| |
|

This overlay will guide you through the buttons:

अथासने दृधे योगी वशी हितमिताशनः । गुरूपदिष्टमार्गेण प्राणायामान्समभ्यसेत् ॥ २.१ ॥
athāsane dṛdhe yogī vaśī hitamitāśanaḥ . gurūpadiṣṭamārgeṇa prāṇāyāmānsamabhyaset .. 2.1 ..
चले वाते चलं चित्तं निश्चले निश्चलं भवेत् । योगी स्थाणुत्वं आप्नोति ततो वायुं निरोधयेत् ॥ २.२ ॥
cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet . yogī sthāṇutvaṃ āpnoti tato vāyuṃ nirodhayet .. 2.2 ..
यावद्वायुः स्थितो देहे तावज्जीवनं उच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ २.३ ॥
yāvadvāyuḥ sthito dehe tāvajjīvanaṃ ucyate . maraṇaṃ tasya niṣkrāntistato vāyuṃ nirodhayet .. 2.3 ..
मलाकलासु नाडीषु मारुतो नैव मध्यगः । कथं स्यादुन्मनीभावः कार्यसिद्धिः कथं भवेत् ॥ २.४ ॥
malākalāsu nāḍīṣu māruto naiva madhyagaḥ . kathaṃ syādunmanībhāvaḥ kāryasiddhiḥ kathaṃ bhavet .. 2.4 ..
शुद्धं एति यदा सर्वं नाडीचक्रं मलाकुलम् । तदैव जायते योगी प्राणसंग्रहणे क्षमः ॥ २.५ ॥
śuddhaṃ eti yadā sarvaṃ nāḍīcakraṃ malākulam . tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ .. 2.5 ..
प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया । यथा सुषुम्णानाडीस्था मलाः शुद्धिं प्रयान्ति च ॥ २.६ ॥
prāṇāyāmaṃ tataḥ kuryānnityaṃ sāttvikayā dhiyā . yathā suṣumṇānāḍīsthā malāḥ śuddhiṃ prayānti ca .. 2.6 ..
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ २.७ ॥
baddhapadmāsano yogī prāṇaṃ candreṇa pūrayet . dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet .. 2.7 ..
प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः । विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ॥ २.८ ॥
prāṇaṃ sūryeṇa cākṛṣya pūrayedudaraṃ śanaiḥ . vidhivatkumbhakaṃ kṛtvā punaścandreṇa recayet .. 2.8 ..
येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः । रेचयेच्च ततोऽन्येन शनैरेव न वेगतः ॥ २.९ ॥
yena tyajettena pītvā dhārayedatirodhataḥ . recayecca tato'nyena śanaireva na vegataḥ .. 2.9 ..
प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्पीत्वा पिङ्गलया समीरणं अथो बद्ध्वा त्यजेद्वामया । सूर्यचन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतांशुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः ॥ २.१० ॥
prāṇaṃ cediḍayā pibenniyamitaṃ bhūyo'nyathā recayetpītvā piṅgalayā samīraṇaṃ atho baddhvā tyajedvāmayā . sūryacandramasoranena vidhinābhyāsaṃ sadā tanvatāṃśuddhā nāḍigaṇā bhavanti yamināṃ māsatrayādūrdhvataḥ .. 2.10 ..
प्रातर्मध्यन्दिने सायं अर्धरात्रे च कुम्भकान् । शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत् ॥ २.११ ॥
prātarmadhyandine sāyaṃ ardharātre ca kumbhakān . śanairaśītiparyantaṃ caturvāraṃ samabhyaset .. 2.11 ..
कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे । उत्तमे स्थानं आप्नोति ततो वायुं निबन्धयेत् ॥ २.१२ ॥
kanīyasi bhavedsveda kampo bhavati madhyame . uttame sthānaṃ āpnoti tato vāyuṃ nibandhayet .. 2.12 ..
जलेन श्रमजातेन गात्रमर्दनं आचरेत् । दृढता लघुता चैव तेन गात्रस्य जायते ॥ २.१३ ॥
jalena śramajātena gātramardanaṃ ācaret . dṛḍhatā laghutā caiva tena gātrasya jāyate .. 2.13 ..
अभ्यासकाले प्रथमे शस्तं क्षीराज्यभोजनम् । ततोऽभ्यासे दृढीभूते न तादृङ्नियमग्रहः ॥ २.१४ ॥
abhyāsakāle prathame śastaṃ kṣīrājyabhojanam . tato'bhyāse dṛḍhībhūte na tādṛṅniyamagrahaḥ .. 2.14 ..
यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः । तथैव सेवितो वायुरन्यथा हन्ति साधकम् ॥ २.१५ ॥
yathā siṃho gajo vyāghro bhavedvaśyaḥ śanaiḥ śanaiḥ . tathaiva sevito vāyuranyathā hanti sādhakam .. 2.15 ..
प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोगेन सर्वरोगसमुद्गमः ॥ २.१६ ॥
prāṇāyāmena yuktena sarvarogakṣayo bhavet . ayuktābhyāsayogena sarvarogasamudgamaḥ .. 2.16 ..
हिक्का श्वासश्च कासश्च शिरःकर्णाक्षिवेदनाः । भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः ॥ २.१७ ॥
hikkā śvāsaśca kāsaśca śiraḥkarṇākṣivedanāḥ . bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ .. 2.17 ..
युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् । युक्तं युक्तं च बध्नीयादेवं सिद्धिं अवाप्नुयात् ॥ २.१८ ॥
yuktaṃ yuktaṃ tyajedvāyuṃ yuktaṃ yuktaṃ ca pūrayet . yuktaṃ yuktaṃ ca badhnīyādevaṃ siddhiṃ avāpnuyāt .. 2.18 ..
यदा तु नाडीशुद्धिः स्यात्तथा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तदा जायते निश्चितम् ॥ २.१९ ॥
yadā tu nāḍīśuddhiḥ syāttathā cihnāni bāhyataḥ . kāyasya kṛśatā kāntistadā jāyate niścitam .. 2.19 ..
यथेष्टं धारणं वायोरनलस्य प्रदीपनम् । नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात् ॥ २.२० ॥
yatheṣṭaṃ dhāraṇaṃ vāyoranalasya pradīpanam . nādābhivyaktirārogyaṃ jāyate nāḍiśodhanāt .. 2.20 ..
मेदश्लेष्माधिकः पूर्वं षट्कर्माणि समाचरेत् । अन्यस्तु नाचरेत्तानि दोषाणां समभावतः ॥ २.२१ ॥
medaśleṣmādhikaḥ pūrvaṃ ṣaṭkarmāṇi samācaret . anyastu nācarettāni doṣāṇāṃ samabhāvataḥ .. 2.21 ..
धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा । कपालभातिश्चैतानि षट्कर्माणि प्रचक्षते ॥ २.२२ ॥
dhautirbastistathā netistrāṭakaṃ naulikaṃ tathā . kapālabhātiścaitāni ṣaṭkarmāṇi pracakṣate .. 2.22 ..
कर्म षट्कं इदं गोप्यं घटशोधनकारकम् । विचित्रगुणसन्धाय पूज्यते योगिपुङ्गवैः ॥ २.२३ ॥
karma ṣaṭkaṃ idaṃ gopyaṃ ghaṭaśodhanakārakam . vicitraguṇasandhāya pūjyate yogipuṅgavaiḥ .. 2.23 ..
तत्र धौतिः
चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्टमार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैतदुदितं धौतिकर्म तत् ॥ २.२४ ॥
caturaṅgulavistāraṃ hastapañcadaśāyatam . gurūpadiṣṭamārgeṇa siktaṃ vastraṃ śanairgraset . punaḥ pratyāhareccaitaduditaṃ dhautikarma tat .. 2.24 ..
कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः । धौतिकर्मप्रभावेण प्रयान्त्येव न संशयः ॥ २.२५ ॥
kāsaśvāsaplīhakuṣṭhaṃ kapharogāśca viṃśatiḥ . dhautikarmaprabhāveṇa prayāntyeva na saṃśayaḥ .. 2.25 ..
अथ बस्तिः
नाभिदघ्नजले पायौ न्यस्तनालोत्कटासनः । आधाराकुञ्चनं कुर्यात्क्षालनं बस्तिकर्म तत् ॥ २.२६ ॥
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ . ādhārākuñcanaṃ kuryātkṣālanaṃ bastikarma tat .. 2.26 ..
गुल्मप्लीहोदरं चापि वातपित्तकफोद्भवाः । बस्तिकर्मप्रभावेण क्षीयन्ते सकलामयाः ॥ २.२७ ॥
gulmaplīhodaraṃ cāpi vātapittakaphodbhavāḥ . bastikarmaprabhāveṇa kṣīyante sakalāmayāḥ .. 2.27 ..
धान्त्वद्रियान्तःकरणप्रसादंदधाच्च कान्तिं दहनप्रदीप्तम् । अशेषदोषोपचयं निहन्याद्अभ्यस्यमानं जलबस्तिकर्म ॥ २.२८ ॥
dhāntvadriyāntaḥkaraṇaprasādaṃdadhācca kāntiṃ dahanapradīptam . aśeṣadoṣopacayaṃ nihanyādabhyasyamānaṃ jalabastikarma .. 2.28 ..
अथ नेतिः
सूत्रं वितस्तिसुस्निग्धं नासानाले प्रवेशयेत् । मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते ॥ २.२९ ॥
sūtraṃ vitastisusnigdhaṃ nāsānāle praveśayet . mukhānnirgamayeccaiṣā netiḥ siddhairnigadyate .. 2.29 ..
कपालशोधिनी चैव दिव्यदृष्टिप्रदायिनी । जत्रूर्ध्वजातरोगौघं नेतिराशु निहन्ति च ॥ २.३० ॥
kapālaśodhinī caiva divyadṛṣṭipradāyinī . jatrūrdhvajātarogaughaṃ netirāśu nihanti ca .. 2.30 ..
अथ त्राटकम्
निरीक्षेन्निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः । अश्रुसम्पातपर्यन्तं आचार्यैस्त्राटकं स्मृतम् ॥ २.३१ ॥
nirīkṣenniścaladṛśā sūkṣmalakṣyaṃ samāhitaḥ . aśrusampātaparyantaṃ ācāryaistrāṭakaṃ smṛtam .. 2.31 ..
मोचनं नेत्ररोगाणां तन्दाद्रीणां कपाटकम् । यत्नतस्त्राटकं गोप्यं यथा हाटकपेटकम् ॥ २.३२ ॥
mocanaṃ netrarogāṇāṃ tandādrīṇāṃ kapāṭakam . yatnatastrāṭakaṃ gopyaṃ yathā hāṭakapeṭakam .. 2.32 ..
अथ नौलिः
अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः । नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते ॥ २.३३ ॥
amandāvartavegena tundaṃ savyāpasavyataḥ . natāṃso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate .. 2.33 ..
मन्दाग्निसन्दीपनपाचनादिसन्धापिकानन्दकरी सदैव । अशेषदोषमयशोषणी च हठक्रिया मौलिरियं च नौलिः ॥ २.३४ ॥
mandāgnisandīpanapācanādisandhāpikānandakarī sadaiva . aśeṣadoṣamayaśoṣaṇī ca haṭhakriyā mauliriyaṃ ca nauliḥ .. 2.34 ..
अथ कपालभातिः
भस्त्रावल्लोहकारस्य रेचपूरौ ससम्भ्रमौ । कपालभातिर्विख्याता कफदोषविशोषणी ॥ २.३५ ॥
bhastrāvallohakārasya recapūrau sasambhramau . kapālabhātirvikhyātā kaphadoṣaviśoṣaṇī .. 2.35 ..
षट्कर्मनिर्गतस्थौल्यकफदोषमलादिकः । प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति ॥ २.३६ ॥
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ . prāṇāyāmaṃ tataḥ kuryādanāyāsena siddhyati .. 2.36 ..
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति । आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् ॥ २.३७ ॥
prāṇāyāmaireva sarve praśuṣyanti malā iti . ācāryāṇāṃ tu keṣāṃcidanyatkarma na saṃmatam .. 2.37 ..
अथ गजकरणी
उदरगतपदार्थं उद्वमन्तिपवनं अपानं उदीर्य कण्ठनाले । क्रमपरिचयवश्यनाडिचक्रागजकरणीति निगद्यते हठज्ञैः ॥ २.३८ ॥
udaragatapadārthaṃ udvamantipavanaṃ apānaṃ udīrya kaṇṭhanāle . kramaparicayavaśyanāḍicakrāgajakaraṇīti nigadyate haṭhajñaiḥ .. 2.38 ..
ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यासतत्पराः । अभूवन्नन्तकभ्यात्तस्मात्पवनं अभ्यसेत् ॥ २.३९ ॥
brahmādayo'pi tridaśāḥ pavanābhyāsatatparāḥ . abhūvannantakabhyāttasmātpavanaṃ abhyaset .. 2.39 ..
यावद्बद्धो मरुद्देहे यावच्चित्तं निराकुलम् । यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ २.४० ॥
yāvadbaddho maruddehe yāvaccittaṃ nirākulam . yāvaddṛṣṭirbhruvormadhye tāvatkālabhayaṃ kutaḥ .. 2.40 ..
विधिवत्प्राणसंयामैर्नाडीचक्रे विशोधिते । सुषुम्णावदनं भित्त्वा सुखाद्विशति मारुतः ॥ २.४१ ॥
vidhivatprāṇasaṃyāmairnāḍīcakre viśodhite . suṣumṇāvadanaṃ bhittvā sukhādviśati mārutaḥ .. 2.41 ..
अथ मनोन्मनी
मारुते मध्यसंचारे मनःस्थैर्यं प्रजायते । यो मनःसुस्थिरीभावः सैवावस्था मनोन्मनी ॥ २.४२ ॥
mārute madhyasaṃcāre manaḥsthairyaṃ prajāyate . yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī .. 2.42 ..
तत्सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् । विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिं आप्नुयात् ॥ २.४३ ॥
tatsiddhaye vidhānajñāścitrānkurvanti kumbhakān . vicitra kumbhakābhyāsādvicitrāṃ siddhiṃ āpnuyāt .. 2.43 ..
अथ कुम्भकभेदाः
सूर्यभेदनं उज्जायी सीत्कारी शीतली तथा । भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्टकुम्भकाः ॥ २.४४ ॥
sūryabhedanaṃ ujjāyī sītkārī śītalī tathā . bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭakumbhakāḥ .. 2.44 ..
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः । कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः ॥ २.४५ ॥
pūrakānte tu kartavyo bandho jālandharābhidhaḥ . kumbhakānte recakādau kartavyastūḍḍiyānakaḥ .. 2.45 ..
अधस्तात्कुञ्चनेनाशु कण्ठसङ्कोचने कृते । मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः ॥ २.४६ ॥
adhastātkuñcanenāśu kaṇṭhasaṅkocane kṛte . madhye paścimatānena syātprāṇo brahmanāḍigaḥ .. 2.46 ..
आपानं ऊर्ध्वं उत्थाप्य प्राणं कण्ठादधो नयेत् । योगी जराविमुक्तः सन्षोडशाब्दवया भवेत् ॥ २.४७ ॥
āpānaṃ ūrdhvaṃ utthāpya prāṇaṃ kaṇṭhādadho nayet . yogī jarāvimuktaḥ sanṣoḍaśābdavayā bhavet .. 2.47 ..
अथ सूर्यभेदनम्
आसने सुखदे योगी बद्ध्वा चैवासनं ततः । दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ॥ २.४८ ॥
āsane sukhade yogī baddhvā caivāsanaṃ tataḥ . dakṣanāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ .. 2.48 ..
आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् । ततः शनैः सव्यनाड्या रेचयेत्पवनं शनैः ॥ २.४९ ॥
ākeśādānakhāgrācca nirodhāvadhi kumbhayet . tataḥ śanaiḥ savyanāḍyā recayetpavanaṃ śanaiḥ .. 2.49 ..
कपालशोधनं वातदोषघ्नं कृमिदोषहृत् । पुनः पुनरिदं कार्यं सूर्यभेदनं उत्तमम् ॥ २.५० ॥
kapālaśodhanaṃ vātadoṣaghnaṃ kṛmidoṣahṛt . punaḥ punaridaṃ kāryaṃ sūryabhedanaṃ uttamam .. 2.50 ..
अथ उज्जायी
मुखं संयम्य नाडीभ्यां आकृष्य पवनं शनैः । यथा लगति कण्ठात्तु हृदयावधि सस्वनम् ॥ २.५१ ॥
mukhaṃ saṃyamya nāḍībhyāṃ ākṛṣya pavanaṃ śanaiḥ . yathā lagati kaṇṭhāttu hṛdayāvadhi sasvanam .. 2.51 ..
पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा । श्लेष्मदोषहरं कण्ठे देहानलविवर्धनम् ॥ २.५२ ॥
pūrvavatkumbhayetprāṇaṃ recayediḍayā tathā . śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam .. 2.52 ..
नाडीजलोदराधातुगतदोषविनाशनम् । गच्छता तिष्ठता कार्यं उज्जाय्याख्यं तु कुम्भकम् ॥ २.५३ ॥
nāḍījalodarādhātugatadoṣavināśanam . gacchatā tiṣṭhatā kāryaṃ ujjāyyākhyaṃ tu kumbhakam .. 2.53 ..
अथ सीत्कारी
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् । एवं अभ्यासयोगेन कामदेवो द्वितीयकः ॥ २.५४ ॥
sītkāṃ kuryāttathā vaktre ghrāṇenaiva vijṛmbhikām . evaṃ abhyāsayogena kāmadevo dvitīyakaḥ .. 2.54 ..
योगिनी चक्रसंमान्यः सृष्टिसंहारकारकः । न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते ॥ २.५५ ॥
yoginī cakrasaṃmānyaḥ sṛṣṭisaṃhārakārakaḥ . na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate .. 2.55 ..
भवेत्सत्त्वं च देहस्य सर्वोपद्रववर्जितः । अनेन विधिना सत्यं योगीन्द्रो भूमिमण्डले ॥ २.५६ ॥
bhavetsattvaṃ ca dehasya sarvopadravavarjitaḥ . anena vidhinā satyaṃ yogīndro bhūmimaṇḍale .. 2.56 ..
अथ शीतली
जिह्वया वायुं आकृष्य पूर्ववत्कुम्भसाधनम् । शनकैर्घ्राणरन्ध्राभ्यां रेचयेत्पवनं सुधीः ॥ २.५७ ॥
jihvayā vāyuṃ ākṛṣya pūrvavatkumbhasādhanam . śanakairghrāṇarandhrābhyāṃ recayetpavanaṃ sudhīḥ .. 2.57 ..
गुल्मप्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् । विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि ॥ २.५८ ॥
gulmaplīhādikānrogānjvaraṃ pittaṃ kṣudhāṃ tṛṣām . viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi .. 2.58 ..
अथ भस्त्रिका
ऊर्वोरुपरि संस्थाप्य शुभे पादतले उभे । पद्मासनं भवेदेतत्सर्वपापप्रणाशनम् ॥ २.५९ ॥
ūrvorupari saṃsthāpya śubhe pādatale ubhe . padmāsanaṃ bhavedetatsarvapāpapraṇāśanam .. 2.59 ..
सम्यक्पद्मासनं बद्ध्वा समग्रीवोदरः सुधीः । मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् ॥ २.६० ॥
samyakpadmāsanaṃ baddhvā samagrīvodaraḥ sudhīḥ . mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet .. 2.60 ..
यथा लगति हृत्कण्ठे कपालावधि सस्वनम् । वेगेन पूरयेच्चापि हृत्पद्मावधि मारुतम् ॥ २.६१ ॥
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam . vegena pūrayeccāpi hṛtpadmāvadhi mārutam .. 2.61 ..
पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः । यथैव लोहकारेण भस्त्रा वेगेन चाल्यते ॥ २.६२ ॥
punarvirecayettadvatpūrayecca punaḥ punaḥ . yathaiva lohakāreṇa bhastrā vegena cālyate .. 2.62 ..
तथैव स्वशरीरस्थं चालयेत्पवनं धिया । यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् ॥ २.६३ ॥
tathaiva svaśarīrasthaṃ cālayetpavanaṃ dhiyā . yadā śramo bhaveddehe tadā sūryeṇa pūrayet .. 2.63 ..
यथोदरं भवेत्पूर्णं अनिलेन तथा लघु । धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ॥ २.६४ ॥
yathodaraṃ bhavetpūrṇaṃ anilena tathā laghu . dhārayennāsikāṃ madhyātarjanībhyāṃ vinā dṛḍham .. 2.64 ..
विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् । वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ॥ २.६५ ॥
vidhivatkumbhakaṃ kṛtvā recayediḍayānilam . vātapittaśleṣmaharaṃ śarīrāgnivivardhanam .. 2.65 ..
कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् । ब्रह्मनाडीमुखे संस्थकफाद्यर्गलनाशनम् ॥ २.६६ ॥
kuṇḍalī bodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam . brahmanāḍīmukhe saṃsthakaphādyargalanāśanam .. 2.66 ..
सम्यग्गात्रसमुद्भूतग्रन्थित्रयविभेदकम् । विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् ॥ २.६७ ॥
samyaggātrasamudbhūtagranthitrayavibhedakam . viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tvidam .. 2.67 ..
अथ भ्रामरी
वेगाद्घोषं पूरकं भृङ्गनादंभृङ्गीनादं रेचकं मन्दमन्दम् । योगीन्द्राण्¸अं एवं अभ्यासयोगाच्चित्ते जाता काचिदानन्दलीला ॥ २.६८ ॥
vegādghoṣaṃ pūrakaṃ bhṛṅganādaṃbhṛṅgīnādaṃ recakaṃ mandamandam . yogīndrāṇ¸aṃ evaṃ abhyāsayogāccitte jātā kācidānandalīlā .. 2.68 ..
अथ मूर्च्छा
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः । रेचयेन्मूर्च्छाख्येयं मनोमूर्च्छा सुखप्रदा ॥ २.६९ ॥
pūrakānte gāḍhataraṃ baddhvā jālandharaṃ śanaiḥ . recayenmūrcchākhyeyaṃ manomūrcchā sukhapradā .. 2.69 ..
अथ प्लाविनी
अन्तः प्रवर्तितोदारमारुतापूरितोदरः । पयस्यगाधेऽपि सुखात्प्लवते पद्मपत्रवत् ॥ २.७० ॥
antaḥ pravartitodāramārutāpūritodaraḥ . payasyagādhe'pi sukhātplavate padmapatravat .. 2.70 ..
प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः । सहितः केवलश्चेति कुम्भको द्विविधो मतः ॥ २.७१ ॥
prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ . sahitaḥ kevalaśceti kumbhako dvividho mataḥ .. 2.71 ..
यावत्केवलसिद्धिः स्यात्सहितं तावदभ्यसेत् । रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ॥ २.७२ ॥
yāvatkevalasiddhiḥ syātsahitaṃ tāvadabhyaset . recakaṃ pūrakaṃ muktvā sukhaṃ yadvāyudhāraṇam .. 2.72 ..
प्राणायामोऽयं इत्युक्तः स वै केवलकुम्भकः । कुम्भके केवले सिद्धे रेचपूरकवर्जिते ॥ २.७३ ॥
prāṇāyāmo'yaṃ ityuktaḥ sa vai kevalakumbhakaḥ . kumbhake kevale siddhe recapūrakavarjite .. 2.73 ..
न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते । शक्तः केवलकुम्भेन यथेष्टं वायुधारणात् ॥ २.७४ ॥
na tasya durlabhaṃ kiṃcittriṣu lokeṣu vidyate . śaktaḥ kevalakumbhena yatheṣṭaṃ vāyudhāraṇāt .. 2.74 ..
राजयोगपदं चापि लभते नात्र संशयः । कुम्भकात्कुण्डलीबोधः कुण्डलीबोधतो भवेत् । अनर्गला सुषुम्णा च हठसिद्धिश्च जायते ॥ २.७५ ॥
rājayogapadaṃ cāpi labhate nātra saṃśayaḥ . kumbhakātkuṇḍalībodhaḥ kuṇḍalībodhato bhavet . anargalā suṣumṇā ca haṭhasiddhiśca jāyate .. 2.75 ..
हठं विना राजयोगो राजयोगं विना हठः । न सिध्यति ततो युग्मं आनिष्पत्तेः समभ्यसेत् ॥ २.७६ ॥
haṭhaṃ vinā rājayogo rājayogaṃ vinā haṭhaḥ . na sidhyati tato yugmaṃ āniṣpatteḥ samabhyaset .. 2.76 ..
कुम्भकप्राणरोधान्ते कुर्याच्चित्तं निराश्रयम् । एवं अभ्यासयोगेन राजयोगपदं व्रजेत् ॥ २.७७ ॥
kumbhakaprāṇarodhānte kuryāccittaṃ nirāśrayam . evaṃ abhyāsayogena rājayogapadaṃ vrajet .. 2.77 ..
वपुः कृशत्वं वदने प्रसन्नतानादस्फुटत्वं नयने सुनिर्मले । अरोगता बिन्दुजयोऽग्निदीपनंनाडीविशुद्धिर्हठसिद्धिलक्षणम् ॥ २.७८ ॥
vapuḥ kṛśatvaṃ vadane prasannatānādasphuṭatvaṃ nayane sunirmale . arogatā bindujayo'gnidīpanaṃnāḍīviśuddhirhaṭhasiddhilakṣaṇam .. 2.78 ..
इति हठप्रदीपिकायां द्वितीयोपदेशः ।
iti haṭhapradīpikāyāṃ dvitīyopadeśaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In