| |
|

This overlay will guide you through the buttons:

अथ सूर्य कवचम्/atha surya kavacham
शृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥ १॥
शृणुष्व मुनि-शार्दूल सूर्यस्य कवचम् शुभम् । शरीर-आरोग्य-दम् दिव्यम् सर्व-सौभाग्य-दायकम् ॥ १॥
śṛṇuṣva muni-śārdūla sūryasya kavacam śubham . śarīra-ārogya-dam divyam sarva-saubhāgya-dāyakam .. 1..
देदीप्यमानमुकुटं स्फुरन्मकरकुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत् ॥ २॥
देदीप्यमान-मुकुटम् स्फुरत्-मकर-कुण्डलम् । ध्यात्वा सहस्रकिरणम् स्तोत्रम् एतत् उदीरयेत् ॥ २॥
dedīpyamāna-mukuṭam sphurat-makara-kuṇḍalam . dhyātvā sahasrakiraṇam stotram etat udīrayet .. 2..
शिरो मे भास्करः पातु ललाटं मेऽमितद्युतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ ३॥
शिरः मे भास्करः पातु ललाटम् मे अमित-द्युतिः । नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥ ३॥
śiraḥ me bhāskaraḥ pātu lalāṭam me amita-dyutiḥ . netre dinamaṇiḥ pātu śravaṇe vāsareśvaraḥ .. 3..
घ्राणं घर्मघृणिः पातु वदनं वेदवाहनः । जिह्वां मे मानदः पातु कण्ठं मे सुरवन्दितः ॥ ४॥
घ्राणम् घर्म-घृणिः पातु वदनम् वेद-वाहनः । जिह्वाम् मे मानदः पातु कण्ठम् मे सुरवन्दितः ॥ ४॥
ghrāṇam gharma-ghṛṇiḥ pātu vadanam veda-vāhanaḥ . jihvām me mānadaḥ pātu kaṇṭham me suravanditaḥ .. 4..
स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः । पातु पादौ द्वादशात्मा सर्वाङ्गं सकलेश्वरः ॥ ५॥
स्कन्धौ प्रभाकरः पातु वक्षः पातु जनप्रियः । पातु पादौ द्वादशात्मा सर्व-अङ्गम् सकलेश्वरः ॥ ५॥
skandhau prabhākaraḥ pātu vakṣaḥ pātu janapriyaḥ . pātu pādau dvādaśātmā sarva-aṅgam sakaleśvaraḥ .. 5..
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके । दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥ ६॥
सूर्य-रक्षा-आत्मकम् स्तोत्रम् लिखित्वा भूर्ज-पत्रके । दधाति यः करे तस्य वशगाः सर्व-सिद्धयः ॥ ६॥
sūrya-rakṣā-ātmakam stotram likhitvā bhūrja-patrake . dadhāti yaḥ kare tasya vaśagāḥ sarva-siddhayaḥ .. 6..
सुस्नातो यो जपेत्सम्यग्योऽधीते स्वस्थमानसः । स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विन्दति ॥ ७॥
सुस्नातः यः जपेत् सम्यक् यः अधीते स्वस्थ-मानसः । स रोग-मुक्तः दीर्घ-आयुः सुखम् पुष्टिम् च विन्दति ॥ ७॥
susnātaḥ yaḥ japet samyak yaḥ adhīte svastha-mānasaḥ . sa roga-muktaḥ dīrgha-āyuḥ sukham puṣṭim ca vindati .. 7..
॥ इति श्रीमद्याज्ञवल्क्यमुनिविरचितं सूर्यकवचस्तोत्रं सम्पूर्णम् ॥
॥ इति श्रीमत्-याज्ञवल्क्य-मुनि-विरचितम् सूर्यकवच-स्तोत्रम् सम्पूर्णम् ॥
.. iti śrīmat-yājñavalkya-muni-viracitam sūryakavaca-stotram sampūrṇam ..
Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In