| |
|

This overlay will guide you through the buttons:

अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः, अनुष्टुप् छन्दः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
अस्य श्री-बृहस्पति-कवचमहा-मन्त्रस्य, ईश्वरः ऋषिः, अनुष्टुभ् छन्दः, बृहस्पतिः देवता, गं बीजम्, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति-प्रसाद-सिद्धि-अर्थे जपे विनियोगः ॥
asya śrī-bṛhaspati-kavacamahā-mantrasya, īśvaraḥ ṛṣiḥ, anuṣṭubh chandaḥ, bṛhaspatiḥ devatā, gaṃ bījam, śrīṃ śaktiḥ, klīṃ kīlakam, bṛhaspati-prasāda-siddhi-arthe jape viniyogaḥ ..
ध्यानम्/dhyānam
अभीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् । अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ॥
अभीष्ट-फल-दम् वन्दे सर्वज्ञम् सुर-पूजितम् । अक्ष-माला-धरम् शान्तम् प्रणमामि बृहस्पतिम् ॥
abhīṣṭa-phala-dam vande sarvajñam sura-pūjitam . akṣa-mālā-dharam śāntam praṇamāmi bṛhaspatim ..
अथ बृहस्पति कवचम्/atha brhaspati kavacham
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ 1 ॥
बृहस्पतिः शिरः पातु ललाटम् पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे ॥ १ ॥
bṛhaspatiḥ śiraḥ pātu lalāṭam pātu me guruḥ . karṇau suraguruḥ pātu netre .. 1 ..
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः । मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः ॥ 2 ॥
जिह्वाम् पातु सुर-आचार्यः नासम् मे वेदपारगः । मुखम् मे पातु सर्वज्ञः कण्ठम् मे देवता-गुरुः ॥ २ ॥
jihvām pātu sura-ācāryaḥ nāsam me vedapāragaḥ . mukham me pātu sarvajñaḥ kaṇṭham me devatā-guruḥ .. 2 ..
भुजा वङ्गीरसः पातु करौ पातु शुभप्रदः । स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ 3 ॥
भुजाः वङ्गीरसः पातु करौ पातु शुभ-प्रदः । स्तनौ मे पातु वागीशः कुक्षिम् मे शुभ-लक्षणः ॥ ३ ॥
bhujāḥ vaṅgīrasaḥ pātu karau pātu śubha-pradaḥ . stanau me pātu vāgīśaḥ kukṣim me śubha-lakṣaṇaḥ .. 3 ..
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः । कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ॥ 4 ॥
नाभिम् देवगुरुः पातु मध्यम् पातु सुख-प्रदः । कटिम् पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः ॥ ४ ॥
nābhim devaguruḥ pātu madhyam pātu sukha-pradaḥ . kaṭim pātu jagadvandyaḥ ūrū me pātu vākpatiḥ .. 4 ..
जानुजङ्घे सुराचार्यः पादौ विश्वात्मकः सदा । अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः ॥ 5 ॥
जानु-जङ्घे सुर-आचार्यः पादौ विश्व-आत्मकः सदा । अन्यानि यानि च अङ्गानि रक्षेत् मे सर्वतस् गुरुः ॥ ५ ॥
jānu-jaṅghe sura-ācāryaḥ pādau viśva-ātmakaḥ sadā . anyāni yāni ca aṅgāni rakṣet me sarvatas guruḥ .. 5 ..
फलशृतिः / Phalashrutih
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः । सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥
इति एतत् कवचम् दिव्यम् त्रिसन्ध्यम् यः पठेत् नरः । सर्वान् कामान् अवाप्नोति सर्वत्र विजयी भवेत् ॥
iti etat kavacam divyam trisandhyam yaḥ paṭhet naraḥ . sarvān kāmān avāpnoti sarvatra vijayī bhavet ..
॥ इति श्री बृहस्पति कवचम् ॥
॥ इति श्री-बृहस्पति-कवचम् ॥
.. iti śrī-bṛhaspati-kavacam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In