| |
|

This overlay will guide you through the buttons:

ध्यानं/dhyānam
केतुं करालवदनं चित्रवर्णं किरीटिनम् । प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ 1 ॥
केतुम् कराल-वदनम् चित्र-वर्णम् किरीटिनम् । प्रणमामि सदा केतुम् ध्वज-आकारम् ग्रहेश्वरम् ॥ १ ॥
ketum karāla-vadanam citra-varṇam kirīṭinam . praṇamāmi sadā ketum dhvaja-ākāram graheśvaram .. 1 ..
अथ केतु कवचम् /matha ketu kavacham
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः । पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ 2 ॥
चित्र-वर्णः शिरः पातु भालम् धूम्र-सम-द्युतिः । पातु नेत्रे पिङ्गल-अक्षः श्रुती मे रक्त-लोचनः ॥ २ ॥
citra-varṇaḥ śiraḥ pātu bhālam dhūmra-sama-dyutiḥ . pātu netre piṅgala-akṣaḥ śrutī me rakta-locanaḥ .. 2 ..
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः । पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ 3 ॥
घ्राणम् पातु सुवर्णाभः चिबुकम् सिंहिकासुतः । पातु कण्ठम् च मे केतुः स्कन्धौ पातु ग्रह-अधिपः ॥ ३ ॥
ghrāṇam pātu suvarṇābhaḥ cibukam siṃhikāsutaḥ . pātu kaṇṭham ca me ketuḥ skandhau pātu graha-adhipaḥ .. 3 ..
हस्तौ पातु सुरश्रेष्ठः कुक्षिं पातु महाग्रहः । सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ 4 ॥
हस्तौ पातु सुरश्रेष्ठः कुक्षिम् पातु महाग्रहः । सिंहासनः कटिम् पातु मध्यम् पातु महा-असुरः ॥ ४ ॥
hastau pātu suraśreṣṭhaḥ kukṣim pātu mahāgrahaḥ . siṃhāsanaḥ kaṭim pātu madhyam pātu mahā-asuraḥ .. 4 ..
ऊरू पातु महाशीर्षो जानुनी मेऽतिकोपनः । पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिङ्गलः ॥ 5 ॥
ऊरू पातु महा-शीर्षः जानुनी मे अतिकोपनः । पातु पादौ च मे क्रूरः सर्व-अङ्गम् नर-पिङ्गलः ॥ ५ ॥
ūrū pātu mahā-śīrṣaḥ jānunī me atikopanaḥ . pātu pādau ca me krūraḥ sarva-aṅgam nara-piṅgalaḥ .. 5 ..
फलश्रुतिः/phalaśrutih
य इदं कवचं दिव्यं सर्वरोगविनाशनम् । सर्वशत्रुविनाशं च धारणाद्विजयी भवेत् ॥ 6 ॥
यः इदम् कवचम् दिव्यम् सर्व-रोग-विनाशनम् । सर्व-शत्रु-विनाशम् च धारणात् विजयी भवेत् ॥ ६ ॥
yaḥ idam kavacam divyam sarva-roga-vināśanam . sarva-śatru-vināśam ca dhāraṇāt vijayī bhavet .. 6 ..
॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं सम्पूर्णम् ॥
॥ इति श्री-ब्रह्माण्डपुराणे केतुकवचम् सम्पूर्णम् ॥
.. iti śrī-brahmāṇḍapurāṇe ketukavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In