| |
|

This overlay will guide you through the buttons:

नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितास्त्रकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा ममस्याद्वरदः प्रशान्तः ॥
गृध्र-स्थित-अस्त्र-करः धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम अस्यात् वर-दः प्रशान्तः ॥
gṛdhra-sthita-astra-karaḥ dhanuṣmān . caturbhujaḥ sūryasutaḥ prasannaḥ sadā mama asyāt vara-daḥ praśāntaḥ ..
ब्रह्मा उवाच । /brahmā uvācha ।
शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् । कवचं शनिराजस्य सौरैरिदमनुत्तमम् ॥
शृणुध्वम् ऋषयः सर्वे शनि पीडा-हरम् महत् । कवचम् शनिराजस्य सौरैः इदम् अनुत्तमम् ॥
śṛṇudhvam ṛṣayaḥ sarve śani pīḍā-haram mahat . kavacam śanirājasya sauraiḥ idam anuttamam ..
कवचं देवतावासं वज्र पञ्जर संङ्गकम् । शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥
कवचम् देवता-वासम् वज्र-पञ्जर-संङ्गकम् । शनैश्चर प्रीति-करम् सर्व-सौभाग्य-दायकम् ॥
kavacam devatā-vāsam vajra-pañjara-saṃṅgakam . śanaiścara prīti-karam sarva-saubhāgya-dāyakam ..
अथ श्री शनि वज्र पञ्जर कवचम् । /atha śrī śani vajra panjara kavacham ।
ॐ श्री शनैश्चरः पातु भालं मे सूर्यनन्दनः । नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ १ ॥
ओम् श्री शनैश्चरः पातु भालम् मे सूर्यनन्दनः । नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ १ ॥
om śrī śanaiścaraḥ pātu bhālam me sūryanandanaḥ . netre chāyātmajaḥ pātu pātu karṇau yamānujaḥ .. 1 ..
नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥ २ ॥
नासाम् वैवस्वतः पातु मुखम् मे भास्करः सदा । स्निग्ध-कण्ठः च मे कण्ठम् भुजौ पातु महा-भुजः ॥ २ ॥
nāsām vaivasvataḥ pātu mukham me bhāskaraḥ sadā . snigdha-kaṇṭhaḥ ca me kaṇṭham bhujau pātu mahā-bhujaḥ .. 2 ..
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः । वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ ३ ॥
स्कन्धौ पातु शनिः च एव करौ पातु शुभ-प्रदः । वक्षः पातु यमभ्राता कुक्षिम् पातु असितः तथा ॥ ३ ॥
skandhau pātu śaniḥ ca eva karau pātu śubha-pradaḥ . vakṣaḥ pātu yamabhrātā kukṣim pātu asitaḥ tathā .. 3 ..
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा । ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥ ४ ॥
नाभिम् ग्रहपतिः पातु मन्दः पातु कटिम् तथा । ऊरू मम अन्तकः पातु यमः जानु-युगम् तथा ॥ ४ ॥
nābhim grahapatiḥ pātu mandaḥ pātu kaṭim tathā . ūrū mama antakaḥ pātu yamaḥ jānu-yugam tathā .. 4 ..
पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः । अङ्गोपाङ्गानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥ ५ ॥
पादौ मन्दगतिः पातु सर्व-अङ्गम् पातु पिप्पलः । अङ्ग-उपाङ्गानि सर्वाणि रक्षेत् मे सूर्यनन्दनः ॥ ५ ॥
pādau mandagatiḥ pātu sarva-aṅgam pātu pippalaḥ . aṅga-upāṅgāni sarvāṇi rakṣet me sūryanandanaḥ .. 5 ..
फलश्रुतिः/phalaśrutih
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः । न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥ ६ ॥
इति एतत् कवचम् दिव्यम् पठेत् सूर्यसुतस्य यः । न तस्य जायते पीडा प्रीतः भवति सूर्यजः ॥ ६ ॥
iti etat kavacam divyam paṭhet sūryasutasya yaḥ . na tasya jāyate pīḍā prītaḥ bhavati sūryajaḥ .. 6 ..
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा । कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ॥ ७ ॥
व्यय-जन्म-द्वितीय-स्थः मृत्यु-स्थान-गतः उपि वा । कलत्र-स्थः गतः उ वा अपि सु प्रीतः तु सदा शनिः ॥ ७ ॥
vyaya-janma-dvitīya-sthaḥ mṛtyu-sthāna-gataḥ upi vā . kalatra-sthaḥ gataḥ u vā api su prītaḥ tu sadā śaniḥ .. 7 ..
अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे । कवचं पठते नित्यं न पीडा जायते क्वचित् ॥ 8 ॥
सूर्यसुते व्यये जन्म-द्वितीय-गे । कवचम् पठते नित्यम् न पीडा जायते क्वचिद् ॥ ८ ॥
sūryasute vyaye janma-dvitīya-ge . kavacam paṭhate nityam na pīḍā jāyate kvacid .. 8 ..
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा । द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा । जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥ ९ ॥
इति एतत् कवचम् दिव्यम् सौरेः यत् निर्मितम् पुरा । द्वादश-अष्टम-जन्म-स्थ-दोषान् नाशयते सदा । जन्म-लग्न-स्थितान् दोषान् सर्वान् नाशयते प्रभुः ॥ ९ ॥
iti etat kavacam divyam saureḥ yat nirmitam purā . dvādaśa-aṣṭama-janma-stha-doṣān nāśayate sadā . janma-lagna-sthitān doṣān sarvān nāśayate prabhuḥ .. 9 ..
इति श्री ब्रह्माण्डपुराणे ब्रह्मनारदसंवादे शनिवज्रपञ्जर कवचं सम्पूर्णम् ॥
इति श्री-ब्रह्माण्डपुराणे ब्रह्म-नारद-संवादे शनिवज्रपञ्जर कवचम् सम्पूर्णम् ॥
iti śrī-brahmāṇḍapurāṇe brahma-nārada-saṃvāde śanivajrapañjara kavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In