| |
|

This overlay will guide you through the buttons:

शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च शशिनन्दनः ॥ 1 ॥
शिरः मे पातु मार्ताण्डो कपालम् रोहिणीपतिः । मुखम् अङ्गारकः पातु कण्ठः च शशिनन्दनः ॥ १ ॥
śiraḥ me pātu mārtāṇḍo kapālam rohiṇīpatiḥ . mukham aṅgārakaḥ pātu kaṇṭhaḥ ca śaśinandanaḥ .. 1 ..
बुद्धिं जीवः सदा पातु हृदयं भृगुनन्दनः । जठरं च शनिः पातु जिह्वां मे दितिनन्दनः ॥ 2 ॥
बुद्धिम् जीवः सदा पातु हृदयम् भृगुनन्दनः । जठरम् च शनिः पातु जिह्वाम् मे दिति-नन्दनः ॥ २ ॥
buddhim jīvaḥ sadā pātu hṛdayam bhṛgunandanaḥ . jaṭharam ca śaniḥ pātu jihvām me diti-nandanaḥ .. 2 ..
पादौ केतुः सदा पातु वाराः सर्वाङ्गमेव च । तिथयोऽष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा ॥ 3 ॥
पादौ केतुः सदा पातु वाराः सर्व-अङ्गम् एव च । तिथयः अष्टौ दिशः पान्तु नक्षत्राणि वपुः सदा ॥ ३ ॥
pādau ketuḥ sadā pātu vārāḥ sarva-aṅgam eva ca . tithayaḥ aṣṭau diśaḥ pāntu nakṣatrāṇi vapuḥ sadā .. 3 ..
अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च । गुह्यं लिङ्गं सदा पान्तु सर्वे ग्रहाः शुभप्रदाः ॥ 4 ॥
अंसौ राशिः सदा पातु योगाः च स्थैर्यम् एव च । गुह्यम् लिङ्गम् सदा पान्तु सर्वे ग्रहाः शुभ-प्रदाः ॥ ४ ॥
aṃsau rāśiḥ sadā pātu yogāḥ ca sthairyam eva ca . guhyam liṅgam sadā pāntu sarve grahāḥ śubha-pradāḥ .. 4 ..
अणिमादीनि सर्वाणि लभते यः पठेद् धृवम् । एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः ॥ 5 ॥
अणिम-आदीनि सर्वाणि लभते यः पठेत् धृवम् । एताम् रक्षाम् पठेत् यः तु भक्त्या स प्रयतः सुधीः ॥ ५ ॥
aṇima-ādīni sarvāṇi labhate yaḥ paṭhet dhṛvam . etām rakṣām paṭhet yaḥ tu bhaktyā sa prayataḥ sudhīḥ .. 5 ..
स चिरायुः सुखी पुत्री रणे च विजयी भवेत् । अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् ॥ 6 ॥
स चिर-आयुः सुखी पुत्री रणे च विजयी भवेत् । अपुत्रः लभते पुत्रम् धन-अर्थी धनम् आप्नुयात् ॥ ६ ॥
sa cira-āyuḥ sukhī putrī raṇe ca vijayī bhavet . aputraḥ labhate putram dhana-arthī dhanam āpnuyāt .. 6 ..
दारार्थी लभते भार्यां सुरूपां सुमनोहराम् । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥ 7 ॥
दार-अर्थी लभते भार्याम् सुरूपाम् सु मनोहराम् । रोगी रोगात् प्रमुच्येत बद्धः मुच्येत बन्धनात् ॥ ७ ॥
dāra-arthī labhate bhāryām surūpām su manoharām . rogī rogāt pramucyeta baddhaḥ mucyeta bandhanāt .. 7 ..
जले स्थले चान्तरिक्षे कारागारे विशेषतः । यः करे धारयेन्नित्यं भयं तस्य न विद्यते ॥ 8 ॥
जले स्थले च अन्तरिक्षे कारागारे विशेषतः । यः करे धारयेत् नित्यम् भयम् तस्य न विद्यते ॥ ८ ॥
jale sthale ca antarikṣe kārāgāre viśeṣataḥ . yaḥ kare dhārayet nityam bhayam tasya na vidyate .. 8 ..
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥ 9 ॥
ब्रह्महत्या सुरा-पानम् स्तेयम् गुरु-अङ्गना-आगमः । सर्व-पापैः प्रमुच्येत कवचस्य च धारणात् ॥ ९ ॥
brahmahatyā surā-pānam steyam guru-aṅganā-āgamaḥ . sarva-pāpaiḥ pramucyeta kavacasya ca dhāraṇāt .. 9 ..
नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता । काकवन्ध्या जन्मवन्ध्या मृतवत्सा च या भवेत् । बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥ 10 ॥
नारी वाम-भुजे धृत्वा सुख-ऐश्वर्य-समन्विता । काकवन्ध्या जन्मवन्ध्या मृत-वत्सा च या भवेत् । बहु-अपत्या जीववत्-सा कवचस्य प्रसादतः ॥ १० ॥
nārī vāma-bhuje dhṛtvā sukha-aiśvarya-samanvitā . kākavandhyā janmavandhyā mṛta-vatsā ca yā bhavet . bahu-apatyā jīvavat-sā kavacasya prasādataḥ .. 10 ..
इति ग्रहयामले उत्तरखण्डे नवग्रह कवचं समाप्तम् ।
इति ग्रहयामले उत्तर-खण्डे नव-ग्रह कवचम् समाप्तम् ।
iti grahayāmale uttara-khaṇḍe nava-graha kavacam samāptam .
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In