॥ देवी माहात्म्यम् ॥
PADACHEDA
देवी माहात्म्यम्
TRANSLITERATION
devī māhātmyam
॥ श्रीदुर्गायै नमः ॥
PADACHEDA
श्री-दुर्गायै नमः
TRANSLITERATION
śrī-durgāyai namaḥ
1 ॥ श्रीदुर्गायै नमः ॥
PADACHEDA
श्री-दुर्गायै नमः
TRANSLITERATION
śrī-durgāyai namaḥ
॥ अथ श्रीदुर्गासप्तशती ॥
PADACHEDA
अथ श्रीदुर्गासप्तशती
TRANSLITERATION
atha śrīdurgāsaptaśatī
॥ १. मधुकैटभवधो नाम प्रथमोऽध्यायः ॥
PADACHEDA
मधु-कैटभ-वधः नाम प्रथमः अध्यायः
TRANSLITERATION
madhu-kaiṭabha-vadhaḥ nāma prathamaḥ adhyāyaḥ
विनियोगः
PADACHEDA
विनियोगः
TRANSLITERATION
viniyogaḥ
अस्य श्री प्रथमचरित्रस्य । ब्रह्मा ऋषिः । महाकाली देवता । गायत्री छन्दः । नन्दा शक्तिः । रक्तदन्तिका बीजम् । अग्निस्तत्त्वम् । ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः । ऋग्वेदः स्वरूपम् । श्रीमहाकालीप्रीत्यर्थे प्रथमचरित्रजपे विनियोगः ।
PADACHEDA
अस्य श्री प्रथम-चरित्रस्य ब्रह्मा ऋषिः महा-काली देवता-गायत्री छन्दः नन्दा शक्तिः रक्त-दन्ति का बीजम् अग्निः तत्त्वम् ऋक्-वेदः स्व-रूपम् श्री-महा-काली-प्रीति-अर्थे प्रथम-चरित्र-जपे विनियोगः ऋक्-वेदः स्व-रूपम् श्री-महा-काली-प्रीति-अर्थे प्रथम-चरित्र-जपे विनियोगः
TRANSLITERATION
asya śrī prathama-caritrasya brahmā ṛṣiḥ mahā-kālī devatā-gāyatrī chandaḥ nandā śaktiḥ rakta-danti kā bījam agniḥ tattvam ṛk-vedaḥ sva-rūpam śrī-mahā-kālī-prīti-arthe prathama-caritra-jape viniyogaḥ ṛk-vedaḥ sva-rūpam śrī-mahā-kālī-prīti-arthe prathama-caritra-jape viniyogaḥ
। ध्यानम् ।
PADACHEDA
ध्यानम्
TRANSLITERATION
dhyānam
ॐ खड्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् । नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥ ॐ नमश्चण्डिकायै ॥ ॐ ऐं मार्कण्डेय उवाच ॥ १.१॥
PADACHEDA
ॐखड्गम् चक्र-गदेषु चाप-परिघाम् शूलम् भुशुण्डीम् शिरः शङ्खम् सन्दधतीम् करैः त्रि-नयनाम् सर्व-अङ्ग-भूषा वृताम् नील-अश्म-द्युतिम् आस्य-पाद-दश काम् सेवे महा-कालिकाम् याम् अस्तौत् स्व-पि ते हरौ कमल-जः हन्तुम् मधुम् कैटभम् ॐनमः चण्डिकायै ॐऐम् मार्कण्डेयः उवाच
TRANSLITERATION
oṃkhaḍgam cakra-gadeṣu cāpa-parighām śūlam bhuśuṇḍīm śiraḥ śaṅkham sandadhatīm karaiḥ tri-nayanām sarva-aṅga-bhūṣā vṛtām nīla-aśma-dyutim āsya-pāda-daśa kām seve mahā-kālikām yām astaut sva-pi te harau kamala-jaḥ hantum madhum kaiṭabham oṃnamaḥ caṇḍikāyai oṃaim mārkaṇḍeyaḥ uvāca
सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ १.२॥
PADACHEDA
सावर्णिः सूर्य-तनयः यः मनुः कथ्यते अष्टमः निशामय तत्-उत्पत्तिम् विस्तरात् गदतः मम
TRANSLITERATION
sāvarṇiḥ sūrya-tanayaḥ yaḥ manuḥ kathyate aṣṭamaḥ niśāmaya tat-utpattim vistarāt gadataḥ mama
महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ १.३॥
PADACHEDA
महा-माया अनुभावेन यथा मनु-अन्तर-अधिपः स बभूव महा-भागः सावर्णिः तनयः रवेः
TRANSLITERATION
mahā-māyā anubhāvena yathā manu-antara-adhipaḥ sa babhūva mahā-bhāgaḥ sāvarṇiḥ tanayaḥ raveḥ
स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ १.४॥
PADACHEDA
स्वारोचिषे अन्तरे पूर्वम् चैत्र-वंश-समुद्भवः सुरथः नाम राजा अभूत् समस्ते क्षिति-मण्डले
TRANSLITERATION
svārociṣe antare pūrvam caitra-vaṃśa-samudbhavaḥ surathaḥ nāma rājā abhūt samaste kṣiti-maṇḍale
तस्य पालयतः सम्यक् प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तदा ॥ १.५॥
PADACHEDA
तस्य पालयतः सम्यक् प्रजाः पुत्रान् इव औरसान् बभूवुः शत्रवः भू-पाः कोला विध्वंसिनः तदा
TRANSLITERATION
tasya pālayataḥ samyak prajāḥ putrān iva aurasān babhūvuḥ śatravaḥ bhū-pāḥ kolā vidhvaṃsinaḥ tadā
तस्य तैरभवद् युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ १.६॥
PADACHEDA
तस्य तैः अभवत् युद्धम् अतिप्रबल-दण्डिनः न्यूनैः अपि स तैः युद्धे कोला विध्वंसिभिः जितः
TRANSLITERATION
tasya taiḥ abhavat yuddham atiprabala-daṇḍinaḥ nyūnaiḥ api sa taiḥ yuddhe kolā vidhvaṃsibhiḥ jitaḥ
ततः स्वपुरमायातो निजदेशाधिपोऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ १.७॥
PADACHEDA
ततः स्व-पुरम् आयातः निज-देश-अधिपः अभवत् आक्रान्तः स महा-भागः तैः तदा प्रबल-अरिभिः
TRANSLITERATION
tataḥ sva-puram āyātaḥ nija-deśa-adhipaḥ abhavat ākrāntaḥ sa mahā-bhāgaḥ taiḥ tadā prabala-aribhiḥ
अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः । कोशो बलं चापहृतं तत्रापि स्वपुरे ततः ॥ १.८॥
PADACHEDA
अमात्यैः बलिभिः दुष्टैः दुर्बलस्य दुरात्मभिः कोशः बलम् च अपहृतम् तत्र अपि स्व-पुरे ततः
TRANSLITERATION
amātyaiḥ balibhiḥ duṣṭaiḥ durbalasya durātmabhiḥ kośaḥ balam ca apahṛtam tatra api sva-pure tataḥ
ततो मृगयाव्याजेन हृतस्वाम्यः स भूपतिः । एकाकी हयमारुह्य जगाम गहनं वनम् ॥ १.९॥
PADACHEDA
ततः मृगया-व्याजेन हृत-स्व-आम्यः स भू-पतिः एकाकी हयम् आरुह्य जगाम गहनम् वनम्
TRANSLITERATION
tataḥ mṛgayā-vyājena hṛta-sva-āmyaḥ sa bhū-patiḥ ekākī hayam āruhya jagāma gahanam vanam
स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः । प्रशान्तश्वापदाकीर्णं मुनिशिष्योपशोभितम् ॥ १.१०॥
PADACHEDA
स तत्र आश्रमम् अद्राक्षीत् द्विज-वर्यस्य मेधसः प्रशान्त-श्वापद-आकीर्णम् मुनि-शिष्य-उपशोभितम्
TRANSLITERATION
sa tatra āśramam adrākṣīt dvija-varyasya medhasaḥ praśānta-śvāpada-ākīrṇam muni-śiṣya-upaśobhitam
तस्थौ कञ्चित्स कालं च मुनिना तेन सत्कृतः । इतश्चेतश्च विचरंस्तस्मिन् मुनिवराश्रमे ॥ १.११॥
PADACHEDA
तस्थौ कञ्चित् स कालम् च मुनिना तेन सत्कृतः इतः चेतः च विचरन् तस्मिन् मुनि-वर-आश्रमे
TRANSLITERATION
tasthau kañcit sa kālam ca muninā tena satkṛtaḥ itaḥ cetaḥ ca vicaran tasmin muni-vara-āśrame
सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टमानसः । मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् ॥ १.१२॥
PADACHEDA
सः अचिन्तयत् तदा तत्र मम तु आकृष्ट-मानसः मत्पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हि तत्
TRANSLITERATION
saḥ acintayat tadā tatra mama tu ākṛṣṭa-mānasaḥ matpūrvaiḥ pālitam pūrvam mayā hīnam puram hi tat
मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा । न जाने स प्रधानो मे शूरो हस्ती सदामदः ॥ १.१३॥
PADACHEDA
मत्-भृत्यैः तैः असत्-वृत्तैः धर्मतः पाल्यते न वा न जाने स प्रधानः मे शूरः हस्ती सदा मदः
TRANSLITERATION
mat-bhṛtyaiḥ taiḥ asat-vṛttaiḥ dharmataḥ pālyate na vā na jāne sa pradhānaḥ me śūraḥ hastī sadā madaḥ
मम वैरिवशं यातः कान् भोगानुपलप्स्यते । ये ममानुगता नित्यं प्रसादधनभोजनैः ॥ १.१४॥
PADACHEDA
मम वैरि-वशम् यातः कान् भोगान् उपलप्स्यते ये मम अनुगता नित्यम् प्रसाद-धन-भोजनैः
TRANSLITERATION
mama vairi-vaśam yātaḥ kān bhogān upalapsyate ye mama anugatā nityam prasāda-dhana-bhojanaiḥ
अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् । असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् ॥ १.१५॥
PADACHEDA
अनुवृत्तिम् ध्रुवम् ते अद्य कुर्वन्ति अन्य-मही-भृताम् असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततम् व्ययम्
TRANSLITERATION
anuvṛttim dhruvam te adya kurvanti anya-mahī-bhṛtām asamyagvyayaśīlaistaiḥ kurvadbhiḥ satatam vyayam
सञ्चितः सोऽतिदुःखेन क्षयं कोशो गमिष्यति । एतच्चान्यच्च सततं चिन्तयामास पार्थिवः ॥ १.१६॥
PADACHEDA
सञ्चितः सः अति दुःखेन क्षयम् कोशः गमिष्यति एतत् च अन्यत् च सततम् चिन्तया मा स पार्थिवः
TRANSLITERATION
sañcitaḥ saḥ ati duḥkhena kṣayam kośaḥ gamiṣyati etat ca anyat ca satatam cintayā mā sa pārthivaḥ
तत्र विप्राश्रमाभ्याशे वैश्यमेकं ददर्श सः । स पृष्टस्तेन कस्त्वं भो हेतुश्चागमनेऽत्र कः ॥ १.१७॥
PADACHEDA
तत्र विप्र-आश्रम-अभ्याशे वैश्यम् एकम् ददर्श सः स पृष्टः तेन कः त्वम् भोः हेतुः च आगमने अत्र कः
TRANSLITERATION
tatra vipra-āśrama-abhyāśe vaiśyam ekam dadarśa saḥ sa pṛṣṭaḥ tena kaḥ tvam bhoḥ hetuḥ ca āgamane atra kaḥ
सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे । इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् ॥ १.१८॥
PADACHEDA
सशोकः इव कस्मात् त्वम् दुर्मनाः इव लक्ष्यसे इति आकर्ण्य वचः तस्य भू-पतेः प्रणय-उदितम्
TRANSLITERATION
saśokaḥ iva kasmāt tvam durmanāḥ iva lakṣyase iti ākarṇya vacaḥ tasya bhū-pateḥ praṇaya-uditam
प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ १.१९॥
PADACHEDA
प्रत्युवाच स तम् वैश्यः प्रश्रयावनतः नृपम्
TRANSLITERATION
pratyuvāca sa tam vaiśyaḥ praśrayāvanataḥ nṛpam
वैश्य उवाच ॥ १.२०॥
समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले ॥ १.२१॥
PADACHEDA
समाधिः नाम वैश्यः अहम् उत्पन्नः धनिनाम् कुले
TRANSLITERATION
samādhiḥ nāma vaiśyaḥ aham utpannaḥ dhaninām kule
पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः । विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ॥ १.२२॥
PADACHEDA
पुत्र-दारैः निरस्तः च धन-लोभात् असाधुभिः विहीनः च धनैः दारैः पुत्रैः आदाय मे धनम्
TRANSLITERATION
putra-dāraiḥ nirastaḥ ca dhana-lobhāt asādhubhiḥ vihīnaḥ ca dhanaiḥ dāraiḥ putraiḥ ādāya me dhanam
वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः । सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् ॥ १.२३॥
PADACHEDA
वनम् अभ्यागतः दुःखी निरस्तः च आप्त-बन्धुभिः सः अहम् न वेद्मि पुत्राणाम् कुशला कुशल-आत्मिकाम्
TRANSLITERATION
vanam abhyāgataḥ duḥkhī nirastaḥ ca āpta-bandhubhiḥ saḥ aham na vedmi putrāṇām kuśalā kuśala-ātmikām
प्रवृत्तिं स्वजनानां च दाराणां चात्र संस्थितः । किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् ॥ १.२४॥
PADACHEDA
प्रवृत्तिम् स्व-जनानाम् च दाराणाम् च अत्र संस्थितः किम् नु तेषाम् गृहे क्षेमम् अक्ष इमम् किम् नु साम्प्रतम्
TRANSLITERATION
pravṛttim sva-janānām ca dārāṇām ca atra saṃsthitaḥ kim nu teṣām gṛhe kṣemam akṣa imam kim nu sāmpratam
कथं ते किं नु सद्वृत्ता दुर्वृत्ताः किं नु मे सुताः ॥ १.२५॥
PADACHEDA
कथम् ते किम् नु सत्-वृत्ताः दुर्वृत्ताः किम् नु मे सुताः
TRANSLITERATION
katham te kim nu sat-vṛttāḥ durvṛttāḥ kim nu me sutāḥ
राजोवाच ॥ १.२६॥
यैर्निरस्तो भवाँल्लुब्धैः पुत्रदारादिभिर्धनैः ॥ १.२७॥
PADACHEDA
यैः निरस्तः भवांल्लुब्धैः पुत्र-दार-आदिभिः धनैः
TRANSLITERATION
yaiḥ nirastaḥ bhavāṃllubdhaiḥ putra-dāra-ādibhiḥ dhanaiḥ
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥ १.२८॥
PADACHEDA
तेषु किम् भवतः स्नेहम् अनुबध्नाति मानसम्
TRANSLITERATION
teṣu kim bhavataḥ sneham anubadhnāti mānasam
वैश्य उवाच ॥ १.२९॥
एवमेतद्यथा प्राह भवानस्मद्गतं वचः ॥ १.३०॥
PADACHEDA
एवम् एतत् यथा प्राह भवान् अस्मत्-गतम् वचः
TRANSLITERATION
evam etat yathā prāha bhavān asmat-gatam vacaḥ
किं करोमि न बध्नाति मम निष्ठुरतां मनः । यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ॥ १.३१॥
PADACHEDA
किम् करोमि न बध्नाति मम निष्ठुरताम् मनः यैः सन्त्यज्य पितृ-स्नेहम् धन-लुब्धैः निराकृतः
TRANSLITERATION
kim karomi na badhnāti mama niṣṭhuratām manaḥ yaiḥ santyajya pitṛ-sneham dhana-lubdhaiḥ nirākṛtaḥ
पतिस्वजनहार्दं च हार्दितेष्वेव मे मनः । किमेतन्नाभिजानामि जानन्नपि महामते ॥ १.३२॥
PADACHEDA
पति-स्व-जन-हार्दम् च ह अर्दितेषु एव मे मनः किम् एतत् न अभिजानामि जानन् अपि महा-मते
TRANSLITERATION
pati-sva-jana-hārdam ca ha arditeṣu eva me manaḥ kim etat na abhijānāmi jānan api mahā-mate
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु । तेषां कृते मे निःश्वासो दौर्मनस्यं च जायते ॥ १.३३॥
PADACHEDA
यत्प्रेमप्रवणम् चित्तम् विगुणेषु अपि बन्धुषु तेषाम् कृते मे निःश्वासः दौर्मनस्यम् च जायते
TRANSLITERATION
yatpremapravaṇam cittam viguṇeṣu api bandhuṣu teṣām kṛte me niḥśvāsaḥ daurmanasyam ca jāyate
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ १.३४॥
PADACHEDA
करोमि किम् यत् न मनस्तेष्वप्रीतिषु निष्ठुरम्
TRANSLITERATION
karomi kim yat na manasteṣvaprītiṣu niṣṭhuram
मार्कण्डेय उवाच ॥ १.३५॥
ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ ॥ १.३६॥
PADACHEDA
ततः तौ सहितौ विप्र तम् मुनिम् समुपस्थितौ
TRANSLITERATION
tataḥ tau sahitau vipra tam munim samupasthitau
समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः । कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् ॥ १.३७॥
PADACHEDA
समाधिः नाम वैश्यः असौ स च पार्थिव-सत्तमः कृत्वा तु तौ यथा न्यायम् यथा अर्हम् तेन संविदम्
TRANSLITERATION
samādhiḥ nāma vaiśyaḥ asau sa ca pārthiva-sattamaḥ kṛtvā tu tau yathā nyāyam yathā arham tena saṃvidam
उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ १.३८॥
PADACHEDA
उपविष्टौ कथाः काश्चित् चक्रतुः वैश्य-पार्थिवौ
TRANSLITERATION
upaviṣṭau kathāḥ kāścit cakratuḥ vaiśya-pārthivau
राजोवाच ॥ १.३९॥
भगवंस्त्वामहं प्रष्टुमिच्छाम्येकं वदस्व तत् ॥ १.४०॥
PADACHEDA
भगवंस्त्वामहम् प्रष्टुम् इच्छामि एकम् वदस्व तत्
TRANSLITERATION
bhagavaṃstvāmaham praṣṭum icchāmi ekam vadasva tat
दुःखाय यन्मे मनसः स्वचित्तायत्ततां विना । ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि ॥ १.४१॥
PADACHEDA
दुःखाय यत् मे मनसः स्व-चित्ता यत् तताम् विना ममत्वम् गत-राज्यस्य राज्य-अङ्गेषु अखिलेषु अपि
TRANSLITERATION
duḥkhāya yat me manasaḥ sva-cittā yat tatām vinā mamatvam gata-rājyasya rājya-aṅgeṣu akhileṣu api
जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम । अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः ॥ १.४२॥
PADACHEDA
जानतः अपि यथा-ज्ञस्य किम् एतत् मुनि-सत्तम अयम् च निकृतः पुत्रैः दारैः भृत्यैः तथा उज्झितः
TRANSLITERATION
jānataḥ api yathā-jñasya kim etat muni-sattama ayam ca nikṛtaḥ putraiḥ dāraiḥ bhṛtyaiḥ tathā ujjhitaḥ
स्वजनेन च सन्त्यक्तस्तेषु हार्दी तथाप्यति । एवमेष तथाहं च द्वावप्यत्यन्तदुःखितौ ॥ १.४३॥
PADACHEDA
स्व-जनेन च सन्त्यक्तः तेषु हार्दी तथापि अति एवम् एष तथा अहम् च द्वौ अपि अत्यन्त-दुःखितौ
TRANSLITERATION
sva-janena ca santyaktaḥ teṣu hārdī tathāpi ati evam eṣa tathā aham ca dvau api atyanta-duḥkhitau
दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ । तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि ॥ १.४४॥
PADACHEDA
दृष्ट-दोषे अपि विषये मम तु आकृष्ट-मानसौ तत् किम् एतत् महा-भाग यत् मोहः ज्ञानिनोः अपि
TRANSLITERATION
dṛṣṭa-doṣe api viṣaye mama tu ākṛṣṭa-mānasau tat kim etat mahā-bhāga yat mohaḥ jñāninoḥ api
ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ १.४५॥
PADACHEDA
मम अस्य च भवति एषा विवेक-अन्धस्य मूढता
TRANSLITERATION
mama asya ca bhavati eṣā viveka-andhasya mūḍhatā
ऋषिरुवाच ॥ १.४६॥
ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे ॥ १.४७॥
PADACHEDA
ज्ञानम् अस्ति समस्तस्य जन्तोः विषय-गोचरे
TRANSLITERATION
jñānam asti samastasya jantoḥ viṣaya-gocare
विषयाश्च महाभाग यान्ति चैवं पृथक्पृथक् । दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे ॥ १.४८॥
PADACHEDA
विषयाः च महा-भाग यान्ति च एवम् पृथक् पृथक् दिव-अन्धाः प्राणिनः केचित् रात्रौ अन्धाः तथा अपरे
TRANSLITERATION
viṣayāḥ ca mahā-bhāga yānti ca evam pṛthak pṛthak diva-andhāḥ prāṇinaḥ kecit rātrau andhāḥ tathā apare
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः । ज्ञानिनो मनुजाः सत्यं किं तु ते न हि केवलम् ॥ १.४९॥
PADACHEDA
केचित् दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ज्ञानिनः मनुजाः सत्यम् किम् तु ते न हि केवलम्
TRANSLITERATION
kecit divā tathā rātrau prāṇinastulyadṛṣṭayaḥ jñāninaḥ manujāḥ satyam kim tu te na hi kevalam
यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः । ज्ञानं च तन्मनुष्याणां यत्तेषां मृगपक्षिणाम् ॥ १.५०॥
PADACHEDA
यतः हि ज्ञानिनः सर्वे पशु-पक्षि-मृग-आदयः ज्ञानम् च तत् मनुष्याणाम् यत् तेषाम् मृग-पक्षिणाम्
TRANSLITERATION
yataḥ hi jñāninaḥ sarve paśu-pakṣi-mṛga-ādayaḥ jñānam ca tat manuṣyāṇām yat teṣām mṛga-pakṣiṇām
मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः । ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु ॥ १.५१॥
PADACHEDA
मनुष्याणाम् च यत् तेषाम् तुल्यमन्यत्तथोभयोः ज्ञाने अपि सति पश्य एतान् पतङ्गान् शाव-चञ्चुषु
TRANSLITERATION
manuṣyāṇām ca yat teṣām tulyamanyattathobhayoḥ jñāne api sati paśya etān pataṅgān śāva-cañcuṣu
कणमोक्षादृतान् मोहात्पीड्यमानानपि क्षुधा । मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति ॥ १.५२॥
PADACHEDA
कण-मोक्ष-आदृतान् मोहात् पीड्यमानान् अपि क्षुधा मानुषाः मनुज-व्याघ्र सा अभिलाषाः सुतान् प्रति
TRANSLITERATION
kaṇa-mokṣa-ādṛtān mohāt pīḍyamānān api kṣudhā mānuṣāḥ manuja-vyāghra sā abhilāṣāḥ sutān prati
लोभात् प्रत्युपकाराय नन्वेतान् किं न पश्यसि । तथापि ममतावर्त्ते मोहगर्ते निपातिताः ॥ १.५३॥
PADACHEDA
लोभात् प्रत्युपकाराय ननु एतान् किम् न पश्यसि तथापि ममतावर्त्ते मोह-गर्ते निपातिताः
TRANSLITERATION
lobhāt pratyupakārāya nanu etān kim na paśyasi tathāpi mamatāvartte moha-garte nipātitāḥ
महामायाप्रभावेण संसारस्थितिकारिणा । तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः ॥ १.५४॥
PADACHEDA
महा-माया-प्रभावेण संसार-स्थिति-कारिणा तत् न अत्र विस्मयः कार्यः योग-निद्रा-जगत्-पतेः
TRANSLITERATION
mahā-māyā-prabhāveṇa saṃsāra-sthiti-kāriṇā tat na atra vismayaḥ kāryaḥ yoga-nidrā-jagat-pateḥ
महामाया हरेश्चैषा तया सम्मोह्यते जगत् । ज्ञानिनामपि चेतांसि देवी भगवती हि सा ॥ १.५५॥
PADACHEDA
महा-माया हरेः च एषा तया सम्मोह्यते जगत् ज्ञानिनाम् अपि चेतांसि देवी भगवती हि सा
TRANSLITERATION
mahā-māyā hareḥ ca eṣā tayā sammohyate jagat jñāninām api cetāṃsi devī bhagavatī hi sā
बलादाकृष्य मोहाय महामाया प्रयच्छति । तया विसृज्यते विश्वं जगदेतच्चराचरम् ॥ १.५६॥
PADACHEDA
बलात् आकृष्य मोहाय महा-माया प्रयच्छति तया विसृज्यते विश्वम् जगत्-एतत्-चर-अचरम्
TRANSLITERATION
balāt ākṛṣya mohāya mahā-māyā prayacchati tayā visṛjyate viśvam jagat-etat-cara-acaram
सैषा प्रसन्ना वरदा नृणां भवति मुक्तये । सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ॥ १.५७॥
PADACHEDA
सा एषा प्रसन्ना वरदाः नृणाम् भवति मुक्तये सा विद्या परमा मुक्तेः हेतु-भूता सनातनी
TRANSLITERATION
sā eṣā prasannā varadāḥ nṛṇām bhavati muktaye sā vidyā paramā mukteḥ hetu-bhūtā sanātanī
संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ १.५८॥
PADACHEDA
संसार-बन्ध-हेतुः च सा एव सर्व-ईश्वर-ईश्वरी
TRANSLITERATION
saṃsāra-bandha-hetuḥ ca sā eva sarva-īśvara-īśvarī
राजोवाच ॥ १.५९॥
भगवन् का हि सा देवी महामायेति यां भवान् ॥ १.६०॥
PADACHEDA
भगवन् का हि सा देवी महा-माया इति याम् भवान्
TRANSLITERATION
bhagavan kā hi sā devī mahā-māyā iti yām bhavān
ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज । यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा ॥ १.६१॥
PADACHEDA
ब्रवीति कथम् उत्पन्ना सा कर्म अस्याः च किम् द्विज यत्-प्रभावा च सा देवी यत् स्व-रूपाः यत्-उद्भवा
TRANSLITERATION
bravīti katham utpannā sā karma asyāḥ ca kim dvija yat-prabhāvā ca sā devī yat sva-rūpāḥ yat-udbhavā
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ १.६२॥
PADACHEDA
तत् सर्वम् श्रोतुम् इच्छामि त्वत्तः ब्रह्म-विदाम् वर
TRANSLITERATION
tat sarvam śrotum icchāmi tvattaḥ brahma-vidām vara
ऋषिरुवाच ॥ १.६३॥
नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् ॥ १.६४॥
PADACHEDA
नित्या एव सा जगत्-मूर्तिः तया सर्वम् इदम् ततम्
TRANSLITERATION
nityā eva sā jagat-mūrtiḥ tayā sarvam idam tatam
तथापि तत्समुत्पत्तिर्बहुधा श्रूयतां मम । देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा ॥ १.६५॥
PADACHEDA
तथापि तत् स-मुत् पत्तिः बहुधा श्रूयताम् मम देवानाम् कार्य-सिद्धि-अर्थम् आविर्भवति सा यदा
TRANSLITERATION
tathāpi tat sa-mut pattiḥ bahudhā śrūyatām mama devānām kārya-siddhi-artham āvirbhavati sā yadā
उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते । योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते ॥ १.६६॥
PADACHEDA
उत्पन्ना इति तदा लोके सा नित्या अपि अभिधीयते योग-निद्राम् यदा विष्णुः जगती-एक-अर्णवी-कृते
TRANSLITERATION
utpannā iti tadā loke sā nityā api abhidhīyate yoga-nidrām yadā viṣṇuḥ jagatī-eka-arṇavī-kṛte
आस्तीर्य शेषमभजत् कल्पान्ते भगवान् प्रभुः । तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ ॥ १.६७॥
PADACHEDA
आस्तीर्य शेषम् अभजत् कल्प-अन्ते भगवान् प्रभुः तदा द्वौ असुरौ घोरौ विख्यातौ मधु-कैटभौ
TRANSLITERATION
āstīrya śeṣam abhajat kalpa-ante bhagavān prabhuḥ tadā dvau asurau ghorau vikhyātau madhu-kaiṭabhau
विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ । स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः ॥ १.६८॥
PADACHEDA
विष्णु-कर्ण-मल-उद्भूतौ हन्तुम् ब्रह्माणम् उद्यतौ स नाभि-कमले विष्णोः स्थितः ब्रह्मा प्रजापतिः
TRANSLITERATION
viṣṇu-karṇa-mala-udbhūtau hantum brahmāṇam udyatau sa nābhi-kamale viṣṇoḥ sthitaḥ brahmā prajāpatiḥ
दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् । तुष्टाव योगनिद्रां तामेकाग्रहृदयः स्थितः ॥ १.६९॥
PADACHEDA
दृष्ट्वा तौ असुरौ च उग्रौ प्रसुप्तम् च जन-अर्दनम् तुष्टाव योग-निद्राम् ताम् एक-अग्र-हृदयः स्थितः
TRANSLITERATION
dṛṣṭvā tau asurau ca ugrau prasuptam ca jana-ardanam tuṣṭāva yoga-nidrām tām eka-agra-hṛdayaḥ sthitaḥ
विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् । विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ १.७०॥
PADACHEDA
विबोधन् आर्थाय हरेः हरि-नेत्र-कृत-आलयाम् विश्व-ईश्वरीम् जगत्-धात्रीम् स्थिति-संहार-कारिणीम्
TRANSLITERATION
vibodhan ārthāya hareḥ hari-netra-kṛta-ālayām viśva-īśvarīm jagat-dhātrīm sthiti-saṃhāra-kāriṇīm
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ १.७१॥
PADACHEDA
निद्राम् भगवतीम् विष्णोः अतुलाम् तेजसः प्रभुः
TRANSLITERATION
nidrām bhagavatīm viṣṇoḥ atulām tejasaḥ prabhuḥ
ब्रह्मोवाच ॥ १.७२॥
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ १.७३॥
PADACHEDA
त्वम् स्वाहा त्वम् स्वधा त्वम् हि वषट्कारः स्वर-आत्मिका
TRANSLITERATION
tvam svāhā tvam svadhā tvam hi vaṣaṭkāraḥ svara-ātmikā
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता । अर्धमात्रा स्थिता नित्या यानुच्चार्याविशेषतः ॥ १.७४॥
PADACHEDA
सुधा त्वम् अक्षरे नित्ये त्रिधा मातृ-आत्मिका स्थिता अर्ध-मात्रा स्थिताः नित्याः यान् उच्चार्या विशेषतः
TRANSLITERATION
sudhā tvam akṣare nitye tridhā mātṛ-ātmikā sthitā ardha-mātrā sthitāḥ nityāḥ yān uccāryā viśeṣataḥ
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा । त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ॥ १.७५॥
PADACHEDA
त्वम् एव सन्ध्या सावित्री त्वम् देवि जननी परा त्वया एतत् धार्यते विश्वम् त्वया एतत् सृज्यते जगत्
TRANSLITERATION
tvam eva sandhyā sāvitrī tvam devi jananī parā tvayā etat dhāryate viśvam tvayā etat sṛjyate jagat
त्वयैतत् पाल्यते देवि त्वमत्स्यन्ते च सर्वदा । विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ॥ १.७६॥
PADACHEDA
त्वया एतत् पाल्यते देवि त्वम् अत्सि अन्ते च सर्वदा विसृष्टौ सृष्टि-रूपा त्वम् स्थिति-रूपा च पालने
TRANSLITERATION
tvayā etat pālyate devi tvam atsi ante ca sarvadā visṛṣṭau sṛṣṭi-rūpā tvam sthiti-rūpā ca pālane
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये । महाविद्या महामाया महामेधा महास्मृतिः ॥ १.७७॥
PADACHEDA
तथा संहृति-रूप-अन्ते जगतः अस्य जगत्-मये महा-विद्या-महा-माया-महा-मेधा-महा-स्मृतिः
TRANSLITERATION
tathā saṃhṛti-rūpa-ante jagataḥ asya jagat-maye mahā-vidyā-mahā-māyā-mahā-medhā-mahā-smṛtiḥ
महामोहा च भवती महादेवी महेश्वरी । प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ १.७८॥
PADACHEDA
महा-मोहा च भवती महा-देवी महेश्वरी प्रकृतिः त्वम् च सर्वस्य गुण-त्रय-विभाविनी
TRANSLITERATION
mahā-mohā ca bhavatī mahā-devī maheśvarī prakṛtiḥ tvam ca sarvasya guṇa-traya-vibhāvinī
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा । त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ॥ १.७९॥
PADACHEDA
काल-रात्रिः महा-रात्रिः मोह-रात्रिः च दारुणा त्वम् श्रीः त्वम् ईश्वरी त्वम् ह्रीः त्वम् बुद्धिः बोध-लक्षणा
TRANSLITERATION
kāla-rātriḥ mahā-rātriḥ moha-rātriḥ ca dāruṇā tvam śrīḥ tvam īśvarī tvam hrīḥ tvam buddhiḥ bodha-lakṣaṇā
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च । खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ १.८०॥
PADACHEDA
लज्जा पुष्टिः तथा तुष्टिः त्वम् शान्तिः क्षान्तिः एव च खड्गिनी शूलिनी घोराः गदिनी चक्रिणी तथा
TRANSLITERATION
lajjā puṣṭiḥ tathā tuṣṭiḥ tvam śāntiḥ kṣāntiḥ eva ca khaḍginī śūlinī ghorāḥ gadinī cakriṇī tathā
शङ्खिनी चापिनी बाणभुशुण्डीपरिघायुधा । सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी ॥ १.८१॥
PADACHEDA
शङ्खिनी चापिनी बाण-भुशुण्डी-परिघ-आयुधा सौम्या सौम्य-तर-अशेष-सौम्येभ्यः तु अति सुन्दरी
TRANSLITERATION
śaṅkhinī cāpinī bāṇa-bhuśuṇḍī-parigha-āyudhā saumyā saumya-tara-aśeṣa-saumyebhyaḥ tu ati sundarī
परापराणां परमा त्वमेव परमेश्वरी । यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके ॥ १.८२॥
PADACHEDA
परा पराणाम् परमा त्वम् एव परमेश्वरी यत् च किञ्चित् क्वचित् वस्तु सत्-असत् वा खिल-आत्मिके
TRANSLITERATION
parā parāṇām paramā tvam eva parameśvarī yat ca kiñcit kvacit vastu sat-asat vā khila-ātmike
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया । यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ १.८३॥
PADACHEDA
तस्य सर्वस्य या शक्तिः सा त्वम् किम् स्तूयसे मया यया त्वया जगत्-स्रष्टा जगत्-पाती अत्ति यः जगत्
TRANSLITERATION
tasya sarvasya yā śaktiḥ sā tvam kim stūyase mayā yayā tvayā jagat-sraṣṭā jagat-pātī atti yaḥ jagat
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः । विष्णुः शरीरग्रहणमहमीशान एव च ॥ १.८४॥
PADACHEDA
सः अपि निद्रा-वशम् नीतः कः त्वाम् स्तोतुम् इह ईश्वरः विष्णुः शरीर-ग्रहणम् अहम् ईशानः एव च
TRANSLITERATION
saḥ api nidrā-vaśam nītaḥ kaḥ tvām stotum iha īśvaraḥ viṣṇuḥ śarīra-grahaṇam aham īśānaḥ eva ca
कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् । सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ १.८५॥
PADACHEDA
कारिताः ते यतः अतः त्वाम् कः स्तोतुम् शक्तिमान् भवेत् सा त्वम् इत्थम् प्रभावैः स्वैः उदारैः देवि संस्तुता
TRANSLITERATION
kāritāḥ te yataḥ ataḥ tvām kaḥ stotum śaktimān bhavet sā tvam ittham prabhāvaiḥ svaiḥ udāraiḥ devi saṃstutā
मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ । प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ १.८६॥
PADACHEDA
मोहयै तौ दुराधर्षौ असुरौ मधु-कैटभौ प्रबोधम् च जगत्-स्वामी नीयताम् अच्युतः लघु
TRANSLITERATION
mohayai tau durādharṣau asurau madhu-kaiṭabhau prabodham ca jagat-svāmī nīyatām acyutaḥ laghu
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ १.८७॥
PADACHEDA
बोधः च क्रियताम् अस्य हन्तुम् एतौ महा-असुरौ
TRANSLITERATION
bodhaḥ ca kriyatām asya hantum etau mahā-asurau
ऋषिरुवाच ॥ १.८८॥
एवं स्तुता तदा देवी तामसी तत्र वेधसा ॥ १.८९॥
PADACHEDA
एवम् स्तुता तदा देवी तामसी तत्र वेधसा
TRANSLITERATION
evam stutā tadā devī tāmasī tatra vedhasā
विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ । नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः ॥ १.९०॥
PADACHEDA
विष्णोः प्रबोधन-अर्थाय निहन्तुम् मधु-कैटभौ नेत्रा अस्य नासिका-बाहु-हृदयेभ्यः तथा उरसः
TRANSLITERATION
viṣṇoḥ prabodhana-arthāya nihantum madhu-kaiṭabhau netrā asya nāsikā-bāhu-hṛdayebhyaḥ tathā urasaḥ
निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः । उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः ॥ १.९१॥
PADACHEDA
निर्गम्य दर्शने तस्थौ ब्रह्मणः अव्यक्त-जन्मनः उत्तस्थौ च जगत्-नाथः तया मुक्तः जन-अर्दनः
TRANSLITERATION
nirgamya darśane tasthau brahmaṇaḥ avyakta-janmanaḥ uttasthau ca jagat-nāthaḥ tayā muktaḥ jana-ardanaḥ
एकार्णवेऽहिशयनात्ततः स ददृशे च तौ । मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ ॥ १.९२॥
PADACHEDA
एक-अर्णवे अहि-शयनात् ततः स ददृशे च तौ मधु-कैटभौ दुरात्मा न अवति वीर्य-पराक्रमौ
TRANSLITERATION
eka-arṇave ahi-śayanāt tataḥ sa dadṛśe ca tau madhu-kaiṭabhau durātmā na avati vīrya-parākramau
क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ । समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः ॥ १.९३॥
PADACHEDA
क्रोध-रक्त-ईक्षणौ अत्तुम् ब्रह्माणम् जनित-उद्यमौ समुत्थाय ततः ताभ्याम् युयुधे भगवान् हरिः
TRANSLITERATION
krodha-rakta-īkṣaṇau attum brahmāṇam janita-udyamau samutthāya tataḥ tābhyām yuyudhe bhagavān hariḥ
पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः । तावप्यतिबलोन्मत्तौ महामायाविमोहितौ ॥ १.९४॥
PADACHEDA
पञ्च-वर्ष-सहस्राणि बाहु-प्रहरणः विभुः तौ अपि अतिबल-उन्मत्तौ महा-माया-विमोहितौ
TRANSLITERATION
pañca-varṣa-sahasrāṇi bāhu-praharaṇaḥ vibhuḥ tau api atibala-unmattau mahā-māyā-vimohitau
उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ १.९५॥
PADACHEDA
उक्तवन्तौ वरः अस्मत्तः व्रियताम् इति केशवम्
TRANSLITERATION
uktavantau varaḥ asmattaḥ vriyatām iti keśavam
श्रीभगवानुवाच ॥ १.९६॥
भवेतामद्य मे तुष्टौ मम वध्यावुभावपि ॥ १.९७॥
PADACHEDA
भवेताम् अद्य मे तुष्टौ मम वध्यौ उभौ अपि
TRANSLITERATION
bhavetām adya me tuṣṭau mama vadhyau ubhau api
किमन्येन वरेणात्र एतावद्धि वृतं मया ॥ १.९८॥
PADACHEDA
किम् अन्येन वरेण अत्रे एतावत् हि वृतम् मया
TRANSLITERATION
kim anyena vareṇa atre etāvat hi vṛtam mayā
ऋषिरुवाच ॥ १.९९॥
वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् ॥ १.१००॥
PADACHEDA
वञ्चिताभ्याम् इति तदा सर्वम् आपः मयम् जगत्
TRANSLITERATION
vañcitābhyām iti tadā sarvam āpaḥ mayam jagat
विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः । आवां जहि न यत्रोर्वी सलिलेन परिप्लुता ॥ १.१०१॥
PADACHEDA
विलोक्य ताभ्याम् गदितः भगवान् कमल-ईक्षणः आवाम् जहि न यत्र उर्वी सलिलेन परिप्लुता
TRANSLITERATION
vilokya tābhyām gaditaḥ bhagavān kamala-īkṣaṇaḥ āvām jahi na yatra urvī salilena pariplutā
ऋषिरुवाच ॥ १.१०२॥
तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता । कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः ॥ १.१०३॥
PADACHEDA
तथा इति उक्त्वा भगवता शङ्ख-चक्र-गदा-भृता कृत्वा चक्रेण वै छिन्ने जघने शिरसी तयोः
TRANSLITERATION
tathā iti uktvā bhagavatā śaṅkha-cakra-gadā-bhṛtā kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ
एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् । प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ १.१०४॥
PADACHEDA
एवम् एषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् प्रभावम् अस्याः देव्याः तु भूयः शृणु वदामि ते
TRANSLITERATION
evam eṣā samutpannā brahmaṇā saṃstutā svayam prabhāvam asyāḥ devyāḥ tu bhūyaḥ śṛṇu vadāmi te
। ऐं ॐ ।
PADACHEDA
ऐम् ओं
TRANSLITERATION
aim oṃ
॥ स्वस्ति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम प्रथमोऽध्यायः ॥ १॥
PADACHEDA
स्वस्ति श्री-मार्कण्डेय-पुराणे सा वर्णिके मनु-अन्तरे देवी-माहात्म्ये मधु-कैटभ-वधः नाम प्रथमः अध्यायः
TRANSLITERATION
svasti śrī-mārkaṇḍeya-purāṇe sā varṇike manu-antare devī-māhātmye madhu-kaiṭabha-vadhaḥ nāma prathamaḥ adhyāyaḥ