| |
|

This overlay will guide you through the buttons:

वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥१॥
वनोति हि सुन्वन् क्षयम् परीणसः सुन्वानः हि स्म यजति अव द्विषः देवानाम् अव द्विषः ।सुन्वानः इद् सिषासति सहस्रा वा आज्य-वृतः ।सुन्वानाय इन्द्रः ददाति आभुवम् रयिम् ददाति आभुवम् ॥१॥
vanoti hi sunvan kṣayam parīṇasaḥ sunvānaḥ hi sma yajati ava dviṣaḥ devānām ava dviṣaḥ .sunvānaḥ id siṣāsati sahasrā vā ājya-vṛtaḥ .sunvānāya indraḥ dadāti ābhuvam rayim dadāti ābhuvam ..1..

मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।अस्मासु तन् मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥२॥
मा उ सु वः अस्मत् अभि तानि पौंस्या सना भूवन् द्युम्नानि मा उत जारिषुः अस्मत् पुरा उत जारिषुः ।यत् वः चित्रम् युगे युगे नव्यम् घोषात् अमर्त्यम् ।अस्मासु तत् मरुतः यत् च दुष्टरम् दिधृत यत् च दुष्टरम् ॥२॥
mā u su vaḥ asmat abhi tāni pauṃsyā sanā bhūvan dyumnāni mā uta jāriṣuḥ asmat purā uta jāriṣuḥ .yat vaḥ citram yuge yuge navyam ghoṣāt amartyam .asmāsu tat marutaḥ yat ca duṣṭaram didhṛta yat ca duṣṭaram ..2..

अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥३॥
अग्निम् होतारम् मन्ये दास्वन्तम् वसुम् सूनुम् सहसः जातवेदसम् विप्रम् न जातवेदसम् ।यः ऊर्ध्वया सु अध्वरः देवः देवाच्या कृपा ।घृतस्य विभ्राष्टिम् अनु वष्टि शोचिषा आ जुह्वानस्य सर्पिषः ॥३॥
agnim hotāram manye dāsvantam vasum sūnum sahasaḥ jātavedasam vipram na jātavedasam .yaḥ ūrdhvayā su adhvaraḥ devaḥ devācyā kṛpā .ghṛtasya vibhrāṣṭim anu vaṣṭi śociṣā ā juhvānasya sarpiṣaḥ ..3..

यज्ञैः संमिश्लाः पृषतीभिर्ऋष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत ।आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥४॥
यज्ञैः संमिश्लाः पृषतीभिः ऋष्टिभिः यामम् शुभ्रासः अञ्जिषु प्रियाः उत ।आसद्य बर्हिः भरतस्य सूनवः पोत्रात् आ सोमम् पिबत दिवः नरः ॥४॥
yajñaiḥ saṃmiślāḥ pṛṣatībhiḥ ṛṣṭibhiḥ yāmam śubhrāsaḥ añjiṣu priyāḥ uta .āsadya barhiḥ bharatasya sūnavaḥ potrāt ā somam pibata divaḥ naraḥ ..4..

आ वक्षि देवामिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु ।प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृस्णुहि ॥५॥
आ वक्षि देवाम् इह विप्र यक्षि च उशन् होतर् नि सदा योनिषु त्रिषु ।प्रति वीहि प्रस्थितम् सोम्यम् मधु पिब आग्नीध्रात् तव भागस्य तृस्णुहि ॥५॥
ā vakṣi devām iha vipra yakṣi ca uśan hotar ni sadā yoniṣu triṣu .prati vīhi prasthitam somyam madhu piba āgnīdhrāt tava bhāgasya tṛsṇuhi ..5..

एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥६॥
एष स्य ते तन्वः नृम्ण-वर्धनः सहः ओजः प्रदिवि बाह्वोः हितः ।तुभ्यम् सुतः मघवन् तुभ्यम् आभृतः त्वम् अस्य ब्राह्मणात् आ तृपत् पिब ॥६॥
eṣa sya te tanvaḥ nṛmṇa-vardhanaḥ sahaḥ ojaḥ pradivi bāhvoḥ hitaḥ .tubhyam sutaḥ maghavan tubhyam ābhṛtaḥ tvam asya brāhmaṇāt ā tṛpat piba ..6..

यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥७॥
यमु पूर्वम् अहुवे तम् इदम् हुवे सेदु हव्यः ददिः यः नाम पत्यते ।अध्वर्युभिः प्रस्थितम् सोम्यम् मधु पोत्रात् सोमम् द्रविणः-दः पिब ऋतुभिः ॥७॥
yamu pūrvam ahuve tam idam huve sedu havyaḥ dadiḥ yaḥ nāma patyate .adhvaryubhiḥ prasthitam somyam madhu potrāt somam draviṇaḥ-daḥ piba ṛtubhiḥ ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In