| |
|

This overlay will guide you through the buttons:

अथ त्रयोदशोऽध्यायः ।
अथ त्रयोदशः अध्यायः ।
atha trayodaśaḥ adhyāyaḥ .
Thus begins the thirteenth chapter of the holy Srimad Bhagavada Gita.
अर्जुन उवाच / arjuna uvacha
प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च । एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ॥ 1 ॥
प्रकृतिम् पुरुषम् च एव क्षेत्रम् क्षेत्रज्ञम् एव च । एतत् वेदितुम् इच्छामि ज्ञानम् ज्ञेयम् च केशव ॥ १ ॥
prakṛtim puruṣam ca eva kṣetram kṣetrajñam eva ca . etat veditum icchāmi jñānam jñeyam ca keśava .. 1 ..
Arjuna said: O my dear Krsna, I wish to know about prakrti [nature], purusa [the enjoyer], and the field and the knower of the field, and of knowledge and the object of knowledge.
श्रीभगवानुवाच । / sribhagavanuvacha ।
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 2 ॥
इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते । एतत् यः वेत्ति तम् प्राहुः क्षेत्रज्ञः इति तद्-विदः ॥ २ ॥
idam śarīram kaunteya kṣetram iti abhidhīyate . etat yaḥ vetti tam prāhuḥ kṣetrajñaḥ iti tad-vidaḥ .. 2 ..
The Supreme Personality of Godhead said: This body, O son of Kunti, is called the field, and one who knows this body is called the knower of the field.
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 3 ॥
क्षेत्रज्ञम् च अपि माम् विद्धि सर्व-क्षेत्रेषु भारत । क्षेत्र-क्षेत्रज्ञयोः ज्ञानम् यत् तत् ज्ञानम् मतम् मम ॥ ३ ॥
kṣetrajñam ca api mām viddhi sarva-kṣetreṣu bhārata . kṣetra-kṣetrajñayoḥ jñānam yat tat jñānam matam mama .. 3 ..
O scion of Bharata, you should understand that I am also the knower in all bodies, and to understand this body and its knower is called knowledge. That is My opinion.
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥ 4 ॥
तत् क्षेत्रम् यत् च यादृश् च यत् विकारि यतस् च यत् । स च यः यद्-प्रभावः च तत् समासेन मे शृणु ॥ ४ ॥
tat kṣetram yat ca yādṛś ca yat vikāri yatas ca yat . sa ca yaḥ yad-prabhāvaḥ ca tat samāsena me śṛṇu .. 4 ..
Now please hear My brief description of this field of activity and how it is constituted, what its changes are, whence it is produced, who that knower of the field of activities is, and what his influences are.
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् । ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥ 5 ॥
ऋषिभिः बहुधा गीतम् छन्दोभिः विविधैः पृथक् । ब्रह्मसूत्र-पदैः च एव हेतुमद्भिः विनिश्चितैः ॥ ५ ॥
ṛṣibhiḥ bahudhā gītam chandobhiḥ vividhaiḥ pṛthak . brahmasūtra-padaiḥ ca eva hetumadbhiḥ viniścitaiḥ .. 5 ..
That knowledge of the field of activities and of the knower of activities is described by various sages in various Vedic writings. It is especially presented in Vedanta-sutra with all reasoning as to cause and effect.
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च । इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ॥ 6 ॥ इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः । एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥ 7 ॥
महाभूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च । इन्द्रियाणि दश एकम् च पञ्च च इन्द्रिय-गोचराः ॥ ६ ॥ इच्छा द्वेषः सुखम् दुःखम् सङ्घातः चेतना धृतिः । एतत् क्षेत्रम् समासेन स विकारम् उदाहृतम् ॥ ७ ॥
mahābhūtāni ahaṅkāraḥ buddhiḥ avyaktam eva ca . indriyāṇi daśa ekam ca pañca ca indriya-gocarāḥ .. 6 .. icchā dveṣaḥ sukham duḥkham saṅghātaḥ cetanā dhṛtiḥ . etat kṣetram samāsena sa vikāram udāhṛtam .. 7 ..
The five great elements, false ego, intelligence, the unmanifested, the ten senses and the mind, the five sense objects, desire, hatred, happiness, distress, the aggregate, the life symptoms, and convictions – all these are considered, in summary, to be the field of activities and its interactions.
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ 8 ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ॥ 9 ॥ असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु । नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ 10 ॥ मयि चानन्ययोगेन भक्तिरव्यभिचारिणी । विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ 11 ॥ अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ 12 ॥
अमानि-त्वम् अदम्भि-त्वम् अहिंसा क्षान्तिः आर्जवम् । आचार्य-उपासनम् शौचम् स्थैर्यम् आत्म-विनिग्रहः ॥ ८ ॥ इन्द्रिय-अर्थेषु वैराग्यम् अनहङ्कारः एव च । जन्म-मृत्यु-जरा-व्याधि-दुःख-दोष-अनुदर्शनम् ॥ ९ ॥ असक्तिः अनभिष्वङ्गः पुत्र-दार-गृह-आदिषु । नित्यम् च सम-चित्त-त्वम् इष्ट-अनिष्ट-उपपत्तिषु ॥ १० ॥ मयि च अन् अन्य-योगेन भक्तिः अव्यभिचारिणी । विविक्त-देश-सेवि-त्वम् अरतिः जन-संसदि ॥ ११ ॥ अध्यात्म-ज्ञान-नित्य-त्वम् तत्त्व-ज्ञान-अर्थ-दर्शनम् । एतत् ज्ञानम् इति प्रोक्तम् अज्ञानम् यत् अतस् अन्यथा ॥ १२ ॥
amāni-tvam adambhi-tvam ahiṃsā kṣāntiḥ ārjavam . ācārya-upāsanam śaucam sthairyam ātma-vinigrahaḥ .. 8 .. indriya-artheṣu vairāgyam anahaṅkāraḥ eva ca . janma-mṛtyu-jarā-vyādhi-duḥkha-doṣa-anudarśanam .. 9 .. asaktiḥ anabhiṣvaṅgaḥ putra-dāra-gṛha-ādiṣu . nityam ca sama-citta-tvam iṣṭa-aniṣṭa-upapattiṣu .. 10 .. mayi ca an anya-yogena bhaktiḥ avyabhicāriṇī . vivikta-deśa-sevi-tvam aratiḥ jana-saṃsadi .. 11 .. adhyātma-jñāna-nitya-tvam tattva-jñāna-artha-darśanam . etat jñānam iti proktam ajñānam yat atas anyathā .. 12 ..
Humility; pridelessness; nonviolence; tolerance; simplicity; approaching a bona fide spiritual master; cleanliness; steadiness; self-control; renunciation of the objects of sense gratification; absence of false ego; the perception of the evil of birth, death, old age and disease; detachment; freedom from entanglement with children, wife, home and the rest; even-mindedness amid pleasant and unpleasant events; constant and unalloyed devotion to Me; aspiring to live in a solitary place; detachment from the general mass of people; accepting the importance of self-realization; and philosophical search for the Absolute Truth – all these I declare to be knowledge, and besides this whatever there may be is ignorance.
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते । अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ॥ 13 ॥
ज्ञेयम् यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते । अनादिमत् परम् ब्रह्म न सत् तत् न असत् उच्यते ॥ १३ ॥
jñeyam yat tat pravakṣyāmi yat jñātvā amṛtam aśnute . anādimat param brahma na sat tat na asat ucyate .. 13 ..
I shall now explain the knowable, knowing which you will taste the eternal. Brahman, the spirit, beginningless and subordinate to Me, lies beyond the cause and effect of this material world.
सर्वतःपाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ 14 ॥
सर्वतस् पाणि-पादम् तत् सर्वतस् अक्षि-शिरः-मुखम् । सर्वतस् श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति ॥ १४ ॥
sarvatas pāṇi-pādam tat sarvatas akṣi-śiraḥ-mukham . sarvatas śrutimat loke sarvam āvṛtya tiṣṭhati .. 14 ..
Everywhere are His hands and legs, His eyes, heads and faces, and He has ears everywhere. In this way the Supersoul exists, pervading everything.
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ॥ 15 ॥
सर्व-इन्द्रिय-गुण-आभासम् सर्व-इन्द्रिय-विवर्जितम् । असक्तम् सर्व-भृत् च एव निर्गुणम् गुण-भोक्तृ च ॥ १५ ॥
sarva-indriya-guṇa-ābhāsam sarva-indriya-vivarjitam . asaktam sarva-bhṛt ca eva nirguṇam guṇa-bhoktṛ ca .. 15 ..
The Supersoul is the original source of all senses, yet He is without senses. He is unattached, although He is the maintainer of all living beings. He transcends the modes of nature, and at the same time He is the master of all the modes of material nature.
बहिरन्तश्च भूतानामचरं चरमेव च । सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥ 16 ॥
बहिस् अन्तर् च भूतानाम् अचरम् चरम् एव च । सूक्ष्म-त्वात् तत् अविज्ञेयम् दूर-स्थम् च अन्तिके च तत् ॥ १६ ॥
bahis antar ca bhūtānām acaram caram eva ca . sūkṣma-tvāt tat avijñeyam dūra-stham ca antike ca tat .. 16 ..
The Supreme Truth exists outside and inside of all living beings, the moving and the nonmoving. Because He is subtle, He is beyond the power of the material senses to see or to know. Although far, far away, He is also near to all.
अविभक्तं च भूतेषु विभक्तमिव च स्थितम् । भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ॥ 17 ॥
अविभक्तम् च भूतेषु विभक्तम् इव च स्थितम् । भूत-भर्तृ च तत् ज्ञेयम् ग्रसिष्णु प्रभविष्णु च ॥ १७ ॥
avibhaktam ca bhūteṣu vibhaktam iva ca sthitam . bhūta-bhartṛ ca tat jñeyam grasiṣṇu prabhaviṣṇu ca .. 17 ..
Although the Supersoul appears to be divided among all beings, He is never divided. He is situated as one. Although He is the maintainer of every living entity, it is to be understood that He devours and develops all.
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते । ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥ 18 ॥
ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते । ज्ञानम् ज्ञेयम् ज्ञान-गम्यम् हृदि सर्वस्य विष्ठितम् ॥ १८ ॥
jyotiṣām api tat jyotiḥ tamasaḥ param ucyate . jñānam jñeyam jñāna-gamyam hṛdi sarvasya viṣṭhitam .. 18 ..
He is the source of light in all luminous objects. He is beyond the darkness of matter and is unmanifested. He is knowledge, He is the object of knowledge, and He is the goal of knowledge. He is situated in everyone’s heart.
इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः । मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥ 19 ॥
इति क्षेत्रम् तथा ज्ञानम् ज्ञेयम् च उक्तम् समासतस् । मद्-भक्तः एतत् विज्ञाय मद्-भावाय उपपद्यते ॥ १९ ॥
iti kṣetram tathā jñānam jñeyam ca uktam samāsatas . mad-bhaktaḥ etat vijñāya mad-bhāvāya upapadyate .. 19 ..
Thus the field of activities [the body], knowledge and the knowable have been summarily described by Me. Only My devotees can understand this thoroughly and thus attain to My nature.
प्रकृतिं पुरुषं चैव विद्ध्यनादि उभावपि । विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ॥ 20 ॥
प्रकृतिम् पुरुषम् च एव विद्धि अनादि उभौ अपि । विकारान् च गुणान् च एव विद्धि प्रकृति-सम्भवान् ॥ २० ॥
prakṛtim puruṣam ca eva viddhi anādi ubhau api . vikārān ca guṇān ca eva viddhi prakṛti-sambhavān .. 20 ..
Material nature and the living entities should be understood to be beginningless. Their transformations and the modes of matter are products of material nature.
कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ॥ 21 ॥
कार्य-कारण-कर्तृ-त्वे हेतुः प्रकृतिः उच्यते । पुरुषः सुख-दुःखानाम् भोक्तृ-त्वे हेतुः उच्यते ॥ २१ ॥
kārya-kāraṇa-kartṛ-tve hetuḥ prakṛtiḥ ucyate . puruṣaḥ sukha-duḥkhānām bhoktṛ-tve hetuḥ ucyate .. 21 ..
Nature is said to be the cause of all material causes and effects, whereas the living entity is the cause of the various sufferings and enjoyments in this world.
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ॥ 22 ॥
पुरुषः प्रकृति-स्थः हि भुङ्क्ते प्रकृति-जान् गुणान् । कारणम् गुण-सङ्गः अस्य सत्-असत्-योनि-जन्मसु ॥ २२ ॥
puruṣaḥ prakṛti-sthaḥ hi bhuṅkte prakṛti-jān guṇān . kāraṇam guṇa-saṅgaḥ asya sat-asat-yoni-janmasu .. 22 ..
The living entity in material nature thus follows the ways of life, enjoying the three modes of nature. This is due to his association with that material nature. Thus he meets with good and evil among various species.
उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ॥ 23 ॥
उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः । परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः ॥ २३ ॥
upadraṣṭā anumantā ca bhartā bhoktā maheśvaraḥ . paramātmā iti ca api uktaḥ dehe asmin puruṣaḥ paraḥ .. 23 ..
Yet in this body there is another, a transcendental enjoyer, who is the Lord, the supreme proprietor, who exists as the overseer and permitter, and who is known as the Supersoul.
य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह । सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ 24 ॥
यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह । सर्वथा वर्तमानः अपि न स भूयस् अभिजायते ॥ २४ ॥
yaḥ evam vetti puruṣam prakṛtim ca guṇaiḥ saha . sarvathā vartamānaḥ api na sa bhūyas abhijāyate .. 24 ..
One who understands this philosophy concerning material nature, the living entity and the interaction of the modes of nature is sure to attain liberation. He will not take birth here again, regardless of his present position.
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना । अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥ 25 ॥
ध्यानेन आत्मनि पश्यन्ति केचिद् आत्मानम् आत्मना । अन्ये साङ्ख्येन योगेन कर्म-योगेन च अपरे ॥ २५ ॥
dhyānena ātmani paśyanti kecid ātmānam ātmanā . anye sāṅkhyena yogena karma-yogena ca apare .. 25 ..
Some perceive the Supersoul within themselves through meditation, others through the cultivation of knowledge, and still others through working without fruitive desires.
अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते । तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ॥ 26 ॥
अन्ये तु एवम् अ जानन्तः श्रुत्वा अन्येभ्यः उपासते । ते अपि च अतितरन्ति एव मृत्युम् श्रुति-परायणाः ॥ २६ ॥
anye tu evam a jānantaḥ śrutvā anyebhyaḥ upāsate . te api ca atitaranti eva mṛtyum śruti-parāyaṇāḥ .. 26 ..
Again there are those who, although not conversant in spiritual knowledge, begin to worship the Supreme Person upon hearing about Him from others. Because of their tendency to hear from authorities, they also transcend the path of birth and death.
यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् । क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ॥ 27 ॥
यावत् सञ्जायते किञ्चिद् सत्त्वम् स्थावर-जङ्गमम् । क्षेत्र-क्षेत्रज्ञ-संयोगात् तत् विद्धि भरत-ऋषभ ॥ २७ ॥
yāvat sañjāyate kiñcid sattvam sthāvara-jaṅgamam . kṣetra-kṣetrajña-saṃyogāt tat viddhi bharata-ṛṣabha .. 27 ..
O chief of the Bharatas, know that whatever you see in existence, both the moving and the nonmoving, is only a combination of the field of activities and the knower of the field.
समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ 28 ॥
समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् । विनश्यत्-स्व-विनश्यन्तम् यः पश्यति स पश्यति ॥ २८ ॥
samam sarveṣu bhūteṣu tiṣṭhantam parameśvaram . vinaśyat-sva-vinaśyantam yaḥ paśyati sa paśyati .. 28 ..
One who sees the Supersoul accompanying the individual soul in all bodies, and who understands that neither the soul nor the Supersoul within the destructible body is ever destroyed, actually sees.
समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥ 29 ॥
समम् पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् । न हिनस्ति आत्मना आत्मानम् ततस् याति पराम् गतिम् ॥ २९ ॥
samam paśyan hi sarvatra samavasthitam īśvaram . na hinasti ātmanā ātmānam tatas yāti parām gatim .. 29 ..
One who sees the Supersoul equally present everywhere, in every living being, does not degrade himself by his mind. Thus he approaches the transcendental destination.
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ॥ 30 ॥
प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशस् । यः पश्यति तथा आत्मानम् अकर्तारम् स पश्यति ॥ ३० ॥
prakṛtyā eva ca karmāṇi kriyamāṇāni sarvaśas . yaḥ paśyati tathā ātmānam akartāram sa paśyati .. 30 ..
One who can see that all activities are performed by the body, which is created of material nature, and sees that the self does nothing, actually sees.
यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥ 31 ॥
यदा भूत-पृथग्भावम् एकस्थम् अनुपश्यति । ततस् एव च विस्तारम् ब्रह्म सम्पद्यते तदा ॥ ३१ ॥
yadā bhūta-pṛthagbhāvam ekastham anupaśyati . tatas eva ca vistāram brahma sampadyate tadā .. 31 ..
When a sensible man ceases to see different identities due to different material bodies and he sees how beings are expanded everywhere, he attains to the Brahman conception.
अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः । शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥ 32 ॥
अनादि-त्वात् निर्गुण-त्वात् परमात्मा अयम् अव्ययः । शरीर-स्थः अपि कौन्तेय न करोति न लिप्यते ॥ ३२ ॥
anādi-tvāt nirguṇa-tvāt paramātmā ayam avyayaḥ . śarīra-sthaḥ api kaunteya na karoti na lipyate .. 32 ..
Those with the vision of eternity can see that the imperishable soul is transcendental, eternal, and beyond the modes of nature. Despite contact with the material body, O Arjuna, the soul neither does anything nor is entangled.
यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥ 33 ॥
यथा सर्व-गतम् सौक्ष्म्यात् आकाशम् न उपलिप्यते । सर्वत्र अवस्थितः देहे तथा आत्मा न उपलिप्यते ॥ ३३ ॥
yathā sarva-gatam saukṣmyāt ākāśam na upalipyate . sarvatra avasthitaḥ dehe tathā ātmā na upalipyate .. 33 ..
The sky, due to its subtle nature, does not mix with anything, although it is all-pervading. Similarly, the soul situated in Brahman vision does not mix with the body, though situated in that body.
यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः । क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ 34 ॥
यथा प्रकाशयति एकः कृत्स्नम् लोकम् इमम् रविः । क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत ॥ ३४ ॥
yathā prakāśayati ekaḥ kṛtsnam lokam imam raviḥ . kṣetram kṣetrī tathā kṛtsnam prakāśayati bhārata .. 34 ..
O son of Bharata, as the sun alone illuminates all this universe, so does the living entity, one within the body, illuminate the entire body by consciousness.
क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा । भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ 35 ॥
क्षेत्र-क्षेत्रज्ञयोः एवम् अन्तरम् ज्ञानचक्षुषा । भूत-प्रकृति-मोक्षम् च ये विदुः यान्ति ते परम् ॥ ३५ ॥
kṣetra-kṣetrajñayoḥ evam antaram jñānacakṣuṣā . bhūta-prakṛti-mokṣam ca ye viduḥ yānti te param .. 35 ..
Those who see with eyes of knowledge the difference between the body and the knower of the body, and can also understand the process of liberation from bondage in material nature, attain to the supreme goal.
ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥13 ॥
ओम् तत् सत् इति श्रीमत्-भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् योग-शास्त्रे श्री-कृष्ण-अर्जुन-संवादे क्षेत्रक्षेत्रज्ञविभागयोगः नाम त्रयोदशः अध्यायः ॥१३ ॥
om tat sat iti śrīmat-bhagavadgītāsu upaniṣatsu brahmavidyāyām yoga-śāstre śrī-kṛṣṇa-arjuna-saṃvāde kṣetrakṣetrajñavibhāgayogaḥ nāma trayodaśaḥ adhyāyaḥ ..13 ..
AUM, "THAT" is "IT". Thus, the Thirteenth section of the Auspicious Bhagavad Gita,named Ksetra Kshetragya Vibhaga Yoga[The Yoga of Matter and Spirit] , From the Upanishads, The Knowledge of Supreme Consciousness, From the Knowledge of Yoga, a conversation between Lord Krishna and Arjuna.

Add to Playlist

Practice Later

No Playlist Found

Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In