| |
|

This overlay will guide you through the buttons:

निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥
निःसालाम् धृष्णुम् धिषणम् एकवाद्याम् जिघत्स्वम् ।सर्वाः चण्डस्य नप्त्यः नाशयामः सदान्वाः ॥१॥
niḥsālām dhṛṣṇum dhiṣaṇam ekavādyām jighatsvam .sarvāḥ caṇḍasya naptyaḥ nāśayāmaḥ sadānvāḥ ..1..

निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥
निः वः गोष्ठात् अजामसि निरक्षात् निरुपानशात्।निः वः मगुन्द्याः दुहितरः गृहेभ्यः चातयामहे ॥२॥
niḥ vaḥ goṣṭhāt ajāmasi nirakṣāt nirupānaśāt.niḥ vaḥ magundyāḥ duhitaraḥ gṛhebhyaḥ cātayāmahe ..2..

असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥
असौ यः अधरात् गृहः तत्र सन्तु अराय्यः ।तत्र सेदिः न्युच्यतु सर्वाः च यातुधान्यः ॥३॥
asau yaḥ adharāt gṛhaḥ tatra santu arāyyaḥ .tatra sediḥ nyucyatu sarvāḥ ca yātudhānyaḥ ..3..

भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥
भूतपतिः निरजतु इन्द्रः च इतस् सदान्वाः ।गृहस्य बुध्ने आसीनाः ताः इन्द्रः वज्रेण अधि तिष्ठतु ॥४॥
bhūtapatiḥ nirajatu indraḥ ca itas sadānvāḥ .gṛhasya budhne āsīnāḥ tāḥ indraḥ vajreṇa adhi tiṣṭhatu ..4..

यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥
यदि स्थ क्षेत्रियाणाम् यदि वा पुरुष-इषिताः ।यदि स्थ दस्युभ्यः जाताः नश्यत इतस् सदान्वाः ॥५॥
yadi stha kṣetriyāṇām yadi vā puruṣa-iṣitāḥ .yadi stha dasyubhyaḥ jātāḥ naśyata itas sadānvāḥ ..5..

परि धामान्यासामाशुर्गाष्ठामिवासरम् ।अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥
परि धामानि आसाम् आशुः गाष्ठ-अमि-वासरम् ।अजैषम् सर्वान् आजीन् वः नश्यत इतस् सदान्वाः ॥६॥
pari dhāmāni āsām āśuḥ gāṣṭha-ami-vāsaram .ajaiṣam sarvān ājīn vaḥ naśyata itas sadānvāḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In