| |
|

This overlay will guide you through the buttons:

श्रीआदिनाथाय नमोऽस्तु तस्मैयेनोपदिष्टा हठयोगविद्या । विभ्राजते प्रोन्नतराजयोगम्आरोढुं इच्छोरधिरोहिणीव ॥ १.१ ॥
śrīādināthāya namo'stu tasmaiyenopadiṣṭā haṭhayogavidyā . vibhrājate pronnatarājayogamāroḍhuṃ icchoradhirohiṇīva .. 1.1 ..
प्रणम्य श्रीगुरुं नाथं स्वात्मारामेण योगिना । केवलं राजयोगाय हठविद्योपदिश्यते ॥ १.२ ॥
praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā . kevalaṃ rājayogāya haṭhavidyopadiśyate .. 1.2 ..
भ्रान्त्या बहुमतध्वान्ते राजयोगं अजानताम् । हठप्रदीपिकां धत्ते स्वात्मारामः कृपाकरः ॥ १.३ ॥
bhrāntyā bahumatadhvānte rājayogaṃ ajānatām . haṭhapradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ .. 1.3 ..
हठविद्यां हि मत्स्येन्द्रगोरक्षाद्या विजानते । स्वात्मारामोऽथवा योगी जानीते तत्प्रसादतः ॥ १.४ ॥
haṭhavidyāṃ hi matsyendragorakṣādyā vijānate . svātmārāmo'thavā yogī jānīte tatprasādataḥ .. 1.4 ..
श्रीआदिनाथमत्स्येन्द्रशावरानन्दभैरवाः । चौरङ्गीमीनगोरक्षविरूपाक्षबिलेशयाः ॥ १.५ ॥
śrīādināthamatsyendraśāvarānandabhairavāḥ . cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ .. 1.5 ..
मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः । कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः ॥ १.६ ॥
manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ . koraṃṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ .. 1.6 ..
कानेरी पूज्यपादश्च नित्यनाथो निरञ्जनः । कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः ॥ १.७ ॥
kānerī pūjyapādaśca nityanātho nirañjanaḥ . kapālī bindunāthaśca kākacaṇḍīśvarāhvayaḥ .. 1.7 ..
अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः । भानुकी नारदेवश्च खण्डः कापालिकस्तथा ॥ १.८ ॥
allāmaḥ prabhudevaśca ghoḍā colī ca ṭiṃṭiṇiḥ . bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā .. 1.8 ..
इत्यादयो महासिद्धा हठयोगप्रभावतः । खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते ॥ १.९ ॥
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ . khaṇḍayitvā kāladaṇḍaṃ brahmāṇḍe vicaranti te .. 1.9 ..
अशेषतापतप्तानां समाश्रयमठो हठः । अशेषयोगयुक्तानां आधारकमठो हठः ॥ १.१० ॥
aśeṣatāpataptānāṃ samāśrayamaṭho haṭhaḥ . aśeṣayogayuktānāṃ ādhārakamaṭho haṭhaḥ .. 1.10 ..
हठविद्या परं गोप्या योगिना सिद्धिं इच्छता । भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता ॥ १.११ ॥
haṭhavidyā paraṃ gopyā yoginā siddhiṃ icchatā . bhavedvīryavatī guptā nirvīryā tu prakāśitā .. 1.11 ..
सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । धनुः प्रमाणपर्यन्तं शिलाग्निजलवर्जिते । एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना ॥ १.१२ ॥
surājye dhārmike deśe subhikṣe nirupadrave . dhanuḥ pramāṇaparyantaṃ śilāgnijalavarjite . ekānte maṭhikāmadhye sthātavyaṃ haṭhayoginā .. 1.12 ..
अल्पद्वारं अरन्ध्रगर्तविवरं नात्युच्चनीचायतंसम्यग्गोमयसान्द्रलिप्तं अमलं निःशेसजन्तूज्झितम् । बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितंप्रोक्तं योगमठस्य लक्षणं इदं सिद्धैर्हठाभ्यासिभिः ॥ १.१३ ॥
alpadvāraṃ arandhragartavivaraṃ nātyuccanīcāyataṃsamyaggomayasāndraliptaṃ amalaṃ niḥśesajantūjjhitam . bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃproktaṃ yogamaṭhasya lakṣaṇaṃ idaṃ siddhairhaṭhābhyāsibhiḥ .. 1.13 ..
एवं विधे मठे स्थित्वा सर्वचिन्ताविवर्जितः । गुरूपदिष्टमार्गेण योगं एव समभ्यसेत् ॥ १.१४ ॥
evaṃ vidhe maṭhe sthitvā sarvacintāvivarjitaḥ . gurūpadiṣṭamārgeṇa yogaṃ eva samabhyaset .. 1.14 ..
अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः । जनसङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति ॥ १.१५ ॥
atyāhāraḥ prayāsaśca prajalpo niyamāgrahaḥ . janasaṅgaśca laulyaṃ ca ṣaḍbhiryogo vinaśyati .. 1.15 ..
उत्साहात्साहसाद्धैर्यात्तत्त्वज्ञानाश्च निश्चयात् । जनसङ्गपरित्यागात्षड्भिर्योगः प्रसिद्ध्यति ॥ १.१६ ॥
utsāhātsāhasāddhairyāttattvajñānāśca niścayāt . janasaṅgaparityāgātṣaḍbhiryogaḥ prasiddhyati .. 1.16 ..
अथ यमनियमाः
अहिंसा सत्यं अस्तेयं ब्रह्मचर्यं क्षमा धृतिः । दयार्जवं मिताहारः शौचं चैव यमा दश ॥ १.१७ ॥
ahiṃsā satyaṃ asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ . dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa .. 1.17 ..
तपः सन्तोष आस्तिक्यं दानं ईश्वरपूजनम् । सिद्धान्तवाक्यश्रवणं ह्रीमती च तपो हुतम् । नियमा दश सम्प्रोक्ता योगशास्त्रविशारदैः ॥ १.१८ ॥
tapaḥ santoṣa āstikyaṃ dānaṃ īśvarapūjanam . siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam . niyamā daśa samproktā yogaśāstraviśāradaiḥ .. 1.18 ..
अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वं उच्यते । कुर्यात्तदासनं स्थैर्यं आरोग्यं चाङ्गलाघवम् ॥ १.१९ ॥
haṭhasya prathamāṅgatvādāsanaṃ pūrvaṃ ucyate . kuryāttadāsanaṃ sthairyaṃ ārogyaṃ cāṅgalāghavam .. 1.19 ..
वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः । अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया ॥ १.२० ॥
vaśiṣṭhādyaiśca munibhirmatsyendrādyaiśca yogibhiḥ . aṅgīkṛtānyāsanāni kathyante kānicinmayā .. 1.20 ..
जानूर्वोरन्तरे सम्यक्कृत्वा पादतले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते ॥ १.२१ ॥
jānūrvorantare samyakkṛtvā pādatale ubhe . ṛjukāyaḥ samāsīnaḥ svastikaṃ tatpracakṣate .. 1.21 ..
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् । दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः ॥ १.२२ ॥
savye dakṣiṇagulphaṃ tu pṛṣṭhapārśve niyojayet . dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ .. 1.22 ..
एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम् । इतरस्मिंस्तथा चोरुं वीरासनं इतीरितम् ॥ १.२३ ॥
ekaṃ pādaṃ tathaikasminvinyaseduruṇi sthiram . itarasmiṃstathā coruṃ vīrāsanaṃ itīritam .. 1.23 ..
गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः । कूर्मासनं भवेदेतदिति योगविदो विदुः ॥ १.२४ ॥
gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ . kūrmāsanaṃ bhavedetaditi yogavido viduḥ .. 1.24 ..
पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ । निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम् ॥ १.२५ ॥
padmāsanaṃ tu saṃsthāpya jānūrvorantare karau . niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam .. 1.25 ..
कुक्कुटासनबन्धस्थो दोर्भ्यां सम्बद्य कन्धराम् । भवेद्कूर्मवदुत्तान एतदुत्तानकूर्मकम् ॥ १.२६ ॥
kukkuṭāsanabandhastho dorbhyāṃ sambadya kandharām . bhavedkūrmavaduttāna etaduttānakūrmakam .. 1.26 ..
पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि । धनुराकर्षणं कुर्याद्धनुरासनं उच्यते ॥ १.२७ ॥
pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi . dhanurākarṣaṇaṃ kuryāddhanurāsanaṃ ucyate .. 1.27 ..
वामोरुमूलार्पितदक्षपादंजानोर्बहिर्वेष्टितवामपादम् । प्रगृह्य तिष्ठेत्परिवर्तिताङ्गःश्रीमत्य्सनाथोदितं आसनं स्यात् ॥ १.२८ ॥
vāmorumūlārpitadakṣapādaṃjānorbahirveṣṭitavāmapādam . pragṛhya tiṣṭhetparivartitāṅgaḥśrīmatysanāthoditaṃ āsanaṃ syāt .. 1.28 ..
मत्स्येन्द्रपीठं जठरप्रदीप्तिंप्रचण्डरुग्मण्डलखण्डनास्त्रम् । अभ्यासतः कुण्डलिनीप्रबोधंचन्द्रस्थिरत्वं च ददाति पुंसाम् ॥ १.२९ ॥
matsyendrapīṭhaṃ jaṭharapradīptiṃpracaṇḍarugmaṇḍalakhaṇḍanāstram . abhyāsataḥ kuṇḍalinīprabodhaṃcandrasthiratvaṃ ca dadāti puṃsām .. 1.29 ..
प्रसार्य पादौ भुवि दण्डरूपौदोर्भ्यां पदाग्रद्वितयं गृहीत्वा । जानूपरिन्यस्तललाटदेशोवसेदिदं पश्चिमतानं आहुः ॥ १.३० ॥
prasārya pādau bhuvi daṇḍarūpaudorbhyāṃ padāgradvitayaṃ gṛhītvā . jānūparinyastalalāṭadeśovasedidaṃ paścimatānaṃ āhuḥ .. 1.30 ..
इति पश्चिमतानं आसनाग्र्यंपवनं पश्चिमवाहिनं करोति । उदयं जठरानलस्य कुर्याद्उदरे कार्श्यं अरोगतां च पुंसाम् ॥ १.३१ ॥
iti paścimatānaṃ āsanāgryaṃpavanaṃ paścimavāhinaṃ karoti . udayaṃ jaṭharānalasya kuryādudare kārśyaṃ arogatāṃ ca puṃsām .. 1.31 ..
धरां अवष्टभ्य करद्वयेनतत्कूर्परस्थापितनाभिपार्श्वः । उच्चासनो दण्डवदुत्थितः खेमायूरं एतत्प्रवदन्ति पीठम् ॥ १.३२ ॥
dharāṃ avaṣṭabhya karadvayenatatkūrparasthāpitanābhipārśvaḥ . uccāsano daṇḍavadutthitaḥ khemāyūraṃ etatpravadanti pīṭham .. 1.32 ..
हरति सकलरोगानाशु गुल्मोदरादीन्अभिभवति च दोषानासनं श्रीमयूरम् । बहु कदशनभुक्तं भस्म कुर्यादशेषंजनयति जठराग्निं जारयेत्कालकूटम् ॥ १.३३ ॥
harati sakalarogānāśu gulmodarādīnabhibhavati ca doṣānāsanaṃ śrīmayūram . bahu kadaśanabhuktaṃ bhasma kuryādaśeṣaṃjanayati jaṭharāgniṃ jārayetkālakūṭam .. 1.33 ..
उत्तानं शबवद्भूमौ शयनं तच्छवासनम् । शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम् ॥ १.३४ ॥
uttānaṃ śabavadbhūmau śayanaṃ tacchavāsanam . śavāsanaṃ śrāntiharaṃ cittaviśrāntikārakam .. 1.34 ..
चतुरशीत्यासनानि शिवेन कथितानि च । तेभ्यश्चतुष्कं आदाय सारभूतं ब्रवीम्यहम् ॥ १.३५ ॥
caturaśītyāsanāni śivena kathitāni ca . tebhyaścatuṣkaṃ ādāya sārabhūtaṃ bravīmyaham .. 1.35 ..
सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् । श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा ॥ १.३६ ॥
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam . śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhetsiddhāsane sadā .. 1.36 ..
अथ सिद्धासनम्
योनिस्थानकं अङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेत्मेण्ढ्रे पादं अथैकं एव हृदये कृत्वा हनुं सुस्थिरम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद्भ्रुवोरन्तरंह्येतन्मोक्षकपाटभेदजनकं सिद्धासनं प्रोच्यते ॥ १.३७ ॥
yonisthānakaṃ aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasetmeṇḍhre pādaṃ athaikaṃ eva hṛdaye kṛtvā hanuṃ susthiram . sthāṇuḥ saṃyamitendriyo'caladṛśā paśyedbhruvorantaraṃhyetanmokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate .. 1.37 ..
मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि । गुल्फान्तरं च निक्षिप्य सिद्धासनं इदं भवेत् ॥ १.३८ ॥
meṇḍhrādupari vinyasya savyaṃ gulphaṃ tathopari . gulphāntaraṃ ca nikṣipya siddhāsanaṃ idaṃ bhavet .. 1.38 ..
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः । मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे ॥ १.३९ ॥
etatsiddhāsanaṃ prāhuranye vajrāsanaṃ viduḥ . muktāsanaṃ vadantyeke prāhurguptāsanaṃ pare .. 1.39 ..
यमेष्विव मिताहारं अहिंसा नियमेष्विव । मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः ॥ १.४० ॥
yameṣviva mitāhāraṃ ahiṃsā niyameṣviva . mukhyaṃ sarvāsaneṣvekaṃ siddhāḥ siddhāsanaṃ viduḥ .. 1.40 ..
चतुरशीतिपीठेषु सिद्धं एव सदाभ्यसेत् । द्वासप्ततिसहस्राणां नाडीनां मलशोधनम् ॥ १.४१ ॥
caturaśītipīṭheṣu siddhaṃ eva sadābhyaset . dvāsaptatisahasrāṇāṃ nāḍīnāṃ malaśodhanam .. 1.41 ..
आत्मध्यायी मिताहारी यावद्द्वादशवत्सरम् । सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिं आप्नुयात् ॥ १.४२ ॥
ātmadhyāyī mitāhārī yāvaddvādaśavatsaram . sadā siddhāsanābhyāsādyogī niṣpattiṃ āpnuyāt .. 1.42 ..
किं अन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति । प्राणानिले सावधाने बद्धे केवलकुम्भके । उत्पद्यते निरायासात्स्वयं एवोन्मनी कला ॥ १.४३ ॥
kiṃ anyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati . prāṇānile sāvadhāne baddhe kevalakumbhake . utpadyate nirāyāsātsvayaṃ evonmanī kalā .. 1.43 ..
तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति । बन्धत्रयं अनायासात्स्वयं एवोपजायते ॥ १.४४ ॥
tathaikāsminneva dṛḍhe siddhe siddhāsane sati . bandhatrayaṃ anāyāsātsvayaṃ evopajāyate .. 1.44 ..
नासनं सिद्धसदृशं न कुम्भः केवलोपमः । न खेचरीसमा मुद्रा न नादसदृशो लयः ॥ १.४५ ॥
nāsanaṃ siddhasadṛśaṃ na kumbhaḥ kevalopamaḥ . na khecarīsamā mudrā na nādasadṛśo layaḥ .. 1.45 ..
अथ पद्मासनम्
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथादक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् । अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रं आलोकयेत्एतद्व्याधिविनाशकारि यमिनां पद्मासनं प्रोच्यते ॥ १.४६ ॥
vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathādakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham . aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgraṃ ālokayetetadvyādhivināśakāri yamināṃ padmāsanaṃ procyate .. 1.46 ..
उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः । ऊरुमध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ ॥ १.४७ ॥
uttānau caraṇau kṛtvā ūrusaṃsthau prayatnataḥ . ūrumadhye tathottānau pāṇī kṛtvā tato dṛśau .. 1.47 ..
नासाग्रे विन्यसेद्राजदन्तमूले तु जिह्वया । उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य्पवनं शनैः ॥ १.४८ ॥
nāsāgre vinyasedrājadantamūle tu jihvayā . uttambhya cibukaṃ vakṣasyutthāpypavanaṃ śanaiḥ .. 1.48 ..
इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम् । दुर्लभं येन केनापि धीमता लभ्यते भुवि ॥ १.४९ ॥
idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam . durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi .. 1.49 ..
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनंगाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि । वारं वारं अपानं ऊर्ध्वं अनिलं प्रोत्सारयन्पूरितंन्यञ्चन्प्राणं उपैति बोधं अतुलं शक्तिप्रभावान्नरः ॥ १.५० ॥
kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃgāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyāyaṃśca taccetasi . vāraṃ vāraṃ apānaṃ ūrdhvaṃ anilaṃ protsārayanpūritaṃnyañcanprāṇaṃ upaiti bodhaṃ atulaṃ śaktiprabhāvānnaraḥ .. 1.50 ..
पद्मासने स्थितो योगी नाडीद्वारेण पूरितम् । मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः ॥ १.५१ ॥
padmāsane sthito yogī nāḍīdvāreṇa pūritam . mārutaṃ dhārayedyastu sa mukto nātra saṃśayaḥ .. 1.51 ..
अथ सिंहासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ॥ १.५२ ॥
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet . dakṣiṇe savyagulphaṃ tu dakṣagulphaṃ tu savyake .. 1.52 ..
हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च । व्यात्तवक्त्रो निरीक्षेत नासाग्रं सुसमाहितः ॥ १.५३ ॥
hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca . vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ .. 1.53 ..
सिंहासनं भवेदेतत्पूजितं योगिपुङ्गवैः । बन्धत्रितयसन्धानं कुरुते चासनोत्तमम् ॥ १.५४ ॥
siṃhāsanaṃ bhavedetatpūjitaṃ yogipuṅgavaiḥ . bandhatritayasandhānaṃ kurute cāsanottamam .. 1.54 ..
अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते । सव्यगुल्फं तथा सव्ये दक्षगुल्फं तु दक्षिणे ॥ १.५५ ॥
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte . savyagulphaṃ tathā savye dakṣagulphaṃ tu dakṣiṇe .. 1.55 ..
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् । भद्रासनं भवेदेतत्सर्वव्याधिविनाशनम् । गोरक्षासनं इत्याहुरिदं वै सिद्धयोगिनः ॥ १.५६ ॥
pārśvapādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam . bhadrāsanaṃ bhavedetatsarvavyādhivināśanam . gorakṣāsanaṃ ityāhuridaṃ vai siddhayoginaḥ .. 1.56 ..
एवं आसनबन्धेषु योगीन्द्रो विगतश्रमः । अभ्यसेन्नाडिकाशुद्धिं मुद्रादिपवनीक्रियाम् ॥ १.५७ ॥
evaṃ āsanabandheṣu yogīndro vigataśramaḥ . abhyasennāḍikāśuddhiṃ mudrādipavanīkriyām .. 1.57 ..
आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा । अथ नादानुसन्धानं अभ्यासानुक्रमो हठे ॥ १.५८ ॥
āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā . atha nādānusandhānaṃ abhyāsānukramo haṭhe .. 1.58 ..
ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ १.५९ ॥
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ . abdādūrdhvaṃ bhavetsiddho nātra kāryā vicāraṇā .. 1.59 ..
सुस्निग्धमधुराहारश्चतुर्थांशविवर्जितः । भुज्यते शिवसम्प्रीत्यै मिताहारः स उच्यते ॥ १.६० ॥
susnigdhamadhurāhāraścaturthāṃśavivarjitaḥ . bhujyate śivasamprītyai mitāhāraḥ sa ucyate .. 1.60 ..
कट्वाम्लतीक्ष्णलवणोष्णहरीतशाकसौवीरतैलतिलसर्षपमद्यमत्स्यान् । आजादिमांसदधितक्रकुलत्थकोलपिण्याकहिङ्गुलशुनाद्यं अपथ्यं आहुः ॥ १.६१ ॥
kaṭvāmlatīkṣṇalavaṇoṣṇaharītaśākasauvīratailatilasarṣapamadyamatsyān . ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyaṃ apathyaṃ āhuḥ .. 1.61 ..
भोजनं अहितं विद्यात्पुनरस्योष्णीकृतं रूक्षम् । अतिलवणं अम्लयुक्तं कदशनशाकोत्कं वर्ज्यम् ॥ १.६२ ॥
bhojanaṃ ahitaṃ vidyātpunarasyoṣṇīkṛtaṃ rūkṣam . atilavaṇaṃ amlayuktaṃ kadaśanaśākotkaṃ varjyam .. 1.62 ..
वह्निस्त्रीपथिसेवानां आदौ वर्जनं आचरेत् ॥ १.६३ ॥
vahnistrīpathisevānāṃ ādau varjanaṃ ācaret .. 1.63 ..
तथा हि गोरक्षवचनम्
वर्जयेद्दुर्जनप्रान्तं वह्निस्त्रीपथिसेवनम् । प्रातःस्नानोपवासादि कायक्लेशविधिं तथा ॥ १.६४ ॥
varjayeddurjanaprāntaṃ vahnistrīpathisevanam . prātaḥsnānopavāsādi kāyakleśavidhiṃ tathā .. 1.64 ..
गोधूमशालियवषाष्टिकशोभनान्नंक्षीराज्यखण्डनवनीतसिद्धामधूनि । शुण्ठीपटोलकफलादिकपञ्चशाकंमुद्गादिदिव्यं उदकं च यमीन्द्रपथ्यम् ॥ १.६५ ॥
godhūmaśāliyavaṣāṣṭikaśobhanānnaṃkṣīrājyakhaṇḍanavanītasiddhāmadhūni . śuṇṭhīpaṭolakaphalādikapañcaśākaṃmudgādidivyaṃ udakaṃ ca yamīndrapathyam .. 1.65 ..
पुष्टं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् । मनोभिलषितं योग्यं योगी भोजनं आचरेत् ॥ १.६६ ॥
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātuprapoṣaṇam . manobhilaṣitaṃ yogyaṃ yogī bhojanaṃ ācaret .. 1.66 ..
युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा । अभ्यासात्सिद्धिं आप्नोति सर्वयोगेष्वतन्द्रितः ॥ १.६७ ॥
yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā . abhyāsātsiddhiṃ āpnoti sarvayogeṣvatandritaḥ .. 1.67 ..
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । न शास्त्रपाठमात्रेण योगसिद्धिः प्रजायते ॥ १.६८ ॥
kriyāyuktasya siddhiḥ syādakriyasya kathaṃ bhavet . na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate .. 1.68 ..
न वेषधारणं सिद्धेः कारणं न च तत्कथा । क्रियैव कारणं सिद्धेः सत्यं एतन्न संशयः ॥ १.६९ ॥
na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā . kriyaiva kāraṇaṃ siddheḥ satyaṃ etanna saṃśayaḥ .. 1.69 ..
पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च । सर्वाण्यपि हठाभ्यासे राजयोगफलावधि ॥ १.७० ॥
pīṭhāni kumbhakāścitrā divyāni karaṇāni ca . sarvāṇyapi haṭhābhyāse rājayogaphalāvadhi .. 1.70 ..
इति हठप्रदीपिकायां प्रथमोपदेशः ।
iti haṭhapradīpikāyāṃ prathamopadeśaḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In