| |
|

This overlay will guide you through the buttons:

योगीश्वरं याज्ञवल्क्यं संपूज्य मुनयो ऽब्रुवन् । वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः । । १.१
योगि-ईश्वरम् याज्ञवल्क्यम् संपूज्य मुनयः अब्रुवन् । वर्ण-आश्रम-इतराणाम् नः ब्रूहि धर्मान् अशेषतस् । । १।१
yogi-īśvaram yājñavalkyam saṃpūjya munayaḥ abruvan . varṇa-āśrama-itarāṇām naḥ brūhi dharmān aśeṣatas . . 1.1
मिथिलास्थः स योगीन्द्रः क्षणं ध्यात्वाब्रवीन् मुनीन् । यस्मिन् देशे मृगः कृष्णस् तस्मिन् धर्मान् निबोधत । । १.२
मिथिला-स्थः स योगि-इन्द्रः क्षणम् ध्यात्वा अब्रवीत् मुनीन् । यस्मिन् देशे मृगः कृष्णः तस्मिन् धर्मान् निबोधत । । १।२
mithilā-sthaḥ sa yogi-indraḥ kṣaṇam dhyātvā abravīt munīn . yasmin deśe mṛgaḥ kṛṣṇaḥ tasmin dharmān nibodhata . . 1.2
पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः । वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश । । १.३
पुराण-न्याय-मीमांसा-धर्म-शास्त्र-अङ्ग-मिश्रिताः । वेदाः स्थानानि विद्यानाम् धर्मस्य च चतुर्दश । । १।३
purāṇa-nyāya-mīmāṃsā-dharma-śāstra-aṅga-miśritāḥ . vedāḥ sthānāni vidyānām dharmasya ca caturdaśa . . 1.3
मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनो ऽङ्गिराः । यमापस्तम्बसंवर्ताः कात्यायनबृहस्पती । । १.४
मनु-अत्रि-विष्णु-हारीत-याज्ञवल्क्य-उशनः अङ्गिराः । यम-आपस्तम्ब-संवर्ताः कात्यायन-बृहस्पती । । १।४
manu-atri-viṣṇu-hārīta-yājñavalkya-uśanaḥ aṅgirāḥ . yama-āpastamba-saṃvartāḥ kātyāyana-bṛhaspatī . . 1.4
पराशरव्यासशङ्खलिखिता दक्षगौतमौ । शातातपो वसिष्ठश् च धर्मशास्त्रप्रयोजकाः । । १.५
पराशर-व्यास-शङ्ख-लिखिताः दक्ष-गौतमौ । शातातपः वसिष्ठः च धर्मशास्त्र-प्रयोजकाः । । १।५
parāśara-vyāsa-śaṅkha-likhitāḥ dakṣa-gautamau . śātātapaḥ vasiṣṭhaḥ ca dharmaśāstra-prayojakāḥ . . 1.5
देशे काल उपायेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत् तत् सकलं धर्मलक्षणम् । । १.६
देशे काले उपायेन द्रव्यम् श्रद्धा-समन्वितम् । पात्रे प्रदीयते यत् तत् सकलम् धर्म-लक्षणम् । । १।६
deśe kāle upāyena dravyam śraddhā-samanvitam . pātre pradīyate yat tat sakalam dharma-lakṣaṇam . . 1.6
श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियम् आत्मनः । सम्यक्संकल्पजः कामो धर्ममूलम् इदं स्मृतम् । । १.७
श्रुतिः स्मृतिः सत्-आचारः स्वस्य च प्रियम् आत्मनः । सम्यक् संकल्प-जः कामः धर्म-मूलम् इदम् स्मृतम् । । १।७
śrutiḥ smṛtiḥ sat-ācāraḥ svasya ca priyam ātmanaḥ . samyak saṃkalpa-jaḥ kāmaḥ dharma-mūlam idam smṛtam . . 1.7
इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । अयं तु परमो धर्मो यद् योगेनात्मदर्शनम् । । १.८
इज्या-आचार-दम-अहिंसा-दान-स्वाध्याय-कर्मणाम् । अयम् तु परमः धर्मः यत् योगेन आत्म-दर्शनम् । । १।८
ijyā-ācāra-dama-ahiṃsā-dāna-svādhyāya-karmaṇām . ayam tu paramaḥ dharmaḥ yat yogena ātma-darśanam . . 1.8
चत्वारो वेदधर्मज्ञाः पर्षत् त्रैविद्यम् एव वा । सा ब्रूते यं स धर्मः स्याद् एको वाध्यात्मवित्तमः । । १.९
चत्वारः वेद-धर्म-ज्ञाः पर्षद् त्रैविद्यम् एव वा । सा ब्रूते यम् स धर्मः स्यात् एकः वा अध्यात्म-वित्तमः । । १।९
catvāraḥ veda-dharma-jñāḥ parṣad traividyam eva vā . sā brūte yam sa dharmaḥ syāt ekaḥ vā adhyātma-vittamaḥ . . 1.9
ब्रह्मक्षत्रियविट्शूद्रा वर्णास् त्व् आद्यास् त्रयो द्विजाः । निषेकाद्याः श्मशानान्तास् तेषां वै मन्त्रतः क्रियाः । । १.१०
ब्रह्म-क्षत्रिय-विश्-शूद्राः वर्णाः तु आद्याः त्रयः द्विजाः । निषेक-आद्याः श्मशान-अन्ताः तेषाम् वै मन्त्रतः क्रियाः । । १।१०
brahma-kṣatriya-viś-śūdrāḥ varṇāḥ tu ādyāḥ trayaḥ dvijāḥ . niṣeka-ādyāḥ śmaśāna-antāḥ teṣām vai mantrataḥ kriyāḥ . . 1.10
गर्भाधानं ऋतौ पुंसः सवनं स्पन्दनात्पुरा । षष्ठेऽष्टमे वा सीमन्तो मास्येते जातकर्म च ॥ १.११ ॥
गर्भाधानम् ऋतौ पुंसः सवनम् स्पन्दनात् पुरा । षष्ठे अष्टमे वा सीमन्तः मासि एते जातकर्म च ॥ १।११ ॥
garbhādhānam ṛtau puṃsaḥ savanam spandanāt purā . ṣaṣṭhe aṣṭame vā sīmantaḥ māsi ete jātakarma ca .. 1.11 ..
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥ १.१२ ॥
अहनि एकादशे नाम चतुर्थे मासि निष्क्रमः । षष्ठे अन्नप्राशनम् मासि चूडा कार्या यथाकुलम् ॥ १।१२ ॥
ahani ekādaśe nāma caturthe māsi niṣkramaḥ . ṣaṣṭhe annaprāśanam māsi cūḍā kāryā yathākulam .. 1.12 ..
एवं एनः शमं याति बीजगर्भसमुद्भवम् । तूष्णीं एताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥ १.१३ ॥
एवम् एनः शमम् याति बीज-गर्भ-समुद्भवम् । तूष्णीम् एताः क्रियाः स्त्रीणाम् विवाहः तु स मन्त्रकः ॥ १।१३ ॥
evam enaḥ śamam yāti bīja-garbha-samudbhavam . tūṣṇīm etāḥ kriyāḥ strīṇām vivāhaḥ tu sa mantrakaḥ .. 1.13 ..
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् । राज्ञां एकादशे सैके विशां एके यथाकुलम् ॥ १.१४ ॥
गर्भ-अष्टमे अष्टमे वा अब्दे ब्राह्मणस्य उपनायनम् । राज्ञाम् एकादशे स एके विशाम् एके यथाकुलम् ॥ १।१४ ॥
garbha-aṣṭame aṣṭame vā abde brāhmaṇasya upanāyanam . rājñām ekādaśe sa eke viśām eke yathākulam .. 1.14 ..
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् । वेदं अध्यापयेदेनं शौचाचारांश्च शिक्षयेत् ॥ १.१५ ॥
उपनीय गुरुः शिष्यम् महा-व्याहृति-पूर्वकम् । वेदम् अध्यापयेत् एनम् शौच-आचारान् च शिक्षयेत् ॥ १।१५ ॥
upanīya guruḥ śiṣyam mahā-vyāhṛti-pūrvakam . vedam adhyāpayet enam śauca-ācārān ca śikṣayet .. 1.15 ..
दिवासंध्यासु कर्णस्थ ब्रह्मसूत्रोदङ्मुखः । कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥ १.१६ ॥
दिवा संध्यासु ब्रह्मसूत्र-उदक्-मुखः । कुर्यात् मूत्र-पुरीषे च रात्रौ चेद् दक्षिणा-मुखः ॥ १।१६ ॥
divā saṃdhyāsu brahmasūtra-udak-mukhaḥ . kuryāt mūtra-purīṣe ca rātrau ced dakṣiṇā-mukhaḥ .. 1.16 ..
गृहीतशिश्नश्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः । गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥ १.१७ ॥
गृहीत-शिश्नः च उत्थाय मृद्भिः अभ्युद्धृतैः जलैः । गन्ध-लेप-क्षय-करम् शौचम् कुर्यात् अतन्द्रितः ॥ १।१७ ॥
gṛhīta-śiśnaḥ ca utthāya mṛdbhiḥ abhyuddhṛtaiḥ jalaiḥ . gandha-lepa-kṣaya-karam śaucam kuryāt atandritaḥ .. 1.17 ..
अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः । प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यं उपस्पृशेत् ॥ १.१८ ॥
अन्तर्जानु शुचौ देशे उपविष्टः उदक्-मुखः । प्राक् वा ब्राह्मेण तीर्थेन द्विजः नित्यम् उपस्पृशेत् ॥ १।१८ ॥
antarjānu śucau deśe upaviṣṭaḥ udak-mukhaḥ . prāk vā brāhmeṇa tīrthena dvijaḥ nityam upaspṛśet .. 1.18 ..
कनिष्ठादेशिन्यङ्गुष्ठ मूलान्यग्रं करस्य च । प्रजापतिपितृब्रह्म देवतीर्थान्यनुक्रमात् ॥ १.१९ ॥
कनिष्ठा-देशिनी-अङ्गुष्ठ मूलानि अग्रम् करस्य च । प्रजापति-पितृ-ब्रह्म देव-तीर्थानि अनुक्रमात् ॥ १।१९ ॥
kaniṣṭhā-deśinī-aṅguṣṭha mūlāni agram karasya ca . prajāpati-pitṛ-brahma deva-tīrthāni anukramāt .. 1.19 ..
त्रिः प्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् । अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ॥ १.२० ॥
त्रिस् प्राश्य अपः द्विस् उन्मृज्य खानि अद्भिः समुपस्पृशेत् । अद्भिः तु प्रकृति-स्थाभिः हीनाभिः फेन-बुद्बुदैः ॥ १।२० ॥
tris prāśya apaḥ dvis unmṛjya khāni adbhiḥ samupaspṛśet . adbhiḥ tu prakṛti-sthābhiḥ hīnābhiḥ phena-budbudaiḥ .. 1.20 ..
हृत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः । शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥ १.२१ ॥
हृद्-कण्ठ-तालु-गाभिः तु यथासंख्यम् द्विजातयः । शुध्येरन् स्त्री च शूद्रः च सकृत् स्पृष्टाभिः अन्ततस् ॥ १।२१ ॥
hṛd-kaṇṭha-tālu-gābhiḥ tu yathāsaṃkhyam dvijātayaḥ . śudhyeran strī ca śūdraḥ ca sakṛt spṛṣṭābhiḥ antatas .. 1.21 ..
स्नानं अब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः । सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥ १.२२ ॥
स्नानम् अप्-दैवतैः मन्त्रैः मार्जनम् प्राणसंयमः । सूर्यस्य च अपि उपस्थानम् गायत्र्याः प्रत्यहम् जपः ॥ १।२२ ॥
snānam ap-daivataiḥ mantraiḥ mārjanam prāṇasaṃyamaḥ . sūryasya ca api upasthānam gāyatryāḥ pratyaham japaḥ .. 1.22 ..
गायत्रीं शिरसा सार्धं जपेद्व्याहृतिपूर्विकाम् । प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥ १.२३ ॥
गायत्रीम् शिरसा सार्धम् जपेत् व्याहृति-पूर्विकाम् । प्रति प्रणव-संयुक्ताम् त्रिस् अयम् प्राणसंयमः ॥ १।२३ ॥
gāyatrīm śirasā sārdham japet vyāhṛti-pūrvikām . prati praṇava-saṃyuktām tris ayam prāṇasaṃyamaḥ .. 1.23 ..
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु । जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥ १.२४ ॥
प्राणान् आयम्य संप्रोक्ष्य तृचेन अप्-दैवतेन तु । जपन् आसीत सावित्रीम् ॥ १।२४ ॥
prāṇān āyamya saṃprokṣya tṛcena ap-daivatena tu . japan āsīta sāvitrīm .. 1.24 ..
संध्यां प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् । अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥ १.२५ ॥
संध्याम् प्राक् प्रातर् एवम् हि तिष्ठेत् आ सूर्य-दर्शनात् । अग्नि-कार्यम् ततस् कुर्यात् संध्ययोः उभयोः अपि ॥ १।२५ ॥
saṃdhyām prāk prātar evam hi tiṣṭhet ā sūrya-darśanāt . agni-kāryam tatas kuryāt saṃdhyayoḥ ubhayoḥ api .. 1.25 ..
ततोऽभिवादयेद्वृद्धानसावहं इति ब्रुवन् । गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥ १.२६ ॥
ततस् अभिवादयेत् वृद्धान् असौ अहम् इति ब्रुवन् । गुरुम् च एव अपि उपासीत स्वाध्याय-अर्थम् समाहितः ॥ १।२६ ॥
tatas abhivādayet vṛddhān asau aham iti bruvan . gurum ca eva api upāsīta svādhyāya-artham samāhitaḥ .. 1.26 ..
आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत् । हितं तस्याचरेन्नित्यं मनोवाक्कायकर्मभिः ॥ १.२७ ॥
आहूतः च अपि अधीयीत लब्धम् च अस्मै निवेदयेत् । हितम् तस्य आचरेत् नित्यम् मनः-वाच्-काय-कर्मभिः ॥ १।२७ ॥
āhūtaḥ ca api adhīyīta labdham ca asmai nivedayet . hitam tasya ācaret nityam manaḥ-vāc-kāya-karmabhiḥ .. 1.27 ..
कृतज्ञाद्रोहिमेधावि शुचिकल्यानसूयकाः । अध्याप्या धर्मतः साधु शक्ताप्तज्ञानवित्तदाः ॥ १.२८ ॥
कृतज्ञ-अ द्रोहि-मेधावि शुचि-कल्य-अन् असूयकाः । अध्याप्याः धर्मतः साधु शक्त-आप्त-ज्ञान-वित्त-दाः ॥ १।२८ ॥
kṛtajña-a drohi-medhāvi śuci-kalya-an asūyakāḥ . adhyāpyāḥ dharmataḥ sādhu śakta-āpta-jñāna-vitta-dāḥ .. 1.28 ..
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् । ब्राह्मणेषु चरेद्भैक्षं अनिन्द्येष्वात्मवृत्तये ॥ १.२९ ॥
दण्ड-अजिन-उपवीतानि मेखलाम् च एव धारयेत् । ब्राह्मणेषु चरेत् भैक्षम् अनिन्द्येषु आत्म-वृत्तये ॥ १।२९ ॥
daṇḍa-ajina-upavītāni mekhalām ca eva dhārayet . brāhmaṇeṣu caret bhaikṣam anindyeṣu ātma-vṛttaye .. 1.29 ..
आदिमध्यावसानेषु भवच्छब्दोपलक्षिता । ब्राह्मणक्षत्रियविशां भैक्षचर्या यथाक्रमम् ॥ १.३० ॥
आदि-मध्य-अवसानेषु भवत्-शब्द-उपलक्षिता । ब्राह्मण-क्षत्रिय-विशाम् भैक्ष-चर्या यथाक्रमम् ॥ १।३० ॥
ādi-madhya-avasāneṣu bhavat-śabda-upalakṣitā . brāhmaṇa-kṣatriya-viśām bhaikṣa-caryā yathākramam .. 1.30 ..
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया । आपोशानक्रियापूर्वं सत्कृत्यान्नं अकुत्सयन् ॥ १.३१ ॥
कृत-अग्नि-कार्यः भुञ्जीत वाग्यतः गुरु-अनुज्ञया । आपोशान-क्रिया-पूर्वम् सत्कृत्य अन्नम् अ कुत्सयन् ॥ १।३१ ॥
kṛta-agni-kāryaḥ bhuñjīta vāgyataḥ guru-anujñayā . āpośāna-kriyā-pūrvam satkṛtya annam a kutsayan .. 1.31 ..
ब्रह्मचर्ये स्थितो नैकं अन्नं अद्यादनापदि । ब्राह्मणः कामं अश्नीयाच्छ्राद्धे व्रतं अपीडयन् ॥ १.३२ ॥
ब्रह्मचर्ये स्थितः न एकम् अन्नम् अद्यात् अनापदि । ब्राह्मणः कामम् अश्नीयात् श्राद्धे व्रतम् अ पीडयन् ॥ १।३२ ॥
brahmacarye sthitaḥ na ekam annam adyāt anāpadi . brāhmaṇaḥ kāmam aśnīyāt śrāddhe vratam a pīḍayan .. 1.32 ..
मधुमांसाञ्जनोच्छिष्ट शुक्तस्त्रीप्राणिहिंसनम् । भास्करालोकनाश्लील परिवादादि वर्जयेत् ॥ १.३३ ॥
मधु-मांस-अञ्जन-उच्छिष्ट-शुक्त-स्त्री-प्राणि-हिंसनम् । भास्कर-आलोकन-अश्लील-परिवाद-आदि वर्जयेत् ॥ १।३३ ॥
madhu-māṃsa-añjana-ucchiṣṭa-śukta-strī-prāṇi-hiṃsanam . bhāskara-ālokana-aślīla-parivāda-ādi varjayet .. 1.33 ..
स गुरुर्यः क्रियाः कृत्वा वेदं अस्मै प्रयच्छति । उपनीय ददद्वेदं आचार्यः स उदाहृतः ॥ १.३४ ॥
स गुरुः यः क्रियाः कृत्वा वेदम् अस्मै प्रयच्छति । उपनीय ददत् वेदम् आचार्यः सः उदाहृतः ॥ १।३४ ॥
sa guruḥ yaḥ kriyāḥ kṛtvā vedam asmai prayacchati . upanīya dadat vedam ācāryaḥ saḥ udāhṛtaḥ .. 1.34 ..
एकदेशं उपाध्याय ऋत्विग्यज्ञकृदुच्यते । एते मान्या यथापूर्वं एभ्यो माता गरीयसी ॥ १.३५ ॥
एक-देशम् उपाध्यायः ऋत्विज् यज्ञ-कृत् उच्यते । एते मान्याः यथापूर्वम् एभ्यः माता गरीयसी ॥ १।३५ ॥
eka-deśam upādhyāyaḥ ṛtvij yajña-kṛt ucyate . ete mānyāḥ yathāpūrvam ebhyaḥ mātā garīyasī .. 1.35 ..
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा । ग्रहणान्तिकं इत्येके केशान्तश्चैव षोडशे ॥ १.३६ ॥
प्रतिवेदम् ब्रह्मचर्यम् द्वादश-अब्दानि पञ्च वा । ग्रहण-अन्तिकम् इति एके केशान्तः च एव षोडशे ॥ १।३६ ॥
prativedam brahmacaryam dvādaśa-abdāni pañca vā . grahaṇa-antikam iti eke keśāntaḥ ca eva ṣoḍaśe .. 1.36 ..
आषोडशादाद्वाविंशाच्चतुर्विंशाच्च वत्सरात् । ब्रह्मक्षत्रविशां कालौपनायनिकः परः ॥ १.३७ ॥
आ षोडशात् आ द्वार्-विंशात् चतुर्विंशात् च वत्सरात् । ब्रह्म-क्षत्र-विशाम् काल-औपनायनिकः परः ॥ १।३७ ॥
ā ṣoḍaśāt ā dvār-viṃśāt caturviṃśāt ca vatsarāt . brahma-kṣatra-viśām kāla-aupanāyanikaḥ paraḥ .. 1.37 ..
अत ऊर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः । सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥ १.३८ ॥
अतस् ऊर्ध्वम् पतन्ति एते सर्व-धर्म-बहिष्कृताः । सावित्रीपतिताः व्रात्याः व्रात्यस्तोमात् ऋते क्रतोः ॥ १।३८ ॥
atas ūrdhvam patanti ete sarva-dharma-bahiṣkṛtāḥ . sāvitrīpatitāḥ vrātyāḥ vrātyastomāt ṛte kratoḥ .. 1.38 ..
मातुर्यदग्रे जायन्ते द्वितीयं मौञ्जिबन्धनात् । ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥ १.३९ ॥
मातुः यत् अग्रे जायन्ते द्वितीयम् मौञ्जिबन्धनात् । ब्राह्मण-क्षत्रिय-विशः तस्मात् एते द्विजाः स्मृताः ॥ १।३९ ॥
mātuḥ yat agre jāyante dvitīyam mauñjibandhanāt . brāhmaṇa-kṣatriya-viśaḥ tasmāt ete dvijāḥ smṛtāḥ .. 1.39 ..
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् । वेद एव द्विजातीनां निःश्रेयसकरः परः ॥ १.४० ॥
यज्ञानाम् तपसाम् च एव शुभानाम् च एव कर्मणाम् । वेदः एव द्विजातीनाम् निःश्रेयस-करः परः ॥ १।४० ॥
yajñānām tapasām ca eva śubhānām ca eva karmaṇām . vedaḥ eva dvijātīnām niḥśreyasa-karaḥ paraḥ .. 1.40 ..
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः । पितॄन्मधुघृताभ्यां च ऋचोऽधीते च योऽन्वहम् ॥ १.४१ ॥
मधुना पयसा च एव स देवान् तर्पयेत् द्विजः । पितॄन् मधु-घृताभ्याम् च ऋचः अधीते च यः अन्वहम् ॥ १।४१ ॥
madhunā payasā ca eva sa devān tarpayet dvijaḥ . pitṝn madhu-ghṛtābhyām ca ṛcaḥ adhīte ca yaḥ anvaham .. 1.41 ..
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः । प्रीणाति देवानाज्येन मधुना च पितॄंस्तथा ॥ १.४२ ॥
यजूंषि शक्तितः अधीते यः अन्वहम् स घृत-अमृतैः । प्रीणाति देवान् आज्येन मधुना च पितॄन् तथा ॥ १।४२ ॥
yajūṃṣi śaktitaḥ adhīte yaḥ anvaham sa ghṛta-amṛtaiḥ . prīṇāti devān ājyena madhunā ca pitṝn tathā .. 1.42 ..
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् । सामानि तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ १.४३ ॥
स तु सोम-घृतैः देवान् तर्पयेत् यः अन्वहम् पठेत् । सामानि तृप्तिम् कुर्यात् च पितॄणाम् मधु-सर्पिषा ॥ १।४३ ॥
sa tu soma-ghṛtaiḥ devān tarpayet yaḥ anvaham paṭhet . sāmāni tṛptim kuryāt ca pitṝṇām madhu-sarpiṣā .. 1.43 ..
मेदसा तर्पयेद्देवानथर्वाङ्गिरसः पठन् । पितॄंश्च मधुसर्पिर्भ्यां अन्वहं शक्तितो द्विजः ॥ १.४४ ॥
मेदसा तर्पयेत् देवान् अथर्व-अङ्गिरसः पठन् । पितॄन् च मधु-सर्पिर्भ्याम् अन्वहम् शक्तितः द्विजः ॥ १।४४ ॥
medasā tarpayet devān atharva-aṅgirasaḥ paṭhan . pitṝn ca madhu-sarpirbhyām anvaham śaktitaḥ dvijaḥ .. 1.44 ..
वाकोवाक्यं पुराणं च नाराशंसीश्च गाथिकाः । इतिहासांस्तथा विद्याः शक्त्याधीते हि योऽन्वहम् ॥ १.४५ ॥
वाकोवाक्यम् पुराणम् च नाराशंसीः च गाथिकाः । इतिहासान् तथा विद्याः शक्त्या अधीते हि यः अन्वहम् ॥ १।४५ ॥
vākovākyam purāṇam ca nārāśaṃsīḥ ca gāthikāḥ . itihāsān tathā vidyāḥ śaktyā adhīte hi yaḥ anvaham .. 1.45 ..
मांसक्षीरौदनमधु तर्पणं स दिवौकसाम् । करोति तृप्तिं कुर्याच्च पितॄणां मधुसर्पिषा ॥ १.४६ ॥
मांस-क्षीर-ओदन-मधु तर्पणम् स दिवौकसाम् । करोति तृप्तिम् कुर्यात् च पितॄणाम् मधु-सर्पिषा ॥ १।४६ ॥
māṃsa-kṣīra-odana-madhu tarpaṇam sa divaukasām . karoti tṛptim kuryāt ca pitṝṇām madhu-sarpiṣā .. 1.46 ..
ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । यं यं क्रतुं अधीते च तस्य तस्याप्नुयात्फलम् ॥ १.४७ ॥
ते तृप्ताः तर्पयन्ति एनम् सर्व-काम-फलैः शुभैः । यम् यम् क्रतुम् अधीते च तस्य तस्य आप्नुयात् फलम् ॥ १।४७ ॥
te tṛptāḥ tarpayanti enam sarva-kāma-phalaiḥ śubhaiḥ . yam yam kratum adhīte ca tasya tasya āpnuyāt phalam .. 1.47 ..
त्रिर्वित्तपूर्णपृथिवी दानस्य फलं अश्नुते । तपसश्च परस्येह नित्यं स्वाध्यायवान्द्विजः ॥ १.४८ ॥
त्रिस् वित्त-पूर्ण-पृथिवी दानस्य फलम् अश्नुते । तपसः च परस्य इह नित्यम् स्वाध्यायवान् द्विजः ॥ १।४८ ॥
tris vitta-pūrṇa-pṛthivī dānasya phalam aśnute . tapasaḥ ca parasya iha nityam svādhyāyavān dvijaḥ .. 1.48 ..
नैष्ठिको ब्रह्मचारी तु वसेदाचार्यसंनिधौ । तदभावेऽस्य तनये पत्न्यां वैश्वानरेऽपि वा ॥ १.४९ ॥
नैष्ठिकः ब्रह्मचारी तु वसेत् आचार्य-संनिधौ । तद्-अभावे अस्य तनये पत्न्याम् वैश्वानरे अपि वा ॥ १।४९ ॥
naiṣṭhikaḥ brahmacārī tu vaset ācārya-saṃnidhau . tad-abhāve asya tanaye patnyām vaiśvānare api vā .. 1.49 ..
अनेन विधिना देहं सादयन्विजितेन्द्रियः । ब्रह्मलोकं अवाप्नोति न चेहाजायते पुनः ॥ १.५० ॥
अनेन विधिना देहम् सादयन् विजित-इन्द्रियः । ब्रह्म-लोकम् अवाप्नोति न च इह आजायते पुनर् ॥ १।५० ॥
anena vidhinā deham sādayan vijita-indriyaḥ . brahma-lokam avāpnoti na ca iha ājāyate punar .. 1.50 ..
गुरवे तु वरं दत्त्वा स्नायाद्वा तदनुज्ञया । वेदं व्रतानि वा पारं नीत्वा ह्युभयं एव वा ॥ १.५१ ॥
गुरवे तु वरम् दत्त्वा स्नायात् वा तद्-अनुज्ञया । वेदम् व्रतानि वा पारम् नीत्वा हि उभयम् एव वा ॥ १।५१ ॥
gurave tu varam dattvā snāyāt vā tad-anujñayā . vedam vratāni vā pāram nītvā hi ubhayam eva vā .. 1.51 ..
अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियं उद्वहेत् । अनन्यपूर्विकां कान्तां असपिण्डां यवीयसीम् ॥ १.५२ ॥
अविप्लुत-ब्रह्मचर्यः लक्षण्याम् स्त्रियम् उद्वहेत् । अनन्य-पूर्विकाम् कान्ताम् असपिण्डाम् यवीयसीम् ॥ १।५२ ॥
avipluta-brahmacaryaḥ lakṣaṇyām striyam udvahet . ananya-pūrvikām kāntām asapiṇḍām yavīyasīm .. 1.52 ..
अरोगिणीं भ्रातृमतीं असमानार्षगोत्रजान् । पञ्चमात्सप्तमादूर्ध्वं मातृतः पितृतस्तथा ॥ १.५३ ॥
अरोगिणीम् भ्रातृमतीम् असमान् आर्ष-गोत्र-जान् । पञ्चमात् सप्तमात् ऊर्ध्वम् मातृतः पितृतः तथा ॥ १।५३ ॥
arogiṇīm bhrātṛmatīm asamān ārṣa-gotra-jān . pañcamāt saptamāt ūrdhvam mātṛtaḥ pitṛtaḥ tathā .. 1.53 ..
दशपूरुषविख्याताच्छ्रोत्रियाणां महाकुलात् । स्फीतादपि न संचारि रोगदोषसमन्वितात् ॥ १.५४ ॥
दश-पूरुष-विख्यातात् श्रोत्रियाणाम् महा-कुलात् । स्फीतात् अपि न संचारि रोग-दोष-समन्वितात् ॥ १।५४ ॥
daśa-pūruṣa-vikhyātāt śrotriyāṇām mahā-kulāt . sphītāt api na saṃcāri roga-doṣa-samanvitāt .. 1.54 ..
एतैरेव गुणैर्युक्तः सवर्णः श्रोत्रियो वरः । यत्नात्परीक्षितः पुंस्त्वे युवा धीमान्जनप्रियः ॥ १.५५ ॥
एतैः एव गुणैः युक्तः सवर्णः श्रोत्रियः वरः । यत्नात् परीक्षितः पुंस्त्वे युवा धीमान् जन-प्रियः ॥ १।५५ ॥
etaiḥ eva guṇaiḥ yuktaḥ savarṇaḥ śrotriyaḥ varaḥ . yatnāt parīkṣitaḥ puṃstve yuvā dhīmān jana-priyaḥ .. 1.55 ..
यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः । नैतन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥ १.५६ ॥
यत् उच्यते द्विजातीनाम् शूद्रात् दार-उपसंग्रहः । न एतत् मम मतम् यस्मात् तत्र अयम् जायते स्वयम् ॥ १।५६ ॥
yat ucyate dvijātīnām śūdrāt dāra-upasaṃgrahaḥ . na etat mama matam yasmāt tatra ayam jāyate svayam .. 1.56 ..
तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् । ब्राह्मणक्षत्रियविशां भार्या स्वा शूद्रजन्मनः ॥ १.५७ ॥
तिस्रः वर्ण-आनुपूर्व्येण द्वे तथा एका यथाक्रमम् । ब्राह्मण-क्षत्रिय-विशाम् भार्या स्वा शूद्रजन्मनः ॥ १।५७ ॥
tisraḥ varṇa-ānupūrvyeṇa dve tathā ekā yathākramam . brāhmaṇa-kṣatriya-viśām bhāryā svā śūdrajanmanaḥ .. 1.57 ..
ब्राह्मो विवाह आहूय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥ १.५८ ॥
ब्राह्मः विवाहः आहूय दीयते शक्ति-अलंकृता । तद्-जः पुनाति उभयतस् पुरुषान् एकविंशतिम् ॥ १।५८ ॥
brāhmaḥ vivāhaḥ āhūya dīyate śakti-alaṃkṛtā . tad-jaḥ punāti ubhayatas puruṣān ekaviṃśatim .. 1.58 ..
यज्ञस्थ ऋत्विजे दैव आदायार्षस्तु गोद्वयम् । चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ॥ १.५९ ॥
यज्ञ-स्थः ऋत्विजे दैवः आदाय आर्षः तु गो-द्वयम् । चतुर्दश प्रथम-जः पुनाति उत्तर-जः च षट् ॥ १।५९ ॥
yajña-sthaḥ ṛtvije daivaḥ ādāya ārṣaḥ tu go-dvayam . caturdaśa prathama-jaḥ punāti uttara-jaḥ ca ṣaṭ .. 1.59 ..
इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने । स कायः पावयेत्तज्जः षट्षड्वंश्यान्सहात्मना ॥ १.६० ॥
इति उक्त्वा चरताम् धर्मम् सह या दीयते अर्थिने । स कायः पावयेत् तद्-जः षट् षट् वंश्यान् सह आत्मना ॥ १।६० ॥
iti uktvā caratām dharmam saha yā dīyate arthine . sa kāyaḥ pāvayet tad-jaḥ ṣaṭ ṣaṭ vaṃśyān saha ātmanā .. 1.60 ..
आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः । राक्षसो युद्धहरणात्पैशाचः कन्यकाछलात् ॥ १.६१ ॥
आसुरः द्रविण-आदानात् गान्धर्वः समयात् मिथस् । राक्षसः युद्ध-हरणात् पैशाचः कन्यका-छलात् ॥ १।६१ ॥
āsuraḥ draviṇa-ādānāt gāndharvaḥ samayāt mithas . rākṣasaḥ yuddha-haraṇāt paiśācaḥ kanyakā-chalāt .. 1.61 ..
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात्क्षत्रिया शरम् । वैश्या प्रतोदं आदद्याद्वेदने त्वग्रजन्मनः ॥ १.६२ ॥
पाणिः ग्राह्यः सवर्णासु गृह्णीयात् क्षत्रिया शरम् । वैश्या प्रतोदम् आदद्यात् वेदने तु अग्रजन्मनः ॥ १।६२ ॥
pāṇiḥ grāhyaḥ savarṇāsu gṛhṇīyāt kṣatriyā śaram . vaiśyā pratodam ādadyāt vedane tu agrajanmanaḥ .. 1.62 ..
पिता पितामहो भ्राता सकुल्यो जननी तथा । कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥ १.६३ ॥
पिता पितामहः भ्राता सकुल्यः जननी तथा । कन्या-प्रदः पूर्व-नाशे प्रकृति-स्थः परः परः ॥ १।६३ ॥
pitā pitāmahaḥ bhrātā sakulyaḥ jananī tathā . kanyā-pradaḥ pūrva-nāśe prakṛti-sthaḥ paraḥ paraḥ .. 1.63 ..
अप्रयच्छन्समाप्नोति भ्रूणहत्यां ऋतावृतौ । गम्यं त्वभावे दातॄणां कन्या कुर्यात्स्वयंवरम् ॥ १.६४ ॥
अ प्रयच्छन् समाप्नोति भ्रूण-हत्याम् ऋतौ ऋतौ । गम्यम् तु अभावे दातॄणाम् कन्या कुर्यात् स्वयंवरम् ॥ १।६४ ॥
a prayacchan samāpnoti bhrūṇa-hatyām ṛtau ṛtau . gamyam tu abhāve dātṝṇām kanyā kuryāt svayaṃvaram .. 1.64 ..
सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् । दत्तां अपि हरेत्पूर्वाच्छ्रेयांश्चेद्वर आव्रजेत् ॥ १.६५ ॥
सकृत् प्रदीयते कन्या हरन् ताम् चोर-दण्ड-भाज् । दत्ताम् अपि हरेत् पूर्वात् श्रेयान् चेद् वरः आव्रजेत् ॥ १।६५ ॥
sakṛt pradīyate kanyā haran tām cora-daṇḍa-bhāj . dattām api haret pūrvāt śreyān ced varaḥ āvrajet .. 1.65 ..
अनाख्याय ददद्दोषं दण्ड्य उत्तमसाहसम् । अदुष्टां तु त्यजन्दण्ड्यो दूषयंस्तु मृषा शतम् ॥ १.६६ ॥
अन् आख्याय ददत् दोषम् दण्ड्यः उत्तमसाहसम् । अदुष्टाम् तु त्यजन् दण्ड्यः दूषयन् तु मृषा शतम् ॥ १।६६ ॥
an ākhyāya dadat doṣam daṇḍyaḥ uttamasāhasam . aduṣṭām tu tyajan daṇḍyaḥ dūṣayan tu mṛṣā śatam .. 1.66 ..
अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः । स्वैरिणी या पतिं हित्वा सवर्णं कामतः श्रयेत् ॥ १.६७ ॥
अक्षता च क्षता च एव पुनर्भूः संस्कृता पुनर् । स्वैरिणी या पतिम् हित्वा सवर्णम् कामतः श्रयेत् ॥ १।६७ ॥
akṣatā ca kṣatā ca eva punarbhūḥ saṃskṛtā punar . svairiṇī yā patim hitvā savarṇam kāmataḥ śrayet .. 1.67 ..
अपुत्रां गुर्वनुज्ञातो देवरः पुत्रकाम्यया । सपिण्डो वा सगोत्रो वा घृताभ्यक्त ऋतावियात् ॥ १.६८ ॥
अपुत्राम् गुरु-अनुज्ञातः देवरः पुत्र-काम्यया । सपिण्डः वा सगोत्रः वा घृत-अभ्यक्तः ऋतौ इयात् ॥ १।६८ ॥
aputrām guru-anujñātaḥ devaraḥ putra-kāmyayā . sapiṇḍaḥ vā sagotraḥ vā ghṛta-abhyaktaḥ ṛtau iyāt .. 1.68 ..
आगर्भसंभवाद्गच्छेत्पतितस्त्वन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजोऽस्य भवेत्सुतः ॥ १.६९ ॥
आ गर्भ-संभवात् गच्छेत् पतितः तु अन्यथा भवेत् । अनेन विधिना जातः क्षेत्रजः अस्य भवेत् सुतः ॥ १।६९ ॥
ā garbha-saṃbhavāt gacchet patitaḥ tu anyathā bhavet . anena vidhinā jātaḥ kṣetrajaḥ asya bhavet sutaḥ .. 1.69 ..
हृताधिकारां मलिनां पिण्डमात्रोपजीविनाम् । परिभूतां अधःशय्यां वासयेद्व्यभिचारिणीम् ॥ १.७० ॥
हृत-अधिकाराम् मलिनाम् पिण्ड-मात्र-उपजीविनाम् । परिभूताम् अधस् शय्याम् वासयेत् व्यभिचारिणीम् ॥ १।७० ॥
hṛta-adhikārām malinām piṇḍa-mātra-upajīvinām . paribhūtām adhas śayyām vāsayet vyabhicāriṇīm .. 1.70 ..
सोमः शौचं ददावासां गन्धर्वश्च शुभां गिरम् । पावकः सर्वमेध्यत्वं मेध्या वै योषितो ह्यतः ॥ १.७१ ॥
सोमः शौचम् ददौ आसाम् गन्धर्वः च शुभाम् गिरम् । पावकः सर्व-मेध्य-त्वम् मेध्याः वै योषितः हि अतस् ॥ १।७१ ॥
somaḥ śaucam dadau āsām gandharvaḥ ca śubhām giram . pāvakaḥ sarva-medhya-tvam medhyāḥ vai yoṣitaḥ hi atas .. 1.71 ..
व्यभिचारादृतौ शुद्धिर्गर्भे त्यागो विधीयते । गर्भभर्तृवधादौ च तथा महति पातके ॥ १.७२ ॥
व्यभिचारात् ऋतौ शुद्धिः गर्भे त्यागः विधीयते । गर्भ-भर्तृ-वध-आदौ च तथा महति पातके ॥ १।७२ ॥
vyabhicārāt ṛtau śuddhiḥ garbhe tyāgaḥ vidhīyate . garbha-bhartṛ-vadha-ādau ca tathā mahati pātake .. 1.72 ..
सुरापी व्याधिता धूर्ता वन्ध्यार्थघ्न्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्या पुरुषद्वेषिणी तथा ॥ १.७३ ॥
सुरापी व्याधिता धूर्ता वन्ध्या अर्थ-घ्नी अप्रियंवदा । स्त्री-प्रसूः च अधिवेत्तव्या पुरुष-द्वेषिणी तथा ॥ १।७३ ॥
surāpī vyādhitā dhūrtā vandhyā artha-ghnī apriyaṃvadā . strī-prasūḥ ca adhivettavyā puruṣa-dveṣiṇī tathā .. 1.73 ..
अधिविन्ना तु भर्तव्या महदेनोऽन्यथा भवेत् । यत्रानुकूल्यं दंपत्योस्त्रिवर्गस्तत्र वर्धते ॥ १.७४ ॥
अधिविन्ना तु भर्तव्या महत् एनः अन्यथा भवेत् । यत्र आनुकूल्यम् दंपत्योः त्रिवर्गः तत्र वर्धते ॥ १।७४ ॥
adhivinnā tu bhartavyā mahat enaḥ anyathā bhavet . yatra ānukūlyam daṃpatyoḥ trivargaḥ tatra vardhate .. 1.74 ..
मृते जीवति वा पत्यौ या नान्यं उपगच्छति । सेह कीर्तिं अवाप्नोति मोदते चोमया सह ॥ १.७५ ॥
मृते जीवति वा पत्यौ या न अन्यम् उपगच्छति । सा इह कीर्तिम् अवाप्नोति मोदते च उमया सह ॥ १।७५ ॥
mṛte jīvati vā patyau yā na anyam upagacchati . sā iha kīrtim avāpnoti modate ca umayā saha .. 1.75 ..
आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादिनीम् । त्यजन्दाप्यस्तृतीयांशं अद्रव्यो भरणं स्त्रियाः ॥ १.७६ ॥
आज्ञा-संपादिनीम् दक्षाम् वीरसूम् प्रिय-वादिनीम् । त्यजन् दाप्यः तृतीय-अंशम् अद्रव्यः भरणम् स्त्रियाः ॥ १।७६ ॥
ājñā-saṃpādinīm dakṣām vīrasūm priya-vādinīm . tyajan dāpyaḥ tṛtīya-aṃśam adravyaḥ bharaṇam striyāḥ .. 1.76 ..
स्त्रीभिर्भर्तृवचः कार्यं एष धर्मः परः स्त्रियाः । आशुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः ॥ १.७७ ॥
स्त्रीभिः भर्तृ-वचः कार्यम् एष धर्मः परः स्त्रियाः । आशुद्धेः संप्रतीक्ष्यः हि महापातक-दूषितः ॥ १।७७ ॥
strībhiḥ bhartṛ-vacaḥ kāryam eṣa dharmaḥ paraḥ striyāḥ . āśuddheḥ saṃpratīkṣyaḥ hi mahāpātaka-dūṣitaḥ .. 1.77 ..
लोकानन्त्यं दिवः प्राप्तिः पुत्रपौत्रप्रपौत्रकैः । यस्मात्तस्मात्स्त्रियः सेव्याः कर्तव्याश्च सुरक्षिताः ॥ १.७८ ॥
लोक-आनन्त्यम् दिवः प्राप्तिः पुत्र-पौत्र-प्रपौत्रकैः । यस्मात् तस्मात् स्त्रियः सेव्याः कर्तव्याः च सु रक्षिताः ॥ १।७८ ॥
loka-ānantyam divaḥ prāptiḥ putra-pautra-prapautrakaiḥ . yasmāt tasmāt striyaḥ sevyāḥ kartavyāḥ ca su rakṣitāḥ .. 1.78 ..
षोडशर्तुनिशाः स्त्रीणां तस्मिन्युग्मासु संविशेत् । ब्रह्मचार्येव पर्वाण्याद्याश्चतस्रस्तु वर्जयेत् ॥ १.७९ ॥
षोडश ऋतु-निशाः स्त्रीणाम् तस्मिन् युग्मासु संविशेत् । ब्रह्मचारी एव पर्वाणि आद्याः चतस्रः तु वर्जयेत् ॥ १।७९ ॥
ṣoḍaśa ṛtu-niśāḥ strīṇām tasmin yugmāsu saṃviśet . brahmacārī eva parvāṇi ādyāḥ catasraḥ tu varjayet .. 1.79 ..
एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थ इन्दौ सकृत्पुत्रं लक्षण्यं जनयेत्पुमान् ॥ १.८० ॥
एवम् गच्छन् स्त्रियम् क्षामाम् मघाम् मूलम् च वर्जयेत् । सुस्थः इन्दौ सकृत् पुत्रम् लक्षण्यम् जनयेत् पुमान् ॥ १।८० ॥
evam gacchan striyam kṣāmām maghām mūlam ca varjayet . susthaḥ indau sakṛt putram lakṣaṇyam janayet pumān .. 1.80 ..
यथाकामी भवेद्वापि स्त्रीणां वरं अनुस्मरन् । स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतः स्मृताः ॥ १.८१ ॥
यथाकामी भवेत् वा अपि स्त्रीणाम् वरम् अनुस्मरन् । स्व-दार-निरतः च एव स्त्रियः रक्ष्याः यतस् स्मृताः ॥ १।८१ ॥
yathākāmī bhavet vā api strīṇām varam anusmaran . sva-dāra-nirataḥ ca eva striyaḥ rakṣyāḥ yatas smṛtāḥ .. 1.81 ..
भर्तृभ्रातृपितृज्ञाति श्वश्रूश्वशुरदेवरैः । बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥ १.८२ ॥
भर्तृ-भ्रातृ-पितृ-ज्ञाति श्वश्रू-श्वशुर-देवरैः । बन्धुभिः च स्त्रियः पूज्याः भूषण-आच्छादन-अशनैः ॥ १।८२ ॥
bhartṛ-bhrātṛ-pitṛ-jñāti śvaśrū-śvaśura-devaraiḥ . bandhubhiḥ ca striyaḥ pūjyāḥ bhūṣaṇa-ācchādana-aśanaiḥ .. 1.82 ..
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी । कुर्याच्छ्वशुरयोः पाद वन्दनं भर्तृतत्परा ॥ १.८३ ॥
संयत-उपस्करा दक्षा हृष्टा व्यय-पराङ्मुखी । कुर्यात् श्वशुरयोः पाद वन्दनम् भर्तृ-तत्परा ॥ १।८३ ॥
saṃyata-upaskarā dakṣā hṛṣṭā vyaya-parāṅmukhī . kuryāt śvaśurayoḥ pāda vandanam bhartṛ-tatparā .. 1.83 ..
क्रीडां शरीरसंस्कारं समाजोत्सवदर्शनम् । हास्यं परगृहे यानं त्यजेत्प्रोषितभर्तृका ॥ १.८४ ॥
क्रीडाम् शरीर-संस्कारम् समाज-उत्सव-दर्शनम् । हास्यम् पर-गृहे यानम् त्यजेत् प्रोषित-भर्तृका ॥ १।८४ ॥
krīḍām śarīra-saṃskāram samāja-utsava-darśanam . hāsyam para-gṛhe yānam tyajet proṣita-bhartṛkā .. 1.84 ..
रक्षेत्कन्यां पिता विन्नां पतिः पुत्रास्तु वार्धके । अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः ॥ १.८५ ॥
रक्षेत् कन्याम् पिता विन्नाम् पतिः पुत्राः तु वार्धके । अभावे ज्ञातयः तेषाम् न स्वातन्त्र्यम् क्वचिद् स्त्रियाः ॥ १।८५ ॥
rakṣet kanyām pitā vinnām patiḥ putrāḥ tu vārdhake . abhāve jñātayaḥ teṣām na svātantryam kvacid striyāḥ .. 1.85 ..
पितृमातृसुतभ्रातृ श्वश्रूश्वशुरमातुलैः । हीना न स्याद्विना भर्त्रा गर्हणीयान्यथा भवेत् ॥ १.८६ ॥
पितृ-मातृ-सुत-भ्रातृ-श्वश्रू-श्वशुर-मातुलैः । हीना न स्यात् विना भर्त्रा गर्हणीया अन्यथा भवेत् ॥ १।८६ ॥
pitṛ-mātṛ-suta-bhrātṛ-śvaśrū-śvaśura-mātulaiḥ . hīnā na syāt vinā bhartrā garhaṇīyā anyathā bhavet .. 1.86 ..
पतिप्रियहिते युक्ता स्वाचारा विजितेन्द्रिया । सेह कीर्तिं अवाप्नोति प्रेत्य चानुत्तमां गतिम् ॥ १.८७ ॥
पति-प्रिय-हिते युक्ता सु आचारा विजित-इन्द्रिया । सा इह कीर्तिम् अवाप्नोति प्रेत्य च अनुत्तमाम् गतिम् ॥ १।८७ ॥
pati-priya-hite yuktā su ācārā vijita-indriyā . sā iha kīrtim avāpnoti pretya ca anuttamām gatim .. 1.87 ..
सत्यां अन्यां सवर्णायां धर्मकार्यं न कारयेत् । सवर्णासु विधौ धर्म्ये ज्येष्ठया न विनेतरा ॥ १.८८ ॥
सत्याम् अन्याम् सवर्णायाम् धर्म-कार्यम् न कारयेत् । सवर्णासु विधौ धर्म्ये ज्येष्ठया न विना इतरा ॥ १।८८ ॥
satyām anyām savarṇāyām dharma-kāryam na kārayet . savarṇāsu vidhau dharmye jyeṣṭhayā na vinā itarā .. 1.88 ..
दाहयित्वाग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः । आहरेद्विधिवद्दारानग्नींश्चैवाविलम्बयन् ॥ १.८९ ॥
दाहयित्वा अग्निहोत्रेण स्त्रियम् वृत्तवतीम् पतिः । आहरेत् विधिवत् दारान् अग्नीन् च एव अविलम्बयन् ॥ १।८९ ॥
dāhayitvā agnihotreṇa striyam vṛttavatīm patiḥ . āharet vidhivat dārān agnīn ca eva avilambayan .. 1.89 ..
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः ॥ १.९० ॥
सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतान-वर्धनाः ॥ १।९० ॥
savarṇebhyaḥ savarṇāsu jāyante hi sajātayaḥ . anindyeṣu vivāheṣu putrāḥ saṃtāna-vardhanāḥ .. 1.90 ..
विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा ॥ १.९१ ॥
विप्रात् मूर्ध-अवसिक्तः हि क्षत्रियायाम् विशः स्त्रियाम् । अम्बष्ठः शूद्र्याम् निषादः जातः पारशवः अपि वा ॥ १।९१ ॥
viprāt mūrdha-avasiktaḥ hi kṣatriyāyām viśaḥ striyām . ambaṣṭhaḥ śūdryām niṣādaḥ jātaḥ pāraśavaḥ api vā .. 1.91 ..
वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः ॥ १.९२ ॥
वैश्याशूद्र्योः तु राजन्यान् माहिष्याः उग्रौ सुतौ स्मृतौ । वैश्यात् तु करणः शूद्र्याम् विन्नासु एष विधिः स्मृतः ॥ १।९२ ॥
vaiśyāśūdryoḥ tu rājanyān māhiṣyāḥ ugrau sutau smṛtau . vaiśyāt tu karaṇaḥ śūdryām vinnāsu eṣa vidhiḥ smṛtaḥ .. 1.92 ..
ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः ॥ १.९३ ॥
ब्राह्मण्याम् क्षत्रियात् सूतः वैश्यात् वैदेहकः तथा । शूद्रात् जातः तु चण्डालः सर्व-धर्म-बहिष्कृतः ॥ १।९३ ॥
brāhmaṇyām kṣatriyāt sūtaḥ vaiśyāt vaidehakaḥ tathā . śūdrāt jātaḥ tu caṇḍālaḥ sarva-dharma-bahiṣkṛtaḥ .. 1.93 ..
क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारं एव च । शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ १.९४ ॥
क्षत्रिया मागधम् वैश्यात् शूद्रात् क्षत्तारम् एव च । शूद्रात् आयोगवम् वैश्या जनयामास वै सुतम् ॥ १।९४ ॥
kṣatriyā māgadham vaiśyāt śūdrāt kṣattāram eva ca . śūdrāt āyogavam vaiśyā janayāmāsa vai sutam .. 1.94 ..
माहिष्येण करण्यां तु रथकारः प्रजायते । असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः ॥ १.९५ ॥
माहिष्येण करण्याम् तु रथकारः प्रजायते । असत्-सन्तः तु विज्ञेयाः प्रतिलोम-अनुलोम-जाः ॥ १।९५ ॥
māhiṣyeṇa karaṇyām tu rathakāraḥ prajāyate . asat-santaḥ tu vijñeyāḥ pratiloma-anuloma-jāḥ .. 1.95 ..
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् ॥ १.९६ ॥
जाति-उत्कर्षः युगे ज्ञेयः सप्तमे पञ्चमे अपि वा । व्यत्यये कर्मणाम् साम्यम् पूर्ववत् च अधर-उत्तरम् ॥ १।९६ ॥
jāti-utkarṣaḥ yuge jñeyaḥ saptame pañcame api vā . vyatyaye karmaṇām sāmyam pūrvavat ca adhara-uttaram .. 1.96 ..
कर्म स्मार्तं विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥ १.९७ ॥
कर्म स्मार्तम् विवाह-अग्नौ कुर्वीत प्रत्यहम् गृही । दाय-काल-आहृते वा अपि श्रौतम् वैतानिक-अग्निषु ॥ १।९७ ॥
karma smārtam vivāha-agnau kurvīta pratyaham gṛhī . dāya-kāla-āhṛte vā api śrautam vaitānika-agniṣu .. 1.97 ..
शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः । प्रातःसंध्यां उपासीत दन्तधावनपूर्वकम् ॥ १.९८ ॥
शरीर-चिन्ताम् निर्वर्त्य कृत-शौच-विधिः द्विजः । प्रातःसंध्याम् उपासीत दन्त-धावन-पूर्वकम् ॥ १।९८ ॥
śarīra-cintām nirvartya kṛta-śauca-vidhiḥ dvijaḥ . prātaḥsaṃdhyām upāsīta danta-dhāvana-pūrvakam .. 1.98 ..
हुत्वाग्नीन्सूर्यदैवत्यान्जपेन्मन्त्रान्समाहितः । वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥ १.९९ ॥
हुत्वा अग्नीन् सूर्य-दैवत्यान् जपेत् मन्त्रान् समाहितः । वेद-अर्थान् अधिगच्छेत् च शास्त्राणि विविधानि च ॥ १।९९ ॥
hutvā agnīn sūrya-daivatyān japet mantrān samāhitaḥ . veda-arthān adhigacchet ca śāstrāṇi vividhāni ca .. 1.99 ..
उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । स्नात्वा देवान्पितॄंश्चैव तर्पयेदर्चयेत्तथा ॥ १.१०० ॥
उपेयात् ईश्वरम् च एव योगक्षेम-अर्थ-सिद्धये । स्नात्वा देवान् पितॄन् च एव तर्पयेत् अर्चयेत् तथा ॥ १।१०० ॥
upeyāt īśvaram ca eva yogakṣema-artha-siddhaye . snātvā devān pitṝn ca eva tarpayet arcayet tathā .. 1.100 ..
वेदाथर्वपुराणानि सेतिहासानि शक्तितः । जपयज्ञप्रसिद्ध्यर्थं विद्यां चाध्यात्मिकीं जपेत् ॥ १.१०१ ॥
वेद-अथर्व-पुराणानि स इतिहासानि शक्तितः । जप-यज्ञ-प्रसिद्धि-अर्थम् विद्याम् च आध्यात्मिकीम् जपेत् ॥ १।१०१ ॥
veda-atharva-purāṇāni sa itihāsāni śaktitaḥ . japa-yajña-prasiddhi-artham vidyām ca ādhyātmikīm japet .. 1.101 ..
बलिकर्मस्वधाहोम स्वाध्यायातिथिसत्क्रियाः । भूतपित्रमरब्रह्म मनुष्याणां महामखाः ॥ १.१०२ ॥
बलि-कर्म-स्वधा-होम-स्वाध्याय-अतिथि-सत्क्रियाः । भूत-पितृ-अमर-ब्रह्म मनुष्याणाम् महा-मखाः ॥ १।१०२ ॥
bali-karma-svadhā-homa-svādhyāya-atithi-satkriyāḥ . bhūta-pitṛ-amara-brahma manuṣyāṇām mahā-makhāḥ .. 1.102 ..
देवेभ्यश्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् । अन्नं भूमौ श्वचाण्डाल वायसेभ्यश्च निक्षिपेत् ॥ १.१०३ ॥
देवेभ्यः च हुतात् अन्नात् शेषात् भूत-बलिम् हरेत् । अन्नम् भूमौ वायसेभ्यः च निक्षिपेत् ॥ १।१०३ ॥
devebhyaḥ ca hutāt annāt śeṣāt bhūta-balim haret . annam bhūmau vāyasebhyaḥ ca nikṣipet .. 1.103 ..
अन्नं पितृमनुष्येभ्यो देयं अप्यन्वहं जलम् । स्वाध्यायं सततं कुर्यान्न पचेदन्नं आत्मने ॥ १.१०४ ॥
अन्नम् पितृ-मनुष्येभ्यः देयम् अपि अन्वहम् जलम् । स्वाध्यायम् सततम् कुर्यात् न पचेत् अन्नम् आत्मने ॥ १।१०४ ॥
annam pitṛ-manuṣyebhyaḥ deyam api anvaham jalam . svādhyāyam satatam kuryāt na pacet annam ātmane .. 1.104 ..
बालस्ववासिनीवृद्ध गर्भिण्यातुरकन्यकाः । संभोज्यातिथिभृत्यांश्च दंपत्योः शेषभोजनम् ॥ १.१०५ ॥
बाल-स्ववासिनी-वृद्ध-गर्भिणी-आतुर-कन्यकाः । संभोज्य अतिथि-भृत्यान् च दंपत्योः शेष-भोजनम् ॥ १।१०५ ॥
bāla-svavāsinī-vṛddha-garbhiṇī-ātura-kanyakāḥ . saṃbhojya atithi-bhṛtyān ca daṃpatyoḥ śeṣa-bhojanam .. 1.105 ..
आपोशनेनोपरिष्टादधस्तादश्नता तथा । अनग्नं अमृतं चैव कार्यं अन्नं द्विजन्मना ॥ १.१०६ ॥
तथा । अनग्नम् अमृतम् च एव कार्यम् अन्नम् द्विजन्मना ॥ १।१०६ ॥
tathā . anagnam amṛtam ca eva kāryam annam dvijanmanā .. 1.106 ..
अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः । अप्रणोद्योऽतिथिः सायं अपि वाग्भूतृणोदकैः ॥ १.१०७ ॥
अतिथि-त्वेन वर्णानाम् देयम् शक्त्या अनुपूर्वशस् । अ प्रणोद्यः अतिथिः सायम् अपि वाच्-भूतृण-उदकैः ॥ १।१०७ ॥
atithi-tvena varṇānām deyam śaktyā anupūrvaśas . a praṇodyaḥ atithiḥ sāyam api vāc-bhūtṛṇa-udakaiḥ .. 1.107 ..
सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च । भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥ १.१०८ ॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सव्रताय च । भोजयेत् च आगतान् काले सखि-संबन्धि-बान्धवान् ॥ १।१०८ ॥
satkṛtya bhikṣave bhikṣā dātavyā savratāya ca . bhojayet ca āgatān kāle sakhi-saṃbandhi-bāndhavān .. 1.108 ..
महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् । सत्क्रियान्वासनं स्वादु भोजनं सूनृतं वचः ॥ १.१०९ ॥
महा-उक्षम् वा महा-अजम् वा श्रोत्रियाय उपकल्पयेत् । सत्क्रिया-अन्वासनम् स्वादु भोजनम् सूनृतम् वचः ॥ १।१०९ ॥
mahā-ukṣam vā mahā-ajam vā śrotriyāya upakalpayet . satkriyā-anvāsanam svādu bhojanam sūnṛtam vacaḥ .. 1.109 ..
प्रतिसंवत्सरं त्वर्घ्याः स्नातकाचार्यपार्थिवाः । प्रियो विवाह्यश्च तथा यज्ञं प्रत्यृत्विजः पुनः ॥ १.११० ॥
प्रतिसंवत्सरम् तु अर्घ्याः स्नातक-आचार्य-पार्थिवाः । प्रियः विवाह्यः च तथा यज्ञम् प्रति ऋत्विजः पुनर् ॥ १।११० ॥
pratisaṃvatsaram tu arghyāḥ snātaka-ācārya-pārthivāḥ . priyaḥ vivāhyaḥ ca tathā yajñam prati ṛtvijaḥ punar .. 1.110 ..
अध्वनीनोऽतिथिर्ज्ञेयः श्रोत्रियो वेदपारगः । मान्यावेतौ गृहस्थस्य ब्रह्मलोकं अभीप्सतः ॥ १.१११ ॥
अध्वनीनः अतिथिः ज्ञेयः श्रोत्रियः वेदपारगः । मान्यौ एतौ गृहस्थस्य ब्रह्म-लोकम् अभीप्सतः ॥ १।१११ ॥
adhvanīnaḥ atithiḥ jñeyaḥ śrotriyaḥ vedapāragaḥ . mānyau etau gṛhasthasya brahma-lokam abhīpsataḥ .. 1.111 ..
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते । वाक्पाणिपादचापल्यं वर्जयेच्चातिभोजनम् ॥ १.११२ ॥
पर-पाक-रुचिः न स्यात् अनिन्द्य-आमन्त्रणात् ऋते । वाच्-पाणि-पाद-चापल्यम् वर्जयेत् च अति भोजनम् ॥ १।११२ ॥
para-pāka-ruciḥ na syāt anindya-āmantraṇāt ṛte . vāc-pāṇi-pāda-cāpalyam varjayet ca ati bhojanam .. 1.112 ..
अतिथिं श्रोत्रियं तृप्तं आसीमन्तं अनुव्रजेत् । अहःशेषं सहासीत शिष्टैरिष्टैश्च बन्धुभिः ॥ १.११३ ॥
अतिथिम् श्रोत्रियम् तृप्तम् आसीमन्तम् अनुव्रजेत् । अहर्-शेषम् सह आसीत शिष्टैः इष्टैः च बन्धुभिः ॥ १।११३ ॥
atithim śrotriyam tṛptam āsīmantam anuvrajet . ahar-śeṣam saha āsīta śiṣṭaiḥ iṣṭaiḥ ca bandhubhiḥ .. 1.113 ..
उपास्य पश्चिमां संध्यां हुत्वाग्नींस्तानुपास्य च । भृत्यैः परिवृतो भुक्त्वा नातितृप्त्याथ संविशेत् ॥ १.११४ ॥
उपास्य पश्चिमाम् संध्याम् हुत्वा अग्नीन् तान् उपास्य च । भृत्यैः परिवृतः भुक्त्वा न अतितृप्त्या अथ संविशेत् ॥ १।११४ ॥
upāsya paścimām saṃdhyām hutvā agnīn tān upāsya ca . bhṛtyaiḥ parivṛtaḥ bhuktvā na atitṛptyā atha saṃviśet .. 1.114 ..
ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् । धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् ॥ १.११५ ॥
ब्राह्मे मुहूर्ते च उत्थाय चिन्तयेत् आत्मनः हितम् । धर्म-अर्थ-कामान् स्वे काले यथाशक्ति न हापयेत् ॥ १।११५ ॥
brāhme muhūrte ca utthāya cintayet ātmanaḥ hitam . dharma-artha-kāmān sve kāle yathāśakti na hāpayet .. 1.115 ..
विद्याकर्मवयोबन्धु वित्तैर्मान्या यथाक्रमम् । एतैः प्रभूतैः शूद्रोऽपि वार्धके मानं अर्हति ॥ १.११६ ॥
विद्या-कर्म-वयः-बन्धु वित्तैः मान्याः यथाक्रमम् । एतैः प्रभूतैः शूद्रः अपि वार्द्धके मानम् अर्हति ॥ १।११६ ॥
vidyā-karma-vayaḥ-bandhu vittaiḥ mānyāḥ yathākramam . etaiḥ prabhūtaiḥ śūdraḥ api vārddhake mānam arhati .. 1.116 ..
वृद्धभारिनृपस्नात स्त्रीरोगिवरचक्रिणाम् । पन्था देयो नृपस्तेषां मान्यः स्नातश्च भूपतेः ॥ १.११७ ॥
वृद्ध-भारि-नृप-स्नात स्त्री-रोगि-वर-चक्रिणाम् । पन्थाः देयः नृपः तेषाम् मान्यः स्नातः च भूपतेः ॥ १।११७ ॥
vṛddha-bhāri-nṛpa-snāta strī-rogi-vara-cakriṇām . panthāḥ deyaḥ nṛpaḥ teṣām mānyaḥ snātaḥ ca bhūpateḥ .. 1.117 ..
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ १.११८ ॥
इज्या-अध्ययन-दानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहः अधिकः विप्रे याजन-अध्यापने तथा ॥ १।११८ ॥
ijyā-adhyayana-dānāni vaiśyasya kṣatriyasya ca . pratigrahaḥ adhikaḥ vipre yājana-adhyāpane tathā .. 1.118 ..
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्य पाशुपाल्यं विशः स्मृतम् ॥ १.११९ ॥
प्रधानम् क्षत्रिये कर्म प्रजानाम् परिपालनम् । कुसीद-कृषि-वाणिज्य पाशुपाल्यम् विशः स्मृतम् ॥ १।११९ ॥
pradhānam kṣatriye karma prajānām paripālanam . kusīda-kṛṣi-vāṇijya pāśupālyam viśaḥ smṛtam .. 1.119 ..
शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद्द्विजातिहितं आचरन् ॥ १.१२० ॥
शूद्रस्य द्विज-शुश्रूषा तया अ जीवन् वणिज् भवेत् । शिल्पैः वा विविधैः जीवेत् द्विजाति-हितम् आचरन् ॥ १।१२० ॥
śūdrasya dvija-śuśrūṣā tayā a jīvan vaṇij bhavet . śilpaiḥ vā vividhaiḥ jīvet dvijāti-hitam ācaran .. 1.120 ..
भार्यारतिः शुचिर्भृत्य भर्ता श्राद्धक्रियारतः । नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥ १.१२१ ॥
भार्या-रतिः शुचिः भृत्य भर्ता श्राद्ध-क्रिया-रतः । नमस्कारेण मन्त्रेण पञ्चयज्ञान् न हापयेत् ॥ १।१२१ ॥
bhāryā-ratiḥ śuciḥ bhṛtya bhartā śrāddha-kriyā-rataḥ . namaskāreṇa mantreṇa pañcayajñān na hāpayet .. 1.121 ..
अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः । दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥ १.१२२ ॥
अहिंसा सत्यम् अस्तेयम् शौचम् इन्द्रिय-निग्रहः । दानम् दमः दया क्षान्तिः सर्वेषाम् धर्म-साधनम् ॥ १।१२२ ॥
ahiṃsā satyam asteyam śaucam indriya-nigrahaḥ . dānam damaḥ dayā kṣāntiḥ sarveṣām dharma-sādhanam .. 1.122 ..
वयोबुद्ध्यर्थवाग्वेष श्रुताभिजनकर्मणाम् । आचरेत्सदृशीं वृत्तिं अजिह्मां अशठां तथा ॥ १.१२३ ॥
वयः-बुद्धि-अर्थ-वाच्-वेष श्रुत-अभिजन-कर्मणाम् । आचरेत् सदृशीम् वृत्तिम् अ जिह्माम् अ शठाम् तथा ॥ १।१२३ ॥
vayaḥ-buddhi-artha-vāc-veṣa śruta-abhijana-karmaṇām . ācaret sadṛśīm vṛttim a jihmām a śaṭhām tathā .. 1.123 ..
त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ १.१२४ ॥
त्रैवार्षिक-अधिक-अन्नः यः स हि सोमम् पिबेत् द्विजः । प्राक्सौमिकीः क्रियाः कुर्यात् यस्य अन्नम् वार्षिकम् भवेत् ॥ १।१२४ ॥
traivārṣika-adhika-annaḥ yaḥ sa hi somam pibet dvijaḥ . prāksaumikīḥ kriyāḥ kuryāt yasya annam vārṣikam bhavet .. 1.124 ..
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १.१२५ ॥
प्रतिसंवत्सरम् सोमः पशुः प्रत्ययनम् तथा । कर्तव्या आग्रयणेष्टिः च चातुर्मास्यानि च एव हि ॥ १।१२५ ॥
pratisaṃvatsaram somaḥ paśuḥ pratyayanam tathā . kartavyā āgrayaṇeṣṭiḥ ca cāturmāsyāni ca eva hi .. 1.125 ..
एषां असंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः । हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १.१२६ ॥
एषाम् असंभवे कुर्यात् इष्टिम् वैश्वानरीम् द्विजः । हीन-कल्पम् न कुर्वीत सति द्रव्ये फल-प्रदम् ॥ १।१२६ ॥
eṣām asaṃbhave kuryāt iṣṭim vaiśvānarīm dvijaḥ . hīna-kalpam na kurvīta sati dravye phala-pradam .. 1.126 ..
चाण्डालो जायते यज्ञ करणाच्छूद्रभिक्षितात् । यज्ञार्थं लब्धं अददद्भासः काकोऽपि वा भवेत् ॥ १.१२७ ॥
चाण्डालः जायते यज्ञ करणात् शूद्र-भिक्षितात् । यज्ञ-अर्थम् लब्धम् अददत् भासः काकः अपि वा भवेत् ॥ १।१२७ ॥
cāṇḍālaḥ jāyate yajña karaṇāt śūdra-bhikṣitāt . yajña-artham labdham adadat bhāsaḥ kākaḥ api vā bhavet .. 1.127 ..
कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा । जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥ १.१२८ ॥
कुशूल-कुम्भीधान्यः वा त्र्याहिकः अश्वस्तनः अपि वा । जीवेत् वा अपि शिला-उञ्छेन श्रेयान् एषाम् परः परः ॥ १।१२८ ॥
kuśūla-kumbhīdhānyaḥ vā tryāhikaḥ aśvastanaḥ api vā . jīvet vā api śilā-uñchena śreyān eṣām paraḥ paraḥ .. 1.128 ..
न स्वाध्यायविरोध्यर्थं ईहेत न यतस्ततः । न विरुद्धप्रसङ्गेन संतोषी च भवेत्सदा ॥ १.१२९ ॥
न स्वाध्याय-विरोधि-अर्थम् ईहेत न यतस् ततस् । न विरुद्ध-प्रसङ्गेन संतोषी च भवेत् सदा ॥ १।१२९ ॥
na svādhyāya-virodhi-artham īheta na yatas tatas . na viruddha-prasaṅgena saṃtoṣī ca bhavet sadā .. 1.129 ..
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । दम्भिहैतुकपाखण्डि बकवृत्तींश्च वर्जयेत् ॥ १.१३० ॥
राज-अन्तेवासि-याज्येभ्यः सीदन् इच्छेत् धनम् क्षुधा । दम्भि-हैतुक-पाखण्डि बकवृत्तीन् च वर्जयेत् ॥ १।१३० ॥
rāja-antevāsi-yājyebhyaḥ sīdan icchet dhanam kṣudhā . dambhi-haituka-pākhaṇḍi bakavṛttīn ca varjayet .. 1.130 ..
शुक्लाम्बरधरो नीच केशश्मश्रुनखः शुचिः । न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १.१३१ ॥
शुक्ल-अम्बर-धरः केश-श्मश्रु-नखः शुचिः । न भार्या-दर्शने अश्नीयात् न एक-वासाः न संस्थितः ॥ १।१३१ ॥
śukla-ambara-dharaḥ keśa-śmaśru-nakhaḥ śuciḥ . na bhāryā-darśane aśnīyāt na eka-vāsāḥ na saṃsthitaḥ .. 1.131 ..
न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥ १.१३२ ॥
न संशयम् प्रपद्येत न अकस्मात् अप्रियम् वदेत् । न अहितम् न अनृतम् च एव न स्तेनः स्यात् न वार्धुषी ॥ १।१३२ ॥
na saṃśayam prapadyeta na akasmāt apriyam vadet . na ahitam na anṛtam ca eva na stenaḥ syāt na vārdhuṣī .. 1.132 ..
दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः । कुर्यात्प्रदक्षिणं देव मृद्गोविप्रवनस्पतीन् ॥ १.१३३ ॥
दाक्षायणी ब्रह्मसूत्री वेणुमान् स कमण्डलुः । कुर्यात् प्रदक्षिणम् देव मृद्-गो-विप्र-वनस्पतीन् ॥ १।१३३ ॥
dākṣāyaṇī brahmasūtrī veṇumān sa kamaṇḍaluḥ . kuryāt pradakṣiṇam deva mṛd-go-vipra-vanaspatīn .. 1.133 ..
न तु मेहेन्नदीछाया वर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्यर्कगोसोम संध्याम्बुस्त्रीद्विजन्मनः ॥ १.१३४ ॥
न तु मेहेत् नदी-छायाः वर्त्म-गोष्ठ-अम्बु-भस्मसु । न प्रति अग्नि-अर्क-गो-सोम संध्या-अम्बु-स्त्री-द्विजन्मनः ॥ १।१३४ ॥
na tu mehet nadī-chāyāḥ vartma-goṣṭha-ambu-bhasmasu . na prati agni-arka-go-soma saṃdhyā-ambu-strī-dvijanmanaḥ .. 1.134 ..
नेक्षेतार्कं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १.१३५ ॥
न ईक्षेत अर्कम् न नग्नाम् स्त्रीम् न च संसृष्ट-मैथुनाम् । न च मूत्रम् पुरीषम् वा न अशुचीः राहु-तारकाः ॥ १।१३५ ॥
na īkṣeta arkam na nagnām strīm na ca saṃsṛṣṭa-maithunām . na ca mūtram purīṣam vā na aśucīḥ rāhu-tārakāḥ .. 1.135 ..
अयं मे वज्र इत्येवं सर्वं मन्त्रं उदीरयेत् । वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥ १.१३६ ॥
अयम् मे वज्रः इति एवम् सर्वम् मन्त्रम् उदीरयेत् । वर्षति अप्रावृतः गच्छेत् स्वपेत् प्रत्यक्-शिराः न च ॥ १।१३६ ॥
ayam me vajraḥ iti evam sarvam mantram udīrayet . varṣati aprāvṛtaḥ gacchet svapet pratyak-śirāḥ na ca .. 1.136 ..
ष्ठीवनासृक्शकृन्मूत्र रेतांस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनं अभिलङ्घयेत् ॥ १.१३७ ॥
ष्ठीवन-असृक्-शकृत्-मूत्र रेतांसि अप्सु न निक्षिपेत् । पादौ प्रतापयेत् न अग्नौ न च एनम् अभिलङ्घयेत् ॥ १।१३७ ॥
ṣṭhīvana-asṛk-śakṛt-mūtra retāṃsi apsu na nikṣipet . pādau pratāpayet na agnau na ca enam abhilaṅghayet .. 1.137 ..
जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् । नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १.१३८ ॥
जलम् पिबेत् न अञ्जलिना न शयानम् प्रबोधयेत् । न अक्षैः क्रीडेत् न धर्म-घ्नैः व्याधितैः वा न संविशेत् ॥ १।१३८ ॥
jalam pibet na añjalinā na śayānam prabodhayet . na akṣaiḥ krīḍet na dharma-ghnaiḥ vyādhitaiḥ vā na saṃviśet .. 1.138 ..
विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् । केशभस्मतुषाङ्गार कपालेषु च संस्थितिम् ॥ १.१३९ ॥
विरुद्धम् वर्जयेत् कर्म प्रेतधूमम् नदी-तरम् । केश-भस्म-तुष-अङ्गार-कपालेषु च संस्थितिम् ॥ १।१३९ ॥
viruddham varjayet karma pretadhūmam nadī-taram . keśa-bhasma-tuṣa-aṅgāra-kapāleṣu ca saṃsthitim .. 1.139 ..
नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् । न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १.१४० ॥
न आचक्षीत धयन्तीम् गाम् न अद्वारेण विशेत् क्वचिद् । न राज्ञः प्रतिगृह्णीयात् लुब्धस्य उच्छास्त्र-वर्तिनः ॥ १।१४० ॥
na ācakṣīta dhayantīm gām na advāreṇa viśet kvacid . na rājñaḥ pratigṛhṇīyāt lubdhasya ucchāstra-vartinaḥ .. 1.140 ..
प्रतिग्रहे सूनिचक्रि ध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १.१४१ ॥
प्रतिग्रहे सूनि-चक्रि ध्वजि-वेश्या-नराधिपाः । दुष्टाः दशगुणम् पूर्वात् पूर्वात् एते यथाक्रमम् ॥ १।१४१ ॥
pratigrahe sūni-cakri dhvaji-veśyā-narādhipāḥ . duṣṭāḥ daśaguṇam pūrvāt pūrvāt ete yathākramam .. 1.141 ..
अध्यायानां उपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १.१४२ ॥
अध्यायानाम् उपाकर्म श्रावण्याम् श्रवणेन वा । हस्तेन ओषधि-भावे वा पञ्चम्याम् श्रावणस्य तु ॥ १।१४२ ॥
adhyāyānām upākarma śrāvaṇyām śravaṇena vā . hastena oṣadhi-bhāve vā pañcamyām śrāvaṇasya tu .. 1.142 ..
पौषमासस्य रोहिण्यां अष्टकायां अथापि वा । जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥ १.१४३ ॥
पौष-मासस्य रोहिण्याम् अष्टकायाम् अथ अपि वा । जल-अन्ते छन्दसाम् कुर्यात् उत्सर्गम् विधिवत् बहिस् ॥ १।१४३ ॥
pauṣa-māsasya rohiṇyām aṣṭakāyām atha api vā . jala-ante chandasām kuryāt utsargam vidhivat bahis .. 1.143 ..
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १.१४४ ॥
त्रि-अहम् प्रेतेषु अनध्यायः । उपाकर्मणि च उत्सर्गे स्व-शाखा-श्रोत्रिये तथा ॥ १।१४४ ॥
tri-aham preteṣu anadhyāyaḥ . upākarmaṇi ca utsarge sva-śākhā-śrotriye tathā .. 1.144 ..
संध्यागर्जितनिर्घात भूकंपोल्कानिपातने । समाप्य वेदं द्युनिशं आरण्यकं अधीत्य च ॥ १.१४५ ॥
संध्या-गर्जित-निर्घात भूकंप-उल्का-निपातने । समाप्य वेदम् द्युनिशम् आरण्यकम् अधीत्य च ॥ १।१४५ ॥
saṃdhyā-garjita-nirghāta bhūkaṃpa-ulkā-nipātane . samāpya vedam dyuniśam āraṇyakam adhītya ca .. 1.145 ..
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके । ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.१४६ ॥
पञ्चदश्याम् चतुर्दश्याम् अष्टम्याम् राहुसूतके । ऋतु-संधिषु भुक्त्वा वा श्राद्धिकम् प्रतिगृह्य च ॥ १।१४६ ॥
pañcadaśyām caturdaśyām aṣṭamyām rāhusūtake . ṛtu-saṃdhiṣu bhuktvā vā śrāddhikam pratigṛhya ca .. 1.146 ..
पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः । कृतेऽनन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.१४७ ॥
पशु-मण्डूक-नकुल-श्व-अहि-मार्जार-मूषकैः । कृते अनन्तरे तु अहोरात्रम् शक्रपाते तथा उच्छ्रये ॥ १।१४७ ॥
paśu-maṇḍūka-nakula-śva-ahi-mārjāra-mūṣakaiḥ . kṛte anantare tu ahorātram śakrapāte tathā ucchraye .. 1.147 ..
श्वक्रोष्टृगर्दभोलूक सामबाणार्तनिःस्वने । अमेध्यशवशूद्रान्त्य श्मशानपतितान्तिके ॥ १.१४८ ॥
श्व-क्रोष्टृ-गर्दभ-उलूक-साम-बाण-आर्त-निःस्वने । अमेध्य-शव-शूद्र-अन्त्य-श्मशान-पतित-अन्तिके ॥ १।१४८ ॥
śva-kroṣṭṛ-gardabha-ulūka-sāma-bāṇa-ārta-niḥsvane . amedhya-śava-śūdra-antya-śmaśāna-patita-antike .. 1.148 ..
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे । भुक्त्वार्द्रपाणिरम्भोऽन्तरर्धरात्रेऽतिमारुते ॥ १.१४९ ॥
देशे अशुचौ आत्मनि च विद्युत्-स्तनित-संप्लवे । भुक्त्वा आर्द्र-पाणिः अम्भः अन्तर् अर्धरात्रे अतिमारुते ॥ १।१४९ ॥
deśe aśucau ātmani ca vidyut-stanita-saṃplave . bhuktvā ārdra-pāṇiḥ ambhaḥ antar ardharātre atimārute .. 1.149 ..
पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहं आगते ॥ १.१५० ॥
पांसु-प्रवर्षे दिग्दाहे संध्या-नीहार-भीतिषु । धावतः पूति-गन्धे च शिष्टे च गृहम् आगते ॥ १।१५० ॥
pāṃsu-pravarṣe digdāhe saṃdhyā-nīhāra-bhītiṣu . dhāvataḥ pūti-gandhe ca śiṣṭe ca gṛham āgate .. 1.150 ..
खरोष्ट्रयानहस्त्यश्व नौवृक्षेरिणरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ १.१५१ ॥
खर-उष्ट्र-यान-हस्ति-अश्व-नौ-वृक्ष-इरिण-रोहणे । सप्तत्रिंशत्-अनध्यायान् एतान् तात्कालिकान् विदुः ॥ १।१५१ ॥
khara-uṣṭra-yāna-hasti-aśva-nau-vṛkṣa-iriṇa-rohaṇe . saptatriṃśat-anadhyāyān etān tātkālikān viduḥ .. 1.151 ..
देवर्त्विक्स्नातकाचार्य राज्ञां छायां परस्त्रियाः । नाक्रामेद्रक्तविण्मूत्र ष्ठीवनोद्वर्तनादि च ॥ १.१५२ ॥
देव-ऋत्विज्-स्नातक-आचार्य राज्ञाम् छायाम् पर-स्त्रियाः । न आक्रामेत् रक्त-विष्-मूत्र ष्ठीवन-उद्वर्तन-आदि च ॥ १।१५२ ॥
deva-ṛtvij-snātaka-ācārya rājñām chāyām para-striyāḥ . na ākrāmet rakta-viṣ-mūtra ṣṭhīvana-udvartana-ādi ca .. 1.152 ..
विप्राहिक्षत्रियात्मानो नावज्ञेयाः कदाचन । आमृत्योः श्रियं आकाङ्क्षेन्न कंचिन्मर्मणि स्पृशेत् ॥ १.१५३ ॥
विप्र-अहि-क्षत्रिय-आत्मानः न अवज्ञेयाः कदाचन । आ मृत्योः श्रियम् आकाङ्क्षेत् न कंचिद् मर्मणि स्पृशेत् ॥ १।१५३ ॥
vipra-ahi-kṣatriya-ātmānaḥ na avajñeyāḥ kadācana . ā mṛtyoḥ śriyam ākāṅkṣet na kaṃcid marmaṇi spṛśet .. 1.153 ..
दूरादुच्छिष्टविण्मूत्र पादाम्भांसि समुत्सृजेत् । श्रुतिस्मृत्युदितं सम्यङ्नित्यं आचारं आचरेत् ॥ १.१५४ ॥
दूरात् उच्छिष्ट-विष्-मूत्र पाद-अम्भांसि समुत्सृजेत् । श्रुति-स्मृति-उदितम् सम्यक् नित्यम् आचारम् आचरेत् ॥ १।१५४ ॥
dūrāt ucchiṣṭa-viṣ-mūtra pāda-ambhāṃsi samutsṛjet . śruti-smṛti-uditam samyak nityam ācāram ācaret .. 1.154 ..
गोब्राह्मणानलान्नानि नोच्च्छिष्टो न पदा स्पृशेत् । न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १.१५५ ॥
गो-ब्राह्मण-अनल-अन्नानि न उच्छिष्टः न पदा स्पृशेत् । न निन्दा-ताडने कुर्यात् पुत्रम् शिष्यम् च ताडयेत् ॥ १।१५५ ॥
go-brāhmaṇa-anala-annāni na ucchiṣṭaḥ na padā spṛśet . na nindā-tāḍane kuryāt putram śiṣyam ca tāḍayet .. 1.155 ..
कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्म्यं अप्याचरेन्न तु ॥ १.१५६ ॥
कर्मणा मनसा वाचा यत्नात् धर्मम् समाचरेत् । अस्वर्ग्यम् लोक-विद्विष्टम् धर्म्यम् अपि आचरेत् न तु ॥ १।१५६ ॥
karmaṇā manasā vācā yatnāt dharmam samācaret . asvargyam loka-vidviṣṭam dharmyam api ācaret na tu .. 1.156 ..
मातृपित्रतिथिभ्रातृ जामिसंबन्धिमातुलैः । वृद्धबालातुराचार्य वैद्यसंश्रितबान्धवैः ॥ १.१५७ ॥
मातृ-पितृ-अतिथि-भ्रातृ-जामि-संबन्धि-मातुलैः । वृद्ध-बाल-आतुर-आचार्य-वैद्य-संश्रित-बान्धवैः ॥ १।१५७ ॥
mātṛ-pitṛ-atithi-bhrātṛ-jāmi-saṃbandhi-mātulaiḥ . vṛddha-bāla-ātura-ācārya-vaidya-saṃśrita-bāndhavaiḥ .. 1.157 ..
ऋत्विक्पुरोहितापत्य भार्यादाससनाभिभिः । विवादं वर्जयित्वा तु सर्वांल्लोकाञ् जयेद्गृही ॥ १.१५८ ॥
ऋत्विज्-पुरोहित-अपत्य-भार्या-दास-सनाभिभिः । विवादम् वर्जयित्वा तु सर्वान् लोकान् जयेत् गृही ॥ १।१५८ ॥
ṛtvij-purohita-apatya-bhāryā-dāsa-sanābhibhiḥ . vivādam varjayitvā tu sarvān lokān jayet gṛhī .. 1.158 ..
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु । स्नायान्नदीदेवखात ह्रदप्रस्रवणेषु च ॥ १.१५९ ॥
पञ्च पिण्डान् अन् उद्धृत्य न स्नायात् पर-वारिषु । स्नायात् नदी-देवखात ह्रद-प्रस्रवणेषु च ॥ १।१५९ ॥
pañca piṇḍān an uddhṛtya na snāyāt para-vāriṣu . snāyāt nadī-devakhāta hrada-prasravaṇeṣu ca .. 1.159 ..
परशय्यासनोद्यान गृहयानानि वर्जयेत् । अदत्तान्यग्निहीनस्य नान्नं अद्यादनापदि ॥ १.१६० ॥
पर-शय्या-आसन-उद्यान-गृह-यानानि वर्जयेत् । अदत्तानि अग्नि-हीनस्य न अन्नम् अद्यात् अनापदि ॥ १।१६० ॥
para-śayyā-āsana-udyāna-gṛha-yānāni varjayet . adattāni agni-hīnasya na annam adyāt anāpadi .. 1.160 ..
कदर्यबद्धचौराणां क्लीबरङ्गावतारिणाम् । वैणाभिशस्तवार्धुष्य गणिकागणदीक्षिणाम् ॥ १.१६१ ॥
कदर्य-बद्ध-चौराणाम् क्लीब-रङ्गावतारिणाम् । वैण-अभिशस्त-वार्धुष्य-गणिका-गण-दीक्षिणाम् ॥ १।१६१ ॥
kadarya-baddha-caurāṇām klība-raṅgāvatāriṇām . vaiṇa-abhiśasta-vārdhuṣya-gaṇikā-gaṇa-dīkṣiṇām .. 1.161 ..
चिकित्सकातुरक्रुद्ध पुंश्चलीमत्तविद्विषाम् । क्रूरोग्रपतितव्रात्य दाम्भिकोच्छिष्टभोजिनाम् ॥ १.१६२ ॥
चिकित्सक-आतुर-क्रुद्ध पुंश्चली-मत्त-विद्विषाम् । क्रूर-उग्र-पतित-व्रात्य-दाम्भिक-उच्छिष्ट-भोजिनाम् ॥ १।१६२ ॥
cikitsaka-ātura-kruddha puṃścalī-matta-vidviṣām . krūra-ugra-patita-vrātya-dāmbhika-ucchiṣṭa-bhojinām .. 1.162 ..
अवीरास्त्रीस्वर्णकार स्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकर्मार तन्तुवायश्ववृत्तिनाम् ॥ १.१६३ ॥
अवीर-अ स्त्री-स्वर्णकार-स्त्री-जित-ग्राम-याजिनाम् । तन्तुवाय-श्ववृत्तिनाम् ॥ १।१६३ ॥
avīra-a strī-svarṇakāra-strī-jita-grāma-yājinām . tantuvāya-śvavṛttinām .. 1.163 ..
नृशंसराजरजक कृतघ्नवधजीविनाम् । चैलधावसुराजीव सहोपपतिवेश्मनाम् ॥ १.१६४ ॥
नृशंस-राज-रजक कृतघ्न-वधजीविनाम् । चैलधाव-सुराजीव सह उपपतिवेश्मनाम् ॥ १।१६४ ॥
nṛśaṃsa-rāja-rajaka kṛtaghna-vadhajīvinām . cailadhāva-surājīva saha upapativeśmanām .. 1.164 ..
पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् । एषां अन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ १.१६५ ॥
पिशुन-अनृतिनोः च एव तथा चाक्रिक-बन्दिनाम् । एषाम् अन्नम् न भोक्तव्यम् सोम-विक्रयिणः तथा ॥ १।१६५ ॥
piśuna-anṛtinoḥ ca eva tathā cākrika-bandinām . eṣām annam na bhoktavyam soma-vikrayiṇaḥ tathā .. 1.165 ..
शूद्रेषु दासगोपाल कुलमित्रार्धसीरिणः । भोज्यान्नाः नापितश्चैव यश्चात्मानं निवेदयेत् ॥ १.१६६ ॥
शूद्रेषु दास-गोपाल कुल-मित्र-अर्धसीरिणः । भोज्य-अन्नाः नापितः च एव यः च आत्मानम् निवेदयेत् ॥ १।१६६ ॥
śūdreṣu dāsa-gopāla kula-mitra-ardhasīriṇaḥ . bhojya-annāḥ nāpitaḥ ca eva yaḥ ca ātmānam nivedayet .. 1.166 ..
अनर्चितं वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १.१६७ ॥
अनर्चितम् वृथामांसम् केश-कीट-समन्वितम् । शुक्तम् पर्युषित-उच्छिष्टम् श्व-स्पृष्टम् पतित-ईक्षितम् ॥ १।१६७ ॥
anarcitam vṛthāmāṃsam keśa-kīṭa-samanvitam . śuktam paryuṣita-ucchiṣṭam śva-spṛṣṭam patita-īkṣitam .. 1.167 ..
उदक्यास्पृष्टसंघुष्टं पर्यायान्नं च वर्जयेत् । गोघ्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १.१६८ ॥
उदक्या-स्पृष्ट-संघुष्टम् पर्याय-अन्नम् च वर्जयेत् । गो-घ्रातम् शकुन-उच्छिष्टम् पदा स्पृष्टम् च कामतः ॥ १।१६८ ॥
udakyā-spṛṣṭa-saṃghuṣṭam paryāya-annam ca varjayet . go-ghrātam śakuna-ucchiṣṭam padā spṛṣṭam ca kāmataḥ .. 1.168 ..
अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूम यवगोरसविक्रियाः ॥ १.१६९ ॥
अन्नम् पर्युषितम् भोज्यम् स्नेह-अक्तम् चिर-संस्थितम् । अस्नेहाः अपि गोधूम यव-गोरस-विक्रियाः ॥ १।१६९ ॥
annam paryuṣitam bhojyam sneha-aktam cira-saṃsthitam . asnehāḥ api godhūma yava-gorasa-vikriyāḥ .. 1.169 ..
संधिन्यनिर्दशावत्सा गोपयः परिवर्जयेत् । औष्ट्रं ऐकशफं स्त्रैणं आरण्यकं अथाविकम् ॥ १.१७० ॥
संधिनी-अनिर्दशा-वत्साः गो पयः परिवर्जयेत् । औष्ट्रम् ऐकशफम् स्त्रैणम् आरण्यकम् अथ आविकम् ॥ १।१७० ॥
saṃdhinī-anirdaśā-vatsāḥ go payaḥ parivarjayet . auṣṭram aikaśapham straiṇam āraṇyakam atha āvikam .. 1.170 ..
देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १.१७१ ॥
देवता-अर्थम् हविः शिग्रुम् लोहितान् व्रश्चनान् तथा । अन् उपाकृत-मांसानि विड्जानि कवकानि च ॥ १।१७१ ॥
devatā-artham haviḥ śigrum lohitān vraścanān tathā . an upākṛta-māṃsāni viḍjāni kavakāni ca .. 1.171 ..
क्रव्यादपक्षिदात्यूह शुकप्रतुदटिट्टिभान् । सारसैकशफान्हंसान्सर्वांश्च ग्रामवासिनः ॥ १.१७२ ॥
क्रव्याद-पक्षि-दात्यूह-शुक-प्रतुद-टिट्टिभान् । सारस-एकशफान् हंसान् सर्वान् च ग्राम-वासिनः ॥ १।१७२ ॥
kravyāda-pakṣi-dātyūha-śuka-pratuda-ṭiṭṭibhān . sārasa-ekaśaphān haṃsān sarvān ca grāma-vāsinaḥ .. 1.172 ..
कोयष्टिप्लवचक्राह्व बलाकाबकविष्किरान् । वृथाकृसरसम्याव पायसापूपशष्कुलीः ॥ १.१७३ ॥
कोयष्टि-प्लव-चक्र-आह्व बलाका-बक-विष्किरान् । पायस-अपूप-शष्कुलीः ॥ १।१७३ ॥
koyaṣṭi-plava-cakra-āhva balākā-baka-viṣkirān . pāyasa-apūpa-śaṣkulīḥ .. 1.173 ..
कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १.१७४ ॥
कलविङ्कम् स काकोलम् कुररम् रज्जुदालकम् । जालपादान् खञ्जरीटान् अज्ञातान् च मृग-द्विजान् ॥ १।१७४ ॥
kalaviṅkam sa kākolam kuraram rajjudālakam . jālapādān khañjarīṭān ajñātān ca mṛga-dvijān .. 1.174 ..
चाषांश्च रक्तपादांश्च सौनं वल्लूरं एव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥ १.१७५ ॥
चाषान् च रक्तपादान् च सौनम् वल्लूरम् एव च । मत्स्यान् च कामतस् जग्ध्वा स उपवासः त्रि-अहम् वसेत् ॥ १।१७५ ॥
cāṣān ca raktapādān ca saunam vallūram eva ca . matsyān ca kāmatas jagdhvā sa upavāsaḥ tri-aham vaset .. 1.175 ..
पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १.१७६ ॥
पलाण्डुम् विड्वराहम् च छत्राकम् ग्राम-कुक्कुटम् । लशुनम् गृञ्जनम् च एव जग्ध्वा चान्द्रायणम् चरेत् ॥ १।१७६ ॥
palāṇḍum viḍvarāham ca chatrākam grāma-kukkuṭam . laśunam gṛñjanam ca eva jagdhvā cāndrāyaṇam caret .. 1.176 ..
भक्ष्याः पञ्चनखाः सेधागोधाकच्छपशल्लकाः । शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १.१७७ ॥
भक्ष्याः पञ्चनखाः सेधा-गोधा-कच्छप-शल्लकाः । शशः च मत्स्येषु अपि हि सिंहतुण्डक-रोहिताः ॥ १।१७७ ॥
bhakṣyāḥ pañcanakhāḥ sedhā-godhā-kacchapa-śallakāḥ . śaśaḥ ca matsyeṣu api hi siṃhatuṇḍaka-rohitāḥ .. 1.177 ..
तथा पाठीनराजीव सशल्काश्च द्विजातिभिः । अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १.१७८ ॥
तथा स शल्काः च द्विजातिभिः । अतस् शृणुध्वम् मांसस्य विधिम् भक्षण-वर्जने ॥ १।१७८ ॥
tathā sa śalkāḥ ca dvijātibhiḥ . atas śṛṇudhvam māṃsasya vidhim bhakṣaṇa-varjane .. 1.178 ..
प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ १.१७९ ॥
प्राण-अत्यये तथा श्राद्धे प्रोक्षिते द्विज-काम्यया । देवान् पितॄन् समभ्यर्च्य खादत् मांसम् न दोष-भाज् ॥ १।१७९ ॥
prāṇa-atyaye tathā śrāddhe prokṣite dvija-kāmyayā . devān pitṝn samabhyarcya khādat māṃsam na doṣa-bhāj .. 1.179 ..
वसेत्स नरके घोरे दिनानि पशुरोमभिः । सम्मितानि दुराचारो यो हन्त्यविधिना पशून् ॥ १.१८० ॥
वसेत् स नरके घोरे दिनानि पशु-रोमभिः । सम्मितानि दुराचारः यः हन्ति अविधिना पशून् ॥ १।१८० ॥
vaset sa narake ghore dināni paśu-romabhiḥ . sammitāni durācāraḥ yaḥ hanti avidhinā paśūn .. 1.180 ..
सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विप्रो मुनिर्मांसविवर्जनात् ॥ १.१८१ ॥
सर्वान् कामान् अवाप्नोति हयमेध-फलम् तथा । गृहे अपि निवसन् विप्रः मुनिः मांस-विवर्जनात् ॥ १।१८१ ॥
sarvān kāmān avāpnoti hayamedha-phalam tathā . gṛhe api nivasan vipraḥ muniḥ māṃsa-vivarjanāt .. 1.181 ..
सौवर्णराजताब्जानां ऊर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफल वासोविदलचर्मणाम् ॥ १.१८२ ॥
सौवर्ण-राजत-अप्-जानाम् ऊर्ध्वपात्र-ग्रह-अश्मनाम् । शाक-रज्जु-मूल-फल-वासः-विदल-चर्मणाम् ॥ १।१८२ ॥
sauvarṇa-rājata-ap-jānām ūrdhvapātra-graha-aśmanām . śāka-rajju-mūla-phala-vāsaḥ-vidala-carmaṇām .. 1.182 ..
पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेह पात्राण्युष्णेन वारिणा ॥ १.१८३ ॥
पात्राणाम् चमसानाम् च वारिणा शुद्धिः इष्यते । चरु-स्रुच्-स्रुव-स स्नेह पात्राणि उष्णेन वारिणा ॥ १।१८३ ॥
pātrāṇām camasānām ca vāriṇā śuddhiḥ iṣyate . caru-sruc-sruva-sa sneha pātrāṇi uṣṇena vāriṇā .. 1.183 ..
स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ १.१८४ ॥
स्फ्य-शूर्प-अजिन-धान्यानाम् मुसल-उलूखल-अनसाम् । प्रोक्षणम् संहतानाम् च बहूनाम् धान्य-वाससाम् ॥ १।१८४ ॥
sphya-śūrpa-ajina-dhānyānām musala-ulūkhala-anasām . prokṣaṇam saṃhatānām ca bahūnām dhānya-vāsasām .. 1.184 ..
तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८५ ॥
तक्षणम् दारु-शृङ्ग-अस्थ्नाम् गो-वालैः फल-संभुवाम् । मार्जनम् यज्ञ-पात्राणाम् पाणिना यज्ञ-कर्मणि ॥ १।१८५ ॥
takṣaṇam dāru-śṛṅga-asthnām go-vālaiḥ phala-saṃbhuvām . mārjanam yajña-pātrāṇām pāṇinā yajña-karmaṇi .. 1.185 ..
सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् । सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८६ ॥
स ऊषर-उदक-गो-मूत्रैः शुध्यति आविक-कौशिकम् । स श्रीफलैः अंशुपट्टम् स अरिष्टैः कुतपम् तथा ॥ १।१८६ ॥
sa ūṣara-udaka-go-mūtraiḥ śudhyati āvika-kauśikam . sa śrīphalaiḥ aṃśupaṭṭam sa ariṣṭaiḥ kutapam tathā .. 1.186 ..
सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् । कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८७ ॥
स गौरसर्षपैः क्षौमम् पुनःपाकात् मही-मयम् । कारु-हस्तः शुचिः पण्यम् भैक्षम् योषित्-मुखम् तथा ॥ १।१८७ ॥
sa gaurasarṣapaiḥ kṣaumam punaḥpākāt mahī-mayam . kāru-hastaḥ śuciḥ paṇyam bhaikṣam yoṣit-mukham tathā .. 1.187 ..
भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा । सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात् ॥ १.१८८ ॥
भू-शुद्धिः मार्जनात् दाहात् कालात् गो क्रमणात् तथा । सेकात् उल्लेखनात् लेपात् गृहम् मार्जन-लेपनात् ॥ १।१८८ ॥
bhū-śuddhiḥ mārjanāt dāhāt kālāt go kramaṇāt tathā . sekāt ullekhanāt lepāt gṛham mārjana-lepanāt .. 1.188 ..
गोघ्रातेऽन्ने तथा केश मक्षिकाकीटदूषिते । सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९ ॥
गो-घ्राते अन्ने तथा केश मक्षिका-कीट-दूषिते । सलिलम् भस्म मृदु वा अपि प्रक्षेप्तव्यम् विशुद्धये ॥ १।१८९ ॥
go-ghrāte anne tathā keśa makṣikā-kīṭa-dūṣite . salilam bhasma mṛdu vā api prakṣeptavyam viśuddhaye .. 1.189 ..
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥ १.१९० ॥
त्रपु-सीसक-ताम्राणाम् क्षार-अम्ल-उदक-वारिभिः । भस्म-अद्भिः कांस्य-लोहानाम् शुद्धिः प्लावः द्रवस्य च ॥ १।१९० ॥
trapu-sīsaka-tāmrāṇām kṣāra-amla-udaka-vāribhiḥ . bhasma-adbhiḥ kāṃsya-lohānām śuddhiḥ plāvaḥ dravasya ca .. 1.190 ..
अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तं अम्बुनिर्णिक्तं अज्ञातं च सदा शुचि ॥ १.१९१ ॥
अमेध्य-अक्तस्य मृद्-तोयैः शुद्धिः गन्ध-आदि-कर्षणात् । वाच्-शस्तम् अम्बु-निर्णिक्तम् अज्ञातम् च सदा शुचि ॥ १।१९१ ॥
amedhya-aktasya mṛd-toyaiḥ śuddhiḥ gandha-ādi-karṣaṇāt . vāc-śastam ambu-nirṇiktam ajñātam ca sadā śuci .. 1.191 ..
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् । तथा मांसं श्वचण्डाल क्रव्यादादिनिपातितम् ॥ १.१९२ ॥
शुचि गो-तृप्ति-कृत् तोयम् प्रकृति-स्थम् मही-गतम् । तथा मांसम् श्व-चण्डाल क्रव्याद-आदि-निपातितम् ॥ १।१९२ ॥
śuci go-tṛpti-kṛt toyam prakṛti-stham mahī-gatam . tathā māṃsam śva-caṇḍāla kravyāda-ādi-nipātitam .. 1.192 ..
रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः । विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १.१९३ ॥
रश्मिः अग्निः रजः छाया गौः अश्वः वसुधा अनिलः । विप्रुषः मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १।१९३ ॥
raśmiḥ agniḥ rajaḥ chāyā gauḥ aśvaḥ vasudhā anilaḥ . vipruṣaḥ makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ .. 1.193 ..
अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः । पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९४ ॥
अज-अश्वयोः मुखम् मेध्यम् न गोः न नर-जाः मलाः । पन्थानः च विशुध्यन्ति सोम-सूर्य-अंशु-मारुतैः ॥ १।१९४ ॥
aja-aśvayoḥ mukham medhyam na goḥ na nara-jāḥ malāḥ . panthānaḥ ca viśudhyanti soma-sūrya-aṃśu-mārutaiḥ .. 1.194 ..
मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः । श्मश्रु चास्यगतं दन्त सक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५ ॥
मुख-जाः विप्रुषः मेध्याः तथा आचमन-बिन्दवः । श्मश्रु च आस्य-गतम् दन्त सक्तम् त्यक्त्वा ततस् शुचिः ॥ १।१९५ ॥
mukha-jāḥ vipruṣaḥ medhyāḥ tathā ācamana-bindavaḥ . śmaśru ca āsya-gatam danta saktam tyaktvā tatas śuciḥ .. 1.195 ..
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १.१९६ ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्या-उपसर्पणे । आचान्तः पुनर् आचामेत् वासः विपरिधाय च ॥ १।१९६ ॥
snātvā pītvā kṣute supte bhuktvā rathyā-upasarpaṇe . ācāntaḥ punar ācāmet vāsaḥ viparidhāya ca .. 1.196 ..
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १.१९७ ॥
रथ्या-कर्दम-तोयानि स्पृष्टानि अन्त्य-श्व-वायसैः । मारुतेन एव शुध्यन्ति पक्व-इष्टका-चितानि च ॥ १।१९७ ॥
rathyā-kardama-toyāni spṛṣṭāni antya-śva-vāyasaiḥ . mārutena eva śudhyanti pakva-iṣṭakā-citāni ca .. 1.197 ..
सौवर्णराजताब्जानां ऊर्ध्वपात्रग्रहाश्मनाम् । शाकरज्जुमूलफल वासोविदलचर्मणाम् ॥ १.१८२ ॥
सौवर्ण-राजत-अप्-जानाम् ऊर्ध्वपात्र-ग्रह-अश्मनाम् । शाक-रज्जु-मूल-फल-वासः-विदल-चर्मणाम् ॥ १।१८२ ॥
sauvarṇa-rājata-ap-jānām ūrdhvapātra-graha-aśmanām . śāka-rajju-mūla-phala-vāsaḥ-vidala-carmaṇām .. 1.182 ..
पात्राणां चमसानां च वारिणा शुद्धिरिष्यते । चरुस्रुक्स्रुवसस्नेह पात्राण्युष्णेन वारिणा ॥ १.१८३ ॥
पात्राणाम् चमसानाम् च वारिणा शुद्धिः इष्यते । चरु-स्रुच्-स्रुव-स स्नेह पात्राणि उष्णेन वारिणा ॥ १।१८३ ॥
pātrāṇām camasānām ca vāriṇā śuddhiḥ iṣyate . caru-sruc-sruva-sa sneha pātrāṇi uṣṇena vāriṇā .. 1.183 ..
स्फ्यशूर्पाजिनधान्यानां मुसलोलूखलानसाम् । प्रोक्षणं संहतानां च बहूनां धान्यवाससाम् ॥ १.१८४ ॥
स्फ्य-शूर्प-अजिन-धान्यानाम् मुसल-उलूखल-अनसाम् । प्रोक्षणम् संहतानाम् च बहूनाम् धान्य-वाससाम् ॥ १।१८४ ॥
sphya-śūrpa-ajina-dhānyānām musala-ulūkhala-anasām . prokṣaṇam saṃhatānām ca bahūnām dhānya-vāsasām .. 1.184 ..
तक्षणं दारुशृङ्गास्थ्नां गोवालैः फलसंभुवाम् । मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ॥ १.१८५ ॥
तक्षणम् दारु-शृङ्ग-अस्थ्नाम् गो-वालैः फल-संभुवाम् । मार्जनम् यज्ञ-पात्राणाम् पाणिना यज्ञ-कर्मणि ॥ १।१८५ ॥
takṣaṇam dāru-śṛṅga-asthnām go-vālaiḥ phala-saṃbhuvām . mārjanam yajña-pātrāṇām pāṇinā yajña-karmaṇi .. 1.185 ..
सोषरोदकगोमूत्रैः शुध्यत्याविककौशिकम् । सश्रीफलैरंशुपट्टं सारिष्टैः कुतपं तथा ॥ १.१८६ ॥
स ऊषर-उदक-गो-मूत्रैः शुध्यति आविक-कौशिकम् । स श्रीफलैः अंशुपट्टम् स अरिष्टैः कुतपम् तथा ॥ १।१८६ ॥
sa ūṣara-udaka-go-mūtraiḥ śudhyati āvika-kauśikam . sa śrīphalaiḥ aṃśupaṭṭam sa ariṣṭaiḥ kutapam tathā .. 1.186 ..
सगौरसर्षपैः क्षौमं पुनःपाकान्महीमयम् । कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ॥ १.१८७ ॥
स गौरसर्षपैः क्षौमम् पुनःपाकात् मही-मयम् । कारु-हस्तः शुचिः पण्यम् भैक्षम् योषित्-मुखम् तथा ॥ १।१८७ ॥
sa gaurasarṣapaiḥ kṣaumam punaḥpākāt mahī-mayam . kāru-hastaḥ śuciḥ paṇyam bhaikṣam yoṣit-mukham tathā .. 1.187 ..
भूशुद्धिर्मार्जनाद्दाहात्कालाद्गोक्रमणात्तथा । सेकादुल्लेखनाल्लेपाद्गृहं मार्जनलेपनात् ॥ १.१८८ ॥
भू-शुद्धिः मार्जनात् दाहात् कालात् गो क्रमणात् तथा । सेकात् उल्लेखनात् लेपात् गृहम् मार्जन-लेपनात् ॥ १।१८८ ॥
bhū-śuddhiḥ mārjanāt dāhāt kālāt go kramaṇāt tathā . sekāt ullekhanāt lepāt gṛham mārjana-lepanāt .. 1.188 ..
गोघ्रातेऽन्ने तथा केश मक्षिकाकीटदूषिते । सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ॥ १.१८९ ॥
गो-घ्राते अन्ने तथा केश मक्षिका-कीट-दूषिते । सलिलम् भस्म मृदु वा अपि प्रक्षेप्तव्यम् विशुद्धये ॥ १।१८९ ॥
go-ghrāte anne tathā keśa makṣikā-kīṭa-dūṣite . salilam bhasma mṛdu vā api prakṣeptavyam viśuddhaye .. 1.189 ..
त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः । भस्माद्भिः कांस्यलोहानां शुद्धिः प्लावो द्रवस्य च ॥ १.१९० ॥
त्रपु-सीसक-ताम्राणाम् क्षार-अम्ल-उदक-वारिभिः । भस्म-अद्भिः कांस्य-लोहानाम् शुद्धिः प्लावः द्रवस्य च ॥ १।१९० ॥
trapu-sīsaka-tāmrāṇām kṣāra-amla-udaka-vāribhiḥ . bhasma-adbhiḥ kāṃsya-lohānām śuddhiḥ plāvaḥ dravasya ca .. 1.190 ..
अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तं अम्बुनिर्णिक्तं अज्ञातं च सदा शुचि ॥ १.१९१ ॥
अमेध्य-अक्तस्य मृद्-तोयैः शुद्धिः गन्ध-आदि-कर्षणात् । वाच्-शस्तम् अम्बु-निर्णिक्तम् अज्ञातम् च सदा शुचि ॥ १।१९१ ॥
amedhya-aktasya mṛd-toyaiḥ śuddhiḥ gandha-ādi-karṣaṇāt . vāc-śastam ambu-nirṇiktam ajñātam ca sadā śuci .. 1.191 ..
शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् । तथा मांसं श्वचण्डाल क्रव्यादादिनिपातितम् ॥ १.१९२ ॥
शुचि गो-तृप्ति-कृत् तोयम् प्रकृति-स्थम् मही-गतम् । तथा मांसम् श्व-चण्डाल क्रव्याद-आदि-निपातितम् ॥ १।१९२ ॥
śuci go-tṛpti-kṛt toyam prakṛti-stham mahī-gatam . tathā māṃsam śva-caṇḍāla kravyāda-ādi-nipātitam .. 1.192 ..
रश्मिरग्नी रजश्छाया गौरश्वो वसुधानिलः । विप्रुषो मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १.१९३ ॥
रश्मिः अग्निः रजः छाया गौः अश्वः वसुधा अनिलः । विप्रुषः मक्षिकाः स्पर्शे वत्सः प्रस्नवने शुचिः ॥ १।१९३ ॥
raśmiḥ agniḥ rajaḥ chāyā gauḥ aśvaḥ vasudhā anilaḥ . vipruṣaḥ makṣikāḥ sparśe vatsaḥ prasnavane śuciḥ .. 1.193 ..
अजाश्वयोर्मुखं मेध्यं न गोर्न नरजा मलाः । पन्थानश्च विशुध्यन्ति सोमसूर्यांशुमारुतैः ॥ १.१९४ ॥
अज-अश्वयोः मुखम् मेध्यम् न गोः न नर-जाः मलाः । पन्थानः च विशुध्यन्ति सोम-सूर्य-अंशु-मारुतैः ॥ १।१९४ ॥
aja-aśvayoḥ mukham medhyam na goḥ na nara-jāḥ malāḥ . panthānaḥ ca viśudhyanti soma-sūrya-aṃśu-mārutaiḥ .. 1.194 ..
मुखजा विप्रुषो मेध्यास्तथाचमनबिन्दवः । श्मश्रु चास्यगतं दन्त सक्तं त्यक्त्वा ततः शुचिः ॥ १.१९५ ॥
मुख-जाः विप्रुषः मेध्याः तथा आचमन-बिन्दवः । श्मश्रु च आस्य-गतम् दन्त सक्तम् त्यक्त्वा ततस् शुचिः ॥ १।१९५ ॥
mukha-jāḥ vipruṣaḥ medhyāḥ tathā ācamana-bindavaḥ . śmaśru ca āsya-gatam danta saktam tyaktvā tatas śuciḥ .. 1.195 ..
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्योपसर्पणे । आचान्तः पुनराचामेद्वासो विपरिधाय च ॥ १.१९६ ॥
स्नात्वा पीत्वा क्षुते सुप्ते भुक्त्वा रथ्या-उपसर्पणे । आचान्तः पुनर् आचामेत् वासः विपरिधाय च ॥ १।१९६ ॥
snātvā pītvā kṣute supte bhuktvā rathyā-upasarpaṇe . ācāntaḥ punar ācāmet vāsaḥ viparidhāya ca .. 1.196 ..
रथ्याकर्दमतोयानि स्पृष्टान्यन्त्यश्ववायसैः । मारुतेनैव शुध्यन्ति पक्वेष्टकचितानि च ॥ १.१९७ ॥
रथ्या-कर्दम-तोयानि स्पृष्टानि अन्त्य-श्व-वायसैः । मारुतेन एव शुध्यन्ति पक्व-इष्टका-चितानि च ॥ १।१९७ ॥
rathyā-kardama-toyāni spṛṣṭāni antya-śva-vāyasaiḥ . mārutena eva śudhyanti pakva-iṣṭakā-citāni ca .. 1.197 ..
संध्यागर्जितनिर्घात भूकंपोल्कानिपातने । समाप्य वेदं द्युनिशं आरण्यकं अधीत्य च ॥ १.१४५ ॥
संध्या-गर्जित-निर्घात भूकंप-उल्का-निपातने । समाप्य वेदम् द्युनिशम् आरण्यकम् अधीत्य च ॥ १।१४५ ॥
saṃdhyā-garjita-nirghāta bhūkaṃpa-ulkā-nipātane . samāpya vedam dyuniśam āraṇyakam adhītya ca .. 1.145 ..
पञ्चदश्यां चतुर्दश्यां अष्टम्यां राहुसूतके । ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १.१४६ ॥
पञ्चदश्याम् चतुर्दश्याम् अष्टम्याम् राहुसूतके । ऋतु-संधिषु भुक्त्वा वा श्राद्धिकम् प्रतिगृह्य च ॥ १।१४६ ॥
pañcadaśyām caturdaśyām aṣṭamyām rāhusūtake . ṛtu-saṃdhiṣu bhuktvā vā śrāddhikam pratigṛhya ca .. 1.146 ..
पशुमण्डूकनकुल श्वाहिमार्जारमूषकैः । कृतेऽनन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १.१४७ ॥
पशु-मण्डूक-नकुल-श्व-अहि-मार्जार-मूषकैः । कृते अनन्तरे तु अहोरात्रम् शक्रपाते तथा उच्छ्रये ॥ १।१४७ ॥
paśu-maṇḍūka-nakula-śva-ahi-mārjāra-mūṣakaiḥ . kṛte anantare tu ahorātram śakrapāte tathā ucchraye .. 1.147 ..
अमावास्याष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् । द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥ १.२१७ ॥
अमावास्या अष्टका वृद्धिः कृष्ण-पक्षः अयन-द्वयम् । द्रव्यम् ब्राह्मण-संपत्तिः विषुवत्-सूर्य-संक्रमः ॥ १।२१७ ॥
amāvāsyā aṣṭakā vṛddhiḥ kṛṣṇa-pakṣaḥ ayana-dvayam . dravyam brāhmaṇa-saṃpattiḥ viṣuvat-sūrya-saṃkramaḥ .. 1.217 ..
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः । श्राद्धं प्रति रुचिश्चैते श्राद्धकालाः प्रकीर्तिताः ॥ १.२१८ ॥
व्यतीपातः गजच्छाया ग्रहणम् चन्द्र-सूर्ययोः । श्राद्धम् प्रति रुचिः च एते श्राद्ध-कालाः प्रकीर्तिताः ॥ १।२१८ ॥
vyatīpātaḥ gajacchāyā grahaṇam candra-sūryayoḥ . śrāddham prati ruciḥ ca ete śrāddha-kālāḥ prakīrtitāḥ .. 1.218 ..
अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥ १.२१९ ॥
अग्र्यः सर्वेषु वेदेषु श्रोत्रियः ब्रह्म-विद् युवा । वेद-अर्थ-विद् ज्येष्ठ-सामा त्रिमधुः त्रि-सुपर्णकः ॥ १।२१९ ॥
agryaḥ sarveṣu vedeṣu śrotriyaḥ brahma-vid yuvā . veda-artha-vid jyeṣṭha-sāmā trimadhuḥ tri-suparṇakaḥ .. 1.219 ..
स्वस्रीयर्त्विज्जामातृ याज्यश्वशुरमातुलाः । त्रिणाचिकेतदौहित्र शिष्यसंबन्धिबान्धवाः ॥ १.२२० ॥
स्वस्रीय-ऋत्विज्-जामातृ-याज्य-श्वशुर-मातुलाः । त्रिणाचिकेत-दौहित्र-शिष्य-संबन्धि-बान्धवाः ॥ १।२२० ॥
svasrīya-ṛtvij-jāmātṛ-yājya-śvaśura-mātulāḥ . triṇāciketa-dauhitra-śiṣya-saṃbandhi-bāndhavāḥ .. 1.220 ..
कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ॥ १.२२१ ॥
कर्म-निष्ठाः तपः-निष्ठाः पञ्च-अग्निः ब्रह्मचारिणः । पितृ-मातृ-पराः च एव ब्राह्मणाः श्राद्ध-संपदः ॥ १।२२१ ॥
karma-niṣṭhāḥ tapaḥ-niṣṭhāḥ pañca-agniḥ brahmacāriṇaḥ . pitṛ-mātṛ-parāḥ ca eva brāhmaṇāḥ śrāddha-saṃpadaḥ .. 1.221 ..
रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ १.२२२ ॥
रोगी हीन-अतिरिक्त-अङ्गः काणः पौनर्भवः तथा । अवकीर्णी कुण्ड-गोलौ कुनखी श्याव-दन्तकः ॥ १।२२२ ॥
rogī hīna-atirikta-aṅgaḥ kāṇaḥ paunarbhavaḥ tathā . avakīrṇī kuṇḍa-golau kunakhī śyāva-dantakaḥ .. 1.222 ..
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः । मित्रध्रुक्पिशुनः सोम विक्रयी परिविन्दकः ॥ १.२२३ ॥
भृतक-अध्यापकः क्लीबः कन्या-दूषी अभिशस्तकः । सोम-विक्रयी परिविन्दकः ॥ १।२२३ ॥
bhṛtaka-adhyāpakaḥ klībaḥ kanyā-dūṣī abhiśastakaḥ . soma-vikrayī parivindakaḥ .. 1.223 ..
मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः । परपूर्वापतिः स्तेनः कर्मदुष्टाश्च निन्दिताः ॥ १.२२४ ॥
माता-पितृ-गुरु-त्यागी कुण्डाशी वृषल-आत्मजः । परपूर्वा-पतिः स्तेनः कर्म-दुष्टाः च निन्दिताः ॥ १।२२४ ॥
mātā-pitṛ-guru-tyāgī kuṇḍāśī vṛṣala-ātmajaḥ . parapūrvā-patiḥ stenaḥ karma-duṣṭāḥ ca ninditāḥ .. 1.224 ..
निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान्शुचिः । तैश्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥ १.२२५ ॥
निमन्त्रयेत पूर्वेद्युस् ब्राह्मणान् आत्मवान् शुचिः । तैः च अपि संयतैः भाव्यम् मनः-वाच्-काय-कर्मभिः ॥ १।२२५ ॥
nimantrayeta pūrvedyus brāhmaṇān ātmavān śuciḥ . taiḥ ca api saṃyataiḥ bhāvyam manaḥ-vāc-kāya-karmabhiḥ .. 1.225 ..
अपराह्णे समभ्यर्च्य स्वागतेनागतांस्तु तान् । पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥ १.२२६ ॥
अपराह्णे समभ्यर्च्य स्वागतेन आगतान् तु तान् । पवित्र-पाणिः आचान्तान् आसनेषु उपवेशयेत् ॥ १।२२६ ॥
aparāhṇe samabhyarcya svāgatena āgatān tu tān . pavitra-pāṇiḥ ācāntān āsaneṣu upaveśayet .. 1.226 ..
युग्मान्दैवे यथाशक्ति पित्र्येऽयुग्मांस्तथैव च । परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥ १.२२७ ॥
युग्मान् दैवे यथाशक्ति पित्र्ये अयुग्मान् तथा एव च । परिस्तृते शुचौ देशे दक्षिणा-प्रवणे तथा ॥ १।२२७ ॥
yugmān daive yathāśakti pitrye ayugmān tathā eva ca . paristṛte śucau deśe dakṣiṇā-pravaṇe tathā .. 1.227 ..
द्वौ दैवे प्राक्त्रयः पित्र्य उदगेकैकं एव वा । मातामहानां अप्येवं तन्त्रं वा वैश्वदेविकम् ॥ १.२२८ ॥
द्वौ दैवे प्राक्-त्रयः पित्र्ये उदक् एकैकम् एव वा । मातामहानाम् अपि एवम् तन्त्रम् वा वैश्वदेविकम् ॥ १।२२८ ॥
dvau daive prāk-trayaḥ pitrye udak ekaikam eva vā . mātāmahānām api evam tantram vā vaiśvadevikam .. 1.228 ..
पाणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि । आवाहयेदनुज्ञातो विश्वे देवास इत्यृचा ॥ १.२२९ ॥
पाणि-प्रक्षालनम् दत्त्वा विष्टर-अर्थम् कुशान् अपि । आवाहयेत् अनुज्ञातः विश्वे इति ऋचा ॥ १।२२९ ॥
pāṇi-prakṣālanam dattvā viṣṭara-artham kuśān api . āvāhayet anujñātaḥ viśve iti ṛcā .. 1.229 ..
यवैरन्ववकीर्याथ भाजने सपवित्रके । शं नो देव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ १.२३० ॥
यवैः अन्ववकीर्य अथ भाजने स पवित्रके । शम् नः देव्या पयः क्षिप्त्वा यवः असि इति यवान् तथा ॥ १।२३० ॥
yavaiḥ anvavakīrya atha bhājane sa pavitrake . śam naḥ devyā payaḥ kṣiptvā yavaḥ asi iti yavān tathā .. 1.230 ..
या दिव्या इति मन्त्रेण हस्तेष्वर्घ्यं विनिक्षिपेत् । दत्त्वा उदकं गन्धमाल्यं धूपदानं सदीपकम् ॥ १.२३१ ॥
याः दिव्याः इति मन्त्रेण हस्तेषु अर्घ्यम् विनिक्षिपेत् । दत्त्वा उदकम् गन्ध-माल्यम् धूप-दानम् स दीपकम् ॥ १।२३१ ॥
yāḥ divyāḥ iti mantreṇa hasteṣu arghyam vinikṣipet . dattvā udakam gandha-mālyam dhūpa-dānam sa dīpakam .. 1.231 ..
तथाच्छादनदानं च करशौचार्थं अम्बु च । अपसव्यं ततः कृत्वा पितॄणां अप्रदक्षिणम् ॥ १.२३२ ॥
तथा आच्छादन-दानम् च कर-शौच-अर्थम् अम्बु च । अपसव्यम् ततस् कृत्वा पितॄणाम् अ प्रदक्षिणम् ॥ १।२३२ ॥
tathā ācchādana-dānam ca kara-śauca-artham ambu ca . apasavyam tatas kṛtvā pitṝṇām a pradakṣiṇam .. 1.232 ..
द्विगुणांस्तु कुशान्दत्त्वा ह्युषन्तस्त्वेत्यृचा पितॄन् । आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥ १.२३३ ॥
द्विगुणान् तु कुशान् दत्त्वा हि उषन्तः त्वा इति ऋचा पितॄन् । आवाह्य तद्-अनुज्ञातः जपेत् आयन्तु नः ततस् ॥ १।२३३ ॥
dviguṇān tu kuśān dattvā hi uṣantaḥ tvā iti ṛcā pitṝn . āvāhya tad-anujñātaḥ japet āyantu naḥ tatas .. 1.233 ..
अपहता इति तिलान्विकीर्य च समन्ततः । यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ॥ १.२३४ ॥
अपहताः इति तिलान् विकीर्य च समन्ततः । यव-अर्थाः तु तिलैः कार्याः कुर्यात् अर्घ्य-आदि पूर्ववत् ॥ १।२३४ ॥
apahatāḥ iti tilān vikīrya ca samantataḥ . yava-arthāḥ tu tilaiḥ kāryāḥ kuryāt arghya-ādi pūrvavat .. 1.234 ..
दत्त्वा अर्घ्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः । पितृभ्यः स्थानं असीति न्युब्जं पात्रं करोत्यधः ॥ १.२३५ ॥
दत्त्वा अर्घ्यम् संस्रवान् तेषाम् पात्रे कृत्वा विधानतः । पितृभ्यः स्थानम् असि इति न्युब्जम् पात्रम् करोति अधस् ॥ १।२३५ ॥
dattvā arghyam saṃsravān teṣām pātre kṛtvā vidhānataḥ . pitṛbhyaḥ sthānam asi iti nyubjam pātram karoti adhas .. 1.235 ..
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥ १.२३६ ॥
अग्नौ करिष्यन् आदाय पृच्छति अन्नम् घृत-प्लुतम् । कुरुष्व इति अभ्यनुज्ञातः हुत्वा अग्नौ पितृयज्ञ-वत् ॥ १।२३६ ॥
agnau kariṣyan ādāya pṛcchati annam ghṛta-plutam . kuruṣva iti abhyanujñātaḥ hutvā agnau pitṛyajña-vat .. 1.236 ..
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः । यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥ १.२३७ ॥
हुत-शेषम् प्रदद्यात् तु भाजनेषु समाहितः । यथा लाभ-उपपन्नेषु रौप्येषु च विशेषतः ॥ १।२३७ ॥
huta-śeṣam pradadyāt tu bhājaneṣu samāhitaḥ . yathā lābha-upapanneṣu raupyeṣu ca viśeṣataḥ .. 1.237 ..
दत्त्वान्नं पृथिवीपात्रं इति पात्राभिमन्त्रणम् । कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥ १.२३८ ॥
दत्त्वा अन्नम् पृथिवी-पात्रम् इति पात्र-अभिमन्त्रणम् । कृत्वा इदम् विष्णुः इति अन्ने द्विज-अङ्गुष्ठम् निवेशयेत् ॥ १।२३८ ॥
dattvā annam pṛthivī-pātram iti pātra-abhimantraṇam . kṛtvā idam viṣṇuḥ iti anne dvija-aṅguṣṭham niveśayet .. 1.238 ..
सव्याहृतिकां गायत्रीं मधु वाता इति त्र्यृचम् । जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तेऽपि वाग्यताः ॥ १.२३९ ॥
स व्याहृतिकाम् गायत्रीम् मधु वाताः इति त्र्यृचम् । जप्त्वा यथासुखम् वाच्यम् भुञ्जीरन् ते अपि वाग्यताः ॥ १।२३९ ॥
sa vyāhṛtikām gāyatrīm madhu vātāḥ iti tryṛcam . japtvā yathāsukham vācyam bhuñjīran te api vāgyatāḥ .. 1.239 ..
अन्नं इष्तं हविष्यं च दद्यादक्रोधनोऽत्वरः । आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥ १.२४० ॥
अन्नम् इष्तम् हविष्यम् च दद्यात् अ क्रोधनः अ त्वरः । आतृप्तेः तु पवित्राणि जप्त्वा पूर्व-जपम् तथा ॥ १।२४० ॥
annam iṣtam haviṣyam ca dadyāt a krodhanaḥ a tvaraḥ . ātṛpteḥ tu pavitrāṇi japtvā pūrva-japam tathā .. 1.240 ..
अन्नं आदाय तृप्ताः स्थ शेषं चैवानुमान्य च । तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥ १.२४१ ॥
अन्नम् आदाय तृप्ताः स्थ शेषम् च एव अनुमान्य च । तत् अन्नम् विकिरेत् भूमौ दद्यात् च अपः सकृत् सकृत् ॥ १।२४१ ॥
annam ādāya tṛptāḥ stha śeṣam ca eva anumānya ca . tat annam vikiret bhūmau dadyāt ca apaḥ sakṛt sakṛt .. 1.241 ..
सर्वं अन्नं उपादाय सतिलं दक्षिणामुखः । उच्छिष्टसंनिधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥ १.२४२ ॥
सर्वम् अन्नम् उपादाय स तिलम् दक्षिणामुखः । उच्छिष्ट-संनिधौ पिण्डान् दद्यात् वै पितृ-यज्ञ-वत् ॥ १।२४२ ॥
sarvam annam upādāya sa tilam dakṣiṇāmukhaḥ . ucchiṣṭa-saṃnidhau piṇḍān dadyāt vai pitṛ-yajña-vat .. 1.242 ..
मातामहानां अप्येवं दद्यादाचमनं ततः । स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकं एव च ॥ १.२४३ ॥
मातामहानाम् अपि एवम् दद्यात् आचमनम् ततस् । स्वस्तिवाच्यम् ततस् कुर्यात् अक्षय्य-उदकम् एव च ॥ १।२४३ ॥
mātāmahānām api evam dadyāt ācamanam tatas . svastivācyam tatas kuryāt akṣayya-udakam eva ca .. 1.243 ..
दत्त्वा तु दक्षिणां शक्त्या स्वधाकारं उदाहरेत् । वाच्यतां इत्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥ १.२४४ ॥
दत्त्वा तु दक्षिणाम् शक्त्या स्वधाकारम् उदाहरेत् । वाच्यताम् इति अनुज्ञातः प्रकृतेभ्यः स्वधा उच्यताम् ॥ १।२४४ ॥
dattvā tu dakṣiṇām śaktyā svadhākāram udāharet . vācyatām iti anujñātaḥ prakṛtebhyaḥ svadhā ucyatām .. 1.244 ..
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् । विश्वे देवाश्च प्रीयन्तां विप्रैश्चोक्त इदं जपेत् ॥ १.२४५ ॥
ब्रूयुः अस्तु स्वधा इति उक्ते भूमौ सिञ्चेत् ततस् जलम् । विश्वे देवाः च प्रीयन्ताम् विप्रैः च उक्तः इदम् जपेत् ॥ १।२४५ ॥
brūyuḥ astu svadhā iti ukte bhūmau siñcet tatas jalam . viśve devāḥ ca prīyantām vipraiḥ ca uktaḥ idam japet .. 1.245 ..
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ १.२४६ ॥
दातारः नः अभिवर्धन्ताम् वेदाः संततिः एव च । श्रद्धा च नः मा व्यगमत् बहु देयम् च नः अस्तु इति ॥ १।२४६ ॥
dātāraḥ naḥ abhivardhantām vedāḥ saṃtatiḥ eva ca . śraddhā ca naḥ mā vyagamat bahu deyam ca naḥ astu iti .. 1.246 ..
इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजे वाज इति प्रीतः पितृपूर्वं विसर्जनम् ॥ १.२४७ ॥
इति उक्त्वा उक्त्वा प्रियाः वाचः प्रणिपत्य विसर्जयेत् । वाजे वाजे इति प्रीतः पितृ-पूर्वम् विसर्जनम् ॥ १।२४७ ॥
iti uktvā uktvā priyāḥ vācaḥ praṇipatya visarjayet . vāje vāje iti prītaḥ pitṛ-pūrvam visarjanam .. 1.247 ..
यस्मिंस्तु संस्रवाः पूर्वं अर्घ्यपात्रे निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥ १.२४८ ॥
यस्मिन् तु संस्रवाः पूर्वम् अर्घ्य-पात्रे निवेशिताः । पितृपात्रम् तत् उत्तानम् कृत्वा विप्रान् विसर्जयेत् ॥ १।२४८ ॥
yasmin tu saṃsravāḥ pūrvam arghya-pātre niveśitāḥ . pitṛpātram tat uttānam kṛtvā viprān visarjayet .. 1.248 ..
प्रदक्षिणं अनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥ १.२४९ ॥
प्रदक्षिणम् अनुव्रज्य भुञ्जीत पितृ-सेवितम् । ब्रह्मचारी भवेत् ताम् तु रजनीम् ब्राह्मणैः सह ॥ १।२४९ ॥
pradakṣiṇam anuvrajya bhuñjīta pitṛ-sevitam . brahmacārī bhavet tām tu rajanīm brāhmaṇaiḥ saha .. 1.249 ..
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन् । यजेत दधि कर्कन्धु मिश्रान्पिण्डान्यवैः क्रियाः ॥ १.२५० ॥
एवम् प्रदक्षिणावृत्कः वृद्धौ नान्दीमुखान् पितॄन् । यजेत दधि कर्कन्धु मिश्रान् पिण्डान् यवैः क्रियाः ॥ १।२५० ॥
evam pradakṣiṇāvṛtkaḥ vṛddhau nāndīmukhān pitṝn . yajeta dadhi karkandhu miśrān piṇḍān yavaiḥ kriyāḥ .. 1.250 ..
एकोद्दिष्टं देवहीनं एकार्घ्यैकपवित्रकम् । आवाहनाग्नौकरण रहितं ह्यपसव्यवत् ॥ १.२५१ ॥
। आवाहन-अग्नौकरण-रहितम् हि अपसव्यवत् ॥ १।२५१ ॥
. āvāhana-agnaukaraṇa-rahitam hi apasavyavat .. 1.251 ..
उपतिष्ठतां अक्षय्य स्थाने विप्रविसर्जने । अभिरम्यतां इति वदेद्ब्रूयुस्तेऽभिरताः स्म ह ॥ १.२५२ ॥
उपतिष्ठताम् अक्षय्य-स्थाने विप्रविसर्जने । अभिरम्यताम् इति वदेत् ब्रूयुः ते अभिरताः स्म ह ॥ १।२५२ ॥
upatiṣṭhatām akṣayya-sthāne vipravisarjane . abhiramyatām iti vadet brūyuḥ te abhiratāḥ sma ha .. 1.252 ..
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १.२५३ ॥
गन्ध-उदक-तिलैः युक्तम् कुर्यात् पात्र-चतुष्टयम् । अर्घ्य-अर्थम् पितृपात्रेषु प्रेतपात्रम् प्रसेचयेत् ॥ १।२५३ ॥
gandha-udaka-tilaiḥ yuktam kuryāt pātra-catuṣṭayam . arghya-artham pitṛpātreṣu pretapātram prasecayet .. 1.253 ..
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । एतत्सपिण्डीकरणं एकोद्दिष्टं स्त्रिया अपि ॥ १.२५४ ॥
ये समानाः इति द्वाभ्याम् शेषम् पूर्ववत् आचरेत् । एतत् सपिण्डीकरणम् एकोद्दिष्टम् स्त्रियाः अपि ॥ १।२५४ ॥
ye samānāḥ iti dvābhyām śeṣam pūrvavat ācaret . etat sapiṇḍīkaraṇam ekoddiṣṭam striyāḥ api .. 1.254 ..
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥ १.२५५ ॥
अर्वाक् सपिण्डीकरणम् यस्य संवत्सरात् भवेत् । तस्य अपि अन्नम् सोदकुम्भम् दद्यात् संवत्सरम् द्विजे ॥ १।२५५ ॥
arvāk sapiṇḍīkaraṇam yasya saṃvatsarāt bhavet . tasya api annam sodakumbham dadyāt saṃvatsaram dvije .. 1.255 ..
मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवं आद्यं एकादशेऽहनि ॥ १.२५६ ॥
मृते अहनि प्रकर्तव्यम् प्रतिमासम् तु वत्सरम् । प्रतिसंवत्सरम् च एवम् आद्यम् एकादशे अहनि ॥ १।२५६ ॥
mṛte ahani prakartavyam pratimāsam tu vatsaram . pratisaṃvatsaram ca evam ādyam ekādaśe ahani .. 1.256 ..
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥ १.२५७ ॥
पिण्डान् तु गो अज-विप्रेभ्यः दद्यात् अग्नौ जले अपि वा । प्रक्षिपेत् सत्सु विप्रेषु द्विज-उच्छिष्टम् न मार्जयेत् ॥ १।२५७ ॥
piṇḍān tu go aja-viprebhyaḥ dadyāt agnau jale api vā . prakṣipet satsu vipreṣu dvija-ucchiṣṭam na mārjayet .. 1.257 ..
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ शाकुनच्छागपार्षतैः ॥ १.२५८ ॥
हविष्य-अन्नेन वै मासम् पायसेन तु वत्सरम् । मात्स्य-हारिण-कौरभ-शाकुन-छाग-पार्षतैः ॥ १।२५८ ॥
haviṣya-annena vai māsam pāyasena tu vatsaram . mātsya-hāriṇa-kaurabha-śākuna-chāga-pārṣataiḥ .. 1.258 ..
ऐणरौरववाराह शाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः ॥ १.२५९ ॥
ऐण-रौरव-वाराह शाशैः मांसैः यथाक्रमम् । मास-वृद्ध्या अभितृप्यन्ति दत्तैः इह पितामहाः ॥ १।२५९ ॥
aiṇa-raurava-vārāha śāśaiḥ māṃsaiḥ yathākramam . māsa-vṛddhyā abhitṛpyanti dattaiḥ iha pitāmahāḥ .. 1.259 ..
खड्दामिषं महाशल्कं मधु मुन्यन्नं एव वा । लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च ॥ १.२६० ॥
खट् दामिषम् महाशल्कम् मधु मुनि-अन्नम् एव वा । लौह-आमिषम् महाशाकम् मांसम् वार्ध्रीणसस्य च ॥ १।२६० ॥
khaṭ dāmiṣam mahāśalkam madhu muni-annam eva vā . lauha-āmiṣam mahāśākam māṃsam vārdhrīṇasasya ca .. 1.260 ..
यद्ददाति गयास्थश्च सर्वं आनन्त्यं अश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ १.२६१ ॥
यत् ददाति गया-स्थः च सर्वम् आनन्त्यम् अश्नुते । तथा वर्षा-त्रयोदश्याम् मघासु च विशेषतः ॥ १।२६१ ॥
yat dadāti gayā-sthaḥ ca sarvam ānantyam aśnute . tathā varṣā-trayodaśyām maghāsu ca viśeṣataḥ .. 1.261 ..
कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि । द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस्तथा ॥ १.२६२ ॥
कन्याम् कन्यावेदिनः च पशून् वै सत्-सुतान् अपि । द्यूतम् कृषिम् वाणिज्याम् च द्विशफ-एकशफान् तथा ॥ १।२६२ ॥
kanyām kanyāvedinaḥ ca paśūn vai sat-sutān api . dyūtam kṛṣim vāṇijyām ca dviśapha-ekaśaphān tathā .. 1.262 ..
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥ १.२६३ ॥
ब्रह्म-वर्चस्विनः पुत्रान् स्वर्ण-रूप्ये स कुप्यके । ज्ञाति-श्रैष्ठ्यम् सर्व-कामान् आप्नोति श्राद्ध-दः सदा ॥ १।२६३ ॥
brahma-varcasvinaḥ putrān svarṇa-rūpye sa kupyake . jñāti-śraiṣṭhyam sarva-kāmān āpnoti śrāddha-daḥ sadā .. 1.263 ..
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥ १.२६४ ॥
प्रतिपद्-प्रभृतिषु एकाम् वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हताः ये वै तेभ्यः तत्र प्रदीयते ॥ १।२६४ ॥
pratipad-prabhṛtiṣu ekām varjayitvā caturdaśīm . śastreṇa tu hatāḥ ye vai tebhyaḥ tatra pradīyate .. 1.264 ..
स्वर्गं ह्यपत्यं ओजश्च शौर्यं क्षेत्रं बलं तथा । पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥ १.२६५ ॥
स्वर्गम् हि अपत्यम् ओजः च शौर्यम् क्षेत्रम् बलम् तथा । पुत्रम् श्रैष्ठ्यम् च सौभाग्यम् समृद्धिम् मुख्य-ताम् शुभम् ॥ १।२६५ ॥
svargam hi apatyam ojaḥ ca śauryam kṣetram balam tathā . putram śraiṣṭhyam ca saubhāgyam samṛddhim mukhya-tām śubham .. 1.265 ..
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । अरोगित्वं यशो वीत शोकतां परमां गतिम् ॥ १.२६६ ॥
प्रवृत्त-चक्र-ताम् च एव वाणिज्य-प्रभृतीन् अपि । अरोगि-त्वम् यशः वीत शोक-ताम् परमाम् गतिम् ॥ १।२६६ ॥
pravṛtta-cakra-tām ca eva vāṇijya-prabhṛtīn api . arogi-tvam yaśaḥ vīta śoka-tām paramām gatim .. 1.266 ..
धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति ॥ १.२६७ ॥
धनम् वेदान् भिषज् सिद्धिम् कुप्यम् गाः अपि अजाविकम् । अश्वान् आयुः च विधिवत् यः श्राद्धम् संप्रयच्छति ॥ १।२६७ ॥
dhanam vedān bhiṣaj siddhim kupyam gāḥ api ajāvikam . aśvān āyuḥ ca vidhivat yaḥ śrāddham saṃprayacchati .. 1.267 ..
कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः ॥ १.२६८ ॥
कृत्तिका-आदि-भरणी-अन्तम् स कामान् आप्नुयात् इमान् । आस्तिकः श्रद्दधानः च व्यपेत-मद-मत्सरः ॥ १।२६८ ॥
kṛttikā-ādi-bharaṇī-antam sa kāmān āpnuyāt imān . āstikaḥ śraddadhānaḥ ca vyapeta-mada-matsaraḥ .. 1.268 ..
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन्श्राद्धेन तर्पिताः ॥ १.२६९ ॥
वसु-रुद्रात् इति सुताः पितरः श्राद्ध-देवताः । प्रीणयन्ति मनुष्याणाम् पितॄन् श्राद्धेन तर्पिताः ॥ १।२६९ ॥
vasu-rudrāt iti sutāḥ pitaraḥ śrāddha-devatāḥ . prīṇayanti manuṣyāṇām pitṝn śrāddhena tarpitāḥ .. 1.269 ..
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः ॥ १.२७० ॥
आयुः प्रजाम् धनम् विद्याम् स्वर्गम् मोक्षम् सुखानि च । प्रयच्छन्ति तथा राज्यम् प्रीताः नॄणाम् पितामहाः ॥ १।२७० ॥
āyuḥ prajām dhanam vidyām svargam mokṣam sukhāni ca . prayacchanti tathā rājyam prītāḥ nṝṇām pitāmahāḥ .. 1.270 ..
विनायकः कर्मविघ्न सिद्ध्यर्थं विनियोजितः । गणानां आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १.२७१ ॥
विनायकः कर्म-विघ्न सिद्धि-अर्थम् विनियोजितः । गणानाम् आधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥ १।२७१ ॥
vināyakaḥ karma-vighna siddhi-artham viniyojitaḥ . gaṇānām ādhipatye ca rudreṇa brahmaṇā tathā .. 1.271 ..
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत । स्वप्नेऽवगाहतेऽत्यर्थं जलं मुण्डांश्च पश्यति ॥ १.२७२ ॥
तेन उपसृष्टः यः तस्य लक्षणानि निबोधत । स्वप्ने अवगाहते अत्यर्थम् जलम् मुण्डान् च पश्यति ॥ १।२७२ ॥
tena upasṛṣṭaḥ yaḥ tasya lakṣaṇāni nibodhata . svapne avagāhate atyartham jalam muṇḍān ca paśyati .. 1.272 ..
काषायवाससश्चैव क्रव्यादांश्चाधिरोहति । अन्त्यजैर्गर्दभैरुष्ट्रैः सहैकत्रावतिष्ठते ॥ १.२७३ ॥
काषाय-वाससः च एव क्रव्यादान् च अधिरोहति । अन्त्यजैः गर्दभैः उष्ट्रैः सह एकत्र अवतिष्ठते ॥ १।२७३ ॥
kāṣāya-vāsasaḥ ca eva kravyādān ca adhirohati . antyajaiḥ gardabhaiḥ uṣṭraiḥ saha ekatra avatiṣṭhate .. 1.273 ..
व्रजन्नपि तथात्मानं मन्यतेऽनुगतं परैः । विमना विफलारम्भः संसीदत्यनिमित्ततः ॥ १.२७४ ॥
व्रजन् अपि तथा आत्मानम् मन्यते अनुगतम् परैः । विमनाः विफल-आरम्भः संसीदति अनिमित्ततः ॥ १।२७४ ॥
vrajan api tathā ātmānam manyate anugatam paraiḥ . vimanāḥ viphala-ārambhaḥ saṃsīdati animittataḥ .. 1.274 ..
तेनोपसृष्टो लभते न राज्यं राजनन्दनः । कुमारी च न भर्तारं अपत्यं गर्भं अङ्गना ॥ १.२७५ ॥
तेन उपसृष्टः लभते न राज्यम् राज-नन्दनः । कुमारी च न भर्तारम् अपत्यम् गर्भम् अङ्गना ॥ १।२७५ ॥
tena upasṛṣṭaḥ labhate na rājyam rāja-nandanaḥ . kumārī ca na bhartāram apatyam garbham aṅganā .. 1.275 ..
आचार्यत्वं श्रोत्रियश्च न शिष्योऽध्ययनं तथा । वणिग्लाभं न चाप्नोति कृषिं चापि कृषीवलः ॥ १.२७६ ॥
आचार्य-त्वम् श्रोत्रियः च न शिष्यः अध्ययनम् तथा । वणिज्-लाभम् न च आप्नोति कृषिम् च अपि कृषीवलः ॥ १।२७६ ॥
ācārya-tvam śrotriyaḥ ca na śiṣyaḥ adhyayanam tathā . vaṇij-lābham na ca āpnoti kṛṣim ca api kṛṣīvalaḥ .. 1.276 ..
स्नपनं तस्य कर्तव्यं पुण्येऽह्नि विधिपूर्वकम् । गौरसर्षपकल्केन साज्येनोत्सादितस्य च ॥ १.२७७ ॥
स्नपनम् तस्य कर्तव्यम् पुण्ये अह्नि विधि-पूर्वकम् । गौरसर्षप-कल्केन स आज्येन उत्सादितस्य च ॥ १।२७७ ॥
snapanam tasya kartavyam puṇye ahni vidhi-pūrvakam . gaurasarṣapa-kalkena sa ājyena utsāditasya ca .. 1.277 ..
सर्वाउषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा । भद्रासनोपविष्टस्य स्वस्तिवाच्या द्विजाः शुभाः ॥ १.२७८ ॥
सर्व-औषधैः सर्व-गन्धैः विलिप्त-शिरसः तथा । भद्रासन-उपविष्टस्य स्वस्ति-वाच्याः द्विजाः शुभाः ॥ १।२७८ ॥
sarva-auṣadhaiḥ sarva-gandhaiḥ vilipta-śirasaḥ tathā . bhadrāsana-upaviṣṭasya svasti-vācyāḥ dvijāḥ śubhāḥ .. 1.278 ..
अश्वस्थानाद्गजस्थानाद्वल्मीकात्संगमाद्ह्रदात् । मृत्तिकां रोचनां गन्धान्गुग्गुलुं चाप्सु निक्षिपेत् ॥ १.२७९ ॥
अश्व-स्थानात् गज-स्थानात् वल्मीकात् संगम-अध्रदात् । मृत्तिकाम् रोचनाम् गन्धान् गुग्गुलुम् च अप्सु निक्षिपेत् ॥ १।२७९ ॥
aśva-sthānāt gaja-sthānāt valmīkāt saṃgama-adhradāt . mṛttikām rocanām gandhān guggulum ca apsu nikṣipet .. 1.279 ..
या आहृता ह्येकवर्णैश्चतुर्भिः कलशैर्ह्रदात् । चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासनं ततः ॥ १.२८० ॥
याः आहृताः हि एक-वर्णैः चतुर्भिः कलशैः ह्रदात् । चर्मणि आनडुहे रक्ते स्थाप्यम् भद्रासनम् ततस् ॥ १।२८० ॥
yāḥ āhṛtāḥ hi eka-varṇaiḥ caturbhiḥ kalaśaiḥ hradāt . carmaṇi ānaḍuhe rakte sthāpyam bhadrāsanam tatas .. 1.280 ..
सहस्राक्षं शतधारं ऋषिभिः पावनं कृतम् । तेन त्वां अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ १.२८१ ॥
सहस्र-अक्षम् शत-धारम् ऋषिभिः पावनम् कृतम् । तेन त्वाम् अभिषिञ्चामि पावमान्यः पुनन्तु ते ॥ १।२८१ ॥
sahasra-akṣam śata-dhāram ṛṣibhiḥ pāvanam kṛtam . tena tvām abhiṣiñcāmi pāvamānyaḥ punantu te .. 1.281 ..
भगं ते वरुणो राजा भगं सूर्यो बृहस्पतिः । भगं इन्द्रश्च वायुश्च भगं सप्तर्षयो ददुः ॥ १.२८२ ॥
भगम् ते वरुणः राजा भगम् सूर्यः बृहस्पतिः । भगम् इन्द्रः च वायुः च भगम् सप्तर्षयः ददुः ॥ १।२८२ ॥
bhagam te varuṇaḥ rājā bhagam sūryaḥ bṛhaspatiḥ . bhagam indraḥ ca vāyuḥ ca bhagam saptarṣayaḥ daduḥ .. 1.282 ..
यत्ते केशेषु दौर्भाग्यं सीमन्ते यच्च मूर्धनि । ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ॥ १.२८३ ॥
यत् ते केशेषु दौर्भाग्यम् सीमन्ते यत् च मूर्धनि । ललाटे कर्णयोः अक्ष्णोः आपः तत् घ्नन्तु सर्वदा ॥ १।२८३ ॥
yat te keśeṣu daurbhāgyam sīmante yat ca mūrdhani . lalāṭe karṇayoḥ akṣṇoḥ āpaḥ tat ghnantu sarvadā .. 1.283 ..
स्नातस्य सार्षपं तैलं स्रुवेणौदुम्बरेण तु । जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य च ॥ १.२८४ ॥
स्नातस्य सार्षपम् तैलम् स्रुवेण औदुम्बरेण तु । जुहुयात् मूर्धनि कुशान् सव्येन परिगृह्य च ॥ १।२८४ ॥
snātasya sārṣapam tailam sruveṇa audumbareṇa tu . juhuyāt mūrdhani kuśān savyena parigṛhya ca .. 1.284 ..
मितश्च सम्मितश्चैव तथा शालकटङ्कटौ । कूश्माण्डो राजपुत्रश्चेत्यन्ते स्वाहासमन्वितैः ॥ १.२८५ ॥
मितः च सम्मितः च एव तथा शाल-कटङ्कटौ । कूश्माण्डः राजपुत्रः च इत्यन्ते स्वाहा समन्वितैः ॥ १।२८५ ॥
mitaḥ ca sammitaḥ ca eva tathā śāla-kaṭaṅkaṭau . kūśmāṇḍaḥ rājaputraḥ ca ityante svāhā samanvitaiḥ .. 1.285 ..
नामभिर्बलिमन्त्रैश्च नमस्कारसमन्वितैः । दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥ १.२८६ ॥
नामभिः बलि-मन्त्रैः च नमस्कार-समन्वितैः । दद्यात् चतुष्पथे शूर्पे कुशान् आस्तीर्य सर्वतस् ॥ १।२८६ ॥
nāmabhiḥ bali-mantraiḥ ca namaskāra-samanvitaiḥ . dadyāt catuṣpathe śūrpe kuśān āstīrya sarvatas .. 1.286 ..
कृताकृतांस्तण्डुलांश्च पललौदनं एव च । मत्स्यान्पक्वांस्तथैवामान्मांसं एतावदेव तु ॥ १.२८७ ॥
कृत-अकृतान् तण्डुलान् च पलल-ओदनम् एव च । मत्स्यान् पक्वान् तथा एव आमान् मांसम् एतावत् एव तु ॥ १।२८७ ॥
kṛta-akṛtān taṇḍulān ca palala-odanam eva ca . matsyān pakvān tathā eva āmān māṃsam etāvat eva tu .. 1.287 ..
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधां अपि । मूलकं पूरिकापूपांस्तथैवोण्डेरकस्रजः ॥ १.२८८ ॥
पुष्पम् चित्रम् सु गन्धम् च सुराम् च त्रिविधाम् अपि । मूलकम् पूरिका-अपूपान् तथा एवा उण्डेरक-स्रजः ॥ १।२८८ ॥
puṣpam citram su gandham ca surām ca trividhām api . mūlakam pūrikā-apūpān tathā evā uṇḍeraka-srajaḥ .. 1.288 ..
दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् । एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥ १.२८९ ॥
दधि-अन्नम् पायसम् च एव गुडपिष्टम् समोदकम् । एतान् सर्वान् समाहृत्य भूमौ कृत्वा ततस् शिरः ॥ १।२८९ ॥
dadhi-annam pāyasam ca eva guḍapiṣṭam samodakam . etān sarvān samāhṛtya bhūmau kṛtvā tatas śiraḥ .. 1.289 ..
विनायकस्य जननीं उपतिष्ठेत्ततोऽम्बिकाम् । दूर्वासर्षपपुष्पाणां दत्त्वार्घ्यं पूर्णं अञ्जलिम् ॥ १.२९० ॥
विनायकस्य जननीम् उपतिष्ठेत् ततस् अम्बिकाम् । दूर्वा-सर्षप-पुष्पाणाम् दत्त्वा अर्घ्यम् पूर्णम् अञ्जलिम् ॥ १।२९० ॥
vināyakasya jananīm upatiṣṭhet tatas ambikām . dūrvā-sarṣapa-puṣpāṇām dattvā arghyam pūrṇam añjalim .. 1.290 ..
रूपं देहि यशो देहि भगं भवति देहि मे । पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥ १.२९१ ॥
रूपम् देहि यशः देहि भगम् भवति देहि मे । पुत्रान् देहि धनम् देहि सर्व-कामान् च देहि मे ॥ १।२९१ ॥
rūpam dehi yaśaḥ dehi bhagam bhavati dehi me . putrān dehi dhanam dehi sarva-kāmān ca dehi me .. 1.291 ..
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । ब्राह्मणान्भोजयेद्दद्याद्वस्त्रयुग्मं गुरोरपि ॥ १.२९२ ॥
ततस् शुक्ल-अम्बर-धरः शुक्ल-माल्य-अनुलेपनः । ब्राह्मणान् भोजयेत् दद्यात् वस्त्र-युग्मम् गुरोः अपि ॥ १।२९२ ॥
tatas śukla-ambara-dharaḥ śukla-mālya-anulepanaḥ . brāhmaṇān bhojayet dadyāt vastra-yugmam guroḥ api .. 1.292 ..
एवं विनायकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलं आप्नोति श्रियं चाप्नोत्यनुत्तमाम् ॥ १.२९३ ॥
एवम् विनायकम् पूज्य ग्रहान् च एव विधानतः । कर्मणाम् फलम् आप्नोति श्रियम् च आप्नोति अनुत्तमाम् ॥ १।२९३ ॥
evam vināyakam pūjya grahān ca eva vidhānataḥ . karmaṇām phalam āpnoti śriyam ca āpnoti anuttamām .. 1.293 ..
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन्सिद्धिं अवाप्नुयात् ॥ १.२९४ ॥
आदित्यस्य सदा पूजाम् तिलकम् स्वामिनः तथा । महागणपतेः च एव कुर्वन् सिद्धिम् अवाप्नुयात् ॥ १।२९४ ॥
ādityasya sadā pūjām tilakam svāminaḥ tathā . mahāgaṇapateḥ ca eva kurvan siddhim avāpnuyāt .. 1.294 ..
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि ॥ १.२९५ ॥
श्री-कामः शान्ति-कामः वा ग्रह-यज्ञम् समाचरेत् । वृष्टि-आयुः-पुष्टि-कामः वा तथा एव अभिचरन् अपि ॥ १।२९५ ॥
śrī-kāmaḥ śānti-kāmaḥ vā graha-yajñam samācaret . vṛṣṭi-āyuḥ-puṣṭi-kāmaḥ vā tathā eva abhicaran api .. 1.295 ..
सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ १.२९६ ॥
सूर्यः सोमः महीपुत्रः सोमपुत्रः बृहस्पतिः । शुक्रः शनैश्चरः राहुः केतुः च इति ग्रहाः स्मृताः ॥ १।२९६ ॥
sūryaḥ somaḥ mahīputraḥ somaputraḥ bṛhaspatiḥ . śukraḥ śanaiścaraḥ rāhuḥ ketuḥ ca iti grahāḥ smṛtāḥ .. 1.296 ..
ताम्रकात्स्फटिकाद्रक्त चन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥ १.२९७ ॥
ताम्रकात् स्फटिकात् रक्त चन्दनात् स्वर्णकात् उभौ । राजतात् अयसः सीसात् कांस्यात् कार्याः ग्रहाः क्रमात् ॥ १।२९७ ॥
tāmrakāt sphaṭikāt rakta candanāt svarṇakāt ubhau . rājatāt ayasaḥ sīsāt kāṃsyāt kāryāḥ grahāḥ kramāt .. 1.297 ..
स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा । यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ १.२९८ ॥
स्व-वर्णैः वा पटे लेख्याः गन्धैः मण्डलकेषु वा । यथावर्णम् प्रदेयानि वासांसि कुसुमानि च ॥ १।२९८ ॥
sva-varṇaiḥ vā paṭe lekhyāḥ gandhaiḥ maṇḍalakeṣu vā . yathāvarṇam pradeyāni vāsāṃsi kusumāni ca .. 1.298 ..
गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ १.२९९ ॥
गन्धाः च बलयः च एव धूपः देयः च गुग्गुलुः । कर्तव्याः मन्त्रवन्तः च चरवः प्रतिदैवतम् ॥ १।२९९ ॥
gandhāḥ ca balayaḥ ca eva dhūpaḥ deyaḥ ca gugguluḥ . kartavyāḥ mantravantaḥ ca caravaḥ pratidaivatam .. 1.299 ..
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ १.३०० ॥
आकृष्णेन इमम् देवाः अग्निः मूर्धा दिवः ककुद् । उद्बुध्यस्व इति च ऋचः यथासंख्यम् प्रकीर्तिताः ॥ १।३०० ॥
ākṛṣṇena imam devāḥ agniḥ mūrdhā divaḥ kakud . udbudhyasva iti ca ṛcaḥ yathāsaṃkhyam prakīrtitāḥ .. 1.300 ..
बृहस्पतेऽति यदर्यस्तथैवान्नात्परिस्रुतः । शं नो देवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा ॥ १.३०१ ॥
बृहस्पते अति यत् अर्यः तथा एव अन्नात् परिस्रुतः । शम् नः देवीः तथा काण्डात् केतुम् कृण्वन् इमान् तथा ॥ १।३०१ ॥
bṛhaspate ati yat aryaḥ tathā eva annāt parisrutaḥ . śam naḥ devīḥ tathā kāṇḍāt ketum kṛṇvan imān tathā .. 1.301 ..
अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः । उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ १.३०२ ॥
अर्कः पलाशः खदिर अपामार्गः अथ पिप्पलः । उदुम्बरः शमी दूर्वा कुशाः च समिधः क्रमात् ॥ १।३०२ ॥
arkaḥ palāśaḥ khadira apāmārgaḥ atha pippalaḥ . udumbaraḥ śamī dūrvā kuśāḥ ca samidhaḥ kramāt .. 1.302 ..
एकैकस्य त्वष्टशतं अष्टाविंशतिरेव वा । होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः ॥ १.३०३ ॥
एकैकस्य तु अष्टशतम् अष्टाविंशतिः एव वा । होतव्याः मधु-सर्पिर्भ्याम् दध्ना क्षीरेण वा युताः ॥ १।३०३ ॥
ekaikasya tu aṣṭaśatam aṣṭāviṃśatiḥ eva vā . hotavyāḥ madhu-sarpirbhyām dadhnā kṣīreṇa vā yutāḥ .. 1.303 ..
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नं एव च ॥ १.३०४ ॥
गुड-ओदनम् पायसम् च हविष्यम् क्षीरषाष्टिकम् । दधि-ओदनम् हविः-चूर्णम् मांसम् चित्रान्नम् एव च ॥ १।३०४ ॥
guḍa-odanam pāyasam ca haviṣyam kṣīraṣāṣṭikam . dadhi-odanam haviḥ-cūrṇam māṃsam citrānnam eva ca .. 1.304 ..
दद्याद्ग्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् ॥ १.३०५ ॥
दद्यात् ग्रह-क्रमात् एवम् द्विजेभ्यः भोजनम् बुधः । शक्तितः वा यथालाभम् सत्कृत्य विधि-पूर्वकम् ॥ १।३०५ ॥
dadyāt graha-kramāt evam dvijebhyaḥ bhojanam budhaḥ . śaktitaḥ vā yathālābham satkṛtya vidhi-pūrvakam .. 1.305 ..
धेनुः शङ्खस्तथानड्वान्हेम वासो हयः क्रमात् । कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः ॥ १.३०६ ॥
धेनुः शङ्खः तथा अनड्वान् हेम वासः हयः क्रमात् । कृष्णा गौः आयसम् छागः एताः वै दक्षिणाः स्मृताः ॥ १।३०६ ॥
dhenuḥ śaṅkhaḥ tathā anaḍvān hema vāsaḥ hayaḥ kramāt . kṛṣṇā gauḥ āyasam chāgaḥ etāḥ vai dakṣiṇāḥ smṛtāḥ .. 1.306 ..
यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ ॥ १.३०७ ॥
यः च यस्य यदा दुःस्थः स तम् यत्नेन पूजयेत् । ब्रह्मणा एषाम् वरः दत्तः पूजिताः पूजयिष्यथ ॥ १।३०७ ॥
yaḥ ca yasya yadā duḥsthaḥ sa tam yatnena pūjayet . brahmaṇā eṣām varaḥ dattaḥ pūjitāḥ pūjayiṣyatha .. 1.307 ..
ग्रहाधीना नरेन्द्राणां उच्छ्रायाः पतनानि च । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः ॥ १.३०८ ॥ ग्रहाणां इदं आतिथ्यं कुर्यात्संवत्सरादपि । आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् ॥ १.३०८आ ॥
ग्रह-अधीनाः नरेन्द्राणाम् उच्छ्रायाः पतनानि च । भाव-अभावौ च जगतः तस्मात् पूज्यतमाः ग्रहाः ॥ १।३०८ ॥ ग्रहाणाम् इदम् आतिथ्यम् कुर्यात् संवत्सरात् अपि । आरोग्य-बल-संपन्नः जीवेत् स शरदः शतम् ॥ १।३०८ ॥
graha-adhīnāḥ narendrāṇām ucchrāyāḥ patanāni ca . bhāva-abhāvau ca jagataḥ tasmāt pūjyatamāḥ grahāḥ .. 1.308 .. grahāṇām idam ātithyam kuryāt saṃvatsarāt api . ārogya-bala-saṃpannaḥ jīvet sa śaradaḥ śatam .. 1.308 ..
महोत्साहः स्थूललक्षः कृतज्ञो वृद्धसेवकः । विनीतः सत्त्वसंपन्नः कुलीनः सत्यवाक्शुचिः ॥ १.३०९ ॥
महा-उत्साहः स्थूललक्षः कृतज्ञः वृद्ध-सेवकः । विनीतः सत्त्व-संपन्नः कुलीनः सत्य-वाच् शुचिः ॥ १।३०९ ॥
mahā-utsāhaḥ sthūlalakṣaḥ kṛtajñaḥ vṛddha-sevakaḥ . vinītaḥ sattva-saṃpannaḥ kulīnaḥ satya-vāc śuciḥ .. 1.309 ..
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा । धार्मिकोऽव्यसनश्चैव प्राज्ञः शूरो रहस्यवित् ॥ १.३१० ॥
अदीर्घसूत्रः स्मृतिमान् अक्षुद्रः अपरुषः तथा । धार्मिकः अ व्यसनः च एव प्राज्ञः शूरः रहस्य-विद् ॥ १।३१० ॥
adīrghasūtraḥ smṛtimān akṣudraḥ aparuṣaḥ tathā . dhārmikaḥ a vyasanaḥ ca eva prājñaḥ śūraḥ rahasya-vid .. 1.310 ..
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च । विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥ १.३११ ॥
स्व-रन्ध्र-गोप्ता आन्वीक्षिक्याम् दण्डनीत्याम् तथा एव च । विनीतः तु अथ वार्तायाम् त्रय्याम् च एव नराधिपः ॥ १।३११ ॥
sva-randhra-goptā ānvīkṣikyām daṇḍanītyām tathā eva ca . vinītaḥ tu atha vārtāyām trayyām ca eva narādhipaḥ .. 1.311 ..
स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिरान्शुचीन् । तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ १.३१२ ॥
स मन्त्रिणः प्रकुर्वीत प्राज्ञान् मौलान् स्थिरान् शुचीन् । तैः सार्धम् चिन्तयेत् राज्यम् विप्रेण अथ ततस् स्वयम् ॥ १।३१२ ॥
sa mantriṇaḥ prakurvīta prājñān maulān sthirān śucīn . taiḥ sārdham cintayet rājyam vipreṇa atha tatas svayam .. 1.312 ..
पुरोहितं प्रकुर्वीत दैवज्ञं उदितोदितम् । दण्डनीत्यां च कुशलं अथर्वाङ्गिरसे तथा ॥ १.३१३ ॥
पुरोहितम् प्रकुर्वीत दैव-ज्ञम् उदित-उदितम् । दण्डनीत्याम् च कुशलम् अथर्वाङ्गिरसे तथा ॥ १।३१३ ॥
purohitam prakurvīta daiva-jñam udita-uditam . daṇḍanītyām ca kuśalam atharvāṅgirase tathā .. 1.313 ..
श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव च र्त्विजः । यज्ञांश्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥ १.३१४ ॥
श्रौत-स्मार्त-क्रिया-हेतोः वृणुयात् एव च ऋत्विजः । यज्ञान् च एव प्रकुर्वीत विधिवत् भूरि-दक्षिणान् ॥ १।३१४ ॥
śrauta-smārta-kriyā-hetoḥ vṛṇuyāt eva ca ṛtvijaḥ . yajñān ca eva prakurvīta vidhivat bhūri-dakṣiṇān .. 1.314 ..
भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च । अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥ १.३१५ ॥
भोगान् च दद्यात् विप्रेभ्यः वसूनि विविधानि च । अक्षयः अयम् निधिः राज्ञाम् यत् विप्रेषु उपपादितम् ॥ १।३१५ ॥
bhogān ca dadyāt viprebhyaḥ vasūni vividhāni ca . akṣayaḥ ayam nidhiḥ rājñām yat vipreṣu upapāditam .. 1.315 ..
अस्कन्नं अव्यथं चैव प्रायश्चित्तैरदूषितम् । अग्नेः सकाशाद्विप्राग्नौ हुतं श्रेष्ठं इहोच्यते ॥ १.३१६ ॥
अ स्कन्नम् अव्यथम् च एव प्रायश्चित्तैः अ दूषितम् । अग्नेः सकाशात् विप्र-अग्नौ हुतम् श्रेष्ठम् इह उच्यते ॥ १।३१६ ॥
a skannam avyatham ca eva prāyaścittaiḥ a dūṣitam . agneḥ sakāśāt vipra-agnau hutam śreṣṭham iha ucyate .. 1.316 ..
अलब्धं ईहेद्धर्मेण लब्धं यत्नेन पालयेत् । पालितं वर्धयेन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥ १.३१७ ॥
अलब्धम् ईहेत् धर्मेण लब्धम् यत्नेन पालयेत् । पालितम् वर्धयेत् नीत्या वृद्धम् पात्रेषु निक्षिपेत् ॥ १।३१७ ॥
alabdham īhet dharmeṇa labdham yatnena pālayet . pālitam vardhayet nītyā vṛddham pātreṣu nikṣipet .. 1.317 ..
दत्त्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु कारयेत् । आगामिभद्रनृपति परिज्ञानाय पार्थिवः ॥ १.३१८ ॥
दत्त्वा भूमिम् निबन्धम् वा कृत्वा लेख्यम् तु कारयेत् । आगामि-भद्र-नृपति परिज्ञानाय पार्थिवः ॥ १।३१८ ॥
dattvā bhūmim nibandham vā kṛtvā lekhyam tu kārayet . āgāmi-bhadra-nṛpati parijñānāya pārthivaḥ .. 1.318 ..
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् । अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥ १.३१९ ॥
पटे वा ताम्र-पट्टे वा स्व-मुद्रा-उपरि चिह्नितम् । अभिलेख्य आत्मनः वंश्यान् आत्मानम् च महीपतिः ॥ १।३१९ ॥
paṭe vā tāmra-paṭṭe vā sva-mudrā-upari cihnitam . abhilekhya ātmanaḥ vaṃśyān ātmānam ca mahīpatiḥ .. 1.319 ..
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् । स्वहस्तकालसंपन्नं शासनं कारयेत्स्थिरम् ॥ १.३२० ॥
प्रतिग्रह-परीमाणम् दान-छेद-उपवर्णनम् । स्व-हस्त-काल-संपन्नम् शासनम् कारयेत् स्थिरम् ॥ १।३२० ॥
pratigraha-parīmāṇam dāna-cheda-upavarṇanam . sva-hasta-kāla-saṃpannam śāsanam kārayet sthiram .. 1.320 ..
रम्यं पशव्यं आजीव्यं जाङ्गलं देशं आवसेत् । तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥ १.३२१ ॥
रम्यम् पशव्यम् आजीव्यम् जाङ्गलम् देशम् आवसेत् । तत्र दुर्गाणि कुर्वीत जन-कोश-आत्म-गुप्तये ॥ १।३२१ ॥
ramyam paśavyam ājīvyam jāṅgalam deśam āvaset . tatra durgāṇi kurvīta jana-kośa-ātma-guptaye .. 1.321 ..
तत्र तत्र च निष्णातानध्यक्षान्कुशलान्शुचीन् । प्रकुर्यादायकर्मान्त व्ययकर्मसु चोद्यतान् ॥ १.३२२ ॥
तत्र तत्र च निष्णातान् अध्यक्षान् कुशलान् शुचीन् । प्रकुर्यात् आय-कर्मान्त व्यय-कर्मसु च उद्यतान् ॥ १।३२२ ॥
tatra tatra ca niṣṇātān adhyakṣān kuśalān śucīn . prakuryāt āya-karmānta vyaya-karmasu ca udyatān .. 1.322 ..
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ १.३२३ ॥
न अतस् परतरः धर्मः नृपाणाम् यत् रण-अर्जितम् । विप्रेभ्यः दीयते द्रव्यम् प्रजाभ्यः च अभयम् सदा ॥ १।३२३ ॥
na atas parataraḥ dharmaḥ nṛpāṇām yat raṇa-arjitam . viprebhyaḥ dīyate dravyam prajābhyaḥ ca abhayam sadā .. 1.323 ..
य आहवेषु वध्यन्ते भूम्यर्थं अपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ १.३२४ ॥
ये आहवेषु वध्यन्ते भूमि-अर्थम् अ पराङ्मुखाः । अकूटैः आयुधैः यान्ति ते स्वर्गम् योगिनः यथा ॥ १।३२४ ॥
ye āhaveṣu vadhyante bhūmi-artham a parāṅmukhāḥ . akūṭaiḥ āyudhaiḥ yānti te svargam yoginaḥ yathā .. 1.324 ..
पदानि क्रतुतुल्यानि भग्नेष्वविनिवर्तिनाम् । राजा सुकृतं आदत्ते हतानां विपलायिनाम् ॥ १.३२५ ॥
पदानि क्रतु-तुल्यानि भग्नेषु अविनिवर्तिनाम् । राजा सुकृतम् आदत्ते हतानाम् विपलायिनाम् ॥ १।३२५ ॥
padāni kratu-tulyāni bhagneṣu avinivartinām . rājā sukṛtam ādatte hatānām vipalāyinām .. 1.325 ..
तवाहंवादिनं क्लीबं निर्हेतिं परसंगतम् । न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥ १.३२६ ॥
तव अहंवादिनम् क्लीबम् निर्हेतिम् पर-संगतम् । न हन्यात् विनिवृत्तम् च युद्ध-प्रेक्षणक-आदिकम् ॥ १।३२६ ॥
tava ahaṃvādinam klībam nirhetim para-saṃgatam . na hanyāt vinivṛttam ca yuddha-prekṣaṇaka-ādikam .. 1.326 ..
कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ १.३२७ ॥
कृत-रक्षः समुत्थाय पश्येत् आय-व्ययौ स्वयम् । व्यवहारान् ततस् दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ १।३२७ ॥
kṛta-rakṣaḥ samutthāya paśyet āya-vyayau svayam . vyavahārān tatas dṛṣṭvā snātvā bhuñjīta kāmataḥ .. 1.327 ..
हिरण्यं व्यापृतानीतं भाण्डागारेषु निक्षिपेत् । पश्येच्चारांस्ततो दूतान्प्रेषयेन्मन्त्रिसंगतः ॥ १.३२८ ॥
हिरण्यम् व्यापृत-आनीतम् भाण्डागारेषु निक्षिपेत् । पश्येत् चारान् ततस् दूतान् प्रेषयेत् मन्त्रि-संगतः ॥ १।३२८ ॥
hiraṇyam vyāpṛta-ānītam bhāṇḍāgāreṣu nikṣipet . paśyet cārān tatas dūtān preṣayet mantri-saṃgataḥ .. 1.328 ..
ततः स्वैरविहारी स्यान्मन्त्रिभिर्वा समागतः । बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥ १.३२९ ॥
ततस् स्वैर-विहारी स्यात् मन्त्रिभिः वा समागतः । बलानाम् दर्शनम् कृत्वा सेनान्या सह चिन्तयेत् ॥ १।३२९ ॥
tatas svaira-vihārī syāt mantribhiḥ vā samāgataḥ . balānām darśanam kṛtvā senānyā saha cintayet .. 1.329 ..
संध्यां उपास्य शृणुयाच्चाराणां गूढभाषितम् । गीतनृत्यैश्च भुञ्जीत पठेत्स्वाध्यायं एव च ॥ १.३३० ॥
संध्याम् उपास्य शृणुयात् चाराणाम् गूढ-भाषितम् । गीत-नृत्यैः च भुञ्जीत पठेत् स्वाध्यायम् एव च ॥ १।३३० ॥
saṃdhyām upāsya śṛṇuyāt cārāṇām gūḍha-bhāṣitam . gīta-nṛtyaiḥ ca bhuñjīta paṭhet svādhyāyam eva ca .. 1.330 ..
संविशेत्तूर्यघोषेण प्रतिबुध्येत्तथैव च । शास्त्राणि चिन्तयेद्बुद्ध्या सर्वकर्तव्यतास्तथा ॥ १.३३१ ॥
संविशेत् तूर्य-घोषेण प्रतिबुध्येत् तथा एव च । शास्त्राणि चिन्तयेत् बुद्ध्या सर्व-कर्तव्य-ताः तथा ॥ १।३३१ ॥
saṃviśet tūrya-ghoṣeṇa pratibudhyet tathā eva ca . śāstrāṇi cintayet buddhyā sarva-kartavya-tāḥ tathā .. 1.331 ..
प्रेषयेच्च ततश्चारान्स्वेष्वन्येषु च सादरान् । ऋत्विक्पुरोहिताचार्यैराशीर्भिरभिनन्दितः ॥ १.३३२ ॥
प्रेषयेत् च ततस् चारान् स्वेषु अन्येषु च सादरान् । ऋत्विज्-पुरोहित-आचार्यैः आशीर्भिः अभिनन्दितः ॥ १।३३२ ॥
preṣayet ca tatas cārān sveṣu anyeṣu ca sādarān . ṛtvij-purohita-ācāryaiḥ āśīrbhiḥ abhinanditaḥ .. 1.332 ..
दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्गां काञ्चनं महीम् । नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥ १.३३३ ॥
दृष्ट्वा ज्योतिः-विदः वैद्यान् दद्यात् गाम् काञ्चनम् महीम् । नैवेशिकानि च ततस् श्रोत्रियेभ्यः गृहाणि च ॥ १।३३३ ॥
dṛṣṭvā jyotiḥ-vidaḥ vaidyān dadyāt gām kāñcanam mahīm . naiveśikāni ca tatas śrotriyebhyaḥ gṛhāṇi ca .. 1.333 ..
ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु । स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥ १.३३४ ॥
ब्राह्मणेषु क्षमी स्निग्धेषु अ जिह्मः क्रोधनः अरिषु । स्यात् राजा भृत्य-वर्गेषु प्रजासु च यथा पिता ॥ १।३३४ ॥
brāhmaṇeṣu kṣamī snigdheṣu a jihmaḥ krodhanaḥ ariṣu . syāt rājā bhṛtya-vargeṣu prajāsu ca yathā pitā .. 1.334 ..
पुण्यात्षड्भागं आदत्ते न्यायेन परिपालयन् । सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥ १.३३५ ॥
पुण्यात् षष्-भागम् आदत्ते न्यायेन परिपालयन् । सर्व-दान-अधिकम् यस्मात् प्रजानाम् परिपालनम् ॥ १।३३५ ॥
puṇyāt ṣaṣ-bhāgam ādatte nyāyena paripālayan . sarva-dāna-adhikam yasmāt prajānām paripālanam .. 1.335 ..
चाटतस्करदुर्वृत्त महासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ १.३३६ ॥
चाट-तस्कर-दुर्वृत्त-महासाहसिक-आदिभिः । पीड्यमानाः प्रजाः रक्षेत् कायस्थैः च विशेषतः ॥ १।३३६ ॥
cāṭa-taskara-durvṛtta-mahāsāhasika-ādibhiḥ . pīḍyamānāḥ prajāḥ rakṣet kāyasthaiḥ ca viśeṣataḥ .. 1.336 ..
अरक्ष्यमाणाः कुर्वन्ति यत्किंचित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद्गृह्णात्यसौ करान् ॥ १.३३७ ॥
अरक्ष्यमाणाः कुर्वन्ति यत् किंचिद् किल्बिषम् प्रजाः । तस्मात् तु नृपतेः अर्धम् यस्मात् गृह्णाति असौ करान् ॥ १।३३७ ॥
arakṣyamāṇāḥ kurvanti yat kiṃcid kilbiṣam prajāḥ . tasmāt tu nṛpateḥ ardham yasmāt gṛhṇāti asau karān .. 1.337 ..
ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून्सम्मानयेद्राजा विपरीतांश्च घातयेत् ॥ १.३३८ ॥
ये राष्ट्र-अधिकृताः तेषाम् चारैः ज्ञात्वा विचेष्टितम् । साधून् सम्मानयेत् राजा विपरीतान् च घातयेत् ॥ १।३३८ ॥
ye rāṣṭra-adhikṛtāḥ teṣām cāraiḥ jñātvā viceṣṭitam . sādhūn sammānayet rājā viparītān ca ghātayet .. 1.338 ..
उत्कोचजीविनो द्रव्य हीनान्कृत्वा विवासयेत् । सद्दानमानसत्कारान्श्रोत्रियान्वासयेत्सदा ॥ १.३३९ ॥
उत्कोच-जीविनः द्रव्य-हीनान् कृत्वा विवासयेत् । सत्-दान-मान-सत्कारान् श्रोत्रियान् वासयेत् सदा ॥ १।३३९ ॥
utkoca-jīvinaḥ dravya-hīnān kṛtvā vivāsayet . sat-dāna-māna-satkārān śrotriyān vāsayet sadā .. 1.339 ..
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् । सोऽचिराद्विगतश्रीको नाशं एति सबान्धवः ॥ १.३४० ॥
अन्यायेन नृपः राष्ट्रात् स्व-कोशम् यः अभिवर्धयेत् । सः अचिरात् विगत-श्रीकः नाशम् एति स बान्धवः ॥ १।३४० ॥
anyāyena nṛpaḥ rāṣṭrāt sva-kośam yaḥ abhivardhayet . saḥ acirāt vigata-śrīkaḥ nāśam eti sa bāndhavaḥ .. 1.340 ..
प्रजापीडनसंतापात्समुद्भूतो हुताशनः । राज्ञः कुलं श्रियं प्राणांश्चादग्ध्वा न निवर्तते ॥ १.३४१ ॥
प्रजा-पीडन-संतापात् समुद्भूतः हुताशनः । राज्ञः कुलम् श्रियम् प्राणान् च अ दग्ध्वा न निवर्तते ॥ १।३४१ ॥
prajā-pīḍana-saṃtāpāt samudbhūtaḥ hutāśanaḥ . rājñaḥ kulam śriyam prāṇān ca a dagdhvā na nivartate .. 1.341 ..
य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने । तं एव कृत्स्नं आप्नोति परराष्ट्रं वशं नयन् ॥ १.३४२ ॥
यः एव नृपतेः धर्मः स्व-राष्ट्र-परिपालने । तम् एव कृत्स्नम् आप्नोति पर-राष्ट्रम् वशम् नयन् ॥ १।३४२ ॥
yaḥ eva nṛpateḥ dharmaḥ sva-rāṣṭra-paripālane . tam eva kṛtsnam āpnoti para-rāṣṭram vaśam nayan .. 1.342 ..
यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशं उपागतः ॥ १.३४३ ॥
यस्मिन् देशे यः आचारः व्यवहारः कुल-स्थितिः । तथा एव परिपाल्यः असौ यदा वशम् उपागतः ॥ १।३४३ ॥
yasmin deśe yaḥ ācāraḥ vyavahāraḥ kula-sthitiḥ . tathā eva paripālyaḥ asau yadā vaśam upāgataḥ .. 1.343 ..
मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् । कुर्याद्यथास्य न विदुः कर्मणां आफलोदयात् ॥ १.३४४ ॥
मन्त्र-मूलम् यतस् राज्यम् तस्मात् मन्त्रम् सु रक्षितम् । कुर्यात् यथा अस्य न विदुः कर्मणाम् आ फल-उदयात् ॥ १।३४४ ॥
mantra-mūlam yatas rājyam tasmāt mantram su rakṣitam . kuryāt yathā asya na viduḥ karmaṇām ā phala-udayāt .. 1.344 ..
अरिर्मित्रं उदासीनोऽनन्तरस्तत्परः परः । क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥ १.३४५ ॥
अरिः मित्रम् उदासीनः अनन्तरः तद्-परः परः । क्रमशस् मण्डलम् चिन्त्यम् साम-आदिभिः उपक्रमैः ॥ १।३४५ ॥
ariḥ mitram udāsīnaḥ anantaraḥ tad-paraḥ paraḥ . kramaśas maṇḍalam cintyam sāma-ādibhiḥ upakramaiḥ .. 1.345 ..
उपायाः साम दानं च भेदो दण्डस्तथैव च । सम्यक्प्रयुक्ताः सिध्येयुर्दण्डस्त्वगतिका गतिः ॥ १.३४६ ॥
उपायाः साम दानम् च भेदः दण्डः तथा एव च । सम्यक् प्रयुक्ताः सिध्येयुः दण्डः तु अगतिका गतिः ॥ १।३४६ ॥
upāyāḥ sāma dānam ca bhedaḥ daṇḍaḥ tathā eva ca . samyak prayuktāḥ sidhyeyuḥ daṇḍaḥ tu agatikā gatiḥ .. 1.346 ..
संधिं च विग्रहं यानं आसनं संश्रयं तथा । द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥ १.३४७ ॥
संधिम् च विग्रहम् यानम् आसनम् संश्रयम् तथा । द्वैधीभावम् गुणान् एतान् यथावत् परिकल्पयेत् ॥ १।३४७ ॥
saṃdhim ca vigraham yānam āsanam saṃśrayam tathā . dvaidhībhāvam guṇān etān yathāvat parikalpayet .. 1.347 ..
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् । परश्च हीन आत्मा च हृष्टवाहनपूरुषः ॥ १.३४८ ॥
यदा सस्य-गुण-उपेतम् पर-राष्ट्रम् तदा व्रजेत् । परः च हीनः आत्मा च हृष्ट-वाहन-पूरुषः ॥ १।३४८ ॥
yadā sasya-guṇa-upetam para-rāṣṭram tadā vrajet . paraḥ ca hīnaḥ ātmā ca hṛṣṭa-vāhana-pūruṣaḥ .. 1.348 ..
दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्थिता । तत्र दैवं अभिव्यक्तं पौरुषं पौर्वदेहिकम् ॥ १.३४९ ॥
दैवे पुरुषकारे च कर्म-सिद्धिः व्यवस्थिता । तत्र दैवम् अभिव्यक्तम् पौरुषम् पौर्वदेहिकम् ॥ १।३४९ ॥
daive puruṣakāre ca karma-siddhiḥ vyavasthitā . tatra daivam abhivyaktam pauruṣam paurvadehikam .. 1.349 ..
केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः । संयोगे केचिदिच्छन्ति फलं कुशलबुद्धयः ॥ १.३५० ॥
केचिद् दैवात् स्वभावात् वा कालात् पुरुषकारतः । संयोगे केचिद् इच्छन्ति फलम् कुशल-बुद्धयः ॥ १।३५० ॥
kecid daivāt svabhāvāt vā kālāt puruṣakārataḥ . saṃyoge kecid icchanti phalam kuśala-buddhayaḥ .. 1.350 ..
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् । एवं पुरुषकारेण विना दैवं न सिध्यति ॥ १.३५१ ॥
यथा हि एकेन चक्रेण रथस्य न गतिः भवेत् । एवम् पुरुषकारेण विना दैवम् न सिध्यति ॥ १।३५१ ॥
yathā hi ekena cakreṇa rathasya na gatiḥ bhavet . evam puruṣakāreṇa vinā daivam na sidhyati .. 1.351 ..
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥ १.३५२ ॥
हिरण्य-भूमि-लाभेभ्यः मित्र-लब्धिः वरा यतस् । अतस् यतेत तद्-प्राप्त्यै रक्षेत् सत्यम् समाहितः ॥ १।३५२ ॥
hiraṇya-bhūmi-lābhebhyaḥ mitra-labdhiḥ varā yatas . atas yateta tad-prāptyai rakṣet satyam samāhitaḥ .. 1.352 ..
स्वाम्यमात्या जनो दुर्गं कोशो दण्डस्तथैव च । मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गं उच्यते ॥ १.३५३ ॥
स्वामि-अमात्याः जनः दुर्गम् कोशः दण्डः तथा एव च । मित्राणि एताः प्रकृतयः राज्यम् सप्त-अङ्गम् उच्यते ॥ १।३५३ ॥
svāmi-amātyāḥ janaḥ durgam kośaḥ daṇḍaḥ tathā eva ca . mitrāṇi etāḥ prakṛtayaḥ rājyam sapta-aṅgam ucyate .. 1.353 ..
तदवाप्य नृपो दण्डं दुर्वृत्तेषु निपातयेत् । धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥ १.३५४ ॥
तत् अवाप्य नृपः दण्डम् दुर्वृत्तेषु निपातयेत् । धर्मः हि दण्ड-रूपेण ब्रह्मणा निर्मितः पुरा ॥ १।३५४ ॥
tat avāpya nṛpaḥ daṇḍam durvṛtteṣu nipātayet . dharmaḥ hi daṇḍa-rūpeṇa brahmaṇā nirmitaḥ purā .. 1.354 ..
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना । सत्यसंधेन शुचिना सुसहायेन धीमता ॥ १.३५५ ॥
स नेतुम् न्यायतः अशक्यः लुब्धेन अकृतबुद्धिना । सत्य-संधेन शुचिना सु सहायेन धीमता ॥ १।३५५ ॥
sa netum nyāyataḥ aśakyaḥ lubdhena akṛtabuddhinā . satya-saṃdhena śucinā su sahāyena dhīmatā .. 1.355 ..
यथाशास्त्रं प्रयुक्तः सन्सदेवासुरमानवम् । जगदानन्दयेत्सर्वं अन्यथा तत्प्रकोपयेत् ॥ १.३५६ ॥
यथाशास्त्रम् प्रयुक्तः सन् स देव-असुर-मानवम् । जगत् आनन्दयेत् सर्वम् अन्यथा तत् प्रकोपयेत् ॥ १।३५६ ॥
yathāśāstram prayuktaḥ san sa deva-asura-mānavam . jagat ānandayet sarvam anyathā tat prakopayet .. 1.356 ..
अधर्मदण्डनं स्वर्ग कीर्तिलोकविनाशनम् । सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥ १.३५७ ॥
अधर्म-दण्डनम् स्वर्ग कीर्ति-लोक-विनाशनम् । सम्यक् तु दण्डनम् राज्ञः स्वर्ग-कीर्ति-जय-आवहम् ॥ १।३५७ ॥
adharma-daṇḍanam svarga kīrti-loka-vināśanam . samyak tu daṇḍanam rājñaḥ svarga-kīrti-jaya-āvaham .. 1.357 ..
अपि भ्राता सुतोऽर्घ्यो वा श्वशुरो मातुलोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥ १.३५८ ॥
अपि भ्राता सुतः अर्घ्यः वा श्वशुरः मातुलः अपि वा । न अ दण्ड्यः नाम राज्ञः अस्ति धर्मात् विचलितः स्वकात् ॥ १।३५८ ॥
api bhrātā sutaḥ arghyaḥ vā śvaśuraḥ mātulaḥ api vā . na a daṇḍyaḥ nāma rājñaḥ asti dharmāt vicalitaḥ svakāt .. 1.358 ..
यो दण्ड्यान्दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत् । इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥ १.३५९ ॥
यः दण्ड्यान् दण्डयेत् राजा सम्यक् वध्यन् च घातयेत् । इष्टम् स्यात् क्रतुभिः तेन समाप्त-वर-दक्षिणैः ॥ १।३५९ ॥
yaḥ daṇḍyān daṇḍayet rājā samyak vadhyan ca ghātayet . iṣṭam syāt kratubhiḥ tena samāpta-vara-dakṣiṇaiḥ .. 1.359 ..
इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ १.३६० ॥
इति संचिन्त्य नृपतिः क्रतु-तुल्य-फलम् पृथक् । व्यवहारान् स्वयम् पश्येत् सभ्यैः परिवृतः अन्वहम् ॥ १।३६० ॥
iti saṃcintya nṛpatiḥ kratu-tulya-phalam pṛthak . vyavahārān svayam paśyet sabhyaiḥ parivṛtaḥ anvaham .. 1.360 ..
कुलानि जातीः श्रेणीश्च गणान्जानपदानपि । स्वधर्माच्चलितान्राजा विनीय स्थापयेत्पथि ॥ १.३६१ ॥
कुलानि जातीः श्रेणीः च गणान् जानपदान् अपि । स्वधर्मात् चलितान् राजा विनीय स्थापयेत् पथि ॥ १।३६१ ॥
kulāni jātīḥ śreṇīḥ ca gaṇān jānapadān api . svadharmāt calitān rājā vinīya sthāpayet pathi .. 1.361 ..
जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ १.३६२ ॥
जाल-सूर्य-मरीचि-स्थम् त्रसरेणुः रजः स्मृतम् । ते अष्टौ लिक्षा तु ताः तिस्रः राजसर्षपः उच्यते ॥ १।३६२ ॥
jāla-sūrya-marīci-stham trasareṇuḥ rajaḥ smṛtam . te aṣṭau likṣā tu tāḥ tisraḥ rājasarṣapaḥ ucyate .. 1.362 ..
गौरस्तु ते त्रयः षट्ते यवो मध्यस्तु ते त्रयः । कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश ॥ १.३६३ ॥
गौरः तु ते त्रयः षट् ते यवः मध्यः तु ते त्रयः । कृष्णलः पञ्च ते माषः ते सुवर्णः तु षोडश ॥ १।३६३ ॥
gauraḥ tu te trayaḥ ṣaṭ te yavaḥ madhyaḥ tu te trayaḥ . kṛṣṇalaḥ pañca te māṣaḥ te suvarṇaḥ tu ṣoḍaśa .. 1.363 ..
पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । द्वे कृष्णले रूप्यमाषो धरणं षोडशैव ते ॥ १.३६४ ॥
पलम् सुवर्णाः चत्वारः पञ्च वा अपि प्रकीर्तितम् । द्वे कृष्णले रूप्यमाषः धरणम् षोडश एव ते ॥ १।३६४ ॥
palam suvarṇāḥ catvāraḥ pañca vā api prakīrtitam . dve kṛṣṇale rūpyamāṣaḥ dharaṇam ṣoḍaśa eva te .. 1.364 ..
शतमानं तु दशभिर्धरणैः पलं एव तु । निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः ॥ १.३६५ ॥
शत-मानम् तु दशभिः धरणैः पलम् एव तु । निष्कम् सुवर्णाः चत्वारः कार्षिकः ताम्रिकः पणः ॥ १।३६५ ॥
śata-mānam tu daśabhiḥ dharaṇaiḥ palam eva tu . niṣkam suvarṇāḥ catvāraḥ kārṣikaḥ tāmrikaḥ paṇaḥ .. 1.365 ..
साशीतिपणसाहस्रो दण्ड उत्तमसाहसः । तदर्धं मध्यमः प्रोक्तस्तदर्धं अधमः स्मृतः ॥ १.३६६ ॥
स अशीति-पण-साहस्रः दण्डः उत्तमसाहसः । तद्-अर्धम् मध्यमः प्रोक्तः तद्-अर्धम् अधमः स्मृतः ॥ १।३६६ ॥
sa aśīti-paṇa-sāhasraḥ daṇḍaḥ uttamasāhasaḥ . tad-ardham madhyamaḥ proktaḥ tad-ardham adhamaḥ smṛtaḥ .. 1.366 ..
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥ १.३६७ ॥
धिग्दण्डः तु अथ वाग्दण्डः धनदण्डः वधः तथा । योज्याः व्यस्ताः समस्ताः वा हि अपराध-वशात् इमे ॥ १।३६७ ॥
dhigdaṇḍaḥ tu atha vāgdaṇḍaḥ dhanadaṇḍaḥ vadhaḥ tathā . yojyāḥ vyastāḥ samastāḥ vā hi aparādha-vaśāt ime .. 1.367 ..
ज्ञात्वापराधं देशं च कालं बलं अथापि वा । वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥ १.३६८ ॥
ज्ञात्वा अपराधम् देशम् च कालम् बलम् अथ अपि वा । वयः कर्म च वित्तम् च दण्डम् दण्ड्येषु पातयेत् ॥ १।३६८ ॥
jñātvā aparādham deśam ca kālam balam atha api vā . vayaḥ karma ca vittam ca daṇḍam daṇḍyeṣu pātayet .. 1.368 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In