| |
|

This overlay will guide you through the buttons:

नृसिंहकवचं वक्ष्ये प्रह्लादेनोदितं पुरा ।सर्वरक्षाकरं पुण्यं सर्वोपद्रवनाशनम् ॥ 1 ॥
नृसिंह-कवचम् वक्ष्ये प्रह्लादेन उदितम् पुरा ।सर्व-रक्षा-करम् पुण्यम् सर्व-उपद्रव-नाशनम् ॥ १ ॥
nṛsiṃha-kavacam vakṣye prahlādena uditam purā .sarva-rakṣā-karam puṇyam sarva-upadrava-nāśanam .. 1 ..
सर्वसम्पत्करं चैव स्वर्गमोक्षप्रदायकम् ।ध्यात्वा नृसिंहं देवेशं हेमसिंहासनस्थितम् ॥ 2 ॥
सर्व-सम्पद्-करम् च एव स्वर्ग-मोक्ष-प्रदायकम् ।ध्यात्वा नृसिंहम् देवेशम् हेम-सिंहासन-स्थितम् ॥ २ ॥
sarva-sampad-karam ca eva svarga-mokṣa-pradāyakam .dhyātvā nṛsiṃham deveśam hema-siṃhāsana-sthitam .. 2 ..
विवृतास्यं त्रिनयनं शरदिन्दुसमप्रभम् ।लक्ष्म्यालिङ्गितवामाङ्गं विभूतिभिरुपाश्रितम् ॥ 3 ॥
विवृत-आस्यम् त्रि-नयनम् शरद्-इन्दु-सम-प्रभम् ।लक्ष्मी-आलिङ्गित-वाम-अङ्गम् विभूतिभिः उपाश्रितम् ॥ ३ ॥
vivṛta-āsyam tri-nayanam śarad-indu-sama-prabham .lakṣmī-āliṅgita-vāma-aṅgam vibhūtibhiḥ upāśritam .. 3 ..
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डलशोभितम् ।सरोजशोभितोरस्कं रत्नकेयूरमुद्रितम् ॥ 4 ॥
चतुर्-भुजम् कोमल-अङ्गम् स्वर्ण-कुण्डल-शोभितम् ।सरोज-शोभित-उरस्कम् रत्न-केयूर-मुद्रितम् ॥ ४ ॥
catur-bhujam komala-aṅgam svarṇa-kuṇḍala-śobhitam .saroja-śobhita-uraskam ratna-keyūra-mudritam .. 4 ..
तप्तकाञ्चनसङ्काशं पीतनिर्मलवासनम् ।इन्द्रादिसुरमौलिस्थस्फुरन्माणिक्यदीप्तिभिः ॥ 5 ॥
तप्त-काञ्चन-सङ्काशम् पीत-निर्मल-वासनम् ।इन्द्र-आदि-सुर-मौलि-स्थ-स्फुरत्-माणिक्य-दीप्तिभिः ॥ ५ ॥
tapta-kāñcana-saṅkāśam pīta-nirmala-vāsanam .indra-ādi-sura-mauli-stha-sphurat-māṇikya-dīptibhiḥ .. 5 ..
विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।गरुत्मता सविनयं स्तूयमानं मुदान्वितम् ॥ 6 ॥
विराजित-पद-द्वन्द्वम् शङ्ख-चक्र-आदि-हेतिभिः ।गरुत्मता स विनयम् स्तूयमानम् मुदा अन्वितम् ॥ ६ ॥
virājita-pada-dvandvam śaṅkha-cakra-ādi-hetibhiḥ .garutmatā sa vinayam stūyamānam mudā anvitam .. 6 ..
स्वहृत्कमलसंवासं कृत्वा तु कवचं पठेत् ।नृसिंहो मे शिरः पातु लोकरक्षात्मसम्भवः ॥ 7 ॥
स्व-हृद्-कमल-संवासम् कृत्वा तु कवचम् पठेत् ।नृसिंहः मे शिरः पातु लोक-रक्षा-आत्म-सम्भवः ॥ ७ ॥
sva-hṛd-kamala-saṃvāsam kṛtvā tu kavacam paṭhet .nṛsiṃhaḥ me śiraḥ pātu loka-rakṣā-ātma-sambhavaḥ .. 7 ..
सर्वगोऽपि स्तम्भवासः फालं मे रक्षतु ध्वनिम् ।नृसिंहो मे दृशौ पातु सोमसूर्याग्निलोचनः ॥ 8 ॥
सर्वगः अपि स्तम्भ-वासः फालम् मे रक्षतु ध्वनिम् ।नृसिंहः मे दृशौ पातु सोम-सूर्य-अग्नि-लोचनः ॥ ८ ॥
sarvagaḥ api stambha-vāsaḥ phālam me rakṣatu dhvanim .nṛsiṃhaḥ me dṛśau pātu soma-sūrya-agni-locanaḥ .. 8 ..
स्मृतिं मे पातु नृहरिर्मुनिवर्यस्तुतिप्रियः ।नासां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥ 9 ॥
स्मृतिम् मे पातु नृहरिः मुनि-वर्य-स्तुति-प्रियः ।नासाम् मे सिंहनासः तु मुखम् लक्ष्मी-मुख-प्रियः ॥ ९ ॥
smṛtim me pātu nṛhariḥ muni-varya-stuti-priyaḥ .nāsām me siṃhanāsaḥ tu mukham lakṣmī-mukha-priyaḥ .. 9 ..
सर्वविद्याधिपः पातु नृसिंहो रसनां मम ।वक्त्रं पात्विन्दुवदनः सदा प्रह्लादवन्दितः ॥ 10 ॥
सर्व-विद्या-अधिपः पातु नृसिंहः रसनाम् मम ।वक्त्रम् पातु इन्दु-वदनः सदा प्रह्लाद-वन्दितः ॥ १० ॥
sarva-vidyā-adhipaḥ pātu nṛsiṃhaḥ rasanām mama .vaktram pātu indu-vadanaḥ sadā prahlāda-vanditaḥ .. 10 ..
नृसिंहः पातु मे कण्ठं स्कन्धौ भूभरणान्तकृत् ।दिव्यास्त्रशोभितभुजो नृसिंहः पातु मे भुजौ ॥ 11 ॥
नृसिंहः पातु मे कण्ठम् स्कन्धौ भू-भरण-अन्त-कृत् ।दिव्य-अस्त्र-शोभित-भुजः नृसिंहः पातु मे भुजौ ॥ ११ ॥
nṛsiṃhaḥ pātu me kaṇṭham skandhau bhū-bharaṇa-anta-kṛt .divya-astra-śobhita-bhujaḥ nṛsiṃhaḥ pātu me bhujau .. 11 ..
करौ मे देववरदो नृसिंहः पातु सर्वतः ।हृदयं योगिसाध्यश्च निवासं पातु मे हरिः ॥ 12 ॥
करौ मे देव-वर-दः नृसिंहः पातु सर्वतस् ।हृदयम् योगि-साध्यः च निवासम् पातु मे हरिः ॥ १२ ॥
karau me deva-vara-daḥ nṛsiṃhaḥ pātu sarvatas .hṛdayam yogi-sādhyaḥ ca nivāsam pātu me hariḥ .. 12 ..
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।नाभिं मे पातु नृहरिः स्वनाभि ब्रह्मसंस्तुतः ॥ 13 ॥
मध्यम् पातु हिरण्याक्ष-वक्षः-कुक्षि-विदारणः ।नाभिम् मे पातु नृहरिः स्व-नाभि ब्रह्म-संस्तुतः ॥ १३ ॥
madhyam pātu hiraṇyākṣa-vakṣaḥ-kukṣi-vidāraṇaḥ .nābhim me pātu nṛhariḥ sva-nābhi brahma-saṃstutaḥ .. 13 ..
ब्रह्माण्डकोटयः कट्यां यस्यासौ पातु मे कटिम् ।गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यरूपधृक् ॥ 14 ॥
ब्रह्माण्ड-कोटयः कट्याम् यस्य असौ पातु मे कटिम् ।गुह्यम् मे पातु गुह्यानाम् मन्त्राणाम् गुह्य-रूपधृक् ॥ १४ ॥
brahmāṇḍa-koṭayaḥ kaṭyām yasya asau pātu me kaṭim .guhyam me pātu guhyānām mantrāṇām guhya-rūpadhṛk .. 14 ..
ऊरू मनोभवः पातु जानुनी नररूपधृक् ।जङ्घे पातु धराभारहर्ता योऽसौ नृकेसरी ॥ 15 ॥
ऊरू मनोभवः पातु जानुनी नर-रूपधृक् ।जङ्घे पातु धरा-भार-हर्ता यः असौ नृकेसरी ॥ १५ ॥
ūrū manobhavaḥ pātu jānunī nara-rūpadhṛk .jaṅghe pātu dharā-bhāra-hartā yaḥ asau nṛkesarī .. 15 ..
सुरराज्यप्रदः पातु पादौ मे नृहरीश्वरः ।सहस्रशीर्षा पुरुषः पातु मे सर्वशस्तनुम् ॥ 16 ॥
सुर-राज्य-प्रदः पातु पादौ मे नृहरि-ईश्वरः ।सहस्र-शीर्षा पुरुषः पातु मे सर्वशस् तनुम् ॥ १६ ॥
sura-rājya-pradaḥ pātu pādau me nṛhari-īśvaraḥ .sahasra-śīrṣā puruṣaḥ pātu me sarvaśas tanum .. 16 ..
महोग्रः पूर्वतः पातु महावीराग्रजोऽग्नितः ।महाविष्णुर्दक्षिणे तु महाज्वालस्तु नैरृतौ ॥ 17 ॥
महोग्रः पूर्वतस् पातु महावीर-अग्रजः अग्नितः ।महाविष्णुः दक्षिणे तु महाज्वालः तु नैरृतौ ॥ १७ ॥
mahograḥ pūrvatas pātu mahāvīra-agrajaḥ agnitaḥ .mahāviṣṇuḥ dakṣiṇe tu mahājvālaḥ tu nairṛtau .. 17 ..
पश्चिमे पातु सर्वेशो दिशि मे सर्वतोमुखः ।नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥ 18 ॥
पश्चिमे पातु सर्व-ईशः दिशि मे सर्वतोमुखः ।नृसिंहः पातु वायव्याम् सौम्याम् भूषण-विग्रहः ॥ १८ ॥
paścime pātu sarva-īśaḥ diśi me sarvatomukhaḥ .nṛsiṃhaḥ pātu vāyavyām saumyām bhūṣaṇa-vigrahaḥ .. 18 ..
ईशान्यां पातु भद्रो मे सर्वमङ्गलदायकः ।संसारभयदः पातु मृत्योर्मृत्युर्नृकेसरी ॥ 19 ॥
ईशान्याम् पातु भद्रः मे सर्व-मङ्गल-दायकः ।संसार-भय-दः पातु मृत्योः मृत्युः नृकेसरी ॥ १९ ॥
īśānyām pātu bhadraḥ me sarva-maṅgala-dāyakaḥ .saṃsāra-bhaya-daḥ pātu mṛtyoḥ mṛtyuḥ nṛkesarī .. 19 ..
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।भक्तिमान्यः पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ 20 ॥
इदम् नृसिंह-कवचम् प्रह्लाद-मुख-मण्डितम् ।भक्तिमान् यः पठेत् नित्यम् सर्व-पापैः प्रमुच्यते ॥ २० ॥
idam nṛsiṃha-kavacam prahlāda-mukha-maṇḍitam .bhaktimān yaḥ paṭhet nityam sarva-pāpaiḥ pramucyate .. 20 ..
पुत्रवान् धनवान् लोके दीर्घायुरुपजायते ।यं यं कामयते कामं तं तं प्राप्नोत्यसंशयम् ॥ 21 ॥
पुत्रवान् धनवान् लोके दीर्घ-आयुः उपजायते ।यम् यम् कामयते कामम् तम् तम् प्राप्नोति असंशयम् ॥ २१ ॥
putravān dhanavān loke dīrgha-āyuḥ upajāyate .yam yam kāmayate kāmam tam tam prāpnoti asaṃśayam .. 21 ..
सर्वत्र जयमाप्नोति सर्वत्र विजयी भवेत् ।भूम्यन्तरिक्षदिव्यानां ग्रहाणां विनिवारणम् ॥ 22 ॥
सर्वत्र जयम् आप्नोति सर्वत्र विजयी भवेत् ।भूमि-अन्तरिक्ष-दिव्यानाम् ग्रहाणाम् विनिवारणम् ॥ २२ ॥
sarvatra jayam āpnoti sarvatra vijayī bhavet .bhūmi-antarikṣa-divyānām grahāṇām vinivāraṇam .. 22 ..
वृश्चिकोरगसम्भूतविषापहरणं परम् ।ब्रह्मराक्षसयक्षाणां दूरोत्सारणकारणम् ॥ 23 ॥
वृश्चिक-उरग-सम्भूत-विष-अपहरणम् परम् ।ब्रह्मराक्षस-यक्षाणाम् दूर-उत्सारण-कारणम् ॥ २३ ॥
vṛścika-uraga-sambhūta-viṣa-apaharaṇam param .brahmarākṣasa-yakṣāṇām dūra-utsāraṇa-kāraṇam .. 23 ..
भूर्जे वा तालपत्रे वा कवचं लिखितं शुभम् ।करमूले धृतं येन सिध्येयुः कर्मसिद्धयः ॥ 24 ॥
भूर्जे वा तालपत्रे वा कवचम् लिखितम् शुभम् ।कर-मूले धृतम् येन सिध्येयुः कर्म-सिद्धयः ॥ २४ ॥
bhūrje vā tālapatre vā kavacam likhitam śubham .kara-mūle dhṛtam yena sidhyeyuḥ karma-siddhayaḥ .. 24 ..
देवासुरमनुष्येषु स्वं स्वमेव जयं लभेत् ।एकसन्ध्यं त्रिसन्ध्यं वा यः पठेन्नियतो नरः ॥ 25 ॥
देव-असुर-मनुष्येषु स्वम् स्वम् एव जयम् लभेत् ।एक-सन्ध्यम् त्रि-सन्ध्यम् वा यः पठेत् नियतः नरः ॥ २५ ॥
deva-asura-manuṣyeṣu svam svam eva jayam labhet .eka-sandhyam tri-sandhyam vā yaḥ paṭhet niyataḥ naraḥ .. 25 ..
सर्वमङ्गलमाङ्गल्यं भुक्तिं मुक्तिं च विन्दति ।द्वात्रिंशतिसहस्राणि पठेच्छुद्धात्मनां नृणाम् ॥ 26 ॥
सर्व-मङ्गल-माङ्गल्यम् भुक्तिम् मुक्तिम् च विन्दति ।द्वात्रिंशति-सहस्राणि पठेत् शुद्ध-आत्मनाम् नृणाम् ॥ २६ ॥
sarva-maṅgala-māṅgalyam bhuktim muktim ca vindati .dvātriṃśati-sahasrāṇi paṭhet śuddha-ātmanām nṛṇām .. 26 ..
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।अनेन मन्त्रराजेन कृत्वा भस्माभिमन्त्रणम् ॥ 27 ॥
कवचस्य अस्य मन्त्रस्य मन्त्र-सिद्धिः प्रजायते ।अनेन मन्त्र-राजेन कृत्वा भस्म-अभिमन्त्रणम् ॥ २७ ॥
kavacasya asya mantrasya mantra-siddhiḥ prajāyate .anena mantra-rājena kṛtvā bhasma-abhimantraṇam .. 27 ..
तिलकं विन्यसेद्यस्तु तस्य ग्रहभयं हरेत् ।त्रिवारं जपमानस्तु दत्तं वार्यभिमन्त्र्य च ॥ 28 ॥
तिलकम् विन्यसेत् यः तु तस्य ग्रह-भयम् हरेत् ।त्रि-वारम् जपमानः तु दत्तम् वारि अभिमन्त्र्य च ॥ २८ ॥
tilakam vinyaset yaḥ tu tasya graha-bhayam haret .tri-vāram japamānaḥ tu dattam vāri abhimantrya ca .. 28 ..
प्राशयेद्यो नरो मन्त्रं नृसिंहध्यानमाचरेत् ।तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षिसम्भवाः ॥ 29 ॥
प्राशयेत् यः नरः मन्त्रम् नृसिंह-ध्यानम् आचरेत् ।तस्य रोगाः प्रणश्यन्ति ये च स्युः कुक्षि-सम्भवाः ॥ २९ ॥
prāśayet yaḥ naraḥ mantram nṛsiṃha-dhyānam ācaret .tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ .. 29 ..
किमत्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।मनसा चिन्तितं यत्तु स तच्चाप्नोत्यसंशयम् ॥ 30 ॥
किम् अत्र बहुना उक्तेन नृसिंह-सदृशः भवेत् ।मनसा चिन्तितम् यत् तु स तत् च आप्नोति असंशयम् ॥ ३० ॥
kim atra bahunā uktena nṛsiṃha-sadṛśaḥ bhavet .manasā cintitam yat tu sa tat ca āpnoti asaṃśayam .. 30 ..
गर्जन्तं गर्जयन्तं निजभुजपटलं स्फोटयन्तं हठन्तं रूप्यन्तं तापयन्तं दिवि भुवि दितिजं क्षेपयन्तं क्षिपन्तम् ।क्रन्दन्तं रोषयन्तं दिशि दिशि सततं संहरन्तं भरन्तं वीक्षन्तं घूर्णयन्तं शरनिकरशतैर्दिव्यसिंहं नमामि ॥
गर्जन्तम् गर्जयन्तम् निज-भुज-पटलम् स्फोटयन्तम् हठन्तम् तापयन्तम् दिवि भुवि दितिजम् क्षेपयन्तम् क्षिपन्तम् ।क्रन्दन्तम् रोषयन्तम् दिशि दिशि सततम् संहरन्तम् भरन्तम् वीक्षन्तम् घूर्णयन्तम् शर-निकर-शतैः दिव्य-सिंहम् नमामि ॥
garjantam garjayantam nija-bhuja-paṭalam sphoṭayantam haṭhantam tāpayantam divi bhuvi ditijam kṣepayantam kṣipantam .krandantam roṣayantam diśi diśi satatam saṃharantam bharantam vīkṣantam ghūrṇayantam śara-nikara-śataiḥ divya-siṃham namāmi ..
इति श्रीब्रह्माण्डपुराणे प्रह्लादोक्तं श्री नृसिंह कवचम् ।
इति श्री-ब्रह्माण्डपुराणे प्रह्लाद-उक्तम् श्री नृसिंह कवचम् ।
iti śrī-brahmāṇḍapurāṇe prahlāda-uktam śrī nṛsiṃha kavacam .
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In