Durga Atharvashirsham

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English



ॐ सर्वे वै देवा देवीमुपतस्थुः कासि त्वं महादेवीति ॥ 1 ॥
ōṃ sarvē vai dēvā dēvīmupatasthuḥ kāsi tva-mmahādēvīti ॥ 1 ॥
साऽब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगत् । शून्यं चाशून्यं च ॥ 2 ॥
sā-'bravīdaha-mbrahmasvarūpiṇī । mattaḥ prakṛtipuruṣātmaka-ñjagat । śūnya-ñchāśūnya-ñcha ॥ 2 ॥
अहमानन्दानानन्दौ । अहं-विँज्ञानाविज्ञाने । अहं ब्रह्माब्रह्मणि वेदितव्ये । अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् ॥ 3 ॥
ahamānandānānandau । ahaṃ vijñānāvijñānē । aha-mbrahmābrahmaṇi vēditavyē । aha-mpañchabhūtānyapañchabhūtāni । ahamakhila-ñjagat ॥ 3 ॥
वेदोऽहमवेदोऽहम् । विद्याऽहमविद्याऽहम् । अजाऽहमनजाऽहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् ॥ 4 ॥
vēdō-'hamavēdō-'ham । vidyā-'hamavidyā-'ham । ajā-'hamanajā-'ham । adhaśchōrdhva-ñcha tiryakchāham ॥ 4 ॥
अहं रुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणावुभौ बिभर्मि । अहमिन्द्राग्नी अहमश्विनावुभौ ॥ 5 ॥
ahaṃ rudrēbhirvasubhiścharāmi । ahamādityairuta viśvadēvaiḥ । aha-mmitrāvaruṇāvubhau bibharmi । ahamindrāgnī ahamaśvināvubhau ॥ 5 ॥
अहं सोमं त्वष्टारं पूषणं भगं दधामि । अहं-विँष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ 6 ॥
ahaṃ sōma-ntvaṣṭāra-mpūṣaṇa-mbhaga-ndadhāmi । ahaṃ viṣṇumurukrama-mbrahmāṇamuta prajāpati-ndadhāmi ॥ 6 ॥
अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒3 यज॑मानाय सुन्व॒ते । अ॒हं राष्ट्री॑ स॒ङ्गम॑नी॒ वसू॑नां चिकि॒तुषी॑ प्रथ॒मा य॒ज्ञिया॑नाम् । अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्वन्तः स॑मु॒द्रे । य एवं-वेँद । स देवीं सम्पदमाप्नोति ॥ 7 ॥
a̠ha-nda̍dhāmi̠ dravi̍ṇaṃ ha̠viṣma̍tē suprā̠vyē̠3 yaja̍mānāya sunva̠tē । a̠haṃ rāṣṭrī̍ sa̠ṅgama̍nī̠ vasū̍nā-ñchiki̠tuṣī̍ pratha̠mā ya̠jñiyā̍nām । a̠haṃ su̍vē pi̠tara̍masya mū̠rdhanmama̠ yōni̍ra̠psvanta-ssa̍mu̠drē । ya ēvaṃ vēda । sa dēvīṃ sampadamāpnōti ॥ 7 ॥
ते देवा अब्रुवन् – नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ 8 ॥
tē dēvā abruvan – namō dēvyai mahādēvyai śivāyai satata-nnamaḥ । namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatā-ssma tām ॥ 8 ॥
ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं-वैँ॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा᳚म् । दु॒र्गां दे॒वीं शर॑णं प्रप॑द्यामहेऽसुरान्नाशयित्र्यै ते नमः ॥ 9 ॥
tāma̠gniva̍rṇā̠-ntapa̍sā jvala̠ntīṃ vai̍rōcha̠nī-ṅka̍rmapha̠lēṣu̠ juṣṭā̎m । du̠rgā-ndē̠vīṃ śara̍ṇa-mprapa̍dyāmahē-'surānnāśayitryai tē namaḥ ॥ 9 ॥
(ऋ.वे.8.100.11)
दे॒वीं-वाँच॑मजनयन्त दे॒वास्तां-विँ॒श्वरू॑पाः प॒शवो॑ वदन्ति । सा नो॑ म॒न्द्रेष॒मूर्जं॒ दुहा॑ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ॥ 10 ॥
dē̠vīṃ vācha̍majanayanta dē̠vāstāṃ vi̠śvarū̍pāḥ pa̠śavō̍ vadanti । sā nō̍ ma̠ndrēṣa̠mūrja̠-nduhā̍nā dhē̠nurvāga̠smānupa̠ suṣṭu̠taitu̍ ॥ 10 ॥
कालरात्रीं ब्रह्मस्तुतां-वैँष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ 11 ॥
kālarātrī-mbrahmastutāṃ vaiṣṇavīṃ skandamātaram । sarasvatīmaditi-ndakṣaduhitara-nnamāmaḥ pāvanāṃ śivām ॥ 11 ॥
महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ 12 ॥
mahālakṣmyai cha vidmahē sarvaśaktyai cha dhīmahi । tannō dēvī prachōdayāt ॥ 12 ॥
अदितिर्​ह्यजनिष्ट दक्ष या दुहिता तव । तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ 13 ॥
aditir​hyajaniṣṭa dakṣa yā duhitā tava । tā-ndēvā anvajāyanta bhadrā amṛtabandhavaḥ ॥ 13 ॥
कामो योनिः कमला वज्रपाणि- र्गुहा हसा मातरिश्वाभ्रमिन्द्रः । पुनर्गुहा सकला मायया च पुरूच्यैषा विश्वमातादिविद्योम् ॥ 14 ॥
kāmō yōniḥ kamalā vajrapāṇi- rguhā hasā mātariśvābhramindraḥ । punarguhā sakalā māyayā cha purūchyaiṣā viśvamātādividyōm ॥ 14 ॥
एषाऽऽत्मशक्तिः । एषा विश्वमोहिनी । पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या । य एवं-वेँद स शोकं तरति ॥ 15 ॥
ēṣā-''tmaśaktiḥ । ēṣā viśvamōhinī । pāśāṅkuśadhanurbāṇadharā । ēṣā śrīmahāvidyā । ya ēvaṃ vēda sa śōka-ntarati ॥ 15 ॥
नमस्ते अस्तु भगवति मातरस्मान्पाहि सर्वतः ॥ 16 ॥
namastē astu bhagavati mātarasmānpāhi sarvataḥ ॥ 16 ॥
सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षा सिद्धाः । सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहनक्षत्रज्योतींषि । कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् । पापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् । अनन्तां-विँजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ 17 ॥
saiṣāṣṭau vasavaḥ । saiṣaikādaśa rudrāḥ । saiṣā dvādaśādityāḥ । saiṣā viśvēdēvā-ssōmapā asōmapāścha । saiṣā yātudhānā asurā rakṣāṃsi piśāchā yakṣā siddhāḥ । saiṣā sattvarajastamāṃsi । saiṣā brahmaviṣṇurudrarūpiṇī । saiṣā prajāpatīndramanavaḥ । saiṣā grahanakṣatrajyōtīṃṣi । kalākāṣṭhādikālarūpiṇī । tāmaha-mpraṇaumi nityam । pāpāpahāriṇī-ndēvī-mbhuktimuktipradāyinīm । anantāṃ vijayāṃ śuddhāṃ śaraṇyāṃ śivadāṃ śivām ॥ 17 ॥
वियदीकारसं​युँक्तं-वीँतिहोत्रसमन्वितम् । अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ 18 ॥
viyadīkārasaṃyuktaṃ vītihōtrasamanvitam । ardhēndulasita-ndēvyā bījaṃ sarvārthasādhakam ॥ 18 ॥
एवमेकाक्षरं ब्रह्म यतयः शुद्धचेतसः । ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ 19 ॥
ēvamēkākṣara-mbrahma yataya-śśuddhachētasaḥ । dhyāyanti paramānandamayā jñānāmburāśayaḥ ॥ 19 ॥
वाङ्माया ब्रह्मसूस्तस्मात् षष्ठं-वँक्त्रसमन्वितम् । सूर्योऽवामश्रोत्रबिन्दुसं​युँक्तष्टात्तृतीयकः । नारायणेन सम्मिश्रो वायुश्चाधरयुक्ततः । विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ 20 ॥
vāṅmāyā brahmasūstasmā-thṣaṣṭhaṃ vaktrasamanvitam । sūryō-'vāmaśrōtrabindusaṃyuktaṣṭāttṛtīyakaḥ । nārāyaṇēna sammiśrō vāyuśchādharayuktataḥ । vichchē navārṇakō-'rṇa-ssyānmahadānandadāyakaḥ ॥ 20 ॥
हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् । पाशाङ्कुशधरां सौम्यां-वँरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ 21 ॥
hṛtpuṇḍarīkamadhyasthā-mprātassūryasamaprabhām । pāśāṅkuśadharāṃ saumyāṃ varadābhayahastakām । trinētrāṃ raktavasanā-mbhaktakāmadughā-mbhajē ॥ 21 ॥
नमामि त्वां महादेवीं महाभयविनाशिनीम् । महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ 22 ॥
namāmi tvā-mmahādēvī-mmahābhayavināśinīm । mahādurgapraśamanī-mmahākāruṇyarūpiṇīm ॥ 22 ॥
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यते अज्ञेया । यस्या अन्तो न लभ्यते तस्मादुच्यते अनन्ता । यस्या लक्ष्यं नोपलक्ष्यते तस्मादुच्यते अलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यते अजा । एकैव सर्वत्र वर्तते तस्मादुच्यते एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यते अज्ञेयानन्तालक्ष्याजैका नैकेति ॥ 23 ॥
yasyā-ssvarūpa-mbrahmādayō na jānanti tasmāduchyatē ajñēyā । yasyā antō na labhyatē tasmāduchyatē anantā । yasyā lakṣya-nnōpalakṣyatē tasmāduchyatē alakṣyā । yasyā janana-nnōpalabhyatē tasmāduchyatē ajā । ēkaiva sarvatra vartatē tasmāduchyatē ēkā । ēkaiva viśvarūpiṇī tasmāduchyatē naikā । ata ēvōchyatē ajñēyānantālakṣyājaikā naikēti ॥ 23 ॥
मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी । ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी । यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ॥ 24 ॥
mantrāṇā-mmātṛkā dēvī śabdānā-ñjñānarūpiṇī । jñānānā-ñchinmayātītā śūnyānāṃ śūnyasākṣiṇī । yasyāḥ paratara-nnāsti saiṣā durgā prakīrtitā ॥ 24 ॥
तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ 25 ॥
tā-ndurgā-ndurgamā-ndēvī-ndurāchāravighātinīm । namāmi bhavabhītō-'haṃ saṃsārārṇavatāriṇīm ॥ 25 ॥
इदमथर्वशीर्​षं-योँऽधीते स पञ्चाथर्वशीर्​षजपफलमाप्नोति । इदमथर्वशीर्​षमज्ञात्वा योऽर्चां स्थापयति । शतलक्षं प्रजप्त्वाऽपि सोऽर्चासिद्धिं न विन्दति । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः । दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते । महादुर्गाणि तरति महादेव्याः प्रसादतः । 26 ॥
idamatharvaśīr​ṣaṃ yō-'dhītē sa pañchātharvaśīr​ṣajapaphalamāpnōti । idamatharvaśīr​ṣamajñātvā yō-'rchāṃ sthāpayati । śatalakṣa-mprajaptvā-'pi sō-'rchāsiddhi-nna vindati । śatamaṣṭōttara-ñchāsya puraścharyāvidhi-ssmṛtaḥ । daśavāra-mpaṭhēdyastu sadyaḥ pāpaiḥ pramuchyatē । mahādurgāṇi tarati mahādēvyāḥ prasādataḥ । 26 ॥
सायमधीयानो दिवसकृतं पापं नाशयति । प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः प्रयुञ्जानो अपापो भवति । निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनायां प्रतिमायां जप्त्वा देवतासान्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति । स महामृत्युं तरति । य एवं-वेँद । इत्युपनिषत् ॥ 27 ॥
sāyamadhīyānō divasakṛta-mpāpa-nnāśayati । prātaradhīyānō rātrikṛta-mpāpa-nnāśayati । sāya-mprātaḥ prayuñjānō apāpō bhavati । niśīthē turīyasandhyāyā-ñjaptvā vāksiddhirbhavati । nūtanāyā-mpratimāyā-ñjaptvā dēvatāsānnidhya-mbhavati । prāṇapratiṣṭhāyā-ñjaptvā prāṇānā-mpratiṣṭhā bhavati । bhaumāśvinyā-mmahādēvīsannidhau japtvā mahāmṛtyu-ntarati । sa mahāmṛtyu-ntarati । ya ēvaṃ vēda । ityupaniṣat ॥ 27 ॥
इति देव्यथर्वशीर्​षम् ।
iti dēvyatharvaśīr​ṣam ।

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In