| |
|

This overlay will guide you through the buttons:

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः, अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः ।
अस्य श्री-बुध-कवच-स्तोत्र-मन्त्रस्य, कश्यपः ऋषिः, अनुष्टुभ् छन्दः, बुधः देवता, बुध-प्रीति-अर्थम् जपे विनियोगः ।
asya śrī-budha-kavaca-stotra-mantrasya, kaśyapaḥ ṛṣiḥ, anuṣṭubh chandaḥ, budhaḥ devatā, budha-prīti-artham jape viniyogaḥ .
अथ बुध कवचम्/atha budha kavacham
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः । पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥ 1 ॥
बुधः तु पुस्तक-धरः कुङ्कुमस्य सम-द्युतिः । पीत-अम्बर-धरः पातु पीत-माल्य-अनुलेपनः ॥ १ ॥
budhaḥ tu pustaka-dharaḥ kuṅkumasya sama-dyutiḥ . pīta-ambara-dharaḥ pātu pīta-mālya-anulepanaḥ .. 1 ..
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा । नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ 2 ॥
कटिम् च पातु मे सौम्यः शिरः-देशम् बुधः तथा । नेत्रे ज्ञान-मयः पातु श्रोत्रे पातु निशा-प्रियः ॥ २ ॥
kaṭim ca pātu me saumyaḥ śiraḥ-deśam budhaḥ tathā . netre jñāna-mayaḥ pātu śrotre pātu niśā-priyaḥ .. 2 ..
घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम । कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥ 3 ॥
घ्राणम् गन्ध-प्रियः पातु जिह्वाम् विद्या-प्रदः मम । कण्ठम् पातु विधोः पुत्रः भुजौ पुस्तक-भूषणः ॥ ३ ॥
ghrāṇam gandha-priyaḥ pātu jihvām vidyā-pradaḥ mama . kaṇṭham pātu vidhoḥ putraḥ bhujau pustaka-bhūṣaṇaḥ .. 3 ..
वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः । नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥ 4 ॥
वक्षः पातु वराङ्गः च हृदयम् रोहिणीसुतः । नाभिम् पातु सुर-आराध्यः मध्यम् पातु खगेश्वरः ॥ ४ ॥
vakṣaḥ pātu varāṅgaḥ ca hṛdayam rohiṇīsutaḥ . nābhim pātu sura-ārādhyaḥ madhyam pātu khageśvaraḥ .. 4 ..
जानुनी रौहिणेयश्च पातु जङ्घे??उखिलप्रदः । पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ॥ 5 ॥
जानुनी रौहिणेयः च पातु जङ्घे?? । पादौ मे बोधनः पातु पातु सौम्यः??उखिलम् वपुः ॥ ५ ॥
jānunī rauhiṇeyaḥ ca pātu jaṅghe?? . pādau me bodhanaḥ pātu pātu saumyaḥ??ukhilam vapuḥ .. 5 ..
अथ फलश्रुतिः/atha phalaśrutih
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् । सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥ 6 ॥
एतत् हि कवचम् दिव्यम् सर्व-पाप-प्रणाशनम् । सर्व ॥ ६ ॥
etat hi kavacam divyam sarva-pāpa-praṇāśanam . sarva .. 6 ..
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् । यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 7 ॥
आयुः-आरोग्य-शुभ-दम् पुत्र-पौत्र-प्रवर्धनम् । यः पठेत् शृणुयात् वा अपि सर्वत्र विजयी भवेत् ॥ ७ ॥
āyuḥ-ārogya-śubha-dam putra-pautra-pravardhanam . yaḥ paṭhet śṛṇuyāt vā api sarvatra vijayī bhavet .. 7 ..
॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ॥
॥ इति श्री-ब्रह्मवैवर्तपुराणे बुधकवचम् सम्पूर्णम् ॥
.. iti śrī-brahmavaivartapurāṇe budhakavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In