| |
|

This overlay will guide you through the buttons:

ध्यानम्/dhyānam
मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् । समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ 1 ॥
मृणाल-कुन्द-इन्दु-पयोज-सु प्रभम् पीत-अम्बरम् प्रसृतम् अक्ष-मालिनम् । समस्त-शास्त्र-अर्थ-विधिम् महान्तम् ध्यायेत् कविम् वाञ्छितम् अर्थ-सिद्धये ॥ १ ॥
mṛṇāla-kunda-indu-payoja-su prabham pīta-ambaram prasṛtam akṣa-mālinam . samasta-śāstra-artha-vidhim mahāntam dhyāyet kavim vāñchitam artha-siddhaye .. 1 ..
अथ शुक्रकवचम्/atha śukrakavacham
शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ 2 ॥
शिरः मे भार्गवः पातु भालम् पातु ग्रह-अधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दन-द्युतिः ॥ २ ॥
śiraḥ me bhārgavaḥ pātu bhālam pātu graha-adhipaḥ . netre daityaguruḥ pātu śrotre me candana-dyutiḥ .. 2 ..
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः । वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ 3 ॥
पातु मे नासिकाम् काव्यः वदनम् दैत्य-वन्दितः । वचनम् च उशनाः पातु कण्ठम् श्रीकण्ठ-भक्तिमान् ॥ ३ ॥
pātu me nāsikām kāvyaḥ vadanam daitya-vanditaḥ . vacanam ca uśanāḥ pātu kaṇṭham śrīkaṇṭha-bhaktimān .. 3 ..
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः । नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ 4 ॥
भुजौ तेजः-निधिः पातु कुक्षिम् पातु मनः-व्रजः । नाभिम् भृगुसुतः पातु मध्यम् पातु महीप्रियः ॥ ४ ॥
bhujau tejaḥ-nidhiḥ pātu kukṣim pātu manaḥ-vrajaḥ . nābhim bhṛgusutaḥ pātu madhyam pātu mahīpriyaḥ .. 4 ..
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः । जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥ 5 ॥
कटिम् मे पातु विश्वात्मा उरू मे सुर-पूजितः । जानुम् जाड्य-हरः पातु जङ्घे ज्ञानवताम् वरः ॥ ५ ॥
kaṭim me pātu viśvātmā urū me sura-pūjitaḥ . jānum jāḍya-haraḥ pātu jaṅghe jñānavatām varaḥ .. 5 ..
गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः । सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ 6 ॥
गुल्फौ गुण-निधिः पातु पातु पादौ वर-अम्बरः । सर्वाणि अङ्गानि मे पातु स्वर्ण-माला-परिष्कृतः ॥ ६ ॥
gulphau guṇa-nidhiḥ pātu pātu pādau vara-ambaraḥ . sarvāṇi aṅgāni me pātu svarṇa-mālā-pariṣkṛtaḥ .. 6 ..
फलश्रुतिः/phalaśrutih
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः । न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ 7 ॥
यः इदम् कवचम् दिव्यम् पठति श्रद्धया अन्वितः । न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥
yaḥ idam kavacam divyam paṭhati śraddhayā anvitaḥ . na tasya jāyate pīḍā bhārgavasya prasādataḥ .. 7 ..
॥ इति श्रीब्रह्माण्डपुराणे शुक्रकवचं सम्पूर्णम् ॥
॥ इति श्री-ब्रह्माण्डपुराणे शुक्रकवचम् सम्पूर्णम् ॥
.. iti śrī-brahmāṇḍapurāṇe śukrakavacam sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In