| |
|

This overlay will guide you through the buttons:

न्यासः / Nyasa
अस्य श्री चण्डी कवचस्य । ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । चामुण्डा देवता । अङ्गन्यासोक्त मातरो बीजम् । नवावरणो मन्त्रशक्तिः । दिग्बन्ध देवताः तत्वम् । श्री जगदम्बा प्रीत्यर्थे सप्तशती पाठाङ्गत्वेन जपे विनियोगः ॥
अस्य श्री-चण्डी-कवचस्य । ब्रह्मा ऋषिः । अनुष्टुभ् छन्दः । चामुण्डा देवता । मातरः बीजम् । नव-आवरणः मन्त्र-शक्तिः । दिग्बन्ध-देवताः तत्वम् । श्री-जगदम्बा-प्रीति-अर्थे सप्तशती-पाठ-अङ्ग-त्वेन जपे विनियोगः ॥
asya śrī-caṇḍī-kavacasya . brahmā ṛṣiḥ . anuṣṭubh chandaḥ . cāmuṇḍā devatā . mātaraḥ bījam . nava-āvaraṇaḥ mantra-śaktiḥ . digbandha-devatāḥ tatvam . śrī-jagadambā-prīti-arthe saptaśatī-pāṭha-aṅga-tvena jape viniyogaḥ ..
मार्कण्डेय उवाच । / Markandeya Uvacha
ॐ नमश्चण्डिकायै ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ 1 ॥
ओम् नमः चण्डिकायै ओम् यत् गुह्यम् परमम् लोके सर्व-रक्षा-करम् नृणाम् । यत् न कस्यचिद् आख्यातम् तत् मे ब्रूहि पितामह ॥ १ ॥
om namaḥ caṇḍikāyai om yat guhyam paramam loke sarva-rakṣā-karam nṛṇām . yat na kasyacid ākhyātam tat me brūhi pitāmaha .. 1 ..
ब्रह्मोवाच । / Shri Brahma Uvacha
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ 2 ॥
अस्ति गुह्यतमम् विप्र सर्व-भूत-उपकारकम् । देव्याः तु कवचम् पुण्यम् तत् शृणुष्व महा-मुने ॥ २ ॥
asti guhyatamam vipra sarva-bhūta-upakārakam . devyāḥ tu kavacam puṇyam tat śṛṇuṣva mahā-mune .. 2 ..
प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ 3 ॥
प्रथमम् शैलपुत्री च द्वितीयम् ब्रह्मचारिणी । तृतीयम् चन्द्रघण्टा इति कूष्माण्ड-इति चतुर्थकम् ॥ ३ ॥
prathamam śailaputrī ca dvitīyam brahmacāriṇī . tṛtīyam candraghaṇṭā iti kūṣmāṇḍa-iti caturthakam .. 3 ..
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च । सप्तमं कालरात्रीति महागौरीति चाष्टमम् ॥ 4 ॥
पञ्चमम् स्कन्दमाता इति षष्ठम् कात्यायनी इति च । सप्तमम् कालरात्री इति महागौरी इति च अष्टमम् ॥ ४ ॥
pañcamam skandamātā iti ṣaṣṭham kātyāyanī iti ca . saptamam kālarātrī iti mahāgaurī iti ca aṣṭamam .. 4 ..
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ 5 ॥
नवमम् सिद्धिदात्री च नव-दुर्गाः प्रकीर्तिताः । उक्तानि एतानि नामानि ब्रह्मणा एव महात्मना ॥ ५ ॥
navamam siddhidātrī ca nava-durgāḥ prakīrtitāḥ . uktāni etāni nāmāni brahmaṇā eva mahātmanā .. 5 ..
अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे । विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ 6 ॥
अग्निना दह्यमानः तु शत्रु-मध्ये गतः रणे । विषमे दुर्गमे च एव भय-आर्ताः शरणम् गताः ॥ ६ ॥
agninā dahyamānaḥ tu śatru-madhye gataḥ raṇe . viṣame durgame ca eva bhaya-ārtāḥ śaraṇam gatāḥ .. 6 ..
न तेषां जायते किञ्चिदशुभं रणसङ्कटे । नापदं तस्य पश्यामि शोकदुःखभयं न हि ॥ 7 ॥
न तेषाम् जायते किञ्चिद् अशुभम् रण-सङ्कटे । न आपदम् तस्य पश्यामि शोक-दुःख-भयम् न हि ॥ ७ ॥
na teṣām jāyate kiñcid aśubham raṇa-saṅkaṭe . na āpadam tasya paśyāmi śoka-duḥkha-bhayam na hi .. 7 ..
यैस्तु भक्त्या स्मृता नूनं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसे तान्नसंशयः ॥ 8 ॥
यैः तु भक्त्या स्मृता नूनम् तेषाम् वृद्धिः प्रजायते । ये त्वाम् स्मरन्ति देवेशि रक्षसे तान् न संशयः ॥ ८ ॥
yaiḥ tu bhaktyā smṛtā nūnam teṣām vṛddhiḥ prajāyate . ye tvām smaranti deveśi rakṣase tān na saṃśayaḥ .. 8 ..
प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ 9 ॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गज-समारूढा वैष्णवी गरुड-आसना ॥ ९ ॥
pretasaṃsthā tu cāmuṇḍā vārāhī mahiṣāsanā . aindrī gaja-samārūḍhā vaiṣṇavī garuḍa-āsanā .. 9 ..
माहेश्वरी वृषारूढा कौमारी शिखिवाहना । लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया ॥ 10 ॥
mahesvari vrsaruḍha kaumari sikhivahana । laksmih padmasana devi padmahasta haripriya ॥ 10 ॥
mahesvari vrsaruḍha kaumari sikhivahana . laksmih padmasana devi padmahasta haripriya .. 10 ..
श्वेतरूपधरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंससमारूढा सर्वाभरणभूषिता ॥ 11 ॥
श्वेत-रूप-धरा देवी ईश्वरी वृषवाहना । ब्राह्मी हंस-समारूढा सर्व-आभरण-भूषिता ॥ ११ ॥
śveta-rūpa-dharā devī īśvarī vṛṣavāhanā . brāhmī haṃsa-samārūḍhā sarva-ābharaṇa-bhūṣitā .. 11 ..
इत्येता मातरः सर्वाः सर्वयोगसमन्विताः । नानाभरणाशोभाढ्या नानारत्नोपशोभिताः ॥ 12 ॥
इति एताः मातरः सर्वाः सर्व-योग-समन्विताः । नाना आभरण-आशोभा-आढ्याः नाना रत्न-उपशोभिताः ॥ १२ ॥
iti etāḥ mātaraḥ sarvāḥ sarva-yoga-samanvitāḥ . nānā ābharaṇa-āśobhā-āḍhyāḥ nānā ratna-upaśobhitāḥ .. 12 ..
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः । शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥ 13 ॥
दृश्यन्ते रथम् आरूढाः देव्यः क्रोध-समाकुलाः । शङ्खम् चक्रम् गदाम् शक्तिम् हलम् च मुसल-आयुधम् ॥ १३ ॥
dṛśyante ratham ārūḍhāḥ devyaḥ krodha-samākulāḥ . śaṅkham cakram gadām śaktim halam ca musala-āyudham .. 13 ..
खेटकं तोमरं चैव परशुं पाशमेव च । कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥ 14 ॥
खेटकम् तोमरम् च एव परशुम् पाशम् एव च । कुन्त-आयुधम् त्रिशूलम् च शार्ङ्गम् आयुधम् उत्तमम् ॥ १४ ॥
kheṭakam tomaram ca eva paraśum pāśam eva ca . kunta-āyudham triśūlam ca śārṅgam āyudham uttamam .. 14 ..
दैत्यानां देहनाशाय भक्तानामभयाय च । धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥ 15 ॥
दैत्यानाम् देह-नाशाय भक्तानाम् अभयाय च । धारयन्ति आयुधानि इत्थम् देवानाम् च हिताय वै ॥ १५ ॥
daityānām deha-nāśāya bhaktānām abhayāya ca . dhārayanti āyudhāni ittham devānām ca hitāya vai .. 15 ..
नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे । महाबले महोत्साहे महाभयविनाशिनि ॥ 16 ॥
नमः ते अस्तु महा-रौद्रे महा-घोर-पराक्रमे । महा-बले महा-उत्साहे महा-भय-विनाशिनि ॥ १६ ॥
namaḥ te astu mahā-raudre mahā-ghora-parākrame . mahā-bale mahā-utsāhe mahā-bhaya-vināśini .. 16 ..
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि । प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता ॥ 17 ॥
त्राहि माम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भय-वर्धिनि । प्राच्याम् रक्षतु माम् ऐन्द्री आग्नेय्याम् अग्नि-देवता ॥ १७ ॥
trāhi mām devi duṣprekṣye śatrūṇām bhaya-vardhini . prācyām rakṣatu mām aindrī āgneyyām agni-devatā .. 17 ..
दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी । प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ॥ 18 ॥
दक्षिणे अवतु वाराही नैरृत्याम् खड्ग-धारिणी । प्रतीच्याम् वारुणी रक्षेत् वायव्याम् मृग-वाहिनी ॥ १८ ॥
dakṣiṇe avatu vārāhī nairṛtyām khaḍga-dhāriṇī . pratīcyām vāruṇī rakṣet vāyavyām mṛga-vāhinī .. 18 ..
उदीच्यां पातु कौमारी ऐशान्यां शूलधारिणी । ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ॥ 19 ॥
उदीच्याम् पातु कौमारी ऐशान्याम् शूल-धारिणी । ऊर्ध्वम् ब्रह्माणी मे रक्षेत् अधस्तात् वैष्णवी तथा ॥ १९ ॥
udīcyām pātu kaumārī aiśānyām śūla-dhāriṇī . ūrdhvam brahmāṇī me rakṣet adhastāt vaiṣṇavī tathā .. 19 ..
एवं दश दिशो रक्षेच्चामुण्डा शववाहना । जया मे चाग्रतः पातु विजया पातु पृष्ठतः ॥ 20 ॥
एवम् दश दिशः रक्षेत् चामुण्डा शव-वाहना । जया मे च अग्रतस् पातु विजया पातु पृष्ठतस् ॥ २० ॥
evam daśa diśaḥ rakṣet cāmuṇḍā śava-vāhanā . jayā me ca agratas pātu vijayā pātu pṛṣṭhatas .. 20 ..
अजिता वामपार्श्वे तु दक्षिणे चापराजिता । शिखामुद्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ॥ 21 ॥
अजिता वाम-पार्श्वे तु दक्षिणे च अपराजिता । शिखाम् उद्योतिनी रक्षेत् उमा मूर्ध्नि व्यवस्थिता ॥ २१ ॥
ajitā vāma-pārśve tu dakṣiṇe ca aparājitā . śikhām udyotinī rakṣet umā mūrdhni vyavasthitā .. 21 ..
मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी । त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ॥ 22 ॥
माला-धरी ललाटे च भ्रुवौ रक्षेत् यशस्विनी । त्रिनेत्रा च भ्रुवोः मध्ये यम-घण्टा च नासिके ॥ २२ ॥
mālā-dharī lalāṭe ca bhruvau rakṣet yaśasvinī . trinetrā ca bhruvoḥ madhye yama-ghaṇṭā ca nāsike .. 22 ..
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत्कर्णमूले तु शाङ्करी ॥ 23 ॥
शङ्खिनी चक्षुषोः मध्ये श्रोत्रयोः द्वारवासिनी । कपोलौ कालिका रक्षेत् कर्ण-मूले तु शाङ्करी ॥ २३ ॥
śaṅkhinī cakṣuṣoḥ madhye śrotrayoḥ dvāravāsinī . kapolau kālikā rakṣet karṇa-mūle tu śāṅkarī .. 23 ..
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका । अधरे चामृतकला जिह्वायां च सरस्वती ॥ 24 ॥
नासिकायाम् सुगन्धा च उत्तर-उष्ठे च चर्चिका । अधरे च अमृत-कला जिह्वायाम् च सरस्वती ॥ २४ ॥
nāsikāyām sugandhā ca uttara-uṣṭhe ca carcikā . adhare ca amṛta-kalā jihvāyām ca sarasvatī .. 24 ..
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका । घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ 25 ॥
दन्तान् रक्षतु कौमारी कण्ठ-देशे तु चण्डिका । घण्टिकाम् चित्रघण्टा च महामाया च तालुके ॥ २५ ॥
dantān rakṣatu kaumārī kaṇṭha-deśe tu caṇḍikā . ghaṇṭikām citraghaṇṭā ca mahāmāyā ca tāluke .. 25 ..
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला । ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ 26 ॥
कामाक्षी चिबुकम् रक्षेत् वाचम् मे सर्वमङ्गला । ग्रीवायाम् भद्रकाली च पृष्ठवंशे धनुः-धरी ॥ २६ ॥
kāmākṣī cibukam rakṣet vācam me sarvamaṅgalā . grīvāyām bhadrakālī ca pṛṣṭhavaṃśe dhanuḥ-dharī .. 26 ..
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी । स्कन्धयोः खड्गिनी रक्षेद्बाहू मे वज्रधारिणी ॥ 27 ॥
नीलग्रीवा बहिस् कण्ठे नलिकाम् नलकूबरी । स्कन्धयोः खड्गिनी रक्षेत् बाहू मे वज्र-धारिणी ॥ २७ ॥
nīlagrīvā bahis kaṇṭhe nalikām nalakūbarī . skandhayoḥ khaḍginī rakṣet bāhū me vajra-dhāriṇī .. 27 ..
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्छूलेश्वरी रक्षेत्कुक्षौ रक्षेत्कुलेश्वरी ॥ 28 ॥
हस्तयोः दण्डिनी रक्षेत् अम्बिका च अङ्गुलीषु च । नखान् शूलेश्वरी रक्षेत् कुक्षौ रक्षेत् कुलेश्वरी ॥ २८ ॥
hastayoḥ daṇḍinī rakṣet ambikā ca aṅgulīṣu ca . nakhān śūleśvarī rakṣet kukṣau rakṣet kuleśvarī .. 28 ..
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥ 29 ॥
स्तनौ रक्षेत् महादेवी मनः-शोक-विनाशिनी । हृदये ललिता देवी उदरे शूल-धारिणी ॥ २९ ॥
stanau rakṣet mahādevī manaḥ-śoka-vināśinī . hṛdaye lalitā devī udare śūla-dhāriṇī .. 29 ..
नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा । पूतना कामिका मेढ्रं गुदे महिषवाहिनी ॥ 30 ॥
नाभौ च कामिनी रक्षेत् गुह्यम् गुह्येश्वरी तथा । पूतना कामिका मेढ्रम् गुदे महिषवाहिनी ॥ ३० ॥
nābhau ca kāminī rakṣet guhyam guhyeśvarī tathā . pūtanā kāmikā meḍhram gude mahiṣavāhinī .. 30 ..
कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी । जङ्घे महाबला रक्षेत्सर्वकामप्रदायिनी ॥ 31 ॥
कट्याम् भगवती रक्षेत् जानुनी विन्ध्य-वासिनी । जङ्घे महाबला रक्षेत् सर्व-काम-प्रदायिनी ॥ ३१ ॥
kaṭyām bhagavatī rakṣet jānunī vindhya-vāsinī . jaṅghe mahābalā rakṣet sarva-kāma-pradāyinī .. 31 ..
गुल्फयोर्नारसिंही च पादपृष्ठे तु तैजसी । पादाङ्गुलीषु श्री रक्षेत्पादाधस्तलवासिनी ॥ 32 ॥
गुल्फयोः नारसिंही च पाद-पृष्ठे तु तैजसी । पाद-अङ्गुलीषु श्री रक्षेत् पाद-अधस् तल-वासिनी ॥ ३२ ॥
gulphayoḥ nārasiṃhī ca pāda-pṛṣṭhe tu taijasī . pāda-aṅgulīṣu śrī rakṣet pāda-adhas tala-vāsinī .. 32 ..
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ॥ 33 ॥
नखान् दंष्ट्र-कराली च केशान् च एव ऊर्ध्व-केशिनी । रोमकूपेषु कौबेरी त्वचम् वागीश्वरी तथा ॥ ३३ ॥
nakhān daṃṣṭra-karālī ca keśān ca eva ūrdhva-keśinī . romakūpeṣu kauberī tvacam vāgīśvarī tathā .. 33 ..
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ 34 ॥
रक्त-मज्जा-वसा-मांसानि अस्थि-मेदांसि पार्वती । अन्त्राणि कालरात्रिः च पित्तम् च मुकुटेश्वरी ॥ ३४ ॥
rakta-majjā-vasā-māṃsāni asthi-medāṃsi pārvatī . antrāṇi kālarātriḥ ca pittam ca mukuṭeśvarī .. 34 ..
पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ 35 ॥
पद्मावती पद्मकोशे कफे चूडामणिः तथा । ज्वालामुखी नख-ज्वालाम् अभेद्या सर्व-सन्धिषु ॥ ३५ ॥
padmāvatī padmakośe kaphe cūḍāmaṇiḥ tathā . jvālāmukhī nakha-jvālām abhedyā sarva-sandhiṣu .. 35 ..
शुक्रं ब्रह्माणि! मे रक्षेच्छायां छत्रेश्वरी तथा । अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ 36 ॥
शुक्रम् ब्रह्माणि! मे रक्षेत् छायाम् छत्रेश्वरी तथा । अहङ्कारम् मनः बुद्धिम् रक्षेत् मे धर्म-धारिणी ॥ ३६ ॥
śukram brahmāṇi! me rakṣet chāyām chatreśvarī tathā . ahaṅkāram manaḥ buddhim rakṣet me dharma-dhāriṇī .. 36 ..
प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत्प्राणं कल्याणशोभना ॥ 37 ॥
प्राण-अपानौ तथा व्यानम् उदानम् च समानकम् । वज्र-हस्ता च मे रक्षेत् प्राणम् कल्याण-शोभना ॥ ३७ ॥
prāṇa-apānau tathā vyānam udānam ca samānakam . vajra-hastā ca me rakṣet prāṇam kalyāṇa-śobhanā .. 37 ..
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ 38 ॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वम् रजः तमः च एव रक्षेत् नारायणी सदा ॥ ३८ ॥
rase rūpe ca gandhe ca śabde sparśe ca yoginī . sattvam rajaḥ tamaḥ ca eva rakṣet nārāyaṇī sadā .. 38 ..
आयू रक्षतु वाराही धर्मं रक्षतु वैष्णवी । यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणी ॥ 39 ॥
आयुः रक्षतु वाराही धर्मम् रक्षतु वैष्णवी । यशः कीर्तिम् च लक्ष्मीम् च धनम् विद्याम् च चक्रिणी ॥ ३९ ॥
āyuḥ rakṣatu vārāhī dharmam rakṣatu vaiṣṇavī . yaśaḥ kīrtim ca lakṣmīm ca dhanam vidyām ca cakriṇī .. 39 ..
गोत्रमिन्द्राणि! मे रक्षेत्पशून्मे रक्ष चण्डिके । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ 40 ॥
गोत्रम् इन्द्राणि! मे रक्षेत् पशून् मे रक्ष चण्डिके । पुत्रान् रक्षेत् महालक्ष्मीः भार्याम् रक्षतु भैरवी ॥ ४० ॥
gotram indrāṇi! me rakṣet paśūn me rakṣa caṇḍike . putrān rakṣet mahālakṣmīḥ bhāryām rakṣatu bhairavī .. 40 ..
पन्थानं सुपथा रक्षेन्मार्गं क्षेमकरी तथा । राजद्वारे महालक्ष्मीर्विजया सर्वतः स्थिता ॥ 41 ॥
पन्थानम् सु पथा रक्षेत् मार्गम् क्षेमकरी तथा । राजद्वारे महा-लक्ष्मीः विजया सर्वतस् स्थिता ॥ ४१ ॥
panthānam su pathā rakṣet mārgam kṣemakarī tathā . rājadvāre mahā-lakṣmīḥ vijayā sarvatas sthitā .. 41 ..
रक्षाहीनं तु यत्-स्थानं वर्जितं कवचेन तु । तत्सर्वं रक्ष मे देवि! जयन्ती पापनाशिनी ॥ 42 ॥
रक्षा-हीनम् तु यत् स्थानम् वर्जितम् कवचेन तु । तत् सर्वम् रक्ष मे देवि! जयन्ती पाप-नाशिनी ॥ ४२ ॥
rakṣā-hīnam tu yat sthānam varjitam kavacena tu . tat sarvam rakṣa me devi! jayantī pāpa-nāśinī .. 42 ..
पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः । कवचेनावृतो नित्यं यत्र यत्रैव गच्छति ॥ 43 ॥
पदम् एकम् न गच्छेत् तु यदि इच्छेत् शुभम् आत्मनः । कवचेन आवृतः नित्यम् यत्र यत्र एव गच्छति ॥ ४३ ॥
padam ekam na gacchet tu yadi icchet śubham ātmanaḥ . kavacena āvṛtaḥ nityam yatra yatra eva gacchati .. 43 ..
तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 44 ॥
तत्र तत्र अर्थ-लाभः च विजयः सार्वकामिकः । यम् यम् चिन्तयते कामम् तम् तम् प्राप्नोति निश्चितम् ॥ ४४ ॥
tatra tatra artha-lābhaḥ ca vijayaḥ sārvakāmikaḥ . yam yam cintayate kāmam tam tam prāpnoti niścitam .. 44 ..
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् । निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः ॥ 45 ॥
परम-ऐश्वर्यम् अतुलम् प्राप्स्यते भू-तले पुमान् । निर्भयः जायते मर्त्यः सङ्ग्रामेषु अपराजितः ॥ ४५ ॥
parama-aiśvaryam atulam prāpsyate bhū-tale pumān . nirbhayaḥ jāyate martyaḥ saṅgrāmeṣu aparājitaḥ .. 45 ..
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् । इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥ 46 ॥
त्रैलोक्ये तु भवेत् पूज्यः कवचेन आवृतः पुमान् । इदम् तु देव्याः कवचम् देवानाम् अपि दुर्लभम् ॥ ४६ ॥
trailokye tu bhavet pūjyaḥ kavacena āvṛtaḥ pumān . idam tu devyāḥ kavacam devānām api durlabham .. 46 ..
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः । दैवीकला भवेत्तस्य त्रैलोक्येष्वपराजितः । 47 ॥
यः पठेत् प्रयतः नित्यम् त्रिसन्ध्यम् श्रद्धया अन्वितः । दैवी कला भवेत् तस्य त्रैलोक्येषु अपराजितः । ४७ ॥
yaḥ paṭhet prayataḥ nityam trisandhyam śraddhayā anvitaḥ . daivī kalā bhavet tasya trailokyeṣu aparājitaḥ . 47 ..
जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः । नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥ 48 ॥
जीवेत् वर्ष-शतम् साग्रम् अपमृत्यु-विवर्जितः । नश्यन्ति व्याधयः सर्वे लूता-विस्फोटक-आदयः ॥ ४८ ॥
jīvet varṣa-śatam sāgram apamṛtyu-vivarjitaḥ . naśyanti vyādhayaḥ sarve lūtā-visphoṭaka-ādayaḥ .. 48 ..
स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् । अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥ 49 ॥
स्थावरम् जङ्गमम् च एव कृत्रिमम् च एव यत् विषम् । अभिचाराणि सर्वाणि मन्त्र-यन्त्राणि भू-तले ॥ ४९ ॥
sthāvaram jaṅgamam ca eva kṛtrimam ca eva yat viṣam . abhicārāṇi sarvāṇi mantra-yantrāṇi bhū-tale .. 49 ..
भूचराः खेचराश्चैव जुलजाश्चोपदेशिकाः । सहजा कुलजा माला डाकिनी शाकिनी तथा ॥ 50 ॥
भूचराः खेचराः च एव जुलजाः च उपदेशिकाः । सहजा कुल-जा माला डाकिनी शाकिनी तथा ॥ ५० ॥
bhūcarāḥ khecarāḥ ca eva julajāḥ ca upadeśikāḥ . sahajā kula-jā mālā ḍākinī śākinī tathā .. 50 ..
अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः । ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥ 51 ॥
अन्तरिक्ष-चराः घोराः डाकिन्यः च महा-बलाः । ग्रह-भूत-पिशाचाः च यक्ष-गन्धर्व-राक्षसाः ॥ ५१ ॥
antarikṣa-carāḥ ghorāḥ ḍākinyaḥ ca mahā-balāḥ . graha-bhūta-piśācāḥ ca yakṣa-gandharva-rākṣasāḥ .. 51 ..
ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः । नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥ 52 ॥
ब्रह्मराक्षस-वेतालाः कूष्माण्डाः भैरव-आदयः । नश्यन्ति दर्शनात् तस्य कवचे हृदि संस्थिते ॥ ५२ ॥
brahmarākṣasa-vetālāḥ kūṣmāṇḍāḥ bhairava-ādayaḥ . naśyanti darśanāt tasya kavace hṛdi saṃsthite .. 52 ..
मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् । यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥ 53 ॥
मान-उन्नतिः भवेत् राज्ञः तेजः-वृद्धि-करम् परम् । यशसा वर्धते सः अपि कीर्ति-मण्डित-भू-तले ॥ ५३ ॥
māna-unnatiḥ bhavet rājñaḥ tejaḥ-vṛddhi-karam param . yaśasā vardhate saḥ api kīrti-maṇḍita-bhū-tale .. 53 ..
जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥ 54 ॥
जपेत् सप्तशतीम् चण्डीम् कृत्वा तु कवचम् पुरा । यावत् भू-मण्डलम् धत्ते स शैल-वन-काननम् ॥ ५४ ॥
japet saptaśatīm caṇḍīm kṛtvā tu kavacam purā . yāvat bhū-maṇḍalam dhatte sa śaila-vana-kānanam .. 54 ..
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी । देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभम् ॥ 55 ॥
तावत् तिष्ठति मेदिन्याम् सन्ततिः पुत्र-पौत्रिकी । देहान्ते परमम् स्थानम् यत् सुरैः अपि दुर्लभम् ॥ ५५ ॥
tāvat tiṣṭhati medinyām santatiḥ putra-pautrikī . dehānte paramam sthānam yat suraiḥ api durlabham .. 55 ..
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः । लभते परमं रूपं शिवेन सह मोदते ॥ 56 ॥
प्राप्नोति पुरुषः नित्यम् महामाया-प्रसादतः । लभते परमम् रूपम् शिवेन सह मोदते ॥ ५६ ॥
prāpnoti puruṣaḥ nityam mahāmāyā-prasādataḥ . labhate paramam rūpam śivena saha modate .. 56 ..
॥ इति वाराहपुराणे हरिहरब्रह्म विरचितं देव्याः कवचं सम्पूर्णम् ॥
॥ इति वाराहपुराणे हरि-हर-ब्रह्म विरचितम् देव्याः कवचम् सम्पूर्णम् ॥
.. iti vārāhapurāṇe hari-hara-brahma viracitam devyāḥ kavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In