| |
|

This overlay will guide you through the buttons:

ध्यानम्/dhyānam
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् । सैंहिकेयं करालास्यं लोकानामभयप्रदम् ॥ 1॥
प्रणमामि सदा राहुम् शूर्प-आकारम् किरीटिनम् । सैंहिकेयम् कराल-आस्यम् लोकानाम् अभय-प्रदम् ॥ १॥
praṇamāmi sadā rāhum śūrpa-ākāram kirīṭinam . saiṃhikeyam karāla-āsyam lokānām abhaya-pradam .. 1..
। अथ राहु कवचम् । /। atha rāhu kavacham ।
नीलाम्बरः शिरः पातु ललाटं लोकवन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरिरवान् ॥ 2॥
नीलाम्बरः शिरः पातु ललाटम् लोक-वन्दितः । चक्षुषी पातु मे राहुः श्रोत्रे तु अर्ध-शरिरवान् ॥ २॥
nīlāmbaraḥ śiraḥ pātu lalāṭam loka-vanditaḥ . cakṣuṣī pātu me rāhuḥ śrotre tu ardha-śariravān .. 2..
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम । जिह्वां मे सिंहिकासूनुः कण्ठं मे कठिनाङ्घ्रिकः ॥ 3॥
नासिकाम् मे धूम्र-वर्णः शूल-पाणिः मुखम् मम । जिह्वाम् मे सिंहिका-सूनुः कण्ठम् मे कठिन-अङ्घ्रिकः ॥ ३॥
nāsikām me dhūmra-varṇaḥ śūla-pāṇiḥ mukham mama . jihvām me siṃhikā-sūnuḥ kaṇṭham me kaṭhina-aṅghrikaḥ .. 3..
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ । पातु वक्षःस्थलं मन्त्री पातु कुक्षिं विधुन्तुदः ॥ 4॥
भुजङ्ग-ईशः भुजौ पातु नील-माल्य-अम्बरः करौ । पातु वक्षः-स्थलम् मन्त्री पातु कुक्षिम् विधुन्तुदः ॥ ४॥
bhujaṅga-īśaḥ bhujau pātu nīla-mālya-ambaraḥ karau . pātu vakṣaḥ-sthalam mantrī pātu kukṣim vidhuntudaḥ .. 4..
कटिं मे विकटः पातु ऊरू मे सुरपूजितः । स्वर्भानुर्जानुनी पातु जङ्घे मे पातु जाड्यहा ॥ 5॥
कटिम् मे विकटः पातु ऊरू मे सुर-पूजितः । स्वर्भानुः जानुनी पातु जङ्घे मे पातु जाड्य-हा ॥ ५॥
kaṭim me vikaṭaḥ pātu ūrū me sura-pūjitaḥ . svarbhānuḥ jānunī pātu jaṅghe me pātu jāḍya-hā .. 5..
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः । सर्वाण्यङ्गानि मे पातु नीलचन्दनभूषणः ॥ 6॥
गुल्फौ ग्रहपतिः पातु पादौ मे भीषण-आकृतिः । सर्वाणि अङ्गानि मे पातु नीलचन्दन-भूषणः ॥ ६॥
gulphau grahapatiḥ pātu pādau me bhīṣaṇa-ākṛtiḥ . sarvāṇi aṅgāni me pātu nīlacandana-bhūṣaṇaḥ .. 6..
फलश्रुतिः/phalaśrutih
राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् । प्राप्नोति कीर्तिमतुलां श्रियमृद्धि- मायुरारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ 7॥
राहोः इदम् कवचम् ऋद्धि-द-वस्तु-दम् भक्त्या पठति अनुदिनम् नियतः शुचिः सन् । प्राप्नोति कीर्तिम् अतुलाम् श्रियम् ऋद्धि- मा आयुः आरोग्यम् आत्म-विजयम् च हि तद्-प्रसादात् ॥ ७॥
rāhoḥ idam kavacam ṛddhi-da-vastu-dam bhaktyā paṭhati anudinam niyataḥ śuciḥ san . prāpnoti kīrtim atulām śriyam ṛddhi- mā āyuḥ ārogyam ātma-vijayam ca hi tad-prasādāt .. 7..
॥ इति श्रीमहाभारते धृतराष्ट्रसञ्जयसंवादे द्रोणपर्वणि राहुकवचं सम्पूर्णम् ॥
॥ इति श्री-महाभारते धृतराष्ट्र-सञ्जय-संवादे द्रोणपर्वणि राहुकवचम् सम्पूर्णम् ॥
.. iti śrī-mahābhārate dhṛtarāṣṭra-sañjaya-saṃvāde droṇaparvaṇi rāhukavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In