| |
|

This overlay will guide you through the buttons:

अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ॥ २.१ ॥
अथ आसने दृधे योगी वशी हित-मित-अशनः । गुरु-उपदिष्ट-मार्गेण प्राणायामान् समभ्यसेत् ॥ २।१ ॥
atha āsane dṛdhe yogī vaśī hita-mita-aśanaḥ . guru-upadiṣṭa-mārgeṇa prāṇāyāmān samabhyaset .. 2.1 ..
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वं आप्नोति ततो वायुं निरोधयेत् ॥ २.२ ॥
चले वाते चलम् चित्तम् निश्चले निश्चलम् भवेत् । योगी स्थाणु-त्वम् आप्नोति ततस् वायुम् निरोधयेत् ॥ २।२ ॥
cale vāte calam cittam niścale niścalam bhavet . yogī sthāṇu-tvam āpnoti tatas vāyum nirodhayet .. 2.2 ..
यावद्वायुः स्थितो देहे तावज्जीवनं उच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ २.३ ॥
यावत् वायुः स्थितः देहे तावत् जीवनम् उच्यते । मरणम् तस्य निष्क्रान्तिः ततस् वायुम् निरोधयेत् ॥ २।३ ॥
yāvat vāyuḥ sthitaḥ dehe tāvat jīvanam ucyate . maraṇam tasya niṣkrāntiḥ tatas vāyum nirodhayet .. 2.3 ..
मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥ २.४ ॥
मला-कलासु नाडीषु मारुतः न एव मध्य-गः । कथम् स्यात् उन्मनीभावः कार्य-सिद्धिः कथम् भवेत् ॥ २।४ ॥
malā-kalāsu nāḍīṣu mārutaḥ na eva madhya-gaḥ . katham syāt unmanībhāvaḥ kārya-siddhiḥ katham bhavet .. 2.4 ..
शुद्धं एति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ २.५ ॥
शुद्धम् एति यदा सर्वम् नाडी-चक्रम् मल-आकुलम् । तदा एव जायते योगी प्राण-संग्रहणे क्षमः ॥ २।५ ॥
śuddham eti yadā sarvam nāḍī-cakram mala-ākulam . tadā eva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ .. 2.5 ..
प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ २.६ ॥
प्राणायामम् ततस् कुर्यात् नित्यम् सात्त्विकया धिया । यथा सुषुम्णा-नाडी-स्थाः मलाः शुद्धिम् प्रयान्ति च ॥ २।६ ॥
prāṇāyāmam tatas kuryāt nityam sāttvikayā dhiyā . yathā suṣumṇā-nāḍī-sthāḥ malāḥ śuddhim prayānti ca .. 2.6 ..
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ २.७ ॥
बद्ध-पद्मासनः योगी प्राणम् चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयस् सूर्येण रेचयेत् ॥ २।७ ॥
baddha-padmāsanaḥ yogī prāṇam candreṇa pūrayet . dhārayitvā yathāśakti bhūyas sūryeṇa recayet .. 2.7 ..
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ २.८ ॥
प्राणम् सूर्येण च आकृष्य पूरयेत् उदरम् शनैस् । विधिवत् कुम्भकम् कृत्वा पुनर् चन्द्रेण रेचयेत् ॥ २।८ ॥
prāṇam sūryeṇa ca ākṛṣya pūrayet udaram śanais . vidhivat kumbhakam kṛtvā punar candreṇa recayet .. 2.8 ..
येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ २.९ ॥
येन त्यजेत् तेन पीत्वा धारयेत् अतिरोधतः । रेचयेत् च ततस् अन्येन शनैस् एव न वेगतः ॥ २।९ ॥
yena tyajet tena pītvā dhārayet atirodhataḥ . recayet ca tatas anyena śanais eva na vegataḥ .. 2.9 ..
प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणं अथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतांशुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ २.१० ॥
प्राणम् चेद् इडया पिबेत् नियमितम् भूयस् अन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेत् वामया । सूर्य-चन्द्रमसोः अनेन विधिना अभ्यासम् सदा तन्वताम् शुद्धाः नाडि-गणाः भवन्ति यमिनाम् मास-त्रयात् ऊर्ध्वतस् ॥ २।१० ॥
prāṇam ced iḍayā pibet niyamitam bhūyas anyathā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajet vāmayā . sūrya-candramasoḥ anena vidhinā abhyāsam sadā tanvatām śuddhāḥ nāḍi-gaṇāḥ bhavanti yaminām māsa-trayāt ūrdhvatas .. 2.10 ..
प्रातर्मध्यन्दिने सायं अर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ २.११ ॥
प्रातर् मध्यन्दिने सायम् अर्धरात्रे च कुम्भकान् । शनैस् अशीति-पर्यन्तम् चतुर्-वारम् समभ्यसेत् ॥ २।११ ॥
prātar madhyandine sāyam ardharātre ca kumbhakān . śanais aśīti-paryantam catur-vāram samabhyaset .. 2.11 ..
कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानं आप्नोति ततो वायुं निबन्धयेत् ॥ २.१२ ॥
कनीयसि भवेत् स्वेद कम्पः भवति मध्यमे । उत्तमे स्थानम् आप्नोति ततस् वायुम् निबन्धयेत् ॥ २।१२ ॥
kanīyasi bhavet sveda kampaḥ bhavati madhyame . uttame sthānam āpnoti tatas vāyum nibandhayet .. 2.12 ..
जलेन श्रमजातेन गात्रमर्दनं आचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ २.१३ ॥
जलेन श्रम-जातेन गात्र-मर्दनम् आचरेत् । दृढ-ता लघु-ता च एव तेन गात्रस्य जायते ॥ २।१३ ॥
jalena śrama-jātena gātra-mardanam ācaret . dṛḍha-tā laghu-tā ca eva tena gātrasya jāyate .. 2.13 ..
अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः ॥ २.१४ ॥
अभ्यास-काले प्रथमे शस्तम् क्षीर-आज्य-भोजनम् । ततस् अभ्यासे दृढीभूते न तादृश्-नियम-ग्रहः ॥ २।१४ ॥
abhyāsa-kāle prathame śastam kṣīra-ājya-bhojanam . tatas abhyāse dṛḍhībhūte na tādṛś-niyama-grahaḥ .. 2.14 ..
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ २.१५ ॥
यथा सिंहः गजः व्याघ्रः भवेत् वश्यः शनैस् शनैस् । तथा एव सेवितः वायुः अन्यथा हन्ति साधकम् ॥ २।१५ ॥
yathā siṃhaḥ gajaḥ vyāghraḥ bhavet vaśyaḥ śanais śanais . tathā eva sevitaḥ vāyuḥ anyathā hanti sādhakam .. 2.15 ..
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥ २.१६ ॥
प्राणायामेन युक्तेन सर्व-रोग-क्षयः भवेत् । अयुक्त-अभ्यास-योगेन सर्व-रोग-समुद्गमः ॥ २।१६ ॥
prāṇāyāmena yuktena sarva-roga-kṣayaḥ bhavet . ayukta-abhyāsa-yogena sarva-roga-samudgamaḥ .. 2.16 ..
हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ २.१७ ॥
हिक्का श्वासः च कासः च शिरः-कर्ण-अक्षि-वेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ २।१७ ॥
hikkā śvāsaḥ ca kāsaḥ ca śiraḥ-karṇa-akṣi-vedanāḥ . bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 2.17 ..
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिं अवाप्नुयात् ॥ २.१८ ॥
युक्तम् युक्तम् त्यजेत् वायुम् युक्तम् युक्तम् च पूरयेत् । युक्तम् युक्तम् च बध्नीयात् एवम् सिद्धिम् अवाप्नुयात् ॥ २।१८ ॥
yuktam yuktam tyajet vāyum yuktam yuktam ca pūrayet . yuktam yuktam ca badhnīyāt evam siddhim avāpnuyāt .. 2.18 ..
यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ २.१९ ॥
यदा तु नाडी-शुद्धिः स्यात् तथा चिह्नानि बाह्यतस् । कायस्य कृश-ता कान्तिः तदा जायते निश्चितम् ॥ २।१९ ॥
yadā tu nāḍī-śuddhiḥ syāt tathā cihnāni bāhyatas . kāyasya kṛśa-tā kāntiḥ tadā jāyate niścitam .. 2.19 ..
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २.२० ॥
यथेष्टम् धारणम् वायोः अनलस्य प्रदीपनम् । जायते ॥ २।२० ॥
yatheṣṭam dhāraṇam vāyoḥ analasya pradīpanam . jāyate .. 2.20 ..
मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ २.२१ ॥
मेद-श्लेष्म-अधिकः पूर्वम् षट्कर्माणि समाचरेत् । अन्यः तु ना आचरेत् तानि दोषाणाम् सम-भावतः ॥ २।२१ ॥
meda-śleṣma-adhikaḥ pūrvam ṣaṭkarmāṇi samācaret . anyaḥ tu nā ācaret tāni doṣāṇām sama-bhāvataḥ .. 2.21 ..
धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥ २.२२ ॥
धौतिः वस्तिः तथा नेतिः त्राटकम् नौलिकम् तथा । कपालभातिः च एतानि षट्कर्माणि प्रचक्षते ॥ २।२२ ॥
dhautiḥ vastiḥ tathā netiḥ trāṭakam naulikam tathā . kapālabhātiḥ ca etāni ṣaṭkarmāṇi pracakṣate .. 2.22 ..
कर्म षट्कं इदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥ २.२३ ॥
कर्म-षट्कम् इदम् गोप्यम् घट-शोधन-कारकम् । विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः ॥ २।२३ ॥
karma-ṣaṭkam idam gopyam ghaṭa-śodhana-kārakam . vicitra-guṇa-sandhāya pūjyate yogi-puṅgavaiḥ .. 2.23 ..
तत्र धौतिः
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ २.२४ ॥
चतुर्-अङ्गुल-विस्तारम् हस्त-पञ्चदश-आयतम् । गुरु-उपदिष्ट-मार्गेण सिक्तम् वस्त्रम् शनैस् ग्रसेत् । पुनर् प्रत्याहरेत् च एतत् उदितम् धौतिकर्म तत् ॥ २।२४ ॥
catur-aṅgula-vistāram hasta-pañcadaśa-āyatam . guru-upadiṣṭa-mārgeṇa siktam vastram śanais graset . punar pratyāharet ca etat uditam dhautikarma tat .. 2.24 ..
कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ २.२५ ॥
कास-श्वास-प्लीह-कुष्ठम् कफ-रोगाः च विंशतिः । धौतिकर्म-प्रभावेण प्रयान्ति एव न संशयः ॥ २।२५ ॥
kāsa-śvāsa-plīha-kuṣṭham kapha-rogāḥ ca viṃśatiḥ . dhautikarma-prabhāveṇa prayānti eva na saṃśayaḥ .. 2.25 ..
अथ बस्तिः
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥ २.२६ ॥
नाभि-दघ्न-जले पायौ न्यस्त-नाल-उत्कटासनः । आधार-आकुञ्चनम् कुर्यात् क्षालनम् वस्ति-कर्म तत् ॥ २।२६ ॥
nābhi-daghna-jale pāyau nyasta-nāla-utkaṭāsanaḥ . ādhāra-ākuñcanam kuryāt kṣālanam vasti-karma tat .. 2.26 ..
गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ २.२७ ॥
गुल्म-प्लीहोदरम् च अपि वात-पित्त-कफ-उद्भवाः । वस्ति-कर्म-प्रभावेण क्षीयन्ते सकल-आमयाः ॥ २।२७ ॥
gulma-plīhodaram ca api vāta-pitta-kapha-udbhavāḥ . vasti-karma-prabhāveṇa kṣīyante sakala-āmayāḥ .. 2.27 ..
धान्त्वद्रियान्तःकरणप्रसादंदधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्याद्अभ्यस्यमानं जलबस्तिकर्म ॥ २.२८ ॥
धान्त्व-द्रिय-अन्तःकरण-प्रसादम् दधात् च कान्तिम् दहन-प्रदीप्तम् । अशेष-दोष-उपचयम् निहन्यात् अभ्यस्यमानम् जलवस्ति-कर्म ॥ २।२८ ॥
dhāntva-driya-antaḥkaraṇa-prasādam dadhāt ca kāntim dahana-pradīptam . aśeṣa-doṣa-upacayam nihanyāt abhyasyamānam jalavasti-karma .. 2.28 ..
अथ नेतिः
सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २.२९ ॥
सूत्रम् वितस्ति-सु स्निग्धम् नासा-नाले प्रवेशयेत् । मुखात् निर्गमयेत् च एषा नेतिः सिद्धैः निगद्यते ॥ २।२९ ॥
sūtram vitasti-su snigdham nāsā-nāle praveśayet . mukhāt nirgamayet ca eṣā netiḥ siddhaiḥ nigadyate .. 2.29 ..
कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ २.३० ॥
च एव । जत्रु-ऊर्ध्व-जात-रोग-ओघम् नेतिः आशु निहन्ति च ॥ २।३० ॥
ca eva . jatru-ūrdhva-jāta-roga-ogham netiḥ āśu nihanti ca .. 2.30 ..
अथ त्राटकम्
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तं आचार्यैस्त्राटकं स्मृतम् ॥ २.३१ ॥
निरीक्षेत् निश्चल-दृशा सूक्ष्म-लक्ष्यम् समाहितः । अश्रु-सम्पात-पर्यन्तम् आचार्यैः त्राटकम् स्मृतम् ॥ २।३१ ॥
nirīkṣet niścala-dṛśā sūkṣma-lakṣyam samāhitaḥ . aśru-sampāta-paryantam ācāryaiḥ trāṭakam smṛtam .. 2.31 ..
मोचनं नेत्ररोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ २.३२ ॥
मोचनम् नेत्र-रोगाणाम् तन्द-अद्रीणाम् कपाटकम् । यत्नतः त्राटकम् गोप्यम् यथा हाटक-पेटकम् ॥ २।३२ ॥
mocanam netra-rogāṇām tanda-adrīṇām kapāṭakam . yatnataḥ trāṭakam gopyam yathā hāṭaka-peṭakam .. 2.32 ..
अथ नौलिः
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ २.३३ ॥
अमन्द-आवर्त-वेगेन तुन्दम् सव्य-अपसव्यतः । नत-अंसः भ्रामयेत् एषा नौलिः सिद्धैः प्रशस्यते ॥ २।३३ ॥
amanda-āvarta-vegena tundam savya-apasavyataḥ . nata-aṃsaḥ bhrāmayet eṣā nauliḥ siddhaiḥ praśasyate .. 2.33 ..
मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रिया मौलिरियं च नौलिः ॥ २.३४ ॥
करी एव । अशेष-दोष-मय-शोषणी च हठ-क्रिया मौलिः इयम् च नौलिः ॥ २।३४ ॥
karī eva . aśeṣa-doṣa-maya-śoṣaṇī ca haṭha-kriyā mauliḥ iyam ca nauliḥ .. 2.34 ..
अथ कपालभातिः
भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ २.३५ ॥
भस्त्रा-वत् लोहकारस्य रेच-पूरौ स सम्भ्रमौ । कपालभातिः विख्याता कफ-दोष-विशोषणी ॥ २।३५ ॥
bhastrā-vat lohakārasya reca-pūrau sa sambhramau . kapālabhātiḥ vikhyātā kapha-doṣa-viśoṣaṇī .. 2.35 ..
षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ २.३६ ॥
षट्कर्म-निर्गत-स्थौल्य-कफ-दोष-मल-आदिकः । प्राणायामम् ततस् कुर्यात् अनायासेन सिद्धि-अति ॥ २।३६ ॥
ṣaṭkarma-nirgata-sthaulya-kapha-doṣa-mala-ādikaḥ . prāṇāyāmam tatas kuryāt anāyāsena siddhi-ati .. 2.36 ..
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ २.३७ ॥
प्राणायामैः एव सर्वे प्रशुष्यन्ति मलाः इति । आचार्याणाम् तु केषांचिद् अन्यत् कर्म न संमतम् ॥ २।३७ ॥
prāṇāyāmaiḥ eva sarve praśuṣyanti malāḥ iti . ācāryāṇām tu keṣāṃcid anyat karma na saṃmatam .. 2.37 ..
अथ गजकरणी
उदरगतपदार्थं उद्वमन्तिपवनं अपानं उदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रागजकरणीति निगद्यते हठज्ञैः ॥ २.३८ ॥
उदर-गत-पदार्थम् उद्वमन्ति पवनम् अपानम् उदीर्य कण्ठ-नाले । इति निगद्यते ॥ २।३८ ॥
udara-gata-padārtham udvamanti pavanam apānam udīrya kaṇṭha-nāle . iti nigadyate .. 2.38 ..
ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनं अभ्यसेत् ॥ २.३९ ॥
ब्रह्म-आदयः अपि त्रिदशाः पवन-अभ्यास-तत्पराः । अभूवन् अन्तक-भ्यात् तस्मात् पवनम् अभ्यसेत् ॥ २।३९ ॥
brahma-ādayaḥ api tridaśāḥ pavana-abhyāsa-tatparāḥ . abhūvan antaka-bhyāt tasmāt pavanam abhyaset .. 2.39 ..
यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ २.४० ॥
यावत् बद्धः मरुत्-देहे यावत् चित्तम् निराकुलम् । यावत् दृष्टिः भ्रुवोः मध्ये तावत्-काल-भयम् कुतस् ॥ २।४० ॥
yāvat baddhaḥ marut-dehe yāvat cittam nirākulam . yāvat dṛṣṭiḥ bhruvoḥ madhye tāvat-kāla-bhayam kutas .. 2.40 ..
विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥ २.४१ ॥
विधिवत् प्राणसंयामैः नाडी-चक्रे विशोधिते । सुषुम्णा-वदनम् भित्त्वा सुखात् विशति मारुतः ॥ २।४१ ॥
vidhivat prāṇasaṃyāmaiḥ nāḍī-cakre viśodhite . suṣumṇā-vadanam bhittvā sukhāt viśati mārutaḥ .. 2.41 ..
अथ मनोन्मनी
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ २.४२ ॥
मारुते मध्य-संचारे मनः-स्थैर्यम् प्रजायते । यः मनः सुस्थिरीभावः सा एव अवस्था मनोन्मनी ॥ २।४२ ॥
mārute madhya-saṃcāre manaḥ-sthairyam prajāyate . yaḥ manaḥ susthirībhāvaḥ sā eva avasthā manonmanī .. 2.42 ..
तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिं आप्नुयात् ॥ २.४३ ॥
तद्-सिद्धये विधान-ज्ञाः चित्रान् कुर्वन्ति कुम्भकान् । कुम्भक-अभ्यासात् विचित्राम् सिद्धिम् आप्नुयात् ॥ २।४३ ॥
tad-siddhaye vidhāna-jñāḥ citrān kurvanti kumbhakān . kumbhaka-abhyāsāt vicitrām siddhim āpnuyāt .. 2.43 ..
अथ कुम्भकभेदाः
सूर्यभेदनं उज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥ २.४४ ॥
सूर्यभेदनम् उज्जायी सीत्कारी शीतली तथा । इति ॥ २।४४ ॥
sūryabhedanam ujjāyī sītkārī śītalī tathā . iti .. 2.44 ..
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ २.४५ ॥
पूरक-अन्ते तु कर्तव्यः बन्धः जालन्धर-अभिधः । कुम्भक-अन्ते रेचक-आदौ कर्तव्यः तु उड्डियानकः ॥ २।४५ ॥
pūraka-ante tu kartavyaḥ bandhaḥ jālandhara-abhidhaḥ . kumbhaka-ante recaka-ādau kartavyaḥ tu uḍḍiyānakaḥ .. 2.45 ..
अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ २.४६ ॥
अधस्तात् कुञ्चनेन आशु कण्ठ-सङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात् प्राणः ब्रह्मनाडि-गः ॥ २।४६ ॥
adhastāt kuñcanena āśu kaṇṭha-saṅkocane kṛte . madhye paścimatānena syāt prāṇaḥ brahmanāḍi-gaḥ .. 2.46 ..
आपानं ऊर्ध्वं उत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवया भवेत् ॥ २.४७ ॥
आपानम् ऊर्ध्वम् उत्थाप्य प्राणम् कण्ठात् अधस् नयेत् । योगी जरा-विमुक्तः सन् षोडश-अब्द-वयाः भवेत् ॥ २।४७ ॥
āpānam ūrdhvam utthāpya prāṇam kaṇṭhāt adhas nayet . yogī jarā-vimuktaḥ san ṣoḍaśa-abda-vayāḥ bhavet .. 2.47 ..
अथ सूर्यभेदनम्
आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ २.४८ ॥
आसने सुख-दे योगी बद्ध्वा च एव आसनम् ततस् । दक्ष-नाड्या समाकृष्य बहिःस्थम् पवनम् शनैस् ॥ २।४८ ॥
āsane sukha-de yogī baddhvā ca eva āsanam tatas . dakṣa-nāḍyā samākṛṣya bahiḥstham pavanam śanais .. 2.48 ..
आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥ २.४९ ॥
आ केशात् आ नख-अग्रात् च निरोध-अवधि कुम्भयेत् । ततस् शनैस् सव्य-नाड्या रेचयेत् पवनम् शनैस् ॥ २।४९ ॥
ā keśāt ā nakha-agrāt ca nirodha-avadhi kumbhayet . tatas śanais savya-nāḍyā recayet pavanam śanais .. 2.49 ..
कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनं उत्तमम् ॥ २.५० ॥
। पुनर् पुनर् इदम् कार्यम् सूर्यभेदनम् उत्तमम् ॥ २।५० ॥
. punar punar idam kāryam sūryabhedanam uttamam .. 2.50 ..
अथ उज्जायी
मुखं संयम्य नाडीभ्यां आकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ २.५१ ॥
मुखम् संयम्य नाडीभ्याम् आकृष्य पवनम् शनैस् । यथा लगति कण्ठात् तु हृदय-अवधि स स्वनम् ॥ २।५१ ॥
mukham saṃyamya nāḍībhyām ākṛṣya pavanam śanais . yathā lagati kaṇṭhāt tu hṛdaya-avadhi sa svanam .. 2.51 ..
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ २.५२ ॥
पूर्ववत् कुम्भयेत् प्राणम् रेचयेत् इडया तथा । श्लेष्म-दोष-हरम् कण्ठे देह-अनल-विवर्धनम् ॥ २।५२ ॥
pūrvavat kumbhayet prāṇam recayet iḍayā tathā . śleṣma-doṣa-haram kaṇṭhe deha-anala-vivardhanam .. 2.52 ..
नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यं उज्जाय्याख्यं तु कुम्भकम् ॥ २.५३ ॥
। गच्छता तिष्ठता कार्यम् उज्जायी-आख्यम् तु कुम्भकम् ॥ २।५३ ॥
. gacchatā tiṣṭhatā kāryam ujjāyī-ākhyam tu kumbhakam .. 2.53 ..
अथ सीत्कारी
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवं अभ्यासयोगेन कामदेवो द्वितीयकः ॥ २.५४ ॥
सीत्काम् कुर्यात् तथा वक्त्रे घ्राणेन एव विजृम्भिकाम् । एवम् अभ्यास-योगेन कामदेवः द्वितीयकः ॥ २।५४ ॥
sītkām kuryāt tathā vaktre ghrāṇena eva vijṛmbhikām . evam abhyāsa-yogena kāmadevaḥ dvitīyakaḥ .. 2.54 ..
योगिनी चक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ २.५५ ॥
। न क्षुधा न तृषा निद्रा न एव आलस्यम् प्रजायते ॥ २।५५ ॥
. na kṣudhā na tṛṣā nidrā na eva ālasyam prajāyate .. 2.55 ..
भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ २.५६ ॥
भवेत् सत्त्वम् च देहस्य सर्व-उपद्रव-वर्जितः । अनेन विधिना सत्यम् योगि-इन्द्रः भूमि-मण्डले ॥ २।५६ ॥
bhavet sattvam ca dehasya sarva-upadrava-varjitaḥ . anena vidhinā satyam yogi-indraḥ bhūmi-maṇḍale .. 2.56 ..
अथ शीतली
जिह्वया वायुं आकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ २.५७ ॥
जिह्वया वायुम् आकृष्य पूर्ववत् कुम्भ-साधनम् । शनकैस् घ्राण-रन्ध्राभ्याम् रेचयेत् पवनम् सुधीः ॥ २।५७ ॥
jihvayā vāyum ākṛṣya pūrvavat kumbha-sādhanam . śanakais ghrāṇa-randhrābhyām recayet pavanam sudhīḥ .. 2.57 ..
गुल्मप्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ २.५८ ॥
गुल्म-प्लीह-आदिकान् रोगान् ज्वरम् पित्तम् क्षुधाम् तृषाम् । विषाणि शीतली नाम कुम्भिका इयम् निहन्ति हि ॥ २।५८ ॥
gulma-plīha-ādikān rogān jvaram pittam kṣudhām tṛṣām . viṣāṇi śītalī nāma kumbhikā iyam nihanti hi .. 2.58 ..
अथ भस्त्रिका
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ २.५९ ॥
ऊर्वोः उपरि संस्थाप्य शुभे पाद-तले उभे । पद्मासनम् भवेत् एतत् सर्व-पाप-प्रणाशनम् ॥ २।५९ ॥
ūrvoḥ upari saṃsthāpya śubhe pāda-tale ubhe . padmāsanam bhavet etat sarva-pāpa-praṇāśanam .. 2.59 ..
सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ २.६० ॥
सम्यक् पद्मासनम् बद्ध्वा सम-ग्रीवा-उदरः सुधीः । मुखम् संयम्य यत्नेन प्राणम् घ्राणेन रेचयेत् ॥ २।६० ॥
samyak padmāsanam baddhvā sama-grīvā-udaraḥ sudhīḥ . mukham saṃyamya yatnena prāṇam ghrāṇena recayet .. 2.60 ..
यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ २.६१ ॥
यथा लगति हृद्-कण्ठे कपाल-अवधि स स्वनम् । वेगेन पूरयेत् च अपि हृद्-पद्म-अवधि मारुतम् ॥ २।६१ ॥
yathā lagati hṛd-kaṇṭhe kapāla-avadhi sa svanam . vegena pūrayet ca api hṛd-padma-avadhi mārutam .. 2.61 ..
पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ २.६२ ॥
पुनर् विरेचयेत् तद्वत् पूरयेत् च पुनर् पुनर् । यथा एव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ २।६२ ॥
punar virecayet tadvat pūrayet ca punar punar . yathā eva lohakāreṇa bhastrā vegena cālyate .. 2.62 ..
तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ २.६३ ॥
तथा एव स्व-शरीर-स्थम् चालयेत् पवनम् धिया । यदा श्रमः भवेत् देहे तदा सूर्येण पूरयेत् ॥ २।६३ ॥
tathā eva sva-śarīra-stham cālayet pavanam dhiyā . yadā śramaḥ bhavet dehe tadā sūryeṇa pūrayet .. 2.63 ..
यथोदरं भवेत्पूर्णं अनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥ २.६४ ॥
यथा उदरम् भवेत् पूर्णम् अनिलेन तथा लघु । धारयेत् नासिकाम् मध्या-तर्जनीभ्याम् विना दृढम् ॥ २।६४ ॥
yathā udaram bhavet pūrṇam anilena tathā laghu . dhārayet nāsikām madhyā-tarjanībhyām vinā dṛḍham .. 2.64 ..
विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ २.६५ ॥
विधिवत् कुम्भकम् कृत्वा रेचयेत् इडया अनिलम् । ॥ २।६५ ॥
vidhivat kumbhakam kṛtvā recayet iḍayā anilam . .. 2.65 ..
कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ २.६६ ॥
दः । ॥ २।६६ ॥
daḥ . .. 2.66 ..
सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ २.६७ ॥
। विशेषेण एव कर्तव्यम् भस्त्रा-आख्यम् कुम्भकम् तु इदम् ॥ २।६७ ॥
. viśeṣeṇa eva kartavyam bhastrā-ākhyam kumbhakam tu idam .. 2.67 ..
अथ भ्रामरी
वेगाद्घोषं पूरकं भृङ्गनादंभृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राण्¸अं एवं अभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥ २.६८ ॥
वेगात् घोषम् पूरकम् भृङ्ग-नादम् भृङ्गी-नादम् रेचकम् मन्दमन्दम् । एवम् अभ्यास-योगात् चित्ते जाता काचिद् आनन्द-लीला ॥ २।६८ ॥
vegāt ghoṣam pūrakam bhṛṅga-nādam bhṛṅgī-nādam recakam mandamandam . evam abhyāsa-yogāt citte jātā kācid ānanda-līlā .. 2.68 ..
अथ मूर्च्छा
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥ २.६९ ॥
पूरक-अन्ते गाढतरम् बद्ध्वा जालन्धरम् शनैस् । रेचयेत् मूर्च्छा-आख्येयम् मनोमूर्च्छा सुख-प्रदा ॥ २।६९ ॥
pūraka-ante gāḍhataram baddhvā jālandharam śanais . recayet mūrcchā-ākhyeyam manomūrcchā sukha-pradā .. 2.69 ..
अथ प्लाविनी
अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्रवत् ॥ २.७० ॥
अन्तः प्रवर्तित-उदार-मारुत-आपूरित-उदरः । पयसि अगाधे अपि सुखात् प्लवते पद्म-पत्र-वत् ॥ २।७० ॥
antaḥ pravartita-udāra-māruta-āpūrita-udaraḥ . payasi agādhe api sukhāt plavate padma-patra-vat .. 2.70 ..
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ २.७१ ॥
प्राणायामः त्रिधा प्रोक्तः रेच-पूरक-कुम्भकैः । सहितः केवलः च इति कुम्भकः द्विविधः मतः ॥ २।७१ ॥
prāṇāyāmaḥ tridhā proktaḥ reca-pūraka-kumbhakaiḥ . sahitaḥ kevalaḥ ca iti kumbhakaḥ dvividhaḥ mataḥ .. 2.71 ..
यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ॥ २.७२ ॥
यावत् केवल-सिद्धिः स्यात् सहितम् तावत् अभ्यसेत् । रेचकम् पूरकम् मुक्त्वा सुखम् यत् वायु-धारणम् ॥ २।७२ ॥
yāvat kevala-siddhiḥ syāt sahitam tāvat abhyaset . recakam pūrakam muktvā sukham yat vāyu-dhāraṇam .. 2.72 ..
प्राणायामोऽयं इत्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ २.७३ ॥
प्राणायामः अयम् इति उक्तः स वै केवल-कुम्भकः । कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते ॥ २।७३ ॥
prāṇāyāmaḥ ayam iti uktaḥ sa vai kevala-kumbhakaḥ . kumbhake kevale siddhe reca-pūraka-varjite .. 2.73 ..
न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ २.७४ ॥
न तस्य दुर्लभम् किंचिद् त्रिषु लोकेषु विद्यते । शक्तः केवल-कुम्भेन यथेष्टम् वायु-धारणात् ॥ २।७४ ॥
na tasya durlabham kiṃcid triṣu lokeṣu vidyate . śaktaḥ kevala-kumbhena yatheṣṭam vāyu-dhāraṇāt .. 2.74 ..
राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् । अनर्गला सुषुम्णा च हठसिद्धिश्च जायते ॥ २.७५ ॥
राजयोग-पदम् च अपि लभते न अत्र संशयः । कुम्भकात् कुण्डली-बोधः कुण्डली-बोधतः भवेत् । अनर्गला सुषुम्णा च हठ-सिद्धिः च जायते ॥ २।७५ ॥
rājayoga-padam ca api labhate na atra saṃśayaḥ . kumbhakāt kuṇḍalī-bodhaḥ kuṇḍalī-bodhataḥ bhavet . anargalā suṣumṇā ca haṭha-siddhiḥ ca jāyate .. 2.75 ..
हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्मं आनिष्पत्तेः समभ्यसेत् ॥ २.७६ ॥
हठम् विना राजयोगः राजयोगम् विना हठः । न सिध्यति ततस् युग्मम् आ निष्पत्तेः समभ्यसेत् ॥ २।७६ ॥
haṭham vinā rājayogaḥ rājayogam vinā haṭhaḥ . na sidhyati tatas yugmam ā niṣpatteḥ samabhyaset .. 2.76 ..
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवं अभ्यासयोगेन राजयोगपदं व्रजेत् ॥ २.७७ ॥
कुम्भक-प्राण-रोध-अन्ते कुर्यात् चित्तम् निराश्रयम् । एवम् अभ्यास-योगेन राजयोग-पदम् व्रजेत् ॥ २।७७ ॥
kumbhaka-prāṇa-rodha-ante kuryāt cittam nirāśrayam . evam abhyāsa-yogena rājayoga-padam vrajet .. 2.77 ..
वपुः कृशत्वं वदने प्रसन्नतानादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनंनाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥ २.७८ ॥
वपुः कृश-त्वम् वदने प्रसन्न-ता-नाद-स्फुट-त्वम् नयने सु निर्मले । अरोग-ता बिन्दु-जयः अग्नि-दीपनम् नाडी-विशुद्धिः हठ-सिद्धि-लक्षणम् ॥ २।७८ ॥
vapuḥ kṛśa-tvam vadane prasanna-tā-nāda-sphuṭa-tvam nayane su nirmale . aroga-tā bindu-jayaḥ agni-dīpanam nāḍī-viśuddhiḥ haṭha-siddhi-lakṣaṇam .. 2.78 ..
इति हठप्रदीपिकायां द्वितीयोपदेशः ।
इति हठप्रदीपिकायाम् द्वितीय-उपदेशः ।
iti haṭhapradīpikāyām dvitīya-upadeśaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In