् रेतः सिञ्चति योषितायाम् बह्वीः प्रजाः पुरुषात् संप्रसूताः ॥ ५॥
tasmāt agniḥ samidhaḥ yasya sūryaḥ somāt parjanyaḥ oṣadhayaḥ pṛthivyām . pumān retaḥ siñcati yoṣitāyām bahvīḥ prajāḥ puruṣāt saṃprasūtāḥ .. 5..
From Him emerges the fire (i.e. heaven) of which the fuel is the sun. From the moon emerges cloud, and (from cloud) the herbs and corns on the earth. A man sheds the semen into a woman. From the Purusha have originated many creatures.
तस्मादृचः साम यजूꣳषि दीक्षायज्ञाश्च सर्वे क्रतवो दक्षिणाश्च । संवत्सरश्च यजमानश्च लोकाः सोमो यत्र पवते यत्र सूर्यः ॥ ६॥
तस्मात् ऋचः साम यजूँषि दीक्षा-यज्ञाः च सर्वे क्रतवः दक्षिणाः च । संवत्सरः च यजमानः च लोकाः सोमः यत्र पवते यत्र सूर्यः ॥ ६॥
tasmāt ṛcaḥ sāma yajūm̐ṣi dīkṣā-yajñāḥ ca sarve kratavaḥ dakṣiṇāḥ ca . saṃvatsaraḥ ca yajamānaḥ ca lokāḥ somaḥ yatra pavate yatra sūryaḥ .. 6..
From Him (emerge) the Rik, Sama and Yajur mantras, initiation, all the sacrifices - whether with or without the sacrificial stake - offerings to Brahmanas, the year, the sacrificer, and the worlds where the moon sacrifices (all) and where the sun (shines).
तस्माच्च देवा बहुधा संप्रसूताः साध्या मनुष्याः पशवो वयाꣳसि । प्राणापानौ व्रीहियवौ तपश्चश्रद्धा सत्यं ब्रह्मचर्यं विधिश्च ॥ ७॥
तस्मात् च देवाः बहुधा संप्रसूताः साध्याः मनुष्याः पशवः वयाँसि । प्राण-अपानौ व्रीहि-यवौ तपः च श्रद्धा सत्यम् ब्रह्मचर्यम् विधिः च ॥ ७॥
tasmāt ca devāḥ bahudhā saṃprasūtāḥ sādhyāḥ manuṣyāḥ paśavaḥ vayām̐si . prāṇa-apānau vrīhi-yavau tapaḥ ca śraddhā satyam brahmacaryam vidhiḥ ca .. 7..
And from Him duly emerged the gods in various groups, the Sadhyas, human beings, beasts, birds, life, rice and barley, as well as austerity, faith, truth, continence and dutifulness.
सप्त प्राणाः प्रभवन्ति तस्मा-त्सप्तार्चिषः समिधः सप्त होमाः । सप्त इमे लोका येषु चरन्ति प्राणागुहाशया निहिताः सप्त सप्त ॥ ८॥
सप्त प्राणाः प्रभवन्ति तस्मात् सप्त-अर्चिषः समिधः सप्त होमाः । सप्त इमे लोकाः येषु चरन्ति प्राणा-गुहा-आशयाः निहिताः सप्त सप्त ॥ ८॥
sapta prāṇāḥ prabhavanti tasmāt sapta-arciṣaḥ samidhaḥ sapta homāḥ . sapta ime lokāḥ yeṣu caranti prāṇā-guhā-āśayāḥ nihitāḥ sapta sapta .. 8..
From Him emerge the seven sense-organs, the seven flames, the seven kinds of fuel, the seven oblations, and these seven seats where move the sense-organs that sleep in the cavity, (and) have been deposited (by God) in groups of seven.
अतः समुद्रा गिरयश्च सर्वेऽस्मा-त्स्यन्दन्ते सिन्धवः सर्वरूपाः । अतश्च सर्वा ओषधयो रसश्चयेनैष भूतैस्तिष्ठते ह्यन्तरात्मा ॥ ९॥
अतस् समुद्राः गिरयः च सर्वे अस्मात् स्यन्दन्ते सिन्धवः सर्व-रूपाः । अतस् च सर्वाः ओषधयः रसः चयेन एष भूतैः तिष्ठते हि अन्तरात्मा ॥ ९॥
atas samudrāḥ girayaḥ ca sarve asmāt syandante sindhavaḥ sarva-rūpāḥ . atas ca sarvāḥ oṣadhayaḥ rasaḥ cayena eṣa bhūtaiḥ tiṣṭhate hi antarātmā .. 9..
From Him emerge all the oceans and all the mountains. From Him flow out the rivers of various forms. And from Him issue all the corns as well as the juice, by virtue of which the internal self verily exists in the midst of the elements.
पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् । एतद्यो वेद निहितं गुहायांसोऽविद्याग्रन्थिं विकिरतीह सोम्य ॥ १०॥
पुरुषः एव इदम् विश्वम् कर्म तपः ब्रह्म पर-अमृतम् । एतत् यः वेद निहितम् गुहायांसः अविद्या-ग्रन्थिम् विकिरति इह सोम्य ॥ १०॥
puruṣaḥ eva idam viśvam karma tapaḥ brahma para-amṛtam . etat yaḥ veda nihitam guhāyāṃsaḥ avidyā-granthim vikirati iha somya .. 10..
The Purusha alone is all this - (comprising) karma and knowledge. He who knows this supreme, immortal Brahman, existing in the heart, destroys here the knot of ignorance, O good-looking one!
॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके प्रथमः खण्डः ॥
॥ इति मुण्डकोपनिषदि द्वितीय-मुण्डके प्रथमः खण्डः ॥
.. iti muṇḍakopaniṣadi dvitīya-muṇḍake prathamaḥ khaṇḍaḥ ..
Thus ends the First Canto of the Second Chapter of the Holy Mundaka Upanishads.
॥ द्वितीय मुण्डके द्वितीयः खण्डः ॥
॥ द्वितीय-मुण्डके द्वितीयः खण्डः ॥
.. dvitīya-muṇḍake dvitīyaḥ khaṇḍaḥ ..
Thus begins the Second Canto of Second Chapter of the holy Mundaka Upanishad
आविः संनिहितं गुहाचरं नाममहत्पदमत्रैतत्समर्पितम् । एजत्प्राणन्निमिषच्च यदेतज्जानथसदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् ॥ १॥
आविस् संनिहितम् गुहाचरम् नाम महत् पदम् अत्र एतत् समर्पितम् । एजत् प्राणत् निमिषत् च यत् एतत् जानथ-सत्-असत् वरेण्यम् परम् विज्ञानात् यत् वरिष्ठम् प्रजानाम् ॥ १॥
āvis saṃnihitam guhācaram nāma mahat padam atra etat samarpitam . ejat prāṇat nimiṣat ca yat etat jānatha-sat-asat vareṇyam param vijñānāt yat variṣṭham prajānām .. 1..
(It is) effulgent, near at hand, and well known as moving in the heart, and (It is) the great goal. On It are fixed all these that move, breathe, and wink or do not wink. Know this One which comprises the gross and the subtle, which is beyond the ordinary knowledge of creatures, and which is the most desirable and the highest of all.
यदर्चिमद्यदणुभ्योऽणु चयस्मिँल्लोका निहिता लोकिनश्च । तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः तदेतत्सत्यं तदमृतं तद्वेद्धव्यं सोम्य विद्धि ॥ २॥
यत् अर्चिमत् यत् अणुभ्यः अणु च यस्मिन् लोकाः निहिताः लोकिनः च । तत् एतत् अक्षरम् ब्रह्म स प्राणः तत् उ वाच्-मनः तत् एतत् सत्यम् तत् अमृतम् तत् वेद्धव्यम् सोम्य विद्धि ॥ २॥
yat arcimat yat aṇubhyaḥ aṇu ca yasmin lokāḥ nihitāḥ lokinaḥ ca . tat etat akṣaram brahma sa prāṇaḥ tat u vāc-manaḥ tat etat satyam tat amṛtam tat veddhavyam somya viddhi .. 2..
That which is bright and is subtler than the subtle, and that on which are fixed all the worlds as well as the dwellers of the worlds, is this immutable Brahman; It is this vital force; It, again, is speech and mind. This Entity, that is such, is true. It is immortal. It is to be penetrated, O good-looking one, shoot (at It).
धनुर्गृहीत्वौपनिषदं महास्त्रंशरं ह्युपासानिशितं संधयीत । (संदधीत)आयम्य तद्भावगतेन चेतसालक्ष्यं तदेवाक्षरं सोम्य विद्धि ॥ ३॥
धनुः गृहीत्वा औपनिषदम् महा-अस्त्रम् शरम् हि उपासा-निशितम् संधयीत । (संदधीत आयम्य तद्-भाव-गतेन चेतसा अलक्ष्यम् तत् एव अक्षरम् सोम्य विद्धि ॥ ३॥
dhanuḥ gṛhītvā aupaniṣadam mahā-astram śaram hi upāsā-niśitam saṃdhayīta . (saṃdadhīta āyamya tad-bhāva-gatena cetasā alakṣyam tat eva akṣaram somya viddhi .. 3..
Taking hold of the bow, the great weapon familiar in the Upanishads, one should fix on it an arrow sharpened with meditation. Drawing the string, O good-looking one, hit that very target that is the Imperishable, with the mind absorbed in Its thought.
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ ४॥
प्रणवः धनुः शरः हि आत्मा ब्रह्म तत् लक्ष्यम् उच्यते । अप्रमत्तेन वेद्धव्यम् शर-वत् तद्-मयः भवेत् ॥ ४॥
praṇavaḥ dhanuḥ śaraḥ hi ātmā brahma tat lakṣyam ucyate . apramattena veddhavyam śara-vat tad-mayaḥ bhavet .. 4..
Om is the bow; the soul is the arrow; and Brahman is called its target. It is to be hit by an unerring man. One should become one with It just like an arrow.
यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतंमनः सह प्राणैश्च सर्वैः । तमेवैकं जानथ आत्मानमन्या वाचोविमुञ्चथामृतस्यैष सेतुः ॥ ५॥
यस्मिन् द्यौः पृथिवी च अन्तरिक्षम् ओतम् मनः सह प्राणैः च सर्वैः । तम् एव एकम् जानथ आत्मानम् अन्याः वाचः विमुञ्चथ अमृतस्य एष सेतुः ॥ ५॥
yasmin dyauḥ pṛthivī ca antarikṣam otam manaḥ saha prāṇaiḥ ca sarvaiḥ . tam eva ekam jānatha ātmānam anyāḥ vācaḥ vimuñcatha amṛtasya eṣa setuḥ .. 5..
Know that Self alone that is one without a second, on which are strung heaven, the earth and the inter-space, the mind and the vital forces together with all the other organs; and give up all other talks. This is the bridge leading to immortality.
अरा इव रथनाभौ संहता यत्र नाड्यः। स एषोऽन्तश्चरते बहुधा जायमानः । ओमित्येवं ध्यायथ आत्मानं स्वस्ति वःपाराय तमसः परस्तात् ॥ ६॥
अराः इव रथ-नाभौ संहताः यत्र नाड्यः। सः एषः अन्तर् चरते बहुधा जायमानः । ओम् इति एवम् ध्यायथ आत्मानम् स्वस्ति वः पाराय तमसः परस्तात् ॥ ६॥
arāḥ iva ratha-nābhau saṃhatāḥ yatra nāḍyaḥ. saḥ eṣaḥ antar carate bahudhā jāyamānaḥ . om iti evam dhyāyatha ātmānam svasti vaḥ pārāya tamasaḥ parastāt .. 6..
Within that (heart) in which are fixed the nerves like the spokes on the hub of a chariot wheel, moves this aforesaid Self by becoming multiformed. Meditate on the Self thus with the help of Om. May you be free from hindrances in going to the other shore beyond darkness.
यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि । दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥ मनोमयः प्राणशरीरनेताप्रतिष्ठितोऽन्ने हृदयं संनिधाय । तद्विज्ञानेन परिपश्यन्ति धीराआनन्दरूपममृतं यद्विभाति ॥ ७॥
यः सर्वज्ञः सर्व-विद् यस्य एष महिमा भुवि । दिव्ये ब्रह्म-पुरे हि एष व्योम्नि आत्मा प्रतिष्ठितः ॥ मनः-मयः प्राण-शरीर-नेता अ प्रतिष्ठितः अन्ने हृदयम् संनिधाय । तद्-विज्ञानेन परिपश्यन्ति धीराः आनन्द-रूपम् अमृतम् यत् विभाति ॥ ७॥
yaḥ sarvajñaḥ sarva-vid yasya eṣa mahimā bhuvi . divye brahma-pure hi eṣa vyomni ātmā pratiṣṭhitaḥ .. manaḥ-mayaḥ prāṇa-śarīra-netā a pratiṣṭhitaḥ anne hṛdayam saṃnidhāya . tad-vijñānena paripaśyanti dhīrāḥ ānanda-rūpam amṛtam yat vibhāti .. 7..
That Self which is omniscient in general and all-knowing in detail and which has such glory in this world - that Self, which is of this kind - is seated in the space within the luminous city of Brahman. It is conditioned by the mind, It is the carrier of the vital forces and the body, It is seated in food by placing the intellect (in the cavity of the heart). Through their knowledge, the discriminating people realize that Self as existing in Its fullness everywhere - the Self that shines surpassingly as blissfulness and immortality.
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ॥ ८॥
भिद्यते हृदय-ग्रन्थिः छिद्यन्ते सर्व-संशयाः । क्षीयन्ते च अस्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ८॥
bhidyate hṛdaya-granthiḥ chidyante sarva-saṃśayāḥ . kṣīyante ca asya karmāṇi tasmin dṛṣṭe parāvare .. 8..
When that Self, which is both the high and the low, is realized, the knot of the heart gets united, all doubts become solved, and all one's actions become dissipated.
हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ॥ ९॥
हिरण्मये परे कोशे विरजम् ब्रह्म निष्कलम् । तत् शुभ्रम् ज्योतिषाम् ज्योतिः तत् यत् आत्म-विदः विदुः ॥ ९॥
hiraṇmaye pare kośe virajam brahma niṣkalam . tat śubhram jyotiṣām jyotiḥ tat yat ātma-vidaḥ viduḥ .. 9..
In the supreme, bright sheath is Brahman, free from taints and without parts. It is pure, and is the Light of lights. It is that which the knowers of the Self realize.
न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभाति ॥ १०॥
न तत्र सूर्यः भाति न चन्द्र-तारकम् न इमाः विद्युतः भान्ति कुतस् अयम् अग्निः । तम् एव अनुभाति सर्वम् तस्य भासा सर्वम् इदम् विभाति ॥ १०॥
na tatra sūryaḥ bhāti na candra-tārakam na imāḥ vidyutaḥ bhānti kutas ayam agniḥ . tam eva anubhāti sarvam tasya bhāsā sarvam idam vibhāti .. 10..
There the sun does not shine, nor the moon or the stars; nor do these flashes of lightning shine there. How can this fire do so? Everything shines according as He does so; by His light all this shines diversely.
ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वमिदं वरिष्ठम् ॥ ११॥
ब्रह्म एव इदम् अमृतम् पुरस्तात् ब्रह्म पश्चात् ब्रह्म दक्षिणतस् च उत्तरेण । अधस् च ऊर्ध्वम् च प्रसृतम् ब्रह्म एव इदम् विश्वम् इदम् वरिष्ठम् ॥ ११॥
brahma eva idam amṛtam purastāt brahma paścāt brahma dakṣiṇatas ca uttareṇa . adhas ca ūrdhvam ca prasṛtam brahma eva idam viśvam idam variṣṭham .. 11..
All this that is in front is but Brahman, the immortal. Brahman is at the back, as also on the right and the left. It is extended above and below, too. This world is nothing but Brahman, the highest.
॥ इति मुण्डकोपनिषदि द्वितीयमुण्डके द्वितीयः खण्डः ॥
॥ इति मुण्डकोपनिषदि द्वितीय-मुण्डके द्वितीयः खण्डः ॥
.. iti muṇḍakopaniṣadi dvitīya-muṇḍake dvitīyaḥ khaṇḍaḥ ..
Thus ends the Second Canto of the second Chapter of the Holy Mundaka Upanishads.
॥ तृतीय मुण्डके प्रथमः खण्डः ॥
॥ तृतीय-मुण्डके प्रथमः खण्डः ॥
.. tṛtīya-muṇḍake prathamaḥ khaṇḍaḥ ..
Thus begins the third canto of the holy mundaka upanishads.
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते । तयोरन्यःपिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति ॥ १॥
द्वा सुपर्णा सयुजा सखाया समानम् वृक्षम् परिषस्वजाते । तयोः अन्यः पिप्पलम् स्वाद्वत्ति अन् अश्नन् अन्यः अभिचाकशीति ॥ १॥
dvā suparṇā sayujā sakhāyā samānam vṛkṣam pariṣasvajāte . tayoḥ anyaḥ pippalam svādvatti an aśnan anyaḥ abhicākaśīti .. 1..
Two birds that are ever associated and have similar names, cling to the same tree. Of these, one eats the fruit of divergent tastes, and the other looks on without eating.
समाने वृक्षे पुरुषो निमग्नो- ऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीश- मस्य महिमानमिति वीतशोकः ॥ २॥
समाने वृक्षे पुरुषः निमग्नः अनीशया शोचति मुह्यमानः । जुष्टम् यदा पश्यति अन्यम् ईशम् अस्य महिमानम् इति वीत-शोकः ॥ २॥
samāne vṛkṣe puruṣaḥ nimagnaḥ anīśayā śocati muhyamānaḥ . juṣṭam yadā paśyati anyam īśam asya mahimānam iti vīta-śokaḥ .. 2..
On the same tree, the individual soul remains drowned (i.e. stuck), as it were; and so it moans, being worried by its impotence. When it sees thus the other, the adored Lord, and His glory, then it becomes liberated from sorrow.
यदा पश्यः पश्यते रुक्मवर्णंकर्तारमीशं पुरुषं ब्रह्मयोनिम् । तदा विद्वान् पुण्यपापे विधूयनिरञ्जनः परमं साम्यमुपैति ॥ ३॥
यदा पश्यः पश्यते रुक्म-वर्णंकर्तारम् ईशम् पुरुषम् ब्रह्म-योनिम् । तदा विद्वान् पुण्य-पापे विधूय निरञ्जनः परमम् साम्यम् उपैति ॥ ३॥
yadā paśyaḥ paśyate rukma-varṇaṃkartāram īśam puruṣam brahma-yonim . tadā vidvān puṇya-pāpe vidhūya nirañjanaḥ paramam sāmyam upaiti .. 3..
When the seer sees the Purusha - the golden-hued, creator, lord, and the source of the inferior Brahman - then the illumined one completely shakes off both merit and demerit, becomes taintless, and attains absolute equality.
प्राणो ह्येष यः सर्वभूतैर्विभातिविजानन् विद्वान् भवते नातिवादी । आत्मक्रीड आत्मरतिः क्रियावा-नेष ब्रह्मविदां वरिष्ठः ॥ ४॥
प्राणः हि एष यः सर्व-भूतैः विभाति विजानन् विद्वान् भवते न अतिवादी । आत्म-क्रीडः आत्म-रतिः क्रियावा न एष ब्रह्म-विदाम् वरिष्ठः ॥ ४॥
prāṇaḥ hi eṣa yaḥ sarva-bhūtaiḥ vibhāti vijānan vidvān bhavate na ativādī . ātma-krīḍaḥ ātma-ratiḥ kriyāvā na eṣa brahma-vidām variṣṭhaḥ .. 4..
This one is verily the Vital Force which shines divergently through all beings. Knowing this, the illumined man has no (further) occasion to go beyond anything in his talk. He disports in the Self, delights in the Self, and is engrossed in (spiritual) effort. This one is the chief among the knowers of Brahman.
सत्येन लभ्यस्तपसा ह्येष आत्मा सम्यग्ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिर्मयो हि शुभ्रो यं पश्यन्ति यतयः क्षीणदोषाः ॥ ५॥
सत्येन लभ्यः तपसा हि एषः आत्मा सम्यक् ज्ञानेन ब्रह्मचर्येण नित्यम् । अन्तःशरीरे ज्योतिः-मयः हि शुभ्रः यम् पश्यन्ति यतयः क्षीण-दोषाः ॥ ५॥
satyena labhyaḥ tapasā hi eṣaḥ ātmā samyak jñānena brahmacaryeṇa nityam . antaḥśarīre jyotiḥ-mayaḥ hi śubhraḥ yam paśyanti yatayaḥ kṣīṇa-doṣāḥ .. 5..
The bright and pure Self within the body, that the monks with (habitual effort and) attenuated blemishes see, is attainable verily through truth, concentration, complete knowledge, and continence, practiced constantly.
सत्यमेव जयते नानृतंसत्येन पन्था विततो देवयानः । येनाक्रमन्त्यृषयो ह्याप्तकामा यत्र तत्सत्यस्य परमं निधानम् ॥ ६॥
सत्यम् एव जयते न अनृतम् सत्येन पन्थाः विततः देव-यानः । येन आक्रमन्ति ऋषयः हि आप्त-कामाः यत्र तत् सत्यस्य परमम् निधानम् ॥ ६॥
satyam eva jayate na anṛtam satyena panthāḥ vitataḥ deva-yānaḥ . yena ākramanti ṛṣayaḥ hi āpta-kāmāḥ yatra tat satyasya paramam nidhānam .. 6..
Truth alone wins, and not untruth. By truth is laid the path called Devayana, by which the desireless seers ascend to where exists the supreme treasure attainable through truth.
बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत्सूक्ष्मतरं विभाति । दूरात्सुदूरे तदिहान्तिके चपश्यत्स्विहैव निहितं गुहायाम् ॥ ७॥
बृहत् च तत् दिव्यम् अचिन्त्य-रूपम् सूक्ष्मात् च तत् सूक्ष्मतरम् विभाति । दूरात् सु दूरे तत् इह अन्तिके च पश्यत्सु इह एव निहितम् गुहायाम् ॥ ७॥
bṛhat ca tat divyam acintya-rūpam sūkṣmāt ca tat sūkṣmataram vibhāti . dūrāt su dūre tat iha antike ca paśyatsu iha eva nihitam guhāyām .. 7..
It is great and self-effulgent; and Its form is unthinkable. It is subtler than the subtle. It shines diversely. It is farther away than the far-off, and It is near at hand in this body. Among sentient beings It is (perceived as) seated in this very body, in the cavity of the heart.
न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्व स्ततस्तु तं पश्यते निष्कलं ध्यायमानः ॥ ८॥
न चक्षुषा गृह्यते न अपि वाचा न अन्यैः देवैः तपसा कर्मणा वा । ज्ञान-प्रसादेन विशुद्ध-सत्त्वः ततस् तु तम् पश्यते निष्कलम् ध्यायमानः ॥ ८॥
na cakṣuṣā gṛhyate na api vācā na anyaiḥ devaiḥ tapasā karmaṇā vā . jñāna-prasādena viśuddha-sattvaḥ tatas tu tam paśyate niṣkalam dhyāyamānaḥ .. 8..
It is not comprehended through the eye, or through speech, or through the other senses; nor is It attained through austerity or karma. Since one becomes purified in mind through the favourableness of the intellect, therefore can one see that indivisible Self through meditation.
एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्वमोतं प्रजानां यस्मिन्विशुद्धे विभवत्येष आत्मा ॥ ९॥
एषः अणुः आत्मा चेतसा वेदितव्यः यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैः चित्तम् सर्वम् आ उतम् प्रजानाम् यस्मिन् विशुद्धे विभवति एषः आत्मा ॥ ९॥
eṣaḥ aṇuḥ ātmā cetasā veditavyaḥ yasmin prāṇaḥ pañcadhā saṃviveśa . prāṇaiḥ cittam sarvam ā utam prajānām yasmin viśuddhe vibhavati eṣaḥ ātmā .. 9..
Within (the heart in) the body, where the vital force has entered in five forms, is this subtle Self to be realized through that intelligence by which is pervaded the entire mind as well as the motor and sensory organs of all creatures. And It is to be known in the mind, which having become purified, this Self reveals Itself distinctly.
यं यं लोकं मनसा संविभाति विशुद्धसत्त्वः कामयते यांश्च कामान् । तं तं लोकं जयते तांश्च कामां स्तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः ॥ १०॥
यम् यम् लोकम् मनसा संविभाति विशुद्ध-सत्त्वः कामयते यान् च कामान् । तम् तम् लोकम् जयते तान् च कामान् स् तस्मात् आत्म-ज्ञम् हि अर्चयेत् भूति-कामः ॥ १०॥
yam yam lokam manasā saṃvibhāti viśuddha-sattvaḥ kāmayate yān ca kāmān . tam tam lokam jayate tān ca kāmān s tasmāt ātma-jñam hi arcayet bhūti-kāmaḥ .. 10..
The man of pure mind wins those worlds which he mentally wishes for and those enjoyable things which he covets. Therefore one, desirous of prosperity, should adore the knower of the Self.
॥ इति मुण्डकोपनिषदि तृतीयमुण्डके प्रथमः खण्डः ॥
॥ इति मुण्डकोपनिषदि तृतीय-मुण्डके प्रथमः खण्डः ॥
.. iti muṇḍakopaniṣadi tṛtīya-muṇḍake prathamaḥ khaṇḍaḥ ..
Thus ends the first canto of the third chapter of the holy mundaka upanishad.
॥तृतीयमुण्डके द्वितीयः खण्डः ॥
॥तृतीय-मुण्डके द्वितीयः खण्डः ॥
..tṛtīya-muṇḍake dvitīyaḥ khaṇḍaḥ ..
Thus begins the Second Canto of third Chapter of the holy Mundaka Upanishad
स वेदैतत्परमं ब्रह्म धामयत्र विश्वं निहितं भाति शुभ्रम् । उपासते पुरुषं ये ह्यकामास्तेशुक्रमेतदतिवर्तन्ति धीराः ॥१॥
स वेद एतत् परमम् ब्रह्म धाम यत्र विश्वम् निहितम् भाति शुभ्रम् । उपासते पुरुषम् ये हि अकामाः ते शुक्रम् एतत् अतिवर्तन्ति धीराः ॥१॥
sa veda etat paramam brahma dhāma yatra viśvam nihitam bhāti śubhram . upāsate puruṣam ye hi akāmāḥ te śukram etat ativartanti dhīrāḥ ..1..
He knows this supreme abode, this Brahman, in which is placed the Universe and which shines holy. Those wise ones indeed, who having become desireless worship this (enlightened) person, transcend this human seed.
कामान् यः कामयते मन्यमानः स कामभिर्जायते तत्र तत्र । पर्याप्तकामस्य कृतात्मनस्तु इहैव सर्वे प्रविलीयन्ति कामाः ॥ २॥
कामान् यः कामयते मन्यमानः स कामभिः जायते तत्र तत्र । पर्याप्त-कामस्य कृतात्मनः तु इह एव सर्वे प्रविलीयन्ति कामाः ॥ २॥
kāmān yaḥ kāmayate manyamānaḥ sa kāmabhiḥ jāyate tatra tatra . paryāpta-kāmasya kṛtātmanaḥ tu iha eva sarve pravilīyanti kāmāḥ .. 2..
He who covets the desirable things, while brooding (on the virtues), is born amidst those very surroundings along with the desires. But for one who has got his wishes fulfilled and who is Self-poised, all the longings vanish even here.
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्य- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥ ३॥
न अयम् आत्मा प्रवचनेन लभ्यः न मेधया न बहुना श्रुतेन । यम् एव एष वृणुते तेन लभ्यः तस्य एषः आत्मा विवृणुते तनूम् स्वाम् ॥ ३॥
na ayam ātmā pravacanena labhyaḥ na medhayā na bahunā śrutena . yam eva eṣa vṛṇute tena labhyaḥ tasya eṣaḥ ātmā vivṛṇute tanūm svām .. 3..
This Self is not attained through study, or through the intellect, or through much hearing. The very Self which this one (i.e. the aspirant) seeks is attainable through that fact of seeking; this Self of his reveals Its own nature.
नायमात्मा बलहीनेन लभ्योन च प्रमादात्तपसो वाप्यलिङ्गात् । एतैरुपायैर्यतते यस्तु विद्वां-स्तस्यैष आत्मा विशते ब्रह्मधाम ॥ ४॥
न अयम् आत्मा बल-हीनेन लभ्यः न च प्रमादात् तपसः वा अपि अलिङ्गात् । एतैः उपायैः यतते यः तु विद्वान् तस्य एषः आत्मा विशते ब्रह्म-धाम ॥ ४॥
na ayam ātmā bala-hīnena labhyaḥ na ca pramādāt tapasaḥ vā api aliṅgāt . etaiḥ upāyaiḥ yatate yaḥ tu vidvān tasya eṣaḥ ātmā viśate brahma-dhāma .. 4..
This Self is not attained by one devoid of strength, nor through delusion, nor through knowledge unassociated with monasticism. But the Self of that knower, who strives through these means, enters into the abode that is Brahman.
संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः । ते सर्वगं सर्वतः प्राप्य धीरायुक्तात्मानः सर्वमेवाविशन्ति ॥ ५॥
संप्राप्य एनम् ऋषयः ज्ञान-तृप्ताः कृतात्मानः वीत-रागाः प्रशान्ताः । ते सर्वगम् सर्वतस् प्राप्य धीर-अ युक्त-आत्मानः सर्वम् एव आविशन्ति ॥ ५॥
saṃprāpya enam ṛṣayaḥ jñāna-tṛptāḥ kṛtātmānaḥ vīta-rāgāḥ praśāntāḥ . te sarvagam sarvatas prāpya dhīra-a yukta-ātmānaḥ sarvam eva āviśanti .. 5..
Having attained this, the seers become contented with their knowledge, established in the Self, freed from attachment, and composed. Having realized the all-pervasive One everywhere, these discriminating people, ever merged in contemplation, enter into the All.
वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ॥ ६॥
वेदान्त-विज्ञान-सु निश्चित-अर्थाः संन्यास-योग-आदि-यतयः शुद्ध-सत्त्वाः । ते ब्रह्म-लोकेषु पर-अन्तकाले पर-अमृताः परिमुच्यन्ति सर्वे ॥ ६॥
vedānta-vijñāna-su niścita-arthāḥ saṃnyāsa-yoga-ādi-yatayaḥ śuddha-sattvāḥ . te brahma-lokeṣu para-antakāle para-amṛtāḥ parimucyanti sarve .. 6..
Those to whom the entity presented by the Vedantic knowledge has become fully ascertained, who are assiduous and have become pure in mind through the Yoga of monasticism - all of them, at the supreme moment of final departure, become identified with the supreme Immortality in the worlds that are Brahman, and they become freed on every side.
गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति ॥ ७॥
गताः कलाः पञ्चदश प्रतिष्ठाः देवाः च सर्वे प्रतिदेवतासु । कर्माणि विज्ञान-मयः च आत्मा परे अव्यये सर्वे एकीभवन्ति ॥ ७॥
gatāḥ kalāḥ pañcadaśa pratiṣṭhāḥ devāḥ ca sarve pratidevatāsu . karmāṇi vijñāna-mayaḥ ca ātmā pare avyaye sarve ekībhavanti .. 7..
To their sources repair the fifteen constituents (of the body) and to their respective gods go all the gods (of the senses). The karmas and the soul appearing like the intellect, all become unified with the supreme Un-decaying.
यथा नद्यः स्यन्दमानाः समुद्रे- ऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥ ८॥
यथा नद्यः स्यन्दमानाः समुद्रे अस्तम् गच्छन्ति नाम-रूपे विहाय । तथा विद्वान् नाम-रूपात् विमुक्तः परात्परम् पुरुषम् उपैति दिव्यम् ॥ ८॥
yathā nadyaḥ syandamānāḥ samudre astam gacchanti nāma-rūpe vihāya . tathā vidvān nāma-rūpāt vimuktaḥ parātparam puruṣam upaiti divyam .. 8..
As rivers, flowing down, become indistinguishable on reaching the sea by giving up their names and forms, so also the illumined soul, having become freed from name and form, reaches the self-effulgent Purusha that is higher than the higher (Maya).
स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति नास्याब्रह्मवित्कुले भवति । तरति शोकं तरति पाप्मानं गुहाग्रन्थिभ्यो विमुक्तोऽमृतो भवति ॥ ९॥
स यः ह वै तत् परमम् ब्रह्म वेद ब्रह्मा एव भवति न अस्य अ ब्रह्म-विद् कुले भवति । तरति शोकम् तरति पाप्मानम् गुहा-ग्रन्थिभ्यः विमुक्तः अमृतः भवति ॥ ९॥
sa yaḥ ha vai tat paramam brahma veda brahmā eva bhavati na asya a brahma-vid kule bhavati . tarati śokam tarati pāpmānam guhā-granthibhyaḥ vimuktaḥ amṛtaḥ bhavati .. 9..
Anyone who knows that supreme Brahman becomes Brahman indeed. In his line is not born anyone who does not know Brahman. He overcomes grief, and rises above aberrations; and becoming freed from the knots of the heart, he attains immortality.
तदेतदृचाऽभ्युक्तम् । क्रियावन्तः श्रोत्रिया ब्रह्मनिष्ठाः स्वयं जुह्वत एकर्षिं श्रद्धयन्तः । तेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् ॥ १०॥
तत् एतत् ऋचा अभ्युक्तम् । क्रियावन्तः श्रोत्रियाः ब्रह्म-निष्ठाः स्वयम् जुह्वते एक-ऋषिम् श्रद्धयन्तः । तेषाम् एव एताम् ब्रह्म-विद्याम् वदेत शिरोव्रतम् विधिवत् यैः तु चीर्णम् ॥ १०॥
tat etat ṛcā abhyuktam . kriyāvantaḥ śrotriyāḥ brahma-niṣṭhāḥ svayam juhvate eka-ṛṣim śraddhayantaḥ . teṣām eva etām brahma-vidyām vadeta śirovratam vidhivat yaiḥ tu cīrṇam .. 10..
This (rule) has been revealed by the mantra (which runs thus): 'To them alone should one expound this knowledge of b who are engaged in the practice of disciplines, versed in the Vedas, and indeed devoted to Brahman, who personally sacrifice to the fire called Ekarsi with faith, and by whom has been duly accomplished the vow of holding fire on the head.'
तदेतत्सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ११॥
तत् एतत् सत्यम् ऋषिः अङ्गिराः पुरा उवाच न एतत् अ चीर्ण-व्रतः अधीते । नमः परम-ऋषिभ्यः नमः परम-ऋषिभ्यः ॥ ११॥
tat etat satyam ṛṣiḥ aṅgirāḥ purā uvāca na etat a cīrṇa-vrataḥ adhīte . namaḥ parama-ṛṣibhyaḥ namaḥ parama-ṛṣibhyaḥ .. 11..
The seer Angiras spoke of this Truth in the days of yore. One that has not fulfilled the vow does not read this. Salutation to the great seers. Salutation to the great seers.
॥ इति मुण्डकोपनिषदि तृतीयमुण्डके द्वितीयः खण्डः ॥
॥ इति मुण्डकोपनिषदि तृतीय-मुण्डके द्वितीयः खण्डः ॥
.. iti muṇḍakopaniṣadi tṛtīya-muṇḍake dvitīyaḥ khaṇḍaḥ ..
Thus ends the second canto of the third chapter of the holy mundaka upanishads.
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
ओम् भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येम अक्षभिः यजत्राः । स्थिरैः अङ्गैः तुष्टुवाम् सः तनूभिः वि अशेम देव-हितम् यत् आयुः ॥
om bhadram karṇebhiḥ śṛṇuyāma devāḥ bhadram paśyema akṣabhiḥ yajatrāḥ . sthiraiḥ aṅgaiḥ tuṣṭuvām saḥ tanūbhiḥ vi aśema deva-hitam yat āyuḥ ..
Om! O gods, may we hear auspicious words with the ears; While engaged in sacrifices, May we see auspicious things with the eyes; While praising the gods with steady limbs, May we enjoy a life that is beneficial to the gods.
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
स्वस्ति नः इन्द्रः वृद्ध-श्रवाः स्वस्ति नः पूषा विश्व-वेदाः । स्वस्ति नः तार्क्ष्यः अरिष्ट-नेमिः स्वस्ति नः बृहस्पतिः दधातु ॥
svasti naḥ indraḥ vṛddha-śravāḥ svasti naḥ pūṣā viśva-vedāḥ . svasti naḥ tārkṣyaḥ ariṣṭa-nemiḥ svasti naḥ bṛhaspatiḥ dadhātu ..
May Indra of ancient fame be auspicious to us; May the supremely rich (or all-knowing) Pusa (god of the earth) Be propitious to us; May Garuda, the destroyer of evil, Be well disposed towards us; May Brihaspati ensure our welfare.
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ ओम् शान्तिः शान्तिः शान्तिः ॥
.. om śāntiḥ śāntiḥ śāntiḥ ..
Om! Peace! Peace! Peace!
॥ इत्यथर्ववेदीय मुण्डकोपनिषत्समाप्ता ॥
॥ इति अथर्ववेदीय-मुण्डक-उपनिषद् समाप्ता ॥
.. iti atharvavedīya-muṇḍaka-upaniṣad samāptā ..
Here ends the Mundakopanishad, included in the Atharva-Veda.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In