| |
|

This overlay will guide you through the buttons:

अस्य श्री चन्द्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छन्दः । श्री चन्द्रो देवता । चन्द्र प्रीत्यर्थे जपे विनियोगः ॥
अस्य श्री-चन्द्र-कवचस्य । गौतमः ऋषिः । अनुष्टुभ् छन्दः । श्री चन्द्रः देवता । चन्द्र-प्रीति-अर्थे जपे विनियोगः ॥
asya śrī-candra-kavacasya . gautamaḥ ṛṣiḥ . anuṣṭubh chandaḥ . śrī candraḥ devatā . candra-prīti-arthe jape viniyogaḥ ..
अथ चन्द्र कवचम्/atha chandra kavacham
समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् । वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ १ ॥
समम् चतुर्भुजम् वन्दे केयूर मकुट-उज्वलम् । वासुदेवस्य नयनम् शङ्करस्य च भूषणम् ॥ १ ॥
samam caturbhujam vande keyūra makuṭa-ujvalam . vāsudevasya nayanam śaṅkarasya ca bhūṣaṇam .. 1 ..
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् । शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ २ ॥
एवम् ध्यात्वा जपेत् नित्यम् शशिनः कवचम् शुभम् । शशी पातु शिरः-देशम् भालम् पातु कलानिधिः ॥ २ ॥
evam dhyātvā japet nityam śaśinaḥ kavacam śubham . śaśī pātu śiraḥ-deśam bhālam pātu kalānidhiḥ .. 2 ..
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः । प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ॥ ३ ॥
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः । प्राणम् क्षप-करः पातु मुखम् कुमुदबान्धवः ॥ ३ ॥
cakṣuṣī candramāḥ pātu śrutī pātu niśāpatiḥ . prāṇam kṣapa-karaḥ pātu mukham kumudabāndhavaḥ .. 3 ..
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा । करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४ ॥
पातु कण्ठम् च मे सोमः स्कन्धे जैवातृकः तथा । करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४ ॥
pātu kaṇṭham ca me somaḥ skandhe jaivātṛkaḥ tathā . karau sudhākaraḥ pātu vakṣaḥ pātu niśākaraḥ .. 4 ..
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः । मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥ ५ ॥
हृदयम् पातु मे चन्द्रः नाभिम् शङ्कर-भूषणः । मध्यम् पातु सुरश्रेष्ठः कटिम् पातु सुधाकरः ॥ ५ ॥
hṛdayam pātu me candraḥ nābhim śaṅkara-bhūṣaṇaḥ . madhyam pātu suraśreṣṭhaḥ kaṭim pātu sudhākaraḥ .. 5 ..
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा । अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ॥ ६ ॥
ऊरू तारापतिः पातु मृगाङ्कः जानुनी सदा । अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ॥ ६ ॥
ūrū tārāpatiḥ pātu mṛgāṅkaḥ jānunī sadā . abdhijaḥ pātu me jaṅghe pātu pādau vidhuḥ sadā .. 6 ..
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः । एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ॥ ७ ॥
सर्वाणि अन्यानि च अङ्गानि पातु चन्द्र-उखिलम् वपुः । एतत् हि कवचम् दिव्यम् भुक्ति-मुक्ति-प्रदायकम् ॥ ७ ॥
sarvāṇi anyāni ca aṅgāni pātu candra-ukhilam vapuḥ . etat hi kavacam divyam bhukti-mukti-pradāyakam .. 7 ..
फलश्रुतिः/phalaśrutih
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ८ ॥
यः पठेत् शृणुयात् वा अपि सर्वत्र विजयी भवेत् ॥ ८ ॥
yaḥ paṭhet śṛṇuyāt vā api sarvatra vijayī bhavet .. 8 ..
॥ इति श्रीचन्द्र कवचं सम्पूर्णम् ॥
॥ इति श्री-चन्द्र कवचम् सम्पूर्णम् ॥
.. iti śrī-candra kavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In