| |
|

This overlay will guide you through the buttons:

मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १.१॥
मनुम् एकाग्रम् आसीनम् अभिगम्य महा-ऋषयः । प्रतिपूज्य यथान्यायम् इदम् वचनम् अब्रुवन् ॥ १।१॥
manum ekāgram āsīnam abhigamya mahā-ṛṣayaḥ . pratipūjya yathānyāyam idam vacanam abruvan .. 1.1..
1.1. The great sages approached Manu, who was seated with a collected mind, and, having duly worshipped him, spoke as follows:
भगवन् सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥ १.२॥
भगवन् सर्व-वर्णानाम् यथावत् अनुपूर्वशस् । अन्तर-प्रभवानाम् च धर्मान् नः वक्तुम् अर्हसि ॥ १।२॥
bhagavan sarva-varṇānām yathāvat anupūrvaśas . antara-prabhavānām ca dharmān naḥ vaktum arhasi .. 1.2..
1.2. ’Deign, divine one, to declare to us precisely and in due order the sacred laws of each of the (four chief) castes (varna) and of the intermediate ones.
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयम्भुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो ॥ १.३॥
त्वम् एकः हि अस्य सर्वस्य विधानस्य स्वयम्भुवः । अचिन्त्यस्य अप्रमेयस्य कार्य-तत्त्व-अर्थ-विद् प्रभो ॥ १।३॥
tvam ekaḥ hi asya sarvasya vidhānasya svayambhuvaḥ . acintyasya aprameyasya kārya-tattva-artha-vid prabho .. 1.3..
1.3. ’For thou, O Lord, alone knowest the purport, (i.e.) the rites, and the knowledge of the soul, (taught) in this whole ordinance of the Self-existent (Svayambhu), which is unknowable and unfathomable.’
स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः । प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥ १.४॥
स तैः पृष्टः तथा सम्यक् अमित-ओजाः महात्मभिः । प्रत्युवाच अर्च्य तान् सर्वान् महा-ऋषीन् श्रूयताम् इति ॥ १।४॥
sa taiḥ pṛṣṭaḥ tathā samyak amita-ojāḥ mahātmabhiḥ . pratyuvāca arcya tān sarvān mahā-ṛṣīn śrūyatām iti .. 1.4..
1.4. He, whose power is measureless, being thus asked by the high-minded great sages, duly honoured them, and answered, ’Listen!’
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ १.५॥
आसीत् इदम् तमः-भूतम् अप्रज्ञातम् अलक्षणम् । अप्रतर्क्यम् अविज्ञेयम् प्रसुप्तम् इव सर्वतस् ॥ १।५॥
āsīt idam tamaḥ-bhūtam aprajñātam alakṣaṇam . apratarkyam avijñeyam prasuptam iva sarvatas .. 1.5..
1.5. This (universe) existed in the shape of Darkness, unperceived, destitute of distinctive marks, unattainable by reasoning, unknowable, wholly immersed, as it were, in deep sleep.
ततः स्वयम्भूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृत्तोजाः प्रादुरासीत्तमोनुदः ॥ १.६॥
ततस् स्वयम्भूः भगवान् अव्यक्तः व्यञ्जयन् इदम् । महाभूत-आदि वृत्त-ओजाः प्रादुरासीत् तमोनुदः ॥ १।६॥
tatas svayambhūḥ bhagavān avyaktaḥ vyañjayan idam . mahābhūta-ādi vṛtta-ojāḥ prādurāsīt tamonudaḥ .. 1.6..
1.6. Then the divine Self-existent (Svayambhu, himself) indiscernible, (but) making (all) this, the great elements and the rest, discernible, appeared with irresistible (creative) power, dispelling the darkness.
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एष स्वयमुद्बभौ ॥ १.७॥
यः असौ अतीन्द्रिय-ग्राह्यः सूक्ष्मः अव्यक्तः सनातनः । सर्व-भूत-मयः अचिन्त्यः सः एष स्वयम् उद्बभौ ॥ १।७॥
yaḥ asau atīndriya-grāhyaḥ sūkṣmaḥ avyaktaḥ sanātanaḥ . sarva-bhūta-mayaḥ acintyaḥ saḥ eṣa svayam udbabhau .. 1.7..
1.7. He who can be perceived by the internal organ (alone), who is subtile, indiscernible, and eternal, who contains all created beings and is inconceivable, shone forth of his own (will).
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ १.८॥
सः अभिध्याय शरीरात् स्वात् सिसृक्षुः विविधाः प्रजाः । अपः एव ससर्ज आदौ तासु वीर्यम् अवासृजत् ॥ १।८॥
saḥ abhidhyāya śarīrāt svāt sisṛkṣuḥ vividhāḥ prajāḥ . apaḥ eva sasarja ādau tāsu vīryam avāsṛjat .. 1.8..
1.8. He, desiring to produce beings of many kinds from his own body, first with a thought created the waters,,and placed his seed in them.
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ १.९॥
तत् अण्डम् अभवत् हैमम् सहस्रांशु-सम-प्रभम् । तस्मिन् जज्ञे स्वयम् ब्रह्मा सर्व-लोक-पितामहः ॥ १।९॥
tat aṇḍam abhavat haimam sahasrāṃśu-sama-prabham . tasmin jajñe svayam brahmā sarva-loka-pitāmahaḥ .. 1.9..
1.9. That (seed) became a golden egg, in brilliancy equal to the sun; in that (egg) he himself was born as Brahman, the progenitor of the whole world.
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १.१०॥
आपः नाराः इति प्रोक्ताः आपः वै नर-सूनवः । ताः यत् अस्य अयनम् पूर्वम् तेन नारायणः स्मृतः ॥ १।१०॥
āpaḥ nārāḥ iti proktāḥ āpaḥ vai nara-sūnavaḥ . tāḥ yat asya ayanam pūrvam tena nārāyaṇaḥ smṛtaḥ .. 1.10..
1.10. The waters are called narah, (for) the waters are, indeed, the offspring of Nara; as they were his first residence (ayana), he thence is named Narayana.
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते ॥ १.११॥
यत् तत् कारणम् अव्यक्तम् नित्यम् सत्-असत्-आत्मकम् । तद्-विसृष्टः स पुरुषः लोके ब्रह्म एति कीर्त्यते ॥ १।११॥
yat tat kāraṇam avyaktam nityam sat-asat-ātmakam . tad-visṛṣṭaḥ sa puruṣaḥ loke brahma eti kīrtyate .. 1.11..
1.11. From that (first) cause, which is indiscernible, eternal, and both real and unreal, was produced that male (Purusha), who is famed in this world (under the appellation of) Brahman.
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्द्विधा ॥ १.१२॥
तस्मिन् अण्डे स भगवान् उषित्वा परिवत्सरम् । स्वयम् एव आत्मनः ध्यानात् तत् अण्डम् अकरोत् द्विधा ॥ १।१२॥
tasmin aṇḍe sa bhagavān uṣitvā parivatsaram . svayam eva ātmanaḥ dhyānāt tat aṇḍam akarot dvidhā .. 1.12..
1.12. The divine one resided in that egg during a whole year, then he himself by his thought (alone) divided it into two halves;
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ १.१३॥
ताभ्याम् स शकलाभ्याम् च दिवम् भूमिम् च निर्ममे । मध्ये व्योम दिशः च अष्टौ अपाम् स्थानम् च शाश्वतम् ॥ १।१३॥
tābhyām sa śakalābhyām ca divam bhūmim ca nirmame . madhye vyoma diśaḥ ca aṣṭau apām sthānam ca śāśvatam .. 1.13..
1.13. And out of those two halves he formed heaven and earth, between them the middle sphere, the eight points of the horizon, and the eternal abode of the waters.
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥ १.१४॥
उद्बबर्ह आत्मनः च एव मनः सत्-असत्-आत्मकम् । मनसः च अपि अहङ्कारम् अभिमन्तारम् ईश्वरम् ॥ १।१४॥
udbabarha ātmanaḥ ca eva manaḥ sat-asat-ātmakam . manasaḥ ca api ahaṅkāram abhimantāram īśvaram .. 1.14..
1.14. From himself (atmanah) he also drew forth the mind, which is both real and unreal, likewise from the mind egoism, which possesses the function of self-consciousness (and is) lordly;
महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च ॥ १.१५॥
महान्तम् एव च आत्मानम् सर्वाणि त्रिगुणानि च । विषयाणाम् ग्रहीतॄणि शनैस् पञ्च ऐन्द्रियाणि च ॥ १।१५॥
mahāntam eva ca ātmānam sarvāṇi triguṇāni ca . viṣayāṇām grahītṝṇi śanais pañca aindriyāṇi ca .. 1.15..
1.15. Moreover, the great one, the soul, and all (products) affected by the three qualities, and, in their order, the five organs which perceive the objects of sensation.
तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् । संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १.१६॥
तेषाम् तु अवयवान् सूक्ष्मान् षण्णाम् अपि अमित-ओजसाम् । संनिवेश्य आत्म-मात्रासु सर्व-भूतानि निर्ममे ॥ १।१६॥
teṣām tu avayavān sūkṣmān ṣaṇṇām api amita-ojasām . saṃniveśya ātma-mātrāsu sarva-bhūtāni nirmame .. 1.16..
1.16. But, joining minute particles even of those six, which possess measureless power, with particles of
यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ १.१७॥
यत् मूर्ति-अवयवाः सूक्ष्माः तानि इमानि आश्रयन्ति षड् । तस्मात् शरीरम् इति आहुः तस्य मूर्तिम् मनीषिणः ॥ १।१७॥
yat mūrti-avayavāḥ sūkṣmāḥ tāni imāni āśrayanti ṣaḍ . tasmāt śarīram iti āhuḥ tasya mūrtim manīṣiṇaḥ .. 1.17..
1.17. Because those six (kinds of) minute particles, which form the (creator’s) frame, enter (a-sri) these (creatures), therefore the wise call his frame sarira, (the body.)
तदाविशन्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ १.१८॥
तत् आविशन्ति भूतानि महान्ति सह कर्मभिः । मनः च अवयवैः सूक्ष्मैः सर्व-भूत-कृत् अव्ययम् ॥ १।१८॥
tat āviśanti bhūtāni mahānti saha karmabhiḥ . manaḥ ca avayavaiḥ sūkṣmaiḥ sarva-bhūta-kṛt avyayam .. 1.18..
1.18. That the great elements enter, together with their functions and the mind, through its minute parts the framer of all beings, the imperishable one.
तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः सम्भवत्यव्ययाद्व्ययम् ॥ १.१९॥
तेषाम् इदम् तु सप्तानाम् पुरुषाणाम् महा-ओजसाम् । सूक्ष्माभ्यः मूर्ति-मात्राभ्यः सम्भवति अव्ययात् व्ययम् ॥ १।१९॥
teṣām idam tu saptānām puruṣāṇām mahā-ojasām . sūkṣmābhyaḥ mūrti-mātrābhyaḥ sambhavati avyayāt vyayam .. 1.19..
1.19. But from minute body (-framing) particles of these seven very powerful Purushas springs this (world), the perishable from the imperishable.
आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः ॥ १.२०॥
आद्य-आद्यस्य गुणम् तु एषाम् अवाप्नोति परः परः । यः यः यावतिथः च एषाम् स स तावत्-गुणः स्मृतः ॥ १।२०॥
ādya-ādyasya guṇam tu eṣām avāpnoti paraḥ paraḥ . yaḥ yaḥ yāvatithaḥ ca eṣām sa sa tāvat-guṇaḥ smṛtaḥ .. 1.20..
1.20. Among them each succeeding (element) acquires the quality of the preceding one, and whatever place (in the sequence) each of them occupies, even so many qualities it is declared to possess.
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे ॥ १.२१॥
सर्वेषाम् तु स नामानि कर्माणि च पृथक् पृथक् । वेद-शब्देभ्यः एव आदौ पृथक् संस्थाः च निर्ममे ॥ १।२१॥
sarveṣām tu sa nāmāni karmāṇi ca pṛthak pṛthak . veda-śabdebhyaḥ eva ādau pṛthak saṃsthāḥ ca nirmame .. 1.21..
1.21. But in the beginning he assigned their several names, actions, and conditions to all (created beings), even according to the words of the Veda.
कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ १.२२॥
कर्म-आत्मनाम् च देवानाम् सः असृजत् प्राणिनाम् प्रभुः । साध्यानाम् च गणम् सूक्ष्मम् यज्ञम् च एव सनातनम् ॥ १।२२॥
karma-ātmanām ca devānām saḥ asṛjat prāṇinām prabhuḥ . sādhyānām ca gaṇam sūkṣmam yajñam ca eva sanātanam .. 1.22..
1.22. He, the Lord, also created the class of the gods, who are endowed with life, and whose nature is action; and the subtile class of the Sadhyas, and the eternal sacrifice
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थं ऋच्। यजुस्। सामलक्षणम् ॥ १.२३॥
अग्नि-वायु-रविभ्यः तु त्रयम् ब्रह्म सनातनम् । दुदोह यज्ञ-सिद्धि-अर्थम् ऋच्। यजुः। साम-लक्षणम् ॥ १।२३॥
agni-vāyu-ravibhyaḥ tu trayam brahma sanātanam . dudoha yajña-siddhi-artham ṛc. yajuḥ. sāma-lakṣaṇam .. 1.23..
1.23. But from fire, wind, and the sun he drew forth the threefold eternal Veda, called Rik, Yagus, and Saman, for the due performance of the sacrifice.
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागरान् शैलान् समानि विषमानि च ॥ १.२४॥
कालम् काल-विभक्तीः च नक्षत्राणि ग्रहान् तथा । सरितः सागरान् शैलान् समानि विषमानि च ॥ १।२४॥
kālam kāla-vibhaktīḥ ca nakṣatrāṇi grahān tathā . saritaḥ sāgarān śailān samāni viṣamāni ca .. 1.24..
1.24. Time and the divisions of time, the lunar mansions and the planets, the rivers, the oceans, the mountains, plains, and uneven ground.
तपो वाचं रतिं चैव कामं च क्रोधमेव च । सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ १.२५॥
तपः वाचम् रतिम् च एव कामम् च क्रोधम् एव च । सृष्टिम् ससर्ज च एव एमाम् स्रष्टुम् इच्छन् इमाः प्रजाः ॥ १।२५॥
tapaḥ vācam ratim ca eva kāmam ca krodham eva ca . sṛṣṭim sasarja ca eva emām sraṣṭum icchan imāḥ prajāḥ .. 1.25..
1.25. Austerity, speech, pleasure, desire, and anger, this whole creation he likewise produced, as he desired to call these beings into existence.
कर्मणां च विवेकाय धर्माधर्मौ व्यवेचयत् । द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः ॥ १.२६॥
कर्मणाम् च विवेकाय धर्म-अधर्मौ व्यवेचयत् । द्वन्द्वैः अयोजयत् च एमाः सुख-दुःख-आदिभिः प्रजाः ॥ १।२६॥
karmaṇām ca vivekāya dharma-adharmau vyavecayat . dvandvaiḥ ayojayat ca emāḥ sukha-duḥkha-ādibhiḥ prajāḥ .. 1.26..
1.26. Moreover, in order to distinguish actions, he separated merit from demerit, and he caused the creatures to be affected by the pairs (of opposites), such as pain and pleasure.
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्वं सम्भवत्यनुपूर्वशः ॥ १.२७॥
अण्व्यः मात्राः विनाशिन्यः दशार्धानाम् तु याः स्मृताः । ताभिः सार्धम् इदम् सर्वम् सम्भवति अनुपूर्वशस् ॥ १।२७॥
aṇvyaḥ mātrāḥ vināśinyaḥ daśārdhānām tu yāḥ smṛtāḥ . tābhiḥ sārdham idam sarvam sambhavati anupūrvaśas .. 1.27..
1.27. But with the minute perishable particles of the five (elements) which have been mentioned, this whole (world) is framed in due order.
यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ १.२८॥
यम् तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमम् प्रभुः । स तत् एव स्वयम् भेजे सृज्यमानः पुनर् पुनर् ॥ १।२८॥
yam tu karmaṇi yasmin sa nyayuṅkta prathamam prabhuḥ . sa tat eva svayam bheje sṛjyamānaḥ punar punar .. 1.28..
1.28. But to whatever course of action the Lord at first appointed each (kind of beings), that alone it has spontaneously adopted in each succeeding creation.
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयमाविशत् ॥ १.२९॥
हिंस्र-अहिंस्रे मृदु-क्रूरे धर्म-अधर्म-आवृत-अनृते । यत् यस्य सः अदधात् सर्गे तत् तस्य स्वयम् आविशत् ॥ १।२९॥
hiṃsra-ahiṃsre mṛdu-krūre dharma-adharma-āvṛta-anṛte . yat yasya saḥ adadhāt sarge tat tasya svayam āviśat .. 1.29..
1.29. Whatever he assigned to each at the (first) creation, noxiousness or harmlessness, gentleness or ferocity, virtue or sin, truth or falsehood, that clung (afterwards) spontaneously to it.
यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये । स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ १.३०॥
यथा ऋतु-लिङ्गानि अर्तवः स्वयम् एव ऋतु-पर्यये । स्वानि स्वानि अभिपद्यन्ते तथा कर्माणि देहिनः ॥ १।३०॥
yathā ṛtu-liṅgāni artavaḥ svayam eva ṛtu-paryaye . svāni svāni abhipadyante tathā karmāṇi dehinaḥ .. 1.30..
1.30. As at the change of the seasons each season of its own accord assumes its distinctive marks, even so corporeal beings (resume in new births) their (appointed) course of action.
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ १.३१॥
लोकानाम् तु विवृद्धि-अर्थम् मुख-बाहु-ऊरु-पादतः । ब्राह्मणम् क्षत्रियम् वैश्यम् शूद्रम् च निरवर्तयत् ॥ १।३१॥
lokānām tu vivṛddhi-artham mukha-bāhu-ūru-pādataḥ . brāhmaṇam kṣatriyam vaiśyam śūdram ca niravartayat .. 1.31..
1.31. But for the sake of the prosperity of the worlds he caused the Brahmana, the Kshatriya, the Vaisya, and the Sudra to proceed from his mouth, his arms, his thighs, and his feet.
द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥ १.३२॥
द्विधा कृत्वा आत्मनः देहम् अर्धेन पुरुषः अभवत् । अर्धेन नारी तस्याम् स विराजम् असृजत् प्रभुः ॥ १।३२॥
dvidhā kṛtvā ātmanaḥ deham ardhena puruṣaḥ abhavat . ardhena nārī tasyām sa virājam asṛjat prabhuḥ .. 1.32..
1.32. Dividing his own body, the Lord became half male and half female; with that (female) he produced Virag.
तपस्तप्त्वाऽसृजद्यं तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ १.३३॥
तपः तप्त्वा असृजत् यम् तु स स्वयम् पुरुषः विराज् । तम् माम् वित्त अस्य सर्वस्य स्रष्टारम् द्विजसत्तमाः ॥ १।३३॥
tapaḥ taptvā asṛjat yam tu sa svayam puruṣaḥ virāj . tam mām vitta asya sarvasya sraṣṭāram dvijasattamāḥ .. 1.33..
1.33. But know me, O most holy among the twice-born, to be the creator of this whole (world), whom that male, Virag, himself produced, having performed austerities.
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन् प्रजानामसृजं महर्षीनादितो दश ॥ १.३४॥
अहम् प्रजाः सिसृक्षुः तु तपः तप्त्वा सु दुश्चरम् । पतीन् प्रजानाम् असृजम् महा-ऋषीन् आदितस् दश ॥ १।३४॥
aham prajāḥ sisṛkṣuḥ tu tapaḥ taptvā su duścaram . patīn prajānām asṛjam mahā-ṛṣīn āditas daśa .. 1.34..
1.34. Then I, desiring to produce created beings, performed very difficult austerities, and (thereby) called into existence ten great sages, lords of created beings,
मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ १.३५॥
मरीचिम् अत्रि-अङ्गिरसौ पुलस्त्यम् पुलहम् क्रतुम् । प्रचेतसम् वसिष्ठम् च भृगुम् नारदम् एव च ॥ १।३५॥
marīcim atri-aṅgirasau pulastyam pulaham kratum . pracetasam vasiṣṭham ca bhṛgum nāradam eva ca .. 1.35..
1.35. Mariki, Atri, Angiras, Pulastya, Pulaha, Kratu, Praketas, Vasishtha, Bhrigu, and Narada.
एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः । देवान् देवनिकायांश्च महर्षींश्चामितोजसः ॥ १.३६॥
एते मनून् तु सप्तान् यान् असृजन् भूरि-तेजसः । देवान् देवनिकायान् च महा-ऋषीन् च अमित-ओजसः ॥ १।३६॥
ete manūn tu saptān yān asṛjan bhūri-tejasaḥ . devān devanikāyān ca mahā-ṛṣīn ca amita-ojasaḥ .. 1.36..
1.36. They created seven other Manus possessing great brilliancy, gods and classes of gods and great sages of measureless power,
यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् ॥ १.३७॥
यक्ष-रक्षः पिशाचान् च गन्धर्व-अप्सरसः असुरान् । नागान् सर्पान् सुपर्णान् च पृथक् गणम् ॥ १।३७॥
yakṣa-rakṣaḥ piśācān ca gandharva-apsarasaḥ asurān . nāgān sarpān suparṇān ca pṛthak gaṇam .. 1.37..
1.37. Yakshas (the servants of Kubera, the demons called) Rakshasas and Pisakas, Gandharvas (or musicians of the gods), Apsarases (the dancers of the gods), Asuras, (the snake-deities called) Nagas and Sarpas, (the bird- deities called) Suparnas and the several classes of the manes,
विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च । उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ १.३८॥
विद्युतः अशनि-मेघान् च रोहित-ऐन्द्रधनूंषि च । उल्का-निर्घात-केतून् च ज्योतींषि उच्चावचानि च ॥ १।३८॥
vidyutaḥ aśani-meghān ca rohita-aindradhanūṃṣi ca . ulkā-nirghāta-ketūn ca jyotīṃṣi uccāvacāni ca .. 1.38..
1.38. Lightnings, thunderbolts and clouds, imperfect (rohita) and perfect rainbows, falling meteors, supernatural noises, comets, and heavenly lights of many kinds,
किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् । पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ १.३९॥
किन्नरान् वानरान् मत्स्यान् विविधान् च विहङ्गमान् । पशून् मृगान् मनुष्यान् च व्यालान् च उभय-तोदतः ॥ १।३९॥
kinnarān vānarān matsyān vividhān ca vihaṅgamān . paśūn mṛgān manuṣyān ca vyālān ca ubhaya-todataḥ .. 1.39..
1.39 (Horse-faced) Kinnaras, monkeys, fishes, birds of many kinds, cattle, deer, men, and carnivorous beasts with two rows of teeth,
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ १.४०॥
कृमि-कीट-पतङ्गान् च यूका-मक्षिक-मत्कुणम् । सर्वम् च दंश-मशकम् स्थावरम् च पृथग्विधम् ॥ १।४०॥
kṛmi-kīṭa-pataṅgān ca yūkā-makṣika-matkuṇam . sarvam ca daṃśa-maśakam sthāvaram ca pṛthagvidham .. 1.40..
1.40. Small and large worms and beetles, moths, lice, flies, bugs, all stinging and biting insects and the several kinds of immovable things.
एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् ॥ १.४१॥
एवम् एतैः इदम् सर्वम् मद्-नियोगात् महात्मभिः । यथाकर्म तपः-योगात् सृष्टम् स्थावर-जङ्गमम् ॥ १।४१॥
evam etaiḥ idam sarvam mad-niyogāt mahātmabhiḥ . yathākarma tapaḥ-yogāt sṛṣṭam sthāvara-jaṅgamam .. 1.41..
1.41. Thus was this whole (creation), both the immovable and the movable, produced by those high-minded ones by means of austerities and at my command, (each being) according to (the results of) its actions.
येषां तु यादृशं कर्म भूतानामिह कीर्तितम् । तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ १.४२॥
येषाम् तु यादृशम् कर्म भूतानाम् इह कीर्तितम् । तत् तथा वः अभिधास्यामि क्रम-योगम् च जन्मनि ॥ १।४२॥
yeṣām tu yādṛśam karma bhūtānām iha kīrtitam . tat tathā vaḥ abhidhāsyāmi krama-yogam ca janmani .. 1.42..
1.42. But whatever act is stated (to belong) to (each of) those creatures here below, that I will truly declare to you, as well as their order in respect to birth.
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुषाश्च जरायुजाः ॥ १.४३॥
पशवः च मृगाः च एव व्यालाः च उभय-तोदतः । रक्षांसि च पिशाचाः च मनुषाः च जरायु-जाः ॥ १।४३॥
paśavaḥ ca mṛgāḥ ca eva vyālāḥ ca ubhaya-todataḥ . rakṣāṃsi ca piśācāḥ ca manuṣāḥ ca jarāyu-jāḥ .. 1.43..
1.43. Cattle, deer, carnivorous beasts with two rows of teeth, Rakshasas, Pisakas, and men are born from the womb.
अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । यानि चैवं। प्रकाराणि स्थलजान्यौदकानि च ॥ १.४४॥
अण्डजाः पक्षिणः सर्पाः नक्राः मत्स्याः च कच्छपाः । यानि च एवम्। प्रकाराणि स्थल-जानि औदकानि च ॥ १।४४॥
aṇḍajāḥ pakṣiṇaḥ sarpāḥ nakrāḥ matsyāḥ ca kacchapāḥ . yāni ca evam. prakārāṇi sthala-jāni audakāni ca .. 1.44..
1.44. From eggs are born birds, snakes, crocodiles, fishes, tortoises, as well as similar terrestrial and aquatic (animals).
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृशम् ॥ १.४५॥
स्वेद-जम् दंश-मशकम् यूका-मक्षिक-मत्कुणम् । ऊष्मणः च उपजायन्ते यत् च अन्यत् किम् चित् ईदृशम् ॥ १।४५॥
sveda-jam daṃśa-maśakam yūkā-makṣika-matkuṇam . ūṣmaṇaḥ ca upajāyante yat ca anyat kim cit īdṛśam .. 1.45..
1.45. From hot moisture spring stinging and biting insects, lice, flies, bugs, and all other (creatures) of that kind which are produced by heat.
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ १.४६॥
उद्भिज्जाः स्थावराः सर्वे बीज-काण्ड-प्ररोहिणः । ओषध्यः फल-पाक-अन्ताः बहु-पुष्प-फल-उपगाः ॥ १।४६॥
udbhijjāḥ sthāvarāḥ sarve bīja-kāṇḍa-prarohiṇaḥ . oṣadhyaḥ phala-pāka-antāḥ bahu-puṣpa-phala-upagāḥ .. 1.46..
1.46. All plants, propagated by seed or by slips, grow from shoots; annual plants (are those) which, bearing many flowers and fruits, perish after the ripening of their fruit;
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ १.४७॥
अपुष्पाः फलवन्तः ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनः च एव वृक्षाः तु उभयतस् स्मृताः ॥ १।४७॥
apuṣpāḥ phalavantaḥ ye te vanaspatayaḥ smṛtāḥ . puṣpiṇaḥ phalinaḥ ca eva vṛkṣāḥ tu ubhayatas smṛtāḥ .. 1.47..
1.47. (Those trees) which bear fruit without flowers are called vanaspati (lords of the forest); but those which bear both flowers and fruit are called vriksha.
गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥ १.४८॥
गुच्छ-गुल्मम् तु विविधम् तथा एव तृण-जातयः । बीज-काण्ड-रुहाणि एव प्रतानाः वल्ल्यः एव च ॥ १।४८॥
guccha-gulmam tu vividham tathā eva tṛṇa-jātayaḥ . bīja-kāṇḍa-ruhāṇi eva pratānāḥ vallyaḥ eva ca .. 1.48..
1.48. But the various plants with many stalks, growing from one or several roots, the different kinds of grasses, the climbing plants and the creepers spring all from seed or from slips.
तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ १.४९॥
तमसा बहु-रूपेण वेष्टिताः कर्म-हेतुना । अन्तर् संज्ञाः भवन्ति एते सुख-दुःख-समन्विताः ॥ १।४९॥
tamasā bahu-rūpeṇa veṣṭitāḥ karma-hetunā . antar saṃjñāḥ bhavanti ete sukha-duḥkha-samanvitāḥ .. 1.49..
1.49. These (plants) which are surrounded by multiform Darkness, the result of their acts (in former existences), possess internal consciousness and experience pleasure and pain.
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ १.५०॥
एतद्-अन्ताः तु गतयः ब्रह्मा आद्याः समुदाहृताः । घोरे अस्मिन् भूतसंसारे नित्यम् सतत-यायिनि ॥ १।५०॥
etad-antāḥ tu gatayaḥ brahmā ādyāḥ samudāhṛtāḥ . ghore asmin bhūtasaṃsāre nityam satata-yāyini .. 1.50..
1.50. The (various) conditions in this always terrible and constantly changing circle of births and deaths to which created beings are subject, are stated to begin with (that of) Brahman, and to end with (that of) these (just mentioned immovable creatures).
एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ १.५१॥
एवम् सर्वम् स सृष्ट्वा एदम् माम् च अचिन्त्य-पराक्रमः । आत्मनि अन्तर्दधे भूयस् कालम् कालेन पीडयन् ॥ १।५१॥
evam sarvam sa sṛṣṭvā edam mām ca acintya-parākramaḥ . ātmani antardadhe bhūyas kālam kālena pīḍayan .. 1.51..
1.51. When he whose power is incomprehensible, had thus produced the universe and men, he disappeared in himself, repeatedly suppressing one period by means of the other.
यदा स देवो जागर्ति तदेवं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ १.५२॥
यदा स देवः जागर्ति तत् एवम् चेष्टते जगत् । यदा स्वपिति शान्त-आत्मा तदा सर्वम् निमीलति ॥ १।५२॥
yadā sa devaḥ jāgarti tat evam ceṣṭate jagat . yadā svapiti śānta-ātmā tadā sarvam nimīlati .. 1.52..
1.52. When that divine one wakes, then this world stirs; when he slumbers tranquilly, then the universe sinks to sleep.
तस्मिन् स्वपति तु स्वस्थे कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ १.५३॥
तस्मिन् स्वपति तु स्वस्थे कर्म-आत्मानः शरीरिणः । स्व-कर्मभ्यः निवर्तन्ते मनः च ग्लानिम् ऋच्छति ॥ १।५३॥
tasmin svapati tu svasthe karma-ātmānaḥ śarīriṇaḥ . sva-karmabhyaḥ nivartante manaḥ ca glānim ṛcchati .. 1.53..
1.53. But when he reposes in calm sleep, the corporeal beings whose nature is action, desist from their actions and mind becomes inert.
युगपत्तु प्रलीयन्ते यदा तस्मिन् महात्मनि । तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ १.५४॥
युगपद् तु प्रलीयन्ते यदा तस्मिन् महात्मनि । तदा अयम् सर्व-भूत-आत्मा सुखम् स्वपिति निर्वृतः ॥ १।५४॥
yugapad tu pralīyante yadā tasmin mahātmani . tadā ayam sarva-bhūta-ātmā sukham svapiti nirvṛtaḥ .. 1.54..
1.54. When they are absorbed all at once in that great soul, then he who is the soul of all beings sweetly slumbers, free from all care and occupation.
तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ १.५५॥
तमः अयम् तु समाश्रित्य चिरम् तिष्ठति स ऐन्द्रियः । न च स्वम् कुरुते कर्म तदा उत्क्रामति मूर्तितः ॥ १।५५॥
tamaḥ ayam tu samāśritya ciram tiṣṭhati sa aindriyaḥ . na ca svam kurute karma tadā utkrāmati mūrtitaḥ .. 1.55..
1.55. When this (soul) has entered darkness, it remains for a long time united with the organs (of sensation), but performs not its functions; it then leaves the corporeal frame.
यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ १.५६॥
यदा अणुमात्रिकः भूत्वा बीजम् स्थाणु चरिष्णु च । समाविशति संसृष्टः तदा मूर्तिम् विमुञ्चति ॥ १।५६॥
yadā aṇumātrikaḥ bhūtvā bījam sthāṇu cariṣṇu ca . samāviśati saṃsṛṣṭaḥ tadā mūrtim vimuñcati .. 1.56..
1.56. When, being clothed with minute particles (only), it enters into vegetable or animal seed, it then assumes, united (with the fine body), a (new) corporeal frame.
एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥ १.५७॥
एवम् स जाग्रत्-स्वप्नाभ्याम् इदम् सर्वम् चराचरम् । सञ्जीवयति च अजस्रम् प्रमापयति च अव्ययः ॥ १।५७॥
evam sa jāgrat-svapnābhyām idam sarvam carācaram . sañjīvayati ca ajasram pramāpayati ca avyayaḥ .. 1.57..
1.57. Thus he, the imperishable one, by (alternately) waking and slumbering, incessantly revivifies and destroys this whole movable and immovable (creation).
इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः । विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ १.५८॥
इदम् शास्त्रम् तु कृत्वा असौ माम् एव स्वयम् आदितस् । विधिवत् ग्राहयामास मरीचि-आदीन् तु अहम् मुनीन् ॥ १।५८॥
idam śāstram tu kṛtvā asau mām eva svayam āditas . vidhivat grāhayāmāsa marīci-ādīn tu aham munīn .. 1.58..
1.58. But he having composed these Institutes (of the sacred law), himself taught them, according to the rule, to me alone in the beginning; next I (taught them) to Mariki and the other sages.
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः । एतधि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ १.५९॥
एतत् वः अयम् भृगुः शास्त्रम् श्रावयिष्यति अशेषतस् । मत्तः अधिजगे सर्वम् एषः अखिलम् मुनिः ॥ १।५९॥
etat vaḥ ayam bhṛguḥ śāstram śrāvayiṣyati aśeṣatas . mattaḥ adhijage sarvam eṣaḥ akhilam muniḥ .. 1.59..
1.59. Bhrigu, here, will fully recite to you these Institutes; for that sage learned the whole in its entirety from me.
ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः । तानब्रवीदृषीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥ १.६०॥
ततस् तथा स तेन उक्तः महा-ऋषि-मनुना भृगुः । तान् अब्रवीत् ऋषीन् सर्वान् प्रीत-आत्मा श्रूयताम् इति ॥ १।६०॥
tatas tathā sa tena uktaḥ mahā-ṛṣi-manunā bhṛguḥ . tān abravīt ṛṣīn sarvān prīta-ātmā śrūyatām iti .. 1.60..
1.60. Then that great sage Bhrigu, being thus addressed by Manu, spoke, pleased in his heart, to all the sages, ’Listen!’
स्वायम्भुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ १.६१॥
स्वायम्भुवस्य अस्य मनोः षष्-वंश्याः मनवः अपरे । सृष्टवन्तः प्रजाः स्वाः स्वाः महात्मानः महा-ओजसः ॥ १।६१॥
svāyambhuvasya asya manoḥ ṣaṣ-vaṃśyāḥ manavaḥ apare . sṛṣṭavantaḥ prajāḥ svāḥ svāḥ mahātmānaḥ mahā-ojasaḥ .. 1.61..
1.61. Six other high-minded, very powerful Manus, who belong to the race of this Manu, the descendant of the Self-existent (Svayambhu), and who have severally produced created beings,
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ १.६२॥
स्वारोचिषः च उत्तमः च तामसः रैवतः तथा । चाक्षुषः च महा-तेजाः विवस्वत्-सुतः एव च ॥ १।६२॥
svārociṣaḥ ca uttamaḥ ca tāmasaḥ raivataḥ tathā . cākṣuṣaḥ ca mahā-tejāḥ vivasvat-sutaḥ eva ca .. 1.62..
1.62. (Are) Svarokisha, Auttami, Tamasa, Raivata, Kakshusha, possessing great lustre, and the son of Vivasvat.
स्वायम्भुवाद्याः सप्तैते मनवो भूरितेजसः । स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ १.६३॥
स्वायम्भुव-आद्याः सप्त एते मनवः भूरि-तेजसः । स्वे स्वे अन्तरे सर्वम् इदम् उत्पाद्य आपुः चराचरम् ॥ १।६३॥
svāyambhuva-ādyāḥ sapta ete manavaḥ bhūri-tejasaḥ . sve sve antare sarvam idam utpādya āpuḥ carācaram .. 1.63..
1.63. These seven very glorious Manus, the first among whom is Svayambhuva, produced and protected this whole movable and immovable (creation), each during the period (allotted to him).
निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला । त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ १.६४॥
निमेषाः दश च अष्टौ च काष्ठा त्रिंशत् तु ताः कला । त्रिंशत् कलाः मुहूर्तः स्यात् अहोरात्रम् तु तावतः ॥ १।६४॥
nimeṣāḥ daśa ca aṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā . triṃśat kalāḥ muhūrtaḥ syāt ahorātram tu tāvataḥ .. 1.64..
1.64. Eighteen nimeshas (twinklings of the eye, are one kashtha), thirty kashthas one kala, thirty kalas one muhurta, and as many (muhurtas) one day and night.
अहोरात्रे विभजते सूर्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ १.६५॥
अहोरात्रे विभजते सूर्यः मानुष-दैविके । रात्रिः स्वप्नाय भूतानाम् चेष्टायै कर्मणाम् अहर् ॥ १।६५॥
ahorātre vibhajate sūryaḥ mānuṣa-daivike . rātriḥ svapnāya bhūtānām ceṣṭāyai karmaṇām ahar .. 1.65..
1.65. The sun divides days and nights, both human and divine, the night (being intended) for the repose of created beings and the day for exertion.
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १.६६॥
पित्र्ये रात्रि-अहनी मासः प्रविभागः तु पक्षयोः । कर्म-चेष्टासु अहर् कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ १।६६॥
pitrye rātri-ahanī māsaḥ pravibhāgaḥ tu pakṣayoḥ . karma-ceṣṭāsu ahar kṛṣṇaḥ śuklaḥ svapnāya śarvarī .. 1.66..
1.66. A month is a day and a night of the manes, but the division is according to fortnights. The dark (fortnight) is their day for active exertion, the bright (fortnight) their night for sleep.
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् ॥ १.६७॥
दैवे रात्रि-अहनी वर्षम् प्रविभागः तयोः पुनर् । अहर् तत्र उदगयनम् रात्रिः स्यात् दक्षिणायनम् ॥ १।६७॥
daive rātri-ahanī varṣam pravibhāgaḥ tayoḥ punar . ahar tatra udagayanam rātriḥ syāt dakṣiṇāyanam .. 1.67..
1.67. A year is a day and a night of the gods; their division is (as follows): the half year during which the sun progresses to the north will be the day, that during which it goes southwards the night.
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ १.६८॥
ब्राह्मस्य तु क्षपा-अहस्य यत् प्रमाणम् समासतस् । एकैकशस् युगानाम् तु क्रमशस् तत् निबोधत ॥ १।६८॥
brāhmasya tu kṣapā-ahasya yat pramāṇam samāsatas . ekaikaśas yugānām tu kramaśas tat nibodhata .. 1.68..
1.68. But hear now the brief (description of) the duration of a night and a day of Brahman and of the several ages (of the world, yuga) according to their order.
चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य तावत्शती संध्या संध्यांशश्च तथाविधः ॥ १.६९॥
चत्वारि आहुः सहस्राणि वर्षाणाम् तत् कृतम् युगम् । तस्य तावत्शती संध्या संध्या-अंशः च तथाविधः ॥ १।६९॥
catvāri āhuḥ sahasrāṇi varṣāṇām tat kṛtam yugam . tasya tāvatśatī saṃdhyā saṃdhyā-aṃśaḥ ca tathāvidhaḥ .. 1.69..
1.69. They declare that the Krita age (consists of) four thousand years (of the gods); the twilight preceding it consists of as many hundreds, and the twilight following it of the same number.
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ १.७०॥
इतरेषु स संध्येषु स संध्यांशेषु च त्रिषु । एक-अपायेन वर्तन्ते सहस्राणि शतानि च ॥ १।७०॥
itareṣu sa saṃdhyeṣu sa saṃdhyāṃśeṣu ca triṣu . eka-apāyena vartante sahasrāṇi śatāni ca .. 1.70..
1.70. In the other three ages with their twilights preceding and following, the thousands and hundreds are diminished by one (in each).
यदेतत्परिसङ्ख्यातमादावेव चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥ १.७१॥
यत् एतत् परिसङ्ख्यातम् आदौ एव चतुर्युगम् । एतत् द्वादश-साहस्रम् देवानाम् युगम् उच्यते ॥ १।७१॥
yat etat parisaṅkhyātam ādau eva caturyugam . etat dvādaśa-sāhasram devānām yugam ucyate .. 1.71..
1.71. These twelve thousand (years) which thus have been just mentioned as the total of four (human) ages, are called one age of the gods.
दैविकानां युगानां तु सहस्रं परिसङ्ख्यया । ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥ १.७२॥
दैविकानाम् युगानाम् तु सहस्रम् परिसङ्ख्यया । ब्राह्मम् एकम् अहर् ज्ञेयम् तावती रात्रिः एव च ॥ १।७२॥
daivikānām yugānām tu sahasram parisaṅkhyayā . brāhmam ekam ahar jñeyam tāvatī rātriḥ eva ca .. 1.72..
1.72. But know that the sum of one thousand ages of the gods (makes) one day of Brahman, and that his night has the same length.
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः । रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ १.७३॥
तत् वै युग-सहस्र-अन्तम् ब्राह्मम् पुण्यम् अहर् विदुः । रात्रिम् च तावतीम् एव ते अहोरात्र-विदः जनाः ॥ १।७३॥
tat vai yuga-sahasra-antam brāhmam puṇyam ahar viduḥ . rātrim ca tāvatīm eva te ahorātra-vidaḥ janāḥ .. 1.73..
1.73. Those (only, who) know that the holy day of Brahman, indeed, ends after (the completion of) one thousand ages (of the gods) and that his night lasts as long, (are really) men acquainted with (the length of) days and nights.
तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते । प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ १.७४॥
तस्य सः अहर्निशस्य अन्ते प्रसुप्तः प्रतिबुध्यते । प्रतिबुद्धः च सृजति मनः सत्-असत्-आत्मकम् ॥ १।७४॥
tasya saḥ aharniśasya ante prasuptaḥ pratibudhyate . pratibuddhaḥ ca sṛjati manaḥ sat-asat-ātmakam .. 1.74..
1.74. At the end of that day and night he who was asleep, awakes and, after awaking, creates mind, which is both real and unreal.
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः ॥ १.७५॥
मनः सृष्टिम् विकुरुते चोद्यमानम् सिसृक्षया । आकाशम् जायते तस्मात् तस्य शब्दम् गुणम् विदुः ॥ १।७५॥
manaḥ sṛṣṭim vikurute codyamānam sisṛkṣayā . ākāśam jāyate tasmāt tasya śabdam guṇam viduḥ .. 1.75..
1.75. Mind, impelled by (Brahman’s) desire to create, performs the work of creation by modifying itself, thence ether is produced; they declare that sound is the quality of the latter.
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ १.७६॥
आकाशात् तु विकुर्वाणात् सर्व-गन्ध-वहः शुचिः । बलवान् जायते वायुः स वै स्पर्श-गुणः मतः ॥ १।७६॥
ākāśāt tu vikurvāṇāt sarva-gandha-vahaḥ śuciḥ . balavān jāyate vāyuḥ sa vai sparśa-guṇaḥ mataḥ .. 1.76..
1.76. But from ether, modifying itself, springs the pure, powerful wind, the vehicle of all perfumes; that is held to possess the quality of touch.
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणमुच्यते ॥ १.७७॥
वायोः अपि विकुर्वाणात् विरोचिष्णु तमोनुदम् । ज्योतिः उत्पद्यते भास्वत् तद्-रूप-गुणम् उच्यते ॥ १।७७॥
vāyoḥ api vikurvāṇāt virociṣṇu tamonudam . jyotiḥ utpadyate bhāsvat tad-rūpa-guṇam ucyate .. 1.77..
1.77. Next from wind modifying itself, proceeds the brilliant light, which illuminates and dispels darkness; that is declared to possess the quality of colour;
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ १.७८॥
ज्योतिषः च विकुर्वाणात् आपः रस-गुणाः स्मृताः । अद्भ्यः गन्ध-गुणा भूमिः इति एषा सृष्टिः आदितस् ॥ १।७८॥
jyotiṣaḥ ca vikurvāṇāt āpaḥ rasa-guṇāḥ smṛtāḥ . adbhyaḥ gandha-guṇā bhūmiḥ iti eṣā sṛṣṭiḥ āditas .. 1.78..
1.78. And from light, modifying itself, (is produced) water, possessing the quality of taste, from water earth which has the quality of smell; such is the creation in the beginning.
यद्प्राग्द्वादशसाहस्रमुदितं दैविकं युगम् । तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ १.७९॥
यत् प्राक् द्वादश-साहस्रम् उदितम् दैविकम् युगम् । तद्-एकसप्तति-गुणम् मन्वन्तरम् इह उच्यते ॥ १।७९॥
yat prāk dvādaśa-sāhasram uditam daivikam yugam . tad-ekasaptati-guṇam manvantaram iha ucyate .. 1.79..
1.79. The before-mentioned age of the gods, (or) twelve thousand (of their years), being multiplied by seventy- one, (constitutes what) is here named the period of a Manu (Manvantara).
मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च । क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः ॥ १.८०॥
मन्वन्तराणि असङ्ख्यानि सर्गः संहारः एव च । क्रीडन् इव एतत् कुरुते परमेष्ठी पुनर् पुनर् ॥ १।८०॥
manvantarāṇi asaṅkhyāni sargaḥ saṃhāraḥ eva ca . krīḍan iva etat kurute parameṣṭhī punar punar .. 1.80..
1.80. The Manvantaras, the creations and destructions (of the world, are) numberless; sporting, as it were, Brahman repeats this again and again.
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे । नाधर्मेणागमः कश्चिन् मनुष्यान् उपवर्तते ॥ १.८१॥
चतुष्पाद् सकलः धर्मः सत्यम् च एव कृते युगे । न अधर्मेण आगमः कश्चिद् मनुष्यान् उपवर्तते ॥ १।८१॥
catuṣpād sakalaḥ dharmaḥ satyam ca eva kṛte yuge . na adharmeṇa āgamaḥ kaścid manuṣyān upavartate .. 1.81..
1.81. In the Krita age Dharma is four-footed and entire, and (so is) Truth; nor does any gain accrue to men by unrighteousness.
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः । चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ १.८२॥
इतरेषु आगमात् धर्मः पादशस् तु अवरोपितः । चौरिका-अनृत-मायाभिः धर्मः च अपैति पादशस् ॥ १।८२॥
itareṣu āgamāt dharmaḥ pādaśas tu avaropitaḥ . caurikā-anṛta-māyābhiḥ dharmaḥ ca apaiti pādaśas .. 1.82..
1.82. In the other (three ages), by reason of (unjust) gains (agama), Dharma is deprived successively of one foot, and through (the prevalence of) theft, falsehood, and fraud the merit (gained by men) is diminished by one fourth (in each).
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृते त्रेतादिषु वयो ह्रसति पादशः ॥ १.८३॥
अरोगाः सर्व-सिद्धार्थाः चतुर्-वर्ष-शत-आयुषः । कृते त्रेता-आदिषु वयः ह्रसति पादशस् ॥ १।८३॥
arogāḥ sarva-siddhārthāḥ catur-varṣa-śata-āyuṣaḥ . kṛte tretā-ādiṣu vayaḥ hrasati pādaśas .. 1.83..
1.83. (Men are) free from disease, accomplish all their aims, and live four hundred years in the Krita age, but in the Treta and (in each of) the succeeding (ages) their life is lessened by one quarter.
वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् । फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥ १.८४॥
वेद-उक्तम् आयुः मर्त्यानाम् आशिषः च एव कर्मणाम् । फलन्ति अनुयुगम् लोके प्रभावः च शरीरिणाम् ॥ १।८४॥
veda-uktam āyuḥ martyānām āśiṣaḥ ca eva karmaṇām . phalanti anuyugam loke prabhāvaḥ ca śarīriṇām .. 1.84..
1.84. The life of mortals, mentioned in the Veda, the desired results of sacrificial rites and the (supernatural) power of embodied (spirits) are fruits proportioned among men according to (the character of) the age.
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ १.८५॥
अन्ये कृत-युगे धर्माः त्रेतायाम् द्वापरे अपरे । अन्ये कलि-युगे नॄणाम् युग-ह्रास-अनुरूपतः ॥ १।८५॥
anye kṛta-yuge dharmāḥ tretāyām dvāpare apare . anye kali-yuge nṝṇām yuga-hrāsa-anurūpataḥ .. 1.85..
1.85. One set of duties (is prescribed) for men in the Krita age, different ones in the Treta and in the Dvapara, and (again) another (set) in the Kali, in a proportion as (those) ages decrease in length.
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ १.८६॥
तपः परम् कृत-युगे त्रेतायाम् ज्ञानम् उच्यते । द्वापरे यज्ञम् एव आहुः दानम् एकम् कलौ युगे ॥ १।८६॥
tapaḥ param kṛta-yuge tretāyām jñānam ucyate . dvāpare yajñam eva āhuḥ dānam ekam kalau yuge .. 1.86..
1.86. In the Krita age the chief (virtue) is declared to be (the performance of) austerities, in the Treta (divine) knowledge, in the Dvapara (the performance of) sacrifices, in the Kali liberality alone.
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः । मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥ १.८७॥
सर्वस्य अस्य तु सर्गस्य गुप्ति-अर्थम् स महा-द्युतिः । मुख-बाहु-ऊरु-पद्-जानाम् पृथक् कर्माणि अकल्पयत् ॥ १।८७॥
sarvasya asya tu sargasya gupti-artham sa mahā-dyutiḥ . mukha-bāhu-ūru-pad-jānām pṛthak karmāṇi akalpayat .. 1.87..
1.87. But in order to protect this universe He, the most resplendent one, assigned separate (duties and) occupations to those who sprang from his mouth, arms, thighs, and feet.
अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ १.८८॥
अध्यापनम् अध्ययनम् यजनम् याजनम् तथा । दानम् प्रतिग्रहम् च एव ब्राह्मणानाम् अकल्पयत् ॥ १।८८॥
adhyāpanam adhyayanam yajanam yājanam tathā . dānam pratigraham ca eva brāhmaṇānām akalpayat .. 1.88..
1.88. To Brahmanas he assigned teaching and studying (the Veda), sacrificing for their own benefit and for others, giving and accepting (of alms).
प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समादिशत् ॥ १.८९॥
प्रजानाम् रक्षणम् दानम् इज्या अध्ययनम् एव च । विषयेषु अप्रसक्तिः च क्षत्रियस्य समादिशत् ॥ १।८९॥
prajānām rakṣaṇam dānam ijyā adhyayanam eva ca . viṣayeṣu aprasaktiḥ ca kṣatriyasya samādiśat .. 1.89..
1.89. The Kshatriya he commanded to protect the people, to bestow gifts, to offer sacrifices, to study (the Veda), and to abstain from attaching himself to sensual pleasures;
पशूनां रक्षणं दानमिज्याऽध्ययनमेव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ १.९०॥
पशूनाम् रक्षणम् दानम् इज्या अध्ययनम् एव च । वणिक्पथम् कुसीदम् च वैश्यस्य कृषिम् एव च ॥ १।९०॥
paśūnām rakṣaṇam dānam ijyā adhyayanam eva ca . vaṇikpatham kusīdam ca vaiśyasya kṛṣim eva ca .. 1.90..
1.90. The Vaisya to tend cattle, to bestow gifts, to offer sacrifices, to study (the Veda), to trade, to lend money, and to cultivate land.
एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ १.९१॥
एकम् एव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषाम् एव वर्णानाम् शुश्रूषाम् अनसूयया ॥ १।९१॥
ekam eva tu śūdrasya prabhuḥ karma samādiśat . eteṣām eva varṇānām śuśrūṣām anasūyayā .. 1.91..
1.91. One occupation only the lord prescribed to the Sudra, to serve meekly even these (other) three castes.
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मान् मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा ॥ १.९२॥
ऊर्ध्वम् नाभेः मेध्यतरः पुरुषः परिकीर्तितः । तस्मात् मेध्यतमम् तु अस्य मुखम् उक्तम् स्वयम्भुवा ॥ १।९२॥
ūrdhvam nābheḥ medhyataraḥ puruṣaḥ parikīrtitaḥ . tasmāt medhyatamam tu asya mukham uktam svayambhuvā .. 1.92..
1.92. Man is stated to be purer above the navel (than below); hence the Self-existent (Svayambhu) has declared the purest (part) of him (to be) his mouth.
उत्तमाङ्गोद्भवाज्ज्यैष्ठ्याद्ब्रह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ १.९३॥
उत्तमाङ्ग-उद्भवात् ज्यैष्ठ्यात् ब्रह्मणः च एव धारणात् । सर्वस्य एव अस्य सर्गस्य धर्मतः ब्राह्मणः प्रभुः ॥ १।९३॥
uttamāṅga-udbhavāt jyaiṣṭhyāt brahmaṇaḥ ca eva dhāraṇāt . sarvasya eva asya sargasya dharmataḥ brāhmaṇaḥ prabhuḥ .. 1.93..
1.93. As the Brahmana sprang from (Brahman’s) mouth, as he was the first-born, and as he possesses the Veda, he is by right the lord of this whole creation.
तं हि स्वयम्भूः स्वादास्यात्तपस्तप्त्वाऽदितोऽसृजत् । हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ १.९४॥
तम् हि स्वयम्भूः स्वात् आस्यात् तपः तप्त्वा अदितः असृजत् । हव्य-कव्य-अभिवाह्याय सर्वस्य अस्य च गुप्तये ॥ १।९४॥
tam hi svayambhūḥ svāt āsyāt tapaḥ taptvā aditaḥ asṛjat . havya-kavya-abhivāhyāya sarvasya asya ca guptaye .. 1.94..
1.94. For the Self-existent (Svayambhu), having performed austerities, produced him first from his own mouth, in order that the offerings might be conveyed to the gods and manes and that this universe might be preserved.
यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ १.९५॥
यस्य आस्येन सदा अश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि च एव पितरः किम् भूतम् अधिकम् ततस् ॥ १।९५॥
yasya āsyena sadā aśnanti havyāni tridivaukasaḥ . kavyāni ca eva pitaraḥ kim bhūtam adhikam tatas .. 1.95..
1.95. What created being can surpass him, through whose mouth the gods continually consume the sacrificial viands and the manes the offerings to the dead?
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ १.९६॥
भूतानाम् प्राणिनः श्रेष्ठाः प्राणिनाम् बुद्धि-जीविनः । बुद्धिमत्सु नराः श्रेष्ठाः नरेषु ब्राह्मणाः स्मृताः ॥ १।९६॥
bhūtānām prāṇinaḥ śreṣṭhāḥ prāṇinām buddhi-jīvinaḥ . buddhimatsu narāḥ śreṣṭhāḥ nareṣu brāhmaṇāḥ smṛtāḥ .. 1.96..
1.96. Of created beings the most excellent are said to be those which are animated; of the animated, those which subsist by intelligence; of the intelligent, mankind; and of men, the Brahmanas;
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ १.९७॥
ब्राह्मणेषु च विद्वांसः विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्म-वेदिनः ॥ १।९७॥
brāhmaṇeṣu ca vidvāṃsaḥ vidvatsu kṛtabuddhayaḥ . kṛtabuddhiṣu kartāraḥ kartṛṣu brahma-vedinaḥ .. 1.97..
1.97. Of Brahmanas, those learned (in the Veda); of the learned, those who recognise (the necessity and the manner of performing the prescribed duties); of those who possess this knowledge, those who perform them; of the performers, those who know the Brahman.
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ १.९८॥
उत्पत्तिः एव विप्रस्य मूर्तिः धर्मस्य शाश्वती । स हि धर्म-अर्थम् उत्पन्नः ब्रह्म-भूयाय कल्पते ॥ १।९८॥
utpattiḥ eva viprasya mūrtiḥ dharmasya śāśvatī . sa hi dharma-artham utpannaḥ brahma-bhūyāya kalpate .. 1.98..
1.98. The very birth of a Brahmana is an eternal incarnation of the sacred law; for he is born to (fulfil) the sacred law, and becomes one with Brahman.
ब्राह्मणो जायमानो हि पृथिव्यामधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ १.९९॥
ब्राह्मणः जायमानः हि पृथिव्याम् अधिजायते । ईश्वरः सर्व-भूतानाम् धर्म-कोशस्य गुप्तये ॥ १।९९॥
brāhmaṇaḥ jāyamānaḥ hi pṛthivyām adhijāyate . īśvaraḥ sarva-bhūtānām dharma-kośasya guptaye .. 1.99..
1.99. A Brahmana, coming into existence, is born as the highest on earth, the lord of all created beings, for the protection of the treasury of the law.
सर्वं स्वं ब्राह्मणस्येदं यत्किं चित्जगतीगतम् । श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥ १.१००॥
सर्वम् स्वम् ब्राह्मणस्य इदम् यत् किम् चित् जगती-गतम् । श्रैष्ठ्येन अभिजनेन इदम् सर्वम् वै ब्राह्मणः अर्हति ॥ १।१००॥
sarvam svam brāhmaṇasya idam yat kim cit jagatī-gatam . śraiṣṭhyena abhijanena idam sarvam vai brāhmaṇaḥ arhati .. 1.100..
1.100. Whatever exists in the world is, the property of the Brahmana; on account of the excellence of his origin The Brahmana is, indeed, entitled to all.
स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ १.१०१॥
स्वम् एव ब्राह्मणः भुङ्क्ते स्वम् वस्ते स्वम् ददाति च । आनृशंस्यात् ब्राह्मणस्य भुञ्जते हि इतरे जनाः ॥ १।१०१॥
svam eva brāhmaṇaḥ bhuṅkte svam vaste svam dadāti ca . ānṛśaṃsyāt brāhmaṇasya bhuñjate hi itare janāḥ .. 1.101..
1.101. The Brahmana eats but his own food, wears but his own apparel, bestows but his own in alms; other mortals subsist through the benevolence of the Brahmana.
तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः । स्वायम्भुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ १.१०२॥
तस्य कर्म-विवेक-अर्थम् शेषाणाम् अनुपूर्वशस् । स्वायम्भुवः मनुः धीमान् इदम् शास्त्रम् अकल्पयत् ॥ १।१०२॥
tasya karma-viveka-artham śeṣāṇām anupūrvaśas . svāyambhuvaḥ manuḥ dhīmān idam śāstram akalpayat .. 1.102..
1.102. In order to clearly settle his duties those of the other (castes) according to their order, wise Manu sprung from the Self-existent, composed these Institutes (of the sacred Law).
विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः । शिश्येभ्यश्च प्रवक्तव्यं सम्यग़् नान्येन केन चित् ॥ १.१०३॥
विदुषा ब्राह्मणेन एदम् अध्येतव्यम् प्रयत्नतः । शिश्येभ्यः च प्रवक्तव्यम् सम्यक् न अन्येन केन चित् ॥ १।१०३॥
viduṣā brāhmaṇena edam adhyetavyam prayatnataḥ . śiśyebhyaḥ ca pravaktavyam samyak na anyena kena cit .. 1.103..
1.103. A learned Brahmana must carefully study them, and he must duly instruct his pupils in them, but nobody else (shall do it).
इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः । मनोवाक्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥ १.१०४॥
इदम् शास्त्रम् अधीयानः ब्राह्मणः शंसित-व्रतः । मनः-वाच्-देह-जैः नित्यम् कर्म-दोषैः न लिप्यते ॥ १।१०४॥
idam śāstram adhīyānaḥ brāhmaṇaḥ śaṃsita-vrataḥ . manaḥ-vāc-deha-jaiḥ nityam karma-doṣaiḥ na lipyate .. 1.104..
1.104. A Brahmana who studies these Institutes (and) faithfully fulfils the duties (prescribed therein), is never tainted by sins, arising from thoughts, words, or deeds
पुनाति पङ्क्तिवंश्यांश्च सप्त सप्त परावरान् । पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ १.१०५॥
पुनाति पङ्क्ति-वंश्यान् च सप्त सप्त पर-अवरान् । पृथिवीम् अपि च एव इमाम् कृत्स्नाम् एकः अपि सः अर्हति ॥ १।१०५॥
punāti paṅkti-vaṃśyān ca sapta sapta para-avarān . pṛthivīm api ca eva imām kṛtsnām ekaḥ api saḥ arhati .. 1.105..
1.105. He sanctifies any company (which he may enter), seven ancestors and seven descendants, and he alone deserves (to possess) this whole earth.
इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् । इदं यशस्यं सततम् इदं निःश्रेयसं परम् ॥ १.१०६॥
इदम् स्वस्त्ययनम् श्रेष्ठम् इदम् बुद्धि-विवर्धनम् । इदम् यशस्यम् सततम् इदम् निःश्रेयसम् परम् ॥ १।१०६॥
idam svastyayanam śreṣṭham idam buddhi-vivardhanam . idam yaśasyam satatam idam niḥśreyasam param .. 1.106..
1.106. (To study) this (work) is the best means of securing welfare, it increases understanding, it procures fame and long life, it (leads to) supreme bliss.
अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् । चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ १.१०७॥
अस्मिन् धर्मे अखिलेन उक्तौ गुण-दोषौ च कर्मणाम् । चतुर्णाम् अपि वर्णानाम् आचारः च एव शाश्वतः ॥ १।१०७॥
asmin dharme akhilena uktau guṇa-doṣau ca karmaṇām . caturṇām api varṇānām ācāraḥ ca eva śāśvataḥ .. 1.107..
1.107. In this (work) the sacred law has been fully stated as well as the good and bad qualities of (human) actions and the immemorial rule of conduct, (to be followed) by all the four castes (varna).
आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च । तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ १.१०८॥
आचारः परमः धर्मः श्रुत्या उक्तः स्मार्तः एव च । तस्मात् अस्मिन् सदा युक्तः नित्यम् स्यात् आत्मवान् द्विजः ॥ १।१०८॥
ācāraḥ paramaḥ dharmaḥ śrutyā uktaḥ smārtaḥ eva ca . tasmāt asmin sadā yuktaḥ nityam syāt ātmavān dvijaḥ .. 1.108..
1.108. The rule of conduct is transcendent law, whether it be taught in the revealed texts or in the sacred tradition; hence a twice-born man who possesses regard for himself, should be always careful to (follow) it.
आचाराद्विच्युतो विप्रो न वेदफलमश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाक्स्मृतः ॥ १.१०९॥
आचारात् विच्युतः विप्रः न वेद-फलम् अश्नुते । आचारेण तु संयुक्तः सम्पूर्ण-फल-भाज् स्मृतः ॥ १।१०९॥
ācārāt vicyutaḥ vipraḥ na veda-phalam aśnute . ācāreṇa tu saṃyuktaḥ sampūrṇa-phala-bhāj smṛtaḥ .. 1.109..
1.109. A Brahmana who departs from the rule of conduct, does not reap the fruit of the Veda, but he who duly follows it, will obtain the full reward.
एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ १.११०॥
एवम् आचारतः दृष्ट्वा धर्मस्य मुनयः गतिम् । सर्वस्य तपसः मूलम् आचारम् जगृहुः परम् ॥ १।११०॥
evam ācārataḥ dṛṣṭvā dharmasya munayaḥ gatim . sarvasya tapasaḥ mūlam ācāram jagṛhuḥ param .. 1.110..
1.110. The sages who saw that the sacred law is thus grounded on the rule of conduct, have taken good conduct to be the most excellent root of all austerity.
जगतश्च समुत्पत्तिं संस्कारविधिमेव च । व्रतचर्यौपचारं च स्नानस्य च परं विधिम् ॥ १.१११॥
जगतः च समुत्पत्तिम् संस्कार-विधिम् एव च । व्रत-चर्या-औपचारम् च स्नानस्य च परम् विधिम् ॥ १।१११॥
jagataḥ ca samutpattim saṃskāra-vidhim eva ca . vrata-caryā-aupacāram ca snānasya ca param vidhim .. 1.111..
1.111. The creation of the universe, the rule of the sacraments, the ordinances of studentship, and the respectful behaviour (towards Gurus), the most excellent rule of bathing (on return from the teacher’s house),
दाराधिगमनं चैव विवाहानां च लक्षणम् । महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ १.११२॥
दार-अधिगमनम् च एव विवाहानाम् च लक्षणम् । महायज्ञ-विधानम् च श्राद्ध-कल्पम् च शाश्वतम् ॥ १।११२॥
dāra-adhigamanam ca eva vivāhānām ca lakṣaṇam . mahāyajña-vidhānam ca śrāddha-kalpam ca śāśvatam .. 1.112..
1.112. (The law of) marriage and the description of the (various) marriage-rites, the regulations for the great sacrifices and the eternal rule of the funeral sacrifices,
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ १.११३॥
वृत्तीनाम् लक्षणम् च एव स्नातकस्य व्रतानि च । भक्ष्य-अभक्ष्यम् च शौचम् च द्रव्याणाम् शुद्धिम् एव च ॥ १।११३॥
vṛttīnām lakṣaṇam ca eva snātakasya vratāni ca . bhakṣya-abhakṣyam ca śaucam ca dravyāṇām śuddhim eva ca .. 1.113..
1.113. The description of the modes of (gaining) subsistence and the duties of a Snataka, (the rules regarding) lawful and forbidden food, the purification of men and of things,
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च । राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ १.११४॥
स्त्री-धर्म-योगम् तापस्यम् मोक्षम् संन्यासम् एव च । राज्ञः च धर्मम् अखिलम् कार्याणाम् च विनिर्णयम् ॥ १।११४॥
strī-dharma-yogam tāpasyam mokṣam saṃnyāsam eva ca . rājñaḥ ca dharmam akhilam kāryāṇām ca vinirṇayam .. 1.114..
1.114. The laws concerning women, (the law) of hermits, (the manner of gaining) final emancipation and (of) renouncing the world, the whole duty of a king and the manner of deciding lawsuits,
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि । विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ १.११५॥
साक्षि-प्रश्न-विधानम् च धर्मम् स्त्रीपुंसयोः अपि । विभाग-धर्मम् द्यूतम् च कण्टकानाम् च शोधनम् ॥ १।११५॥
sākṣi-praśna-vidhānam ca dharmam strīpuṃsayoḥ api . vibhāga-dharmam dyūtam ca kaṇṭakānām ca śodhanam .. 1.115..
1.115. The rules for the examination of witnesses, the laws concerning husband and wife, the law of (inheritance and) division, (the law concerning) gambling and the removal of (men nocuous like) thorns,
वैश्यशूद्रोपचारं च सङ्कीर्णानां च सम्भवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ १.११६॥
वैश्य-शूद्र-उपचारम् च सङ्कीर्णानाम् च सम्भवम् । आपद्-धर्मम् च वर्णानाम् प्रायश्चित्त-विधिम् तथा ॥ १।११६॥
vaiśya-śūdra-upacāram ca saṅkīrṇānām ca sambhavam . āpad-dharmam ca varṇānām prāyaścitta-vidhim tathā .. 1.116..
1.116. (The law concerning) the behaviour of Vaisyas and Sudras, the origin of the mixed castes, the law for all castes in times of distress and the law of penances,
संसारगमनं चैव त्रिविधं कर्मसम्भवम् । निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ १.११७॥
संसार-गमनम् च एव त्रिविधम् कर्म-सम्भवम् । निःश्रेयसम् कर्मणाम् च गुण-दोष-परीक्षणम् ॥ १।११७॥
saṃsāra-gamanam ca eva trividham karma-sambhavam . niḥśreyasam karmaṇām ca guṇa-doṣa-parīkṣaṇam .. 1.117..
1.117. The threefold course of transmigrations, the result of (good or bad) actions, (the manner of attaining) supreme bliss and the examination of the good and bad qualities of actions,
देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् । पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥ १.११८॥
देश-धर्मान् जाति-धर्मान् कुल-धर्मान् च शाश्वतान् । पाषण्ड-गण-धर्मान् च शास्त्रे अस्मिन् उक्तवान् मनुः ॥ १।११८॥
deśa-dharmān jāti-dharmān kula-dharmān ca śāśvatān . pāṣaṇḍa-gaṇa-dharmān ca śāstre asmin uktavān manuḥ .. 1.118..
1.118. The primeval laws of countries, of castes (gati), of families, and the rules concerning heretics and companies (of traders and the like)- (all that) Manu has declared in these Institutes.
यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया । तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ १.११९॥
यथा एदम् उक्तवान् शास्त्रम् पुरा पृष्टः मनुः मया । तथा एदम् यूयम् अपि अद्य मद्-सकाशात् निबोधत ॥ १।११९॥
yathā edam uktavān śāstram purā pṛṣṭaḥ manuḥ mayā . tathā edam yūyam api adya mad-sakāśāt nibodhata .. 1.119..
1.119. As Manu, in reply to my questions, formerly promulgated these Institutes, even so learn ye also the (whole work) from me.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In