| |
|

This overlay will guide you through the buttons:

श्रीआदिनाथाय नमोऽस्तु तस्मैयेनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम्आरोढुं इच्छोरधिरोहिणीव ॥ १.१ ॥
श्री-आदिनाथाय नमः अस्तु तस्मै येन उपदिष्टा हठयोग-विद्या । विभ्राजते प्रोन्नत-राजयोगम् आरोढुम् इच्छोः अधिरोहिणी इव ॥ १।१ ॥
śrī-ādināthāya namaḥ astu tasmai yena upadiṣṭā haṭhayoga-vidyā . vibhrājate pronnata-rājayogam āroḍhum icchoḥ adhirohiṇī iva .. 1.1 ..
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते ॥ १.२ ॥
प्रणम्य श्री-गुरुम् नाथम् स्व-आत्म-आरामेण योगिना । केवलम् राजयोगाय हठविद्या उपदिश्यते ॥ १।२ ॥
praṇamya śrī-gurum nātham sva-ātma-ārāmeṇa yoginā . kevalam rājayogāya haṭhavidyā upadiśyate .. 1.2 ..
भ्रान्त्या बहुमतध्वान्ते राजयोगं अजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ १.३ ॥
भ्रान्त्या बहु-मत-ध्वान्ते राजयोगम् अ जानताम् । धत्ते स्व-आत्म-आरामः ॥ १।३ ॥
bhrāntyā bahu-mata-dhvānte rājayogam a jānatām . dhatte sva-ātma-ārāmaḥ .. 1.3 ..
हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥ १.४ ॥
हठ-विद्याम् हि मत्स्येन्द्र-गोरक्ष-आद्याः विजानते । स्व-आत्म-आरामः अथवा योगी जानीते तद्-प्रसादतः ॥ १।४ ॥
haṭha-vidyām hi matsyendra-gorakṣa-ādyāḥ vijānate . sva-ātma-ārāmaḥ athavā yogī jānīte tad-prasādataḥ .. 1.4 ..
श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ १.५ ॥
श्री-आदिनाथ-मत्स्येन्द्र-शावर-आनन्दभैरवाः । चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः ॥ १।५ ॥
śrī-ādinātha-matsyendra-śāvara-ānandabhairavāḥ . cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ .. 1.5 ..
मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ १.६ ॥
मन्थानः भैरवः योगी सिद्धिः बुद्धः च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादः च चर्पटिः ॥ १।६ ॥
manthānaḥ bhairavaḥ yogī siddhiḥ buddhaḥ ca kanthaḍiḥ . koraṃṭakaḥ surānandaḥ siddhapādaḥ ca carpaṭiḥ .. 1.6 ..
कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ १.७ ॥
च । च ॥ १।७ ॥
ca . ca .. 1.7 ..
अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ १.८ ॥
अल्लामः प्रभुदेवः च घोडा चोली च टिंटिणिः । भानुकी नारदेवः च खण्डः कापालिकः तथा ॥ १।८ ॥
allāmaḥ prabhudevaḥ ca ghoḍā colī ca ṭiṃṭiṇiḥ . bhānukī nāradevaḥ ca khaṇḍaḥ kāpālikaḥ tathā .. 1.8 ..
इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ १.९ ॥
इत्यादयः महा-सिद्धाः हठयोग-प्रभावतः । खण्डयित्वा कालदण्डम् ब्रह्माण्डे विचरन्ति ते ॥ १।९ ॥
ityādayaḥ mahā-siddhāḥ haṭhayoga-prabhāvataḥ . khaṇḍayitvā kāladaṇḍam brahmāṇḍe vicaranti te .. 1.9 ..
अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानां आधारकमठो हठः ॥ १.१० ॥
अशेष-ताप-तप्तानाम् समाश्रय-मठः हठः । ॥ १।१० ॥
aśeṣa-tāpa-taptānām samāśraya-maṭhaḥ haṭhaḥ . .. 1.10 ..
हठविद्या परं गोप्या योगिना सिद्धिं इच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ १.११ ॥
हठविद्या परम् गोप्या योगिना सिद्धिम् इच्छता । भवेत् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ १।११ ॥
haṭhavidyā param gopyā yoginā siddhim icchatā . bhavet vīryavatī guptā nirvīryā tu prakāśitā .. 1.11 ..
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते । एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ १.१२ ॥
सु राज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाण-पर्यन्तम् शिला-अग्नि-जल-वर्जिते । एकान्ते मठिका-मध्ये स्थातव्यम् हठयोगिना ॥ १।१२ ॥
su rājye dhārmike deśe subhikṣe nirupadrave . dhanuḥ pramāṇa-paryantam śilā-agni-jala-varjite . ekānte maṭhikā-madhye sthātavyam haṭhayoginā .. 1.12 ..
अल्पद्वारं अरन्ध्रगर्तविवरं नात्युच्चनीचायतंसम्यग्गोमयसान्द्रलिप्तं अमलं निःशेसजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितंप्रोक्तं योगमठस्य लक्षणं इदं सिद्धैर्हठाभ्यासिभिः ॥ १.१३ ॥
अल्प-द्वारम् अरन्ध्र-गर्त-विवरम् न अति उच्च-नीच-आयतम् सम्यक् गोमय-सान्द्र-लिप्तम् अमलम् निःशेस-जन्तु-उज्झितम् । बाह्ये मण्डप-वेदि-कूप-रुचिरम् प्राकार-संवेष्टितम् प्रोक्तम् योग-मठस्य लक्षणम् इदम् सिद्धैः हठ-अभ्यासिभिः ॥ १।१३ ॥
alpa-dvāram arandhra-garta-vivaram na ati ucca-nīca-āyatam samyak gomaya-sāndra-liptam amalam niḥśesa-jantu-ujjhitam . bāhye maṇḍapa-vedi-kūpa-ruciram prākāra-saṃveṣṭitam proktam yoga-maṭhasya lakṣaṇam idam siddhaiḥ haṭha-abhyāsibhiḥ .. 1.13 ..
एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगं एव समभ्यसेत् ॥ १.१४ ॥
एवंविधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः । गुरु-उपदिष्ट-मार्गेण योगम् एव समभ्यसेत् ॥ १।१४ ॥
evaṃvidhe maṭhe sthitvā sarva-cintā-vivarjitaḥ . guru-upadiṣṭa-mārgeṇa yogam eva samabhyaset .. 1.14 ..
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १.१५ ॥
अत्याहारः प्रयासः च प्रजल्पः नियम-अग्रहः । जन-सङ्गः च लौल्यम् च षड्भिः योगः विनश्यति ॥ १।१५ ॥
atyāhāraḥ prayāsaḥ ca prajalpaḥ niyama-agrahaḥ . jana-saṅgaḥ ca laulyam ca ṣaḍbhiḥ yogaḥ vinaśyati .. 1.15 ..
उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् । जनसङ्गपरित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ १.१६ ॥
उत्साहात् साहसात् धैर्यात् तत्त्व-ज्ञानाः च निश्चयात् । जन-सङ्ग-परित्यागात् षड्भिः योगः प्रसिद्धि-अति ॥ १।१६ ॥
utsāhāt sāhasāt dhairyāt tattva-jñānāḥ ca niścayāt . jana-saṅga-parityāgāt ṣaḍbhiḥ yogaḥ prasiddhi-ati .. 1.16 ..
अथ यमनियमाः
अहिंसा सत्यं अस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १.१७ ॥
अहिंसा सत्यम् अस्तेयम् ब्रह्मचर्यम् क्षमा धृतिः । दया आर्जवम् मित-आहारः शौचम् च एव यमाः दश ॥ १।१७ ॥
ahiṃsā satyam asteyam brahmacaryam kṣamā dhṛtiḥ . dayā ārjavam mita-āhāraḥ śaucam ca eva yamāḥ daśa .. 1.17 ..
तपः सन्तोष आस्तिक्यं दानं ईश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः ॥ १.१८ ॥
तपः सन्तोषः आस्तिक्यम् दानम् ईश्वर-पूजनम् । सिद्धान्त-वाक्य-श्रवणम् ह्रीमती च तपः हुतम् । नियमाः दश सम्प्रोक्ताः योग-शास्त्र-विशारदैः ॥ १।१८ ॥
tapaḥ santoṣaḥ āstikyam dānam īśvara-pūjanam . siddhānta-vākya-śravaṇam hrīmatī ca tapaḥ hutam . niyamāḥ daśa samproktāḥ yoga-śāstra-viśāradaiḥ .. 1.18 ..
अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वं उच्यते । कुर्यात्तदासनं स्थैर्यं आरोग्यं चाङ्गलाघवम् ॥ १.१९ ॥
हठस्य प्रथम-अङ्ग-त्वात् आसनम् पूर्वम् उच्यते । कुर्यात् तद्-आसनम् स्थैर्यम् आरोग्यम् च अङ्ग-लाघवम् ॥ १।१९ ॥
haṭhasya prathama-aṅga-tvāt āsanam pūrvam ucyate . kuryāt tad-āsanam sthairyam ārogyam ca aṅga-lāghavam .. 1.19 ..
वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ १.२० ॥
वशिष्ठ-आद्यैः च मुनिभिः मत्स्येन्द्र-आद्यैः च योगिभिः । अङ्गीकृतानि आसनानि कथ्यन्ते कानिचिद् मया ॥ १।२० ॥
vaśiṣṭha-ādyaiḥ ca munibhiḥ matsyendra-ādyaiḥ ca yogibhiḥ . aṅgīkṛtāni āsanāni kathyante kānicid mayā .. 1.20 ..
जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १.२१ ॥
जानु-ऊर्वोः अन्तरे सम्यक् कृत्वा पाद-तले उभे । ऋजु-कायः समासीनः स्वस्तिकम् तत् प्रचक्षते ॥ १।२१ ॥
jānu-ūrvoḥ antare samyak kṛtvā pāda-tale ubhe . ṛju-kāyaḥ samāsīnaḥ svastikam tat pracakṣate .. 1.21 ..
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ १.२२ ॥
सव्ये दक्षिण-गुल्फम् तु पृष्ठ-पार्श्वे नियोजयेत् । दक्षिणे अपि तथा सव्यम् गोमुखम् गो-मुख-आकृतिः ॥ १।२२ ॥
savye dakṣiṇa-gulpham tu pṛṣṭha-pārśve niyojayet . dakṣiṇe api tathā savyam gomukham go-mukha-ākṛtiḥ .. 1.22 ..
एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनं इतीरितम् ॥ १.२३ ॥
एकम् पादम् तथा एकस्मिन् विन्यसेत् उरुणि स्थिरम् । इतरस्मिन् तथा च ऊरुम् वीरासनम् इति ईरितम् ॥ १।२३ ॥
ekam pādam tathā ekasmin vinyaset uruṇi sthiram . itarasmin tathā ca ūrum vīrāsanam iti īritam .. 1.23 ..
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ १.२४ ॥
गुदम् निरुध्य गुल्फाभ्याम् व्युत्क्रमेण समाहितः । कूर्मासनम् भवेत् एतत् इति योग-विदः विदुः ॥ १।२४ ॥
gudam nirudhya gulphābhyām vyutkrameṇa samāhitaḥ . kūrmāsanam bhavet etat iti yoga-vidaḥ viduḥ .. 1.24 ..
पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ १.२५ ॥
पद्मासनम् तु संस्थाप्य जानु-ऊर्वोः अन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योम-स्थम् कुक्कुटासनम् ॥ १।२५ ॥
padmāsanam tu saṃsthāpya jānu-ūrvoḥ antare karau . niveśya bhūmau saṃsthāpya vyoma-stham kukkuṭāsanam .. 1.25 ..
कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ १.२६ ॥
कुक्कुटासन-बन्ध-स्थः दोर्भ्याम् सम्बद्य कन्धराम् । भवेत् कूर्म-वत् उत्तानः एतत् उत्तानकूर्मकम् ॥ १।२६ ॥
kukkuṭāsana-bandha-sthaḥ dorbhyām sambadya kandharām . bhavet kūrma-vat uttānaḥ etat uttānakūrmakam .. 1.26 ..
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनं उच्यते ॥ १.२७ ॥
पादाङ्गुष्ठौ तु पाणिभ्याम् गृहीत्वा श्रवण-अवधि । धनुः-आकर्षणम् कुर्यात् धनुरासनम् उच्यते ॥ १।२७ ॥
pādāṅguṣṭhau tu pāṇibhyām gṛhītvā śravaṇa-avadhi . dhanuḥ-ākarṣaṇam kuryāt dhanurāsanam ucyate .. 1.27 ..
वामोरुमूलार्पितदक्षपादंजानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गःश्रीमत्य्सनाथोदितं आसनं स्यात् ॥ १.२८ ॥
वाम-ऊरु-मूल-अर्पित-दक्ष-पादम् जानोः बहिस् वेष्टित-वाम-पादम् । प्रगृह्य तिष्ठेत् परिवर्तित-अङ्गः श्रीमती सनाथ-उदितम् आसनम् स्यात् ॥ १।२८ ॥
vāma-ūru-mūla-arpita-dakṣa-pādam jānoḥ bahis veṣṭita-vāma-pādam . pragṛhya tiṣṭhet parivartita-aṅgaḥ śrīmatī sanātha-uditam āsanam syāt .. 1.28 ..
मत्स्येन्द्रपीठं जठरप्रदीप्तिंप्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिनीप्रबोधंचन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ १.२९ ॥
मत्स्येन्द्र-पीठम् जठर-प्रदीप्तिम् प्रचण्ड-रुज्-मण्डल-खण्डन-अस्त्रम् । अभ्यासतः कुण्डलिनी-प्रबोधम् चन्द्र-स्थिर-त्वम् च ददाति पुंसाम् ॥ १।२९ ॥
matsyendra-pīṭham jaṭhara-pradīptim pracaṇḍa-ruj-maṇḍala-khaṇḍana-astram . abhyāsataḥ kuṇḍalinī-prabodham candra-sthira-tvam ca dadāti puṃsām .. 1.29 ..
प्रसार्य पादौ भुवि दण्डरूपौदोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाटदेशोवसेदिदं पश्चिमतानं आहुः ॥ १.३० ॥
प्रसार्य पादौ भुवि पद-अग्र-द्वितयम् गृहीत्वा । जानु-उपरि न्यस्त-ललाट-देशः वसेत् इदम् पश्चिमतानम् आहुः ॥ १।३० ॥
prasārya pādau bhuvi pada-agra-dvitayam gṛhītvā . jānu-upari nyasta-lalāṭa-deśaḥ vaset idam paścimatānam āhuḥ .. 1.30 ..
इति पश्चिमतानं आसनाग्र्यंपवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्याद्उदरे कार्श्यं अरोगतां च पुंसाम् ॥ १.३१ ॥
इति पश्चिमतानम् आसन-अग्र्यंपवनम् पश्चिम-वाहिनम् करोति । उदयम् जठर-अनलस्य कुर्यात् उदरे कार्श्यम् अरोग-ताम् च पुंसाम् ॥ १।३१ ॥
iti paścimatānam āsana-agryaṃpavanam paścima-vāhinam karoti . udayam jaṭhara-analasya kuryāt udare kārśyam aroga-tām ca puṃsām .. 1.31 ..
धरां अवष्टभ्य करद्वयेनतत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खेमायूरं एतत्प्रवदन्ति पीठम् ॥ १.३२ ॥
धराम् अवष्टभ्य कर-द्वयेन तद्-कूर्पर-स्थापित-नाभि-पार्श्वः । उच्च-आसनः दण्ड-वत् उत्थितः खेमायूरम् एतत् प्रवदन्ति पीठम् ॥ १।३२ ॥
dharām avaṣṭabhya kara-dvayena tad-kūrpara-sthāpita-nābhi-pārśvaḥ . ucca-āsanaḥ daṇḍa-vat utthitaḥ khemāyūram etat pravadanti pīṭham .. 1.32 ..
हरति सकलरोगानाशु गुल्मोदरादीन्अभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषंजनयति जठराग्निं जारयेत्कालकूटम् ॥ १.३३ ॥
हरति सकल-रोगान् आशु गुल्मोदर-आदीन् अभिभवति च दोषान् आसनम् श्री-मयूरम् । बहु कदशन-भुक्तम् भस्म कुर्यात् अशेषम् जनयति जठर-अग्निम् जारयेत् कालकूटम् ॥ १।३३ ॥
harati sakala-rogān āśu gulmodara-ādīn abhibhavati ca doṣān āsanam śrī-mayūram . bahu kadaśana-bhuktam bhasma kuryāt aśeṣam janayati jaṭhara-agnim jārayet kālakūṭam .. 1.33 ..
उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ १.३४ ॥
उत्तानम् शबवत् भूमौ शयनम् तत् शवासनम् । ॥ १।३४ ॥
uttānam śabavat bhūmau śayanam tat śavāsanam . .. 1.34 ..
चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कं आदाय सारभूतं ब्रवीम्यहम् ॥ १.३५ ॥
चतुरशीति-आसनानि शिवेन कथितानि च । तेभ्यः चतुष्कम् आदाय सार-भूतम् ब्रवीमि अहम् ॥ १।३५ ॥
caturaśīti-āsanāni śivena kathitāni ca . tebhyaḥ catuṣkam ādāya sāra-bhūtam bravīmi aham .. 1.35 ..
सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ १.३६ ॥
सिद्धम् पद्मम् तथा सिंहम् भद्रम् वा इति चतुष्टयम् । श्रेष्ठम् तत्र अपि च सुखे तिष्ठेत् सिद्धासने सदा ॥ १।३६ ॥
siddham padmam tathā siṃham bhadram vā iti catuṣṭayam . śreṣṭham tatra api ca sukhe tiṣṭhet siddhāsane sadā .. 1.36 ..
अथ सिद्धासनम्
योनिस्थानकं अङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्मेण्ढ्रे पादं अथैकं एव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरंह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ १.३७ ॥
योनि-स्थानकम् अङ्घ्रि-मूल-घटितम् कृत्वा दृढम् विन्यसेत् मेण्ढ्रे पादम् अथ एकम् एव हृदये कृत्वा हनुम् सु स्थिरम् । स्थाणुः संयमित-इन्द्रियः अचल-दृशा पश्येत् भ्रुवोः अन्तरम् हि एतत् मोक्ष-कपाट-भेद-जनकम् सिद्धासनम् प्रोच्यते ॥ १।३७ ॥
yoni-sthānakam aṅghri-mūla-ghaṭitam kṛtvā dṛḍham vinyaset meṇḍhre pādam atha ekam eva hṛdaye kṛtvā hanum su sthiram . sthāṇuḥ saṃyamita-indriyaḥ acala-dṛśā paśyet bhruvoḥ antaram hi etat mokṣa-kapāṭa-bheda-janakam siddhāsanam procyate .. 1.37 ..
मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनं इदं भवेत् ॥ १.३८ ॥
मेण्ढ्रात् उपरि विन्यस्य सव्यम् गुल्फम् तथा उपरि । गुल्फ-अन्तरम् च निक्षिप्य सिद्धासनम् इदम् भवेत् ॥ १।३८ ॥
meṇḍhrāt upari vinyasya savyam gulpham tathā upari . gulpha-antaram ca nikṣipya siddhāsanam idam bhavet .. 1.38 ..
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ १.३९ ॥
एतत् सिद्धासनम् प्राहुः अन्ये वज्रासनम् विदुः । मुक्तासनम् वदन्ति एके प्राहुः गुप्तासनम् परे ॥ १।३९ ॥
etat siddhāsanam prāhuḥ anye vajrāsanam viduḥ . muktāsanam vadanti eke prāhuḥ guptāsanam pare .. 1.39 ..
यमेष्विव मिताहारं अहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ १.४० ॥
यमेषु इव मित-आहारम् अहिंसा नियमेषु इव । मुख्यम् सर्व-आसनेषु एकम् सिद्धाः सिद्धासनम् विदुः ॥ १।४० ॥
yameṣu iva mita-āhāram ahiṃsā niyameṣu iva . mukhyam sarva-āsaneṣu ekam siddhāḥ siddhāsanam viduḥ .. 1.40 ..
चतुरशीतिपीठेषु सिद्धं एव सदाभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ १.४१ ॥
चतुरशीति-पीठेषु सिद्धम् एव सदा अभ्यसेत् । द्वासप्तति-सहस्राणाम् नाडीनाम् मल-शोधनम् ॥ १।४१ ॥
caturaśīti-pīṭheṣu siddham eva sadā abhyaset . dvāsaptati-sahasrāṇām nāḍīnām mala-śodhanam .. 1.41 ..
आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिं आप्नुयात् ॥ १.४२ ॥
आत्म-ध्यायी मित-आहारी यावत् द्वादश-वत्सरम् । सदा सिद्धासन-अभ्यासात् योगी निष्पत्तिम् आप्नुयात् ॥ १।४२ ॥
ātma-dhyāyī mita-āhārī yāvat dvādaśa-vatsaram . sadā siddhāsana-abhyāsāt yogī niṣpattim āpnuyāt .. 1.42 ..
किं अन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवलकुम्भके । उत्पद्यते निरायासात्स्वयं एवोन्मनी कला ॥ १.४३ ॥
किम् अन्यैः बहुभिः पीठैः सिद्धे सिद्धासने सति । । उत्पद्यते निरायासात् स्वयम् एवा उन्मनी कला ॥ १।४३ ॥
kim anyaiḥ bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati . . utpadyate nirāyāsāt svayam evā unmanī kalā .. 1.43 ..
तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्धत्रयं अनायासात्स्वयं एवोपजायते ॥ १.४४ ॥
तथा एका अस्मिन् एव दृढे सिद्धे सिद्धासने सति । बन्ध-त्रयम् अनायासात् स्वयम् एव उपजायते ॥ १।४४ ॥
tathā ekā asmin eva dṛḍhe siddhe siddhāsane sati . bandha-trayam anāyāsāt svayam eva upajāyate .. 1.44 ..
नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ १.४५ ॥
न आसनम् सिद्ध-सदृशम् न कुम्भः केवल-उपमः । न खेचरी-समा मुद्रा न नाद-सदृशः लयः ॥ १।४५ ॥
na āsanam siddha-sadṛśam na kumbhaḥ kevala-upamaḥ . na khecarī-samā mudrā na nāda-sadṛśaḥ layaḥ .. 1.45 ..
अथ पद्मासनम्
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं आलोकयेत्एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ १.४६ ॥
वाम-ऊरु-उपरि दक्षिणम् च चरणम् संस्थाप्य वामम् तथा दक्ष-ऊरु-उपरि पश्चिमेन विधिना धृत्वा कराभ्याम् दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकम् नासा-अग्रम् आलोकयेत् एतत् व्याधि-विनाश-कारि यमिनाम् पद्मासनम् प्रोच्यते ॥ १।४६ ॥
vāma-ūru-upari dakṣiṇam ca caraṇam saṃsthāpya vāmam tathā dakṣa-ūru-upari paścimena vidhinā dhṛtvā karābhyām dṛḍham . aṅguṣṭhau hṛdaye nidhāya cibukam nāsā-agram ālokayet etat vyādhi-vināśa-kāri yaminām padmāsanam procyate .. 1.46 ..
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ १.४७ ॥
उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः । ऊरु-मध्ये तथा उत्तानौ पाणी कृत्वा ततस् दृशौ ॥ १।४७ ॥
uttānau caraṇau kṛtvā ūru-saṃsthau prayatnataḥ . ūru-madhye tathā uttānau pāṇī kṛtvā tatas dṛśau .. 1.47 ..
नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं शनैः ॥ १.४८ ॥
नासा-अग्रे विन्यसेत् राजदन्त-मूले तु जिह्वया । उत्तम्भ्य चिबुकम् वक्षसि उत्थापी पवनम् शनैस् ॥ १।४८ ॥
nāsā-agre vinyaset rājadanta-mūle tu jihvayā . uttambhya cibukam vakṣasi utthāpī pavanam śanais .. 1.48 ..
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ १.४९ ॥
इदम् पद्मासनम् प्रोक्तम् सर्व-व्याधि-विनाशनम् । दुर्लभम् येन केन अपि धीमता लभ्यते भुवि ॥ १।४९ ॥
idam padmāsanam proktam sarva-vyādhi-vināśanam . durlabham yena kena api dhīmatā labhyate bhuvi .. 1.49 ..
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनंगाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारं अपानं ऊर्ध्वं अनिलं प्रोत्सारयन्पूरितंन्यञ्चन्प्राणं उपैति बोधं अतुलं शक्तिप्रभावान्नरः ॥ १.५० ॥
कृत्वा सम्पुटितौ करौ दृढतरम् बद्ध्वा तु पद्मासनम् गाढम् वक्षसि सन्निधाय चिबुकम् ध्यायन् च तद्-चेतसि । वारम् वारम् अपानम् ऊर्ध्वम् अनिलम् प्रोत्सारयन् पूरितम् न्यञ्चन् प्राणम् उपैति बोधम् अतुलम् शक्ति-प्रभावात् नरः ॥ १।५० ॥
kṛtvā sampuṭitau karau dṛḍhataram baddhvā tu padmāsanam gāḍham vakṣasi sannidhāya cibukam dhyāyan ca tad-cetasi . vāram vāram apānam ūrdhvam anilam protsārayan pūritam nyañcan prāṇam upaiti bodham atulam śakti-prabhāvāt naraḥ .. 1.50 ..
पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ १.५१ ॥
पद्मासने स्थितः योगी नाडी-द्वारेण पूरितम् । मारुतम् धारयेत् यः तु स मुक्तः न अत्र संशयः ॥ १।५१ ॥
padmāsane sthitaḥ yogī nāḍī-dvāreṇa pūritam . mārutam dhārayet yaḥ tu sa muktaḥ na atra saṃśayaḥ .. 1.51 ..
अथ सिंहासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ १.५२ ॥
गुल्फौ च वृषणस्य अधस् सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्य-गुल्फम् तु दक्ष-गुल्फम् तु सव्यके ॥ १।५२ ॥
gulphau ca vṛṣaṇasya adhas sīvanyāḥ pārśvayoḥ kṣipet . dakṣiṇe savya-gulpham tu dakṣa-gulpham tu savyake .. 1.52 ..
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ १.५३ ॥
हस्तौ तु जान्वोः संस्थाप्य स्व-अङ्गुलीः सम्प्रसार्य च । व्यात्त-वक्त्रः निरीक्षेत नासा-अग्रम् सु समाहितः ॥ १।५३ ॥
hastau tu jānvoḥ saṃsthāpya sva-aṅgulīḥ samprasārya ca . vyātta-vaktraḥ nirīkṣeta nāsā-agram su samāhitaḥ .. 1.53 ..
सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः । बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ॥ १.५४ ॥
सिंहासनम् भवेत् एतत् पूजितम् योगि-पुङ्गवैः । बन्ध-त्रितय-सन्धानम् कुरुते च आसन-उत्तमम् ॥ १।५४ ॥
siṃhāsanam bhavet etat pūjitam yogi-puṅgavaiḥ . bandha-tritaya-sandhānam kurute ca āsana-uttamam .. 1.54 ..
अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ १.५५ ॥
गुल्फौ च वृषणस्य अधस् सीवन्याः पार्श्वयोः क्षिप्ते । सव्य-गुल्फम् तथा सव्ये दक्ष-गुल्फम् तु दक्षिणे ॥ १।५५ ॥
gulphau ca vṛṣaṇasya adhas sīvanyāḥ pārśvayoḥ kṣipte . savya-gulpham tathā savye dakṣa-gulpham tu dakṣiṇe .. 1.55 ..
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम् । गोरक्षासनं इत्याहुरिदं वै सिद्धयोगिनः ॥ १.५६ ॥
पार्श्व-पादौ च पाणिभ्याम् दृढम् बद्ध्वा सु निश्चलम् । भद्रासनम् भवेत् एतत् सर्व-व्याधि-विनाशनम् । गोरक्षासनम् इति आहुः इदम् वै सिद्ध-योगिनः ॥ १।५६ ॥
pārśva-pādau ca pāṇibhyām dṛḍham baddhvā su niścalam . bhadrāsanam bhavet etat sarva-vyādhi-vināśanam . gorakṣāsanam iti āhuḥ idam vai siddha-yoginaḥ .. 1.56 ..
एवं आसनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् ॥ १.५७ ॥
एवम् आसन-बन्धेषु योगि-इन्द्रः विगत-श्रमः । अभ्यसेत् नाडिका-शुद्धिम् मुद्रा-आदि-पवनीक्रियाम् ॥ १।५७ ॥
evam āsana-bandheṣu yogi-indraḥ vigata-śramaḥ . abhyaset nāḍikā-śuddhim mudrā-ādi-pavanīkriyām .. 1.57 ..
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानं अभ्यासानुक्रमो हठे ॥ १.५८ ॥
आसनम् कुम्भकम् चित्रम् मुद्रा-आख्यम् करणम् तथा । अथ नाद-अनुसन्धानम् अभ्यास-अनुक्रमः हठे ॥ १।५८ ॥
āsanam kumbhakam citram mudrā-ākhyam karaṇam tathā . atha nāda-anusandhānam abhyāsa-anukramaḥ haṭhe .. 1.58 ..
ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ १.५९ ॥
ब्रह्मचारी मित-आहारी त्यागी योग-परायणः । अब्दात् ऊर्ध्वम् भवेत् सिद्धः न अत्र कार्या विचारणा ॥ १।५९ ॥
brahmacārī mita-āhārī tyāgī yoga-parāyaṇaḥ . abdāt ūrdhvam bhavet siddhaḥ na atra kāryā vicāraṇā .. 1.59 ..
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ॥ १.६० ॥
सु स्निग्ध-मधुर-आहारः चतुर्थ-अंश-विवर्जितः । भुज्यते शिव-सम्प्रीत्यै मित-आहारः सः उच्यते ॥ १।६० ॥
su snigdha-madhura-āhāraḥ caturtha-aṃśa-vivarjitaḥ . bhujyate śiva-samprītyai mita-āhāraḥ saḥ ucyate .. 1.60 ..
कट्वाम्लतीक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमद्यमत्स्यान् । आजादिमांसदधितक्रकुलत्थकोलपिण्याकहिङ्गुलशुनाद्यं अपथ्यं आहुः ॥ १.६१ ॥
कटु-अम्ल-तीक्ष्ण-लवण-उष्ण-हरीत-शाक-सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान् । आज-आदि-मांस-दधि-तक्र-कुलत्थ-कोल-पिण्याक-हिङ्गु-लशुन-आद्यम् अपथ्यम् आहुः ॥ १।६१ ॥
kaṭu-amla-tīkṣṇa-lavaṇa-uṣṇa-harīta-śāka-sauvīra-taila-tila-sarṣapa-madya-matsyān . āja-ādi-māṃsa-dadhi-takra-kulattha-kola-piṇyāka-hiṅgu-laśuna-ādyam apathyam āhuḥ .. 1.61 ..
भोजनं अहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणं अम्लयुक्तं कदशनशाकोत्कं वर्ज्यम् ॥ १.६२ ॥
भोजनम् अहितम् विद्यात् पुनर् अस्य उष्णीकृतम् रूक्षम् । अति लवणम् अम्ल-युक्तम् कदशन-शाक-उत्कम् वर्ज्यम् ॥ १।६२ ॥
bhojanam ahitam vidyāt punar asya uṣṇīkṛtam rūkṣam . ati lavaṇam amla-yuktam kadaśana-śāka-utkam varjyam .. 1.62 ..
वह्निस्त्रीपथिसेवानां आदौ वर्जनं आचरेत् ॥ १.६३ ॥
वह्नि-स्त्री-पथि-सेवानाम् आदौ वर्जनम् आचरेत् ॥ १।६३ ॥
vahni-strī-pathi-sevānām ādau varjanam ācaret .. 1.63 ..
तथा हि गोरक्षवचनम्
वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् । प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ॥ १.६४ ॥
वर्जयेत् दुर्जन-प्रान्तम् वह्नि-स्त्री-पथि-सेवनम् । प्रातःस्नान-उपवास-आदि काय-क्लेश-विधिम् तथा ॥ १।६४ ॥
varjayet durjana-prāntam vahni-strī-pathi-sevanam . prātaḥsnāna-upavāsa-ādi kāya-kleśa-vidhim tathā .. 1.64 ..
गोधूमशालियवषाष्टिकशोभनान्नंक्षीराज्यखण्डनवनीतसिद्धामधूनि । शुण्ठीपटोलकफलादिकपञ्चशाकंमुद्गादिदिव्यं उदकं च यमीन्द्रपथ्यम् ॥ १.६५ ॥
। शुण्ठी-पटोलक-फल-आदिक-पञ्च-शाकम् मुद्ग-आदि-दिव्यम् उदकम् च यमि-इन्द्र-पथ्यम् ॥ १।६५ ॥
. śuṇṭhī-paṭolaka-phala-ādika-pañca-śākam mudga-ādi-divyam udakam ca yami-indra-pathyam .. 1.65 ..
पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनं आचरेत् ॥ १.६६ ॥
पुष्टम् सुमधुरम् स्निग्धम् गव्यम् धातु-प्रपोषणम् । मनः-अभिलषितम् योग्यम् योगी भोजनम् आचरेत् ॥ १।६६ ॥
puṣṭam sumadhuram snigdham gavyam dhātu-prapoṣaṇam . manaḥ-abhilaṣitam yogyam yogī bhojanam ācaret .. 1.66 ..
युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिं आप्नोति सर्वयोगेष्वतन्द्रितः ॥ १.६७ ॥
वृद्धः अति वृद्धः वा व्याधितः दुर्बलः अपि वा । अभ्यासात् सिद्धिम् आप्नोति सर्व-योगेषु अतन्द्रितः ॥ १।६७ ॥
vṛddhaḥ ati vṛddhaḥ vā vyādhitaḥ durbalaḥ api vā . abhyāsāt siddhim āpnoti sarva-yogeṣu atandritaḥ .. 1.67 ..
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ १.६८ ॥
क्रिया-युक्तस्य सिद्धिः स्यात् अक्रियस्य कथम् भवेत् । न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते ॥ १।६८ ॥
kriyā-yuktasya siddhiḥ syāt akriyasya katham bhavet . na śāstra-pāṭha-mātreṇa yoga-siddhiḥ prajāyate .. 1.68 ..
न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यं एतन्न संशयः ॥ १.६९ ॥
न वेष-धारणम् सिद्धेः कारणम् न च तद्-कथा । क्रिया एव कारणम् सिद्धेः सत्यम् एतत् न संशयः ॥ १।६९ ॥
na veṣa-dhāraṇam siddheḥ kāraṇam na ca tad-kathā . kriyā eva kāraṇam siddheḥ satyam etat na saṃśayaḥ .. 1.69 ..
पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ॥ १.७० ॥
पीठानि कुम्भकाः चित्राः दिव्यानि करणानि च । सर्वाणि अपि हठ-अभ्यासे राजयोग-फल-अवधि ॥ १।७० ॥
pīṭhāni kumbhakāḥ citrāḥ divyāni karaṇāni ca . sarvāṇi api haṭha-abhyāse rājayoga-phala-avadhi .. 1.70 ..
इति हठप्रदीपिकायां प्रथमोपदेशः ।
इति हठप्रदीपिकायाम् प्रथम-उपदेशः ।
iti haṭhapradīpikāyām prathama-upadeśaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In