| |
|

This overlay will guide you through the buttons:

अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥ १०.१॥
अधीयीरन् त्रयः वर्णाः स्व-कर्म-स्थाः द्विजातयः । प्रब्रूयात् ब्राह्मणः तु एषाम् न इतरौ इति निश्चयः ॥ १०।१॥
adhīyīran trayaḥ varṇāḥ sva-karma-sthāḥ dvijātayaḥ . prabrūyāt brāhmaṇaḥ tu eṣām na itarau iti niścayaḥ .. 10.1..
10.1. Let the three twice-born castes (varna), discharging their (prescribed) duties, study (the Veda); but among them the Brahmana (alone) shall teach it, not the other two; that is an established rule.
सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान् यथाविधि । प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ १०.२॥
सर्वेषाम् ब्राह्मणः विद्यात् वृत्ति-उपायान् यथाविधि । प्रब्रूयात् इतरेभ्यः च स्वयम् च एव तथा भवेत् ॥ १०।२॥
sarveṣām brāhmaṇaḥ vidyāt vṛtti-upāyān yathāvidhi . prabrūyāt itarebhyaḥ ca svayam ca eva tathā bhavet .. 10.2..
10.2. The Brahmana must know the means of subsistence (prescribed) by law for all, instruct the others, and himself live according to (the law)
वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ १०.३॥
वैशेष्यात् प्रकृति-श्रैष्ठ्यात् नियमस्य च धारणात् । संस्कारस्य विशेषात् च वर्णानाम् ब्राह्मणः प्रभुः ॥ १०।३॥
vaiśeṣyāt prakṛti-śraiṣṭhyāt niyamasya ca dhāraṇāt . saṃskārasya viśeṣāt ca varṇānām brāhmaṇaḥ prabhuḥ .. 10.3..
10.3. On account of his pre-eminence, on account of the superiority of his origin, on account of his observance of (particular) restrictive rules, and on account of his particular sanctification the Brahmana is the lord of (all) castes (varna).
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ १०.४॥
ब्राह्मणः क्षत्रियः वैश्यः त्रयः वर्णाः द्विजातयः । चतुर्थे एकजातिः तु शूद्रः न अस्ति तु पञ्चमः ॥ १०।४॥
brāhmaṇaḥ kṣatriyaḥ vaiśyaḥ trayaḥ varṇāḥ dvijātayaḥ . caturthe ekajātiḥ tu śūdraḥ na asti tu pañcamaḥ .. 10.4..
10.4. Brahmana, the Kshatriya, and the Vaisya castes (varna) are the twice-born ones, but the fourth, the Sudra, has one birth only; there is no fifth (caste).
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन सम्भूता जात्या ज्ञेयास्त एव ते ॥ १०.५॥
सर्व-वर्णेषु तुल्यासु पत्नीषु अक्षतयोनिषु । आनुलोम्येन सम्भूताः जात्याः ज्ञेयाः ते एव ते ॥ १०।५॥
sarva-varṇeṣu tulyāsu patnīṣu akṣatayoniṣu . ānulomyena sambhūtāḥ jātyāḥ jñeyāḥ te eva te .. 10.5..
10.5. In all castes (varna) those (children) only which are begotten in the direct order on wedded wives, equal (in caste and married as) virgins, are to be considered as belonging to the same caste (as their fathers)
स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ १०.६॥
स्त्रीषु अनन्तरजातासु द्विजैः उत्पादितान् सुतान् । सदृशान् एव तान् आहुः मातृ-दोष-विगर्हितान् ॥ १०।६॥
strīṣu anantarajātāsu dvijaiḥ utpāditān sutān . sadṛśān eva tān āhuḥ mātṛ-doṣa-vigarhitān .. 10.6..
10.6. Sons, begotten by twice-born man on wives of the next lower castes, they declare to be similar (to their fathers, but) blamed on account of the fault (inherent) in their mothers.
अनन्तरासु जातानां विधिरेष सनातनः । द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ॥ १०.७॥
अनन्तरासु जातानाम् विधिः एष सनातनः । द्व्येकान्तरासु जातानाम् धर्म्यम् विद्यात् इमम् विधिम् ॥ १०।७॥
anantarāsu jātānām vidhiḥ eṣa sanātanaḥ . dvyekāntarāsu jātānām dharmyam vidyāt imam vidhim .. 10.7..
10.7. Such is the eternal law concerning (children) born of wives one degree lower (than their husbands); know (that) the following rule (is applicable) to those born of women two or three degrees lower.
ब्राह्मणाद्वैश्यकन्यायामम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ १०.८॥
ब्राह्मणात् वैश्य-कन्यायाम् अम्बष्ठः नाम जायते । निषादः शूद्र-कन्यायाम् यः पारशवः उच्यते ॥ १०।८॥
brāhmaṇāt vaiśya-kanyāyām ambaṣṭhaḥ nāma jāyate . niṣādaḥ śūdra-kanyāyām yaḥ pāraśavaḥ ucyate .. 10.8..
10.8. From a Brahmana a with the daughter of a Vaisya is born (a son) called an Ambashtha, with the daughter of a sudra a Nishada, who is also called Parasava.
क्षत्रियात्शूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥ १०.९॥
क्षत्रियात् शूद्र-कन्यायाम् क्रूर-आचार-विहारवान् । क्षत्र-शूद्र-वपुः जन्तुः उग्रः नाम प्रजायते ॥ १०।९॥
kṣatriyāt śūdra-kanyāyām krūra-ācāra-vihāravān . kṣatra-śūdra-vapuḥ jantuḥ ugraḥ nāma prajāyate .. 10.9..
10.9. From a Kshatriya and the daughter of a Sudra springs a being, called Ugra, resembling both a Kshatriya and a Sudra, ferocious in his manners, and delighting in cruelty.
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥ १०.१०॥
विप्रस्य त्रिषु वर्णेषु नृपतेः वर्णयोः द्वयोः । वैश्यस्य वर्णे च एकस्मिन् षट् एते अपसदाः स्मृताः ॥ १०।१०॥
viprasya triṣu varṇeṣu nṛpateḥ varṇayoḥ dvayoḥ . vaiśyasya varṇe ca ekasmin ṣaṭ ete apasadāḥ smṛtāḥ .. 10.10..
10.10. Children of a Brahmana by (women of) the three (lower) castes, of a Kshatriya by (wives of) the two (lower) castes, and of a Vaisya by (a wife of) the one caste (below him) are all six called base-born (apasada).
क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ १०.११॥
क्षत्रियात् विप्र-कन्यायाम् सूतः भवति जातितः । वैश्यात् मागध-वैदेहौ राज-विप्र-अङ्गना-सुतौ ॥ १०।११॥
kṣatriyāt vipra-kanyāyām sūtaḥ bhavati jātitaḥ . vaiśyāt māgadha-vaidehau rāja-vipra-aṅganā-sutau .. 10.11..
10.11. From a Kshatriya by the daughter of a Brahmana is born (a son called) according to his caste (gati) a Suta; from a Vaisya by females of the royal and the Brahmana (castes) spring a Magadha and a Vaideha.
शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥ १०.१२॥
शूद्रात् आयोगवः क्षत्ता चण्डालः च अधमः नृणाम् । वैश्य-राजन्य-विप्रासु जायन्ते वर्ण-सङ्कराः ॥ १०।१२॥
śūdrāt āyogavaḥ kṣattā caṇḍālaḥ ca adhamaḥ nṛṇām . vaiśya-rājanya-viprāsu jāyante varṇa-saṅkarāḥ .. 10.12..
10.12. From a Sudra are born an Ayogava, a Kshattri, and a Kandala, the lowest of men, by Vaisya, Kshatriya, and Brahmana) females, (sons who owe their origin to) a confusion of the castes.
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ । क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि ॥ १०.१३॥
एकान्तरे तु आनुलोम्यात् अम्बष्ठ-उग्रौ यथा स्मृतौ । क्षत्तृ-वैदेहकौ तद्वत् प्रातिलोम्ये अपि जन्मनि ॥ १०।१३॥
ekāntare tu ānulomyāt ambaṣṭha-ugrau yathā smṛtau . kṣattṛ-vaidehakau tadvat prātilomye api janmani .. 10.13..
10.13. As an Ambashtha and an Ugra, (begotten) in the direct order on (women) one degree lower (than their husbands) are declared (to be), even so are a Kshattri and a Vaidehaka, though they were born in the inverse order of the castes (from mothers one degree higher than the fathers).
पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते ॥ १०.१४॥
पुत्राः ये अनन्तर-स्त्री-जाः क्रमेण उक्ताः द्विजन्मनाम् । तान् अनन्तर-नाम्नः तु मातृ-दोषात् प्रचक्षते ॥ १०।१४॥
putrāḥ ye anantara-strī-jāḥ krameṇa uktāḥ dvijanmanām . tān anantara-nāmnaḥ tu mātṛ-doṣāt pracakṣate .. 10.14..
10.14. Those sons of the twice-born, begotten on wives of the next lower castes, who have been enumerated in due order, they call by the name Anantaras (belonging to the next lower caste), on account of the blemish (inherent) in their mothers.
ब्राह्मणादुग्रकन्यायामावृतो नाम जायते । आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ॥ १०.१५॥
ब्राह्मणात् उग्र-कन्यायाम् आवृतः नाम जायते । आभीरः अम्बष्ठ-कन्यायाम् आयोगव्याम् तु धिग्वणः ॥ १०।१५॥
brāhmaṇāt ugra-kanyāyām āvṛtaḥ nāma jāyate . ābhīraḥ ambaṣṭha-kanyāyām āyogavyām tu dhigvaṇaḥ .. 10.15..
10.15. A Brahmana begets on the daughter of an Ugra an Avrita, on the daughter of an Ambashtha an Abhira, but on a female of the Ayogava (caste) a Dhigvana.
आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ १०.१६॥
आयोगवः च क्षत्ता च चण्डालः च अधमः नृणाम् । प्रातिलोम्येन जायन्ते शूद्रात् अपसदाः त्रयः ॥ १०।१६॥
āyogavaḥ ca kṣattā ca caṇḍālaḥ ca adhamaḥ nṛṇām . prātilomyena jāyante śūdrāt apasadāḥ trayaḥ .. 10.16..
10.16. From a Sudra spring in the inverse order (by females of the higher castes) three base-born (sons, apasada), an Ayogava, a Kshattri, and a Kandala, the lowest of men;
वैश्यान् मागधवैदेहौ क्षत्रियात्सूत एव तु । प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥ १०.१७॥
वैश्यात् मागध-वैदेहौ क्षत्रियात् सूतः एव तु । प्रतीपम् एते जायन्ते परे अपि अपसदाः त्रयः ॥ १०।१७॥
vaiśyāt māgadha-vaidehau kṣatriyāt sūtaḥ eva tu . pratīpam ete jāyante pare api apasadāḥ trayaḥ .. 10.17..
10.17. From a Vaisya are born in the inverse order of the castes a Magadha and a Vaideha, but from a Kshatriya a Suta only; these are three other base-born ones (apasada).
जातो निषादात्शूद्रायां जात्या भवति पुक्कसः । शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ १०.१८॥
जातः निषादात् शूद्रायाम् जात्याः भवति पुक्कसः । शूद्रात् जातः निषाद्याम् तु स वै कुक्कुटकः स्मृतः ॥ १०।१८॥
jātaḥ niṣādāt śūdrāyām jātyāḥ bhavati pukkasaḥ . śūdrāt jātaḥ niṣādyām tu sa vai kukkuṭakaḥ smṛtaḥ .. 10.18..
10.18. The son of a Nishada by a Sudra female becomes a Pukkasa by caste (gati), but the son of a Sudra by a Nishada female is declared to be a Kukkutaka.
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते । वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥ १०.१९॥
क्षत्तुः जातः तथा उग्रायाम् श्वपाकः इति कीर्त्यते । वैदेहकेन तु अम्बष्ठ्याम् उत्पन्नः वेणः उच्यते ॥ १०।१९॥
kṣattuḥ jātaḥ tathā ugrāyām śvapākaḥ iti kīrtyate . vaidehakena tu ambaṣṭhyām utpannaḥ veṇaḥ ucyate .. 10.19..
10.19. Moreover, the son of by Kshattri by an Ugra female is called a Svapaka; but one begotten by a Vaidehaka on an Ambashtha female is named a Vena.
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ॥ १०.२०॥
द्विजातयः सवर्णासु जनयन्ति अव्रतान् तु यान् । तान् सावित्री-परिभ्रष्टान् व्रात्यान् इति विनिर्दिशेत् ॥ १०।२०॥
dvijātayaḥ savarṇāsu janayanti avratān tu yān . tān sāvitrī-paribhraṣṭān vrātyān iti vinirdiśet .. 10.20..
10.20. Those (sons) whom the twice-born beget on wives of equal caste, but who, not fulfilling their sacred duties, are excluded from the Savitri, one must designate by the appellation Vratyas.
व्रात्यात्तु जायते विप्रात्पापात्मा भृज्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ १०.२१॥
व्रात्यात् तु जायते विप्रात् पाप-आत्मा भृज्जकण्टकः । आवन्त्य-वाटधानौ च पुष्पधः शैखः एव च ॥ १०।२१॥
vrātyāt tu jāyate viprāt pāpa-ātmā bhṛjjakaṇṭakaḥ . āvantya-vāṭadhānau ca puṣpadhaḥ śaikhaḥ eva ca .. 10.21..
10.21. But from a Vratya (of the) Brahmana (caste) spring the wicked Bhriggakantaka, the Avantya, the Vatadhana, the Pushpadha, and the Saikha.
झल्लो मल्लश्च राजन्याद्व्रात्यात्लिच्छविरेव च । नटश्च करणश्चैव खसो द्रविड एव च ॥ १०.२२॥
झल्लः मल्लः च राजन्यात् व्रात्यात् लिच्छविः एव च । नटः च करणः च एव खसः द्रविडः एव च ॥ १०।२२॥
jhallaḥ mallaḥ ca rājanyāt vrātyāt licchaviḥ eva ca . naṭaḥ ca karaṇaḥ ca eva khasaḥ draviḍaḥ eva ca .. 10.22..
10.22. From a Vratya (of the) Kshatriya (caste), the Ghalla, the Malla, the Likkhivi, the Nata, the Karana, the Khasa, and the Dravida.
वैश्यात्तु जायते व्रात्यात्सुधन्वाऽचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ १०.२३॥
वैश्यात् तु जायते व्रात्यात् सुधन्वा आचार्यः एव च । कारुषः च विजन्मा च मैत्रः सात्वतः एव च ॥ १०।२३॥
vaiśyāt tu jāyate vrātyāt sudhanvā ācāryaḥ eva ca . kāruṣaḥ ca vijanmā ca maitraḥ sātvataḥ eva ca .. 10.23..
10.23. From a Vratya (of the) Vaisya (caste) are born a Sudhanvan, an Akarya, a Karusha, a Viganman, a Maitra, and a Satvata.
व्यभिचारेण वर्णानामवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ॥ १०.२४॥
व्यभिचारेण वर्णानाम् अवेद्य-अवेदनेन च । स्व-कर्मणाम् च त्यागेन जायन्ते वर्ण-सङ्कराः ॥ १०।२४॥
vyabhicāreṇa varṇānām avedya-avedanena ca . sva-karmaṇām ca tyāgena jāyante varṇa-saṅkarāḥ .. 10.24..
10.24. By adultery (committed by persons) of (different) castes, by marriages with women who ought not to be married, and by the neglect of the duties and occupations (prescribed) to each, are produced (sons who owe their origin) to a confusion the castes.
सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥ १०.२५॥
सङ्कीर्ण-योनयः ये तु प्रतिलोम-अनुलोम-जाः । अन्योन्य-व्यतिषक्ताः च तान् प्रवक्ष्यामि अशेषतस् ॥ १०।२५॥
saṅkīrṇa-yonayaḥ ye tu pratiloma-anuloma-jāḥ . anyonya-vyatiṣaktāḥ ca tān pravakṣyāmi aśeṣatas .. 10.25..
10.25. I will (now) fully enumerate those (sons) of mixed origin, who are born of Anulomas and of Pratilomas, and (thus) are mutually connected.
सूतो वैदेहकश्चैव चण्डालश्च नराधमः । मागधः तथाऽयोगव एव च क्षत्तृजातिश्च ॥ १०.२६॥
सूतः वैदेहकः च एव चण्डालः च नर-अधमः । मागधः तथा आयोगवः एव च क्षत्तृ-जातिः च ॥ १०।२६॥
sūtaḥ vaidehakaḥ ca eva caṇḍālaḥ ca nara-adhamaḥ . māgadhaḥ tathā āyogavaḥ eva ca kṣattṛ-jātiḥ ca .. 10.26..
10.26. The Suta, the Vaidehaka, the Kandala, that lowest of mortals, the Magadha, he of the Kshattri caste (gati), and the Ayogava
एते षट् सदृशान् वर्णाञ्जनयन्ति स्वयोनिषु । मातृजात्याः प्रसूयन्ते प्रवारासु च योनिषु ॥ १०.२७॥
एते षट् सदृशान् वर्णान् जनयन्ति स्व-योनिषु । मातृ-जात्याः प्रसूयन्ते प्रवारासु च योनिषु ॥ १०।२७॥
ete ṣaṭ sadṛśān varṇān janayanti sva-yoniṣu . mātṛ-jātyāḥ prasūyante pravārāsu ca yoniṣu .. 10.27..
10.27. These six (Pratilomas) beget similar races (varna) on women of their own (caste), they (also) produce (the like) with females of their mother’s caste (gati), and with females (of) higher ones.
यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते । आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमः ॥ १०.२८॥
यथा त्रयाणाम् वर्णानाम् द्वयोः आत्मा अस्य जायते । आनन्तर्यात् स्वयोन्याम् तु तथा बाह्येषु अपि क्रमः ॥ १०।२८॥
yathā trayāṇām varṇānām dvayoḥ ātmā asya jāyate . ānantaryāt svayonyām tu tathā bāhyeṣu api kramaḥ .. 10.28..
10.28. As a (Brahmana) begets on (females of) two out of the three (twice-born castes a son similar to) himself, (but inferior) on account of the lower degree (of the mother), and (one equal to himself) on a female of his own race, even so is the order in the case of the excluded (races, vahya).
ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १०.२९॥
ते च अपि बाह्यान् सु बहून् ततस् अपि अधिक-दूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ १०।२९॥
te ca api bāhyān su bahūn tatas api adhika-dūṣitān . parasparasya dāreṣu janayanti vigarhitān .. 10.29..
10.29. Those (six mentioned above) also beget, the one on the females of the other, a great many (kinds of) despicable (sons), even more sinful than their (fathers), and excluded (from the Aryan community, vahya).
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते । तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ॥ १०.३०॥
यथा एव शूद्रः ब्राह्मण्याम् बाह्यम् जन्तुम् प्रसूयते । तथा बाह्यतरम् बाह्यः चातुर्वर्ण्ये प्रसूयते ॥ १०।३०॥
yathā eva śūdraḥ brāhmaṇyām bāhyam jantum prasūyate . tathā bāhyataram bāhyaḥ cāturvarṇye prasūyate .. 10.30..
10.30. Just as a Sudra begets on a Brahmana female a being excluded (from the Aryan community), even so (a person himself) excluded pro creates with (females of) the four castes (varna, sons) more (worthy of being) excluded (than he himself).
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः । हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ १०.३१॥
प्रतिकूलम् वर्तमानाः बाह्याः बाह्यतरान् पुनर् । हीनाः हीनान् प्रसूयन्ते वर्णान् पञ्चदश एव तु ॥ १०।३१॥
pratikūlam vartamānāḥ bāhyāḥ bāhyatarān punar . hīnāḥ hīnān prasūyante varṇān pañcadaśa eva tu .. 10.31..
10.31. But men excluded (by the Aryans, vahya), who approach females of higher rank, beget races (varna) still more worthy to be excluded, low men (hina) still lower races, even fifteen (in number).
प्रसाधनोपचारज्ञमदासं दासजीवनम् । दास्यजीविनं सैरन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ॥ १०.३२॥
प्रसाधन-उपचार-ज्ञम् अदासम् दास-जीवनम् । दास्य-जीविनम् सैरन्ध्रम् वागुरा-वृत्तिम् सूते दस्युः अयोगवे ॥ १०।३२॥
prasādhana-upacāra-jñam adāsam dāsa-jīvanam . dāsya-jīvinam sairandhram vāgurā-vṛttim sūte dasyuḥ ayogave .. 10.32..
10.32. A Dasyu begets on an Ayogava (woman) a Sairandhra, who is skilled in adorning and attending (his master), who, (though) not a slave, lives like a slave, (or) subsists by snaring (animals).
मैत्रेयकं तु वैदेहो माधूकं सम्प्रसूयते । नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ १०.३३॥
मैत्रेयकम् तु वैदेहः माधूकम् सम्प्रसूयते । नॄन् प्रशंसति अजस्रम् यः घण्टाताडः अरुणोदये ॥ १०।३३॥
maitreyakam tu vaidehaḥ mādhūkam samprasūyate . nṝn praśaṃsati ajasram yaḥ ghaṇṭātāḍaḥ aruṇodaye .. 10.33..
10.33. A Vaideha produces (with the same) a sweet-voiced Maitreyaka, who, ringing a bell at the appearance of dawn, continually. praises (great) men.
निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥ १०.३४॥
निषादः मार्गवम् सूते दासम् नौकर्म-जीविनम् । कैवर्तम् इति यम् प्राहुः आर्यावर्त-निवासिनः ॥ १०।३४॥
niṣādaḥ mārgavam sūte dāsam naukarma-jīvinam . kaivartam iti yam prāhuḥ āryāvarta-nivāsinaḥ .. 10.34..
10.34. A Nishada begets (on the same) a Margava (or) Dasa, who subsists by working as a boatman, (and) whom the inhabitants of Aryavarta call a Kaivarta.
मृतवस्त्रभृत्स्वनार्याषु गर्हितान्नाशनासु च । भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः ॥ १०.३५॥
मृत-वस्त्र-भृत्सु अनार्याषु गर्हित-अन्न-अशनासु च । भवन्ति आयोगवीषु एते जाति-हीनाः पृथक् त्रयः ॥ १०।३५॥
mṛta-vastra-bhṛtsu anāryāṣu garhita-anna-aśanāsu ca . bhavanti āyogavīṣu ete jāti-hīnāḥ pṛthak trayaḥ .. 10.35..
10.35. Those three base-born ones are severally begot on Ayogava women, who wear the clothes of the dead, are wicked, and eat reprehensible food.
कारावरो निषादात्तु चर्मकारं प्रसूयते । वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ १०.३६॥
कारावरः निषादात् तु चर्मकारम् प्रसूयते । वैदेहिकात् अन्ध्र-मेदौ बहिस् ग्राम-प्रतिश्रयौ ॥ १०।३६॥
kārāvaraḥ niṣādāt tu carmakāram prasūyate . vaidehikāt andhra-medau bahis grāma-pratiśrayau .. 10.36..
10.36. From a Nishada springs (by a woman of the Vaideha caste) a Karavara, who works in leather; and from a Vaidehaka (by women of the Karavara and Nishada castes), an Andhra and a Meda, who dwell outside the village.
चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यामेव जायते ॥ १०.३७॥
चण्डालात् पाण्डुसोपाकः त्वक्सार-व्यवहारवान् । आहिण्डिकः निषादेन वैदेह्याम् एव जायते ॥ १०।३७॥
caṇḍālāt pāṇḍusopākaḥ tvaksāra-vyavahāravān . āhiṇḍikaḥ niṣādena vaidehyām eva jāyate .. 10.37..
10.37. From a Kandala by a Vaideha woman is born a Pandusopaka, who deals in cane; from a Nishada (by the same) an Ahindika.
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुल्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ १०.३८॥
चण्डालेन तु सोपाकः मूलव्यसनवृत्तिमान् । पुल्कस्याम् जायते पापः सदा सत्-जन-गर्हितः ॥ १०।३८॥
caṇḍālena tu sopākaḥ mūlavyasanavṛttimān . pulkasyām jāyate pāpaḥ sadā sat-jana-garhitaḥ .. 10.38..
10.38. But from a Kandala by a Pukkasa woman is born the sinful Sopaka, who lives by the occupations of his sire, and is ever despised by good men.
निषादस्त्री तु चण्डालात्पुत्रमन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥ १०.३९॥
निषाद-स्त्री तु चण्डालात् पुत्रम् अन्त्यावसायिनम् । श्मशान-गोचरम् सूते बाह्यानाम् अपि गर्हितम् ॥ १०।३९॥
niṣāda-strī tu caṇḍālāt putram antyāvasāyinam . śmaśāna-gocaram sūte bāhyānām api garhitam .. 10.39..
10.39. A Nishada woman bears to a Kandala a son (called) Antyavasayin, employed in burial-grounds, and despised even by those excluded (from the Aryan community).
सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ १०.४०॥
सङ्करे जातयः तु एताः पितृ-मातृ-प्रदर्शिताः । प्रच्छन्नाः वा प्रकाशाः वा वेदितव्याः स्व-कर्मभिः ॥ १०।४०॥
saṅkare jātayaḥ tu etāḥ pitṛ-mātṛ-pradarśitāḥ . pracchannāḥ vā prakāśāḥ vā veditavyāḥ sva-karmabhiḥ .. 10.40..
10.40. These races, (which originate) in a confusion (of the castes and) have been described according to their fathers and mothers, may be known by their occupations, whether they conceal or openly show themselves.
स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः । शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥ १०.४१॥
स्व-जाति-ज-अनन्तरजाः षट् सुताः द्विज-धर्मिणः । शूद्राणाम् तु सधर्माणः सर्वे अपध्वंस-जाः स्मृताः ॥ १०।४१॥
sva-jāti-ja-anantarajāḥ ṣaṭ sutāḥ dvija-dharmiṇaḥ . śūdrāṇām tu sadharmāṇaḥ sarve apadhvaṃsa-jāḥ smṛtāḥ .. 10.41..
10.41. Six sons, begotten (by Aryans) on women of equal and the next lower castes (Anantara), have the duties of twice-born men; but all those born in consequence of a violation (of the law) are, as regards their duties, equal to Sudras.
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे । उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ॥ १०.४२॥
तपः-बीज-प्रभावैः तु ते गच्छन्ति युगे युगे । उत्कर्षम् च अपकर्षम् च मनुष्येषु इह जन्मतः ॥ १०।४२॥
tapaḥ-bīja-prabhāvaiḥ tu te gacchanti yuge yuge . utkarṣam ca apakarṣam ca manuṣyeṣu iha janmataḥ .. 10.42..
10.42. By the power of austerities and of the seed (from which they sprang), these (races) obtain here among men more exalted or lower rank in successive births.
शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणातिक्रमेण च ॥ १०.४३॥
शनकैस् तु क्रिया-लोपात् इमाः क्षत्रिय-जातयः । वृषल-त्वम् गताः लोके ब्राह्मण-अतिक्रमेण च ॥ १०।४३॥
śanakais tu kriyā-lopāt imāḥ kṣatriya-jātayaḥ . vṛṣala-tvam gatāḥ loke brāhmaṇa-atikrameṇa ca .. 10.43..
10.43. But in consequence of the omission of the sacred rites, and of their not consulting Brahmanas, the following tribes of Kshatriyas have gradually sunk in this world to the condition of Sudras;
पुण्ड्रकाश्चोडद्रविडाः काम्बोजा यवनाः शकाः । पारदापह्लवाश्चीनाः किराता दरदाः खशाः ॥ १०.४४॥
पुण्ड्रकाः च उड-द्रविडाः काम्बोजाः यवनाः शकाः । पारद-अपह्लवाः चीनाः किराताः दरदाः खशाः ॥ १०।४४॥
puṇḍrakāḥ ca uḍa-draviḍāḥ kāmbojāḥ yavanāḥ śakāḥ . pārada-apahlavāḥ cīnāḥ kirātāḥ daradāḥ khaśāḥ .. 10.44..
10.44. (Viz.) the Paundrakas, the Kodas, the Dravidas, the Kambogas, the Yavanas, the Sakas, the Paradas, the Pahlavas, the Kinas, the Kiratas, and the Daradas.
मुखबाहूरुपद्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ १०.४५॥
मुख-बाहु-ऊरु-पद्-जानाम् याः लोके जातयः बहिस् । म्लेच्छ-वाचः च आर्य-वाचः सर्वे ते दस्यवः स्मृताः ॥ १०।४५॥
mukha-bāhu-ūru-pad-jānām yāḥ loke jātayaḥ bahis . mleccha-vācaḥ ca ārya-vācaḥ sarve te dasyavaḥ smṛtāḥ .. 10.45..
10.45. All those tribes in this world, which are excluded from (the community of) those born from the mouth, the arms, the thighs, and the feet (of Brahman), are called Dasyus, whether they speak the language of the Mlekkhas (barbarians) or that of the Aryans.
ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ॥ १०.४६॥
ये द्विजानाम् अपसदाः ये च अपध्वंस-जाः स्मृताः । ते निन्दितैः वर्तयेयुः द्विजानाम् एव कर्मभिः ॥ १०।४६॥
ye dvijānām apasadāḥ ye ca apadhvaṃsa-jāḥ smṛtāḥ . te ninditaiḥ vartayeyuḥ dvijānām eva karmabhiḥ .. 10.46..
10.46. Those who have been mentioned as the base-born (offspring, apasada) of Aryans, or as produced in consequence of a violation (of the law, apadhvamsaga), shall subsist by occupations reprehended by the twice- born.
सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम् । वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ १०.४७॥
सूतानाम् अश्व-सारथ्यम् अम्बष्ठानाम् चिकित्सनम् । वैदेहकानाम् स्त्रीकार्यम् मागधानाम् वणिक्पथः ॥ १०।४७॥
sūtānām aśva-sārathyam ambaṣṭhānām cikitsanam . vaidehakānām strīkāryam māgadhānām vaṇikpathaḥ .. 10.47..
10.47. To Sutas (belongs) the management of horses and of chariots; to Ambashthas, the art of healing; to Vaidehakas, the service of women; to Magadhas, trade;
मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च । मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥ १०.४८॥
मत्स्यघातः निषादानाम् त्वष्टिः तु आयोगवस्य च । मेद-अन्ध्र-चुञ्चु-मद्गूनाम् आरण्य-पशु-हिंसनम् ॥ १०।४८॥
matsyaghātaḥ niṣādānām tvaṣṭiḥ tu āyogavasya ca . meda-andhra-cuñcu-madgūnām āraṇya-paśu-hiṃsanam .. 10.48..
10.48. Killing fish to Nishadas; carpenters’ work to the Ayogava; to Medas, Andhras, Kunkus, and Madgus, the slaughter of wild animals;
क्षत्त्र्युग्रपुक्कसानां तु बिलौकोवधबन्धनम् । धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ १०.४९॥
क्षत्त्रि-उग्र-पुक्कसानाम् तु बिलौकः-वध-बन्धनम् । धिग्वणानाम् चर्मकार्यम् वेणानाम् भाण्ड-वादनम् ॥ १०।४९॥
kṣattri-ugra-pukkasānām tu bilaukaḥ-vadha-bandhanam . dhigvaṇānām carmakāryam veṇānām bhāṇḍa-vādanam .. 10.49..
10.49. To Kshattris, Ugras, and Pukkasas, catching and killing (animals) living in holes; to Dhigvanas, working in leather; to Venas, playing drums.
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ १०.५०॥
चैत्य-द्रुम-श्मशानेषु शैलेषु उपवनेषु च । वसेयुः एते विज्ञाताः वर्तयन्तः स्व-कर्मभिः ॥ १०।५०॥
caitya-druma-śmaśāneṣu śaileṣu upavaneṣu ca . vaseyuḥ ete vijñātāḥ vartayantaḥ sva-karmabhiḥ .. 10.50..
10.50. Near well-known trees and burial-grounds, on mountains and in groves, let these (tribes) dwell, known (by certain marks), and subsisting by their peculiar occupations.
चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः । अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥ १०.५१॥
चण्डाल-श्वपचानाम् तु बहिस् ग्रामात् प्रतिश्रयः । अपपात्राः च कर्तव्याः धनम् एषाम् श्व-गर्दभम् ॥ १०।५१॥
caṇḍāla-śvapacānām tu bahis grāmāt pratiśrayaḥ . apapātrāḥ ca kartavyāḥ dhanam eṣām śva-gardabham .. 10.51..
10.51. But the dwellings of Kandalas and Svapakas shall be outside the village, they must be made Apapatras, and their wealth (shall be) dogs and donkeys.
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ १०.५२॥
वासांसि मृत-चैलानि भिन्न-भाण्डेषु भोजनम् । कार्ष्णायसम् अलङ्कारः परिव्रज्या च नित्यशस् ॥ १०।५२॥
vāsāṃsi mṛta-cailāni bhinna-bhāṇḍeṣu bhojanam . kārṣṇāyasam alaṅkāraḥ parivrajyā ca nityaśas .. 10.52..
10.52. Their dress (shall be) the garments of the dead, (they shall eat) their food from broken dishes, black iron (shall be) their ornaments, and they must always wander from place to place.
न तैः समयमन्विच्छेत्पुरुषो धर्ममाचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ १०.५३॥
न तैः समयम् अन्विच्छेत् पुरुषः धर्मम् आचरन् । व्यवहारः मिथस् तेषाम् विवाहः सदृशैः सह ॥ १०।५३॥
na taiḥ samayam anvicchet puruṣaḥ dharmam ācaran . vyavahāraḥ mithas teṣām vivāhaḥ sadṛśaiḥ saha .. 10.53..
10.53. A man who fulfils a religious duty, shall not seek intercourse with them; their transactions (shall be) among themselves, and their marriages with their equals.
अन्नमेषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ १०.५४॥
अन्नम् एषाम् पर-अधीनम् देयम् स्यात् भिन्न-भाजने । रात्रौ न विचरेयुः ते ग्रामेषु नगरेषु च ॥ १०।५४॥
annam eṣām para-adhīnam deyam syāt bhinna-bhājane . rātrau na vicareyuḥ te grāmeṣu nagareṣu ca .. 10.54..
10.54. Their food shall be given to them by others (than an Aryan giver) in a broken dish; at night they shall not walk about in villages and in towns.
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ॥ १०.५५॥
दिवा चरेयुः कार्य-अर्थम् चिह्निताः राज-शासनैः । अबान्धवम् शवम् च एव निर्हरेयुः इति स्थितिः ॥ १०।५५॥
divā careyuḥ kārya-artham cihnitāḥ rāja-śāsanaiḥ . abāndhavam śavam ca eva nirhareyuḥ iti sthitiḥ .. 10.55..
10.55. By day they may go about for the purpose of their work, distinguished by marks at the king’s command, and they shall carry out the corpses (of persons) who have no relatives; that is a settled rule.
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ १०.५६॥
वध्यान् च हन्युः सततम् यथाशास्त्रम् नृप-आज्ञया । वध्य-वासांसि गृह्णीयुः शय्याः च आभरणानि च ॥ १०।५६॥
vadhyān ca hanyuḥ satatam yathāśāstram nṛpa-ājñayā . vadhya-vāsāṃsi gṛhṇīyuḥ śayyāḥ ca ābharaṇāni ca .. 10.56..
10.56. By the king’s order they shall always execute the criminals, in accordance with the law, and they shall take for themselves the clothes, the beds, and the ornaments of (such) criminals.
वर्णापेतमविज्ञातं नरं कलुषयोनिजम् । आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत् ॥ १०.५७॥
वर्ण-अपेतम् अविज्ञातम् नरम् कलुष-योनि-जम् । आर्य-रूपम् इव अनार्यम् कर्मभिः स्वैः विभावयेत् ॥ १०।५७॥
varṇa-apetam avijñātam naram kaluṣa-yoni-jam . ārya-rūpam iva anāryam karmabhiḥ svaiḥ vibhāvayet .. 10.57..
10.57. A man of impure origin, who belongs not to any caste, (varna, but whose character is) not known, who, (though) not an Aryan, has the appearance of an Aryan, one may discover by his acts.
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ १०.५८॥
अनार्य-ता निष्ठुर-ता क्रूर-ता निष्क्रिय-आत्म-ता । पुरुषम् व्यञ्जयन्ति इह लोके कलुष-योनि-जम् ॥ १०।५८॥
anārya-tā niṣṭhura-tā krūra-tā niṣkriya-ātma-tā . puruṣam vyañjayanti iha loke kaluṣa-yoni-jam .. 10.58..
10.58. Behaviour unworthy of an Aryan, harshness, cruelty, and habitual neglect of the prescribed duties betray in this world a man of impure origin.
पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा । न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ १०.५९॥
पित्र्यम् वा भजते शीलम् मातुः वा उभयम् एव वा । न कथम् चन दुर्योनिः प्रकृतिम् स्वाम् नियच्छति ॥ १०।५९॥
pitryam vā bhajate śīlam mātuḥ vā ubhayam eva vā . na katham cana duryoniḥ prakṛtim svām niyacchati .. 10.59..
10.59. A base-born man either resembles in character his father, or his mother, or both; he can never conceal his real nature.
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसङ्करः । संश्रयत्येव तत्शीलं नरोऽल्पमपि वा बहु ॥ १०.६०॥
कुले मुख्ये अपि जातस्य यस्य स्यात् योनि-सङ्करः । संश्रयति एव तद्-शीलम् नरः अल्पम् अपि वा बहु ॥ १०।६०॥
kule mukhye api jātasya yasya syāt yoni-saṅkaraḥ . saṃśrayati eva tad-śīlam naraḥ alpam api vā bahu .. 10.60..
10.60. Even if a man, born in a great family, sprang from criminal intercourse, he will certainly possess the faults of his (father), be they small or great.
यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः । राष्ट्रियैः सह तद्राष्ट्रं क्षिप्रमेव विनश्यति ॥ १०.६१॥
यत्र तु एते परिध्वंसात् जायन्ते वर्ण-दूषकाः । राष्ट्रियैः सह तत् राष्ट्रम् क्षिप्रम् एव विनश्यति ॥ १०।६१॥
yatra tu ete paridhvaṃsāt jāyante varṇa-dūṣakāḥ . rāṣṭriyaiḥ saha tat rāṣṭram kṣipram eva vinaśyati .. 10.61..
10.61. But that kingdom in which such bastards, sullying (the purity of) the castes, are born, perishes quickly together with its inhabitants.
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । स्त्रीबालाभ्यवपत्तौ च बाह्यानां सिद्धिकारणम् ॥ १०.६२॥
ब्राह्मण-अर्थे गवा अर्थे वा देहत्यागः अनुपस्कृतः । स्त्री-बाल-अभ्यवपत्तौ च बाह्यानाम् सिद्धि-कारणम् ॥ १०।६२॥
brāhmaṇa-arthe gavā arthe vā dehatyāgaḥ anupaskṛtaḥ . strī-bāla-abhyavapattau ca bāhyānām siddhi-kāraṇam .. 10.62..
10.62. Dying, without the expectation of a reward, for the sake of Brahmanas and of cows, or in the defence of women and children, secures beatitude to those excluded (from the Aryan community, vahya.)
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन् मनुः ॥ १०.६३॥
अहिंसा सत्यम् अस्तेयम् शौचम् इन्द्रिय-निग्रहः । एतम् सामासिकम् धर्मम् चातुर्वर्ण्ये अब्रवीत् मनुः ॥ १०।६३॥
ahiṃsā satyam asteyam śaucam indriya-nigrahaḥ . etam sāmāsikam dharmam cāturvarṇye abravīt manuḥ .. 10.63..
10.63. Abstention from injuring (creatures), veracity, abstention from unlawfully appropriating (the goods of others), purity, and control of the organs, Manu has declared to be the summary of the law for the four castes.
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते । अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात् ॥ १०.६४॥
शूद्रायाम् ब्राह्मणात् जातः श्रेयसा चेद् प्रजायते । अश्रेयान् श्रेयसीम् जातिम् गच्छति आ सप्तमात् युगात् ॥ १०।६४॥
śūdrāyām brāhmaṇāt jātaḥ śreyasā ced prajāyate . aśreyān śreyasīm jātim gacchati ā saptamāt yugāt .. 10.64..
10.64. If (a female of the caste), sprung from a Brahmana and a Sudra female, bear (children) to one of the highest caste, the inferior (tribe) attains the highest caste within the seventh generation.
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् । क्षत्रियाज्जातमेवं तु विद्याद्वैश्यात्तथैव च ॥ १०.६५॥
शूद्रः ब्राह्मण-ताम् एति ब्राह्मणः च एति शूद्र-ताम् । क्षत्रियात् जातम् एवम् तु विद्यात् वैश्यात् तथा एव च ॥ १०।६५॥
śūdraḥ brāhmaṇa-tām eti brāhmaṇaḥ ca eti śūdra-tām . kṣatriyāt jātam evam tu vidyāt vaiśyāt tathā eva ca .. 10.65..
10.65. (Thus) a Sudra attains the rank of a Brahmana, and (in a similar manner) a Brahmana sinks to the level of a Sudra; but know that it is the same with the offspring of a Kshatriya or of a Vaisya.
अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया । ब्राह्मण्यामप्यनार्यात्तु श्रेयस्त्वं कस्य चिद्भवेत्॥ १०.६६॥
अनार्यायाम् समुत्पन्नः ब्राह्मणात् तु यदृच्छया । ब्राह्मण्याम् अपि अनार्यात् तु श्रेयस्त्वम् कस्य चित् भवेत्॥ १०।६६॥
anāryāyām samutpannaḥ brāhmaṇāt tu yadṛcchayā . brāhmaṇyām api anāryāt tu śreyastvam kasya cit bhavet.. 10.66..
10.66. If (a doubt) should arise, with whom the preeminence (is, whether) with him whom an Aryan by chance begot on a non-Aryan female, or (with the son) of a Brahmana woman by a non-Aryan,
जातो नार्यामनार्यायामार्यादार्यो भवेद्गुणैः । जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥ १०.६७॥
जातः नार्याम् अनार्यायाम् आर्या-दार्यः भवेत् गुणैः । जातः अपि अनार्यात् आर्यायाम् अनार्यः इति निश्चयः ॥ १०।६७॥
jātaḥ nāryām anāryāyām āryā-dāryaḥ bhavet guṇaiḥ . jātaḥ api anāryāt āryāyām anāryaḥ iti niścayaḥ .. 10.67..
10.67. The decision is as follows: ’He who was begotten by an Aryan on a non-Aryan female, may become (like to) an Aryan by his virtues; he whom an Aryan (mother) bore to a non-Aryan father ( is and remains) unlike to an Aryan.
तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः । वैगुण्याज्जन्मतः पूर्व उत्तरः प्रतिलोमतः ॥ १०.६८॥
तौ उभौ अपि अ संस्कार्यौ इति धर्मः व्यवस्थितः । वैगुण्यात् जन्मतः पूर्वः उत्तरः प्रतिलोमतः ॥ १०।६८॥
tau ubhau api a saṃskāryau iti dharmaḥ vyavasthitaḥ . vaiguṇyāt janmataḥ pūrvaḥ uttaraḥ pratilomataḥ .. 10.68..
10.68. The law prescribes that neither of the two shall receive the sacraments, the first (being excluded) on account of the lowness of his origin, the second (because the union of his parents was) against the order of the castes.
सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा । तथाऽर्याज्जात आर्यायां सर्वं संस्कारमर्हति ॥ १०.६९॥
सु बीजम् च एव सु क्षेत्रे जातम् सम्पद्यते यथा । तथा आर्यात् जातः आर्यायाम् सर्वम् संस्कारम् अर्हति ॥ १०।६९॥
su bījam ca eva su kṣetre jātam sampadyate yathā . tathā āryāt jātaḥ āryāyām sarvam saṃskāram arhati .. 10.69..
10.69. As good seed, springing up in good soil, turns out perfectly well, even so the son of an Aryan by an Aryan woman is worthy of all the sacraments.
बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रैयं तु व्यवस्थितिः ॥ १०.७०॥
बीजम् एके प्रशंसन्ति क्षेत्रम् अन्ये मनीषिणः । बीज-क्षेत्रे तथा एव अन्ये तत्र एयम् तु व्यवस्थितिः ॥ १०।७०॥
bījam eke praśaṃsanti kṣetram anye manīṣiṇaḥ . bīja-kṣetre tathā eva anye tatra eyam tu vyavasthitiḥ .. 10.70..
10.70. Some sages declare the seed to be more important, and others the field; again others (assert that) the seed and the field (are equally important); but the legal decision on this point is as follows:
अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ १०.७१॥
अक्षेत्रे बीजम् उत्सृष्टम् अन्तरा एव विनश्यति । अबीजकम् अपि क्षेत्रम् केवलम् स्थण्डिलम् भवेत् ॥ १०।७१॥
akṣetre bījam utsṛṣṭam antarā eva vinaśyati . abījakam api kṣetram kevalam sthaṇḍilam bhavet .. 10.71..
10.71. Seed, sown on barren ground, perishes in it; a (fertile) field also, in which no (good) seed (is sown), will remain barren.
यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्बीजं विशिष्यते॥ १०.७२॥
यस्मात् बीज-प्रभावेण तिर्यग्जाः ऋषयः अभवन् । पूजिताः च प्रशस्ताः च तस्मात् बीजम् विशिष्यते॥ १०।७२॥
yasmāt bīja-prabhāveṇa tiryagjāḥ ṛṣayaḥ abhavan . pūjitāḥ ca praśastāḥ ca tasmāt bījam viśiṣyate.. 10.72..
10.72. As through the power of the seed (sons) born of animals became sages who are honoured and praised, hence the seed is declared to be more important.
अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम् । सम्प्रधार्याब्रवीद्धाता न समौ नासमाविति ॥ १०.७३॥
अनार्यम् आर्य-कर्माणम् आर्यम् च अनार्य-कर्मिणम् । सम्प्रधार्य अब्रवीत् धाता न समौ न असमौ इति ॥ १०।७३॥
anāryam ārya-karmāṇam āryam ca anārya-karmiṇam . sampradhārya abravīt dhātā na samau na asamau iti .. 10.73..
10.73. Having considered (the case of) a non-Aryan who acts like an Aryan, and (that of) an Aryan who acts like a non-Aryan, the creator declared, ’Those two are neither equal nor unequal.’
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम् ॥ १०.७४॥
ब्राह्मणाः ब्रह्म-योनि-स्थाः ये स्व-कर्मणि अवस्थिताः । ते सम्यक् उपजीवेयुः षड् कर्माणि यथाक्रमम् ॥ १०।७४॥
brāhmaṇāḥ brahma-yoni-sthāḥ ye sva-karmaṇi avasthitāḥ . te samyak upajīveyuḥ ṣaḍ karmāṇi yathākramam .. 10.74..
10.74. Brahmanas who are intent on the means (of gaining union with) Brahman and firm in (discharging) their duties, shall live by duly performing the following six acts, (which are enumerated) in their (proper) order.
अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट् कर्माण्यग्रजन्मनः ॥ १०.७५॥
अध्यापनम् अध्ययनम् यजनम् याजनम् तथा । दानम् प्रतिग्रहः च एव षट् कर्माणि अग्रजन्मनः ॥ १०।७५॥
adhyāpanam adhyayanam yajanam yājanam tathā . dānam pratigrahaḥ ca eva ṣaṭ karmāṇi agrajanmanaḥ .. 10.75..
10.75. Teaching, studying, sacrificing for himself, sacrificing for others, making gifts and receiving them are the six acts (prescribed) for a Brahmana.
षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ १०.७६॥
षण्णाम् तु कर्मणाम् अस्य त्रीणि कर्माणि जीविका । याजन-अध्यापने च एव विशुद्धात् च प्रतिग्रहः ॥ १०।७६॥
ṣaṇṇām tu karmaṇām asya trīṇi karmāṇi jīvikā . yājana-adhyāpane ca eva viśuddhāt ca pratigrahaḥ .. 10.76..
10.76. But among the six acts (ordained) for him three are his means of subsistence, (viz.) sacrificing for others, teaching, and accepting gifts from pure men.
त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति । अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥ १०.७७॥
त्रयः धर्माः निवर्तन्ते ब्राह्मणात् क्षत्रियम् प्रति । अध्यापनम् याजनम् च तृतीयः च प्रतिग्रहः ॥ १०।७७॥
trayaḥ dharmāḥ nivartante brāhmaṇāt kṣatriyam prati . adhyāpanam yājanam ca tṛtīyaḥ ca pratigrahaḥ .. 10.77..
10.77. (Passing) from the Brahmana to the Kshatriya, three acts (incumbent on the former) are forbidden, (viz.) teaching, sacrificing for others, and, thirdly, the acceptance of gifts.
वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः । न तौ प्रति हितान् धर्मान् मनुराह प्रजापतिः ॥ १०.७८॥
वैश्यम् प्रति तथा एव एते निवर्तेरन् इति स्थितिः । न तौ प्रति हितान् धर्मान् मनुः आह प्रजापतिः ॥ १०।७८॥
vaiśyam prati tathā eva ete nivarteran iti sthitiḥ . na tau prati hitān dharmān manuḥ āha prajāpatiḥ .. 10.78..
10.78. The same are likewise forbidden to a Vaisya, that is a settled rule; for Manu, the lord of creatures (Pragapati), has not prescribed them for (men of) those two (castes).
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः । आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ॥ १०.७९॥
शस्त्र-अस्त्र-भृत्-त्वम् क्षत्रस्य वणिज्-पशु-कृषिः विषः । आजीवन-अर्थम् धर्मः तु दानम् अध्ययनम् यजिः ॥ १०।७९॥
śastra-astra-bhṛt-tvam kṣatrasya vaṇij-paśu-kṛṣiḥ viṣaḥ . ājīvana-artham dharmaḥ tu dānam adhyayanam yajiḥ .. 10.79..
10.79. To carry arms for striking and for throwing (is prescribed) for Kshatriyas as a means of subsistence; to trade, (to rear) cattle, and agriculture for Vaisyas; but their duties are liberality, the study of the Veda, and the performance of sacrifices.
वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ १०.८०॥
वेद-अभ्यासः ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वार्ता-कर्म एव वैश्यस्य विशिष्टानि स्व-कर्मसु ॥ १०।८०॥
veda-abhyāsaḥ brāhmaṇasya kṣatriyasya ca rakṣaṇam . vārtā-karma eva vaiśyasya viśiṣṭāni sva-karmasu .. 10.80..
10.80. Among the several occupations the most commendable are, teaching the Veda for a Brahmana, protecting (the people) for a Kshatriya, and trade for a Vaisya.
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥ १०.८१॥
अ जीवन् तु यथा उक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत् क्षत्रिय-धर्मेण स हि अस्य प्रत्यनन्तरः ॥ १०।८१॥
a jīvan tu yathā uktena brāhmaṇaḥ svena karmaṇā . jīvet kṣatriya-dharmeṇa sa hi asya pratyanantaraḥ .. 10.81..
10.81. But a Brahmana, unable to subsist by his peculiar occupations just mentioned, may live according to the law applicable to Kshatriyas; for the latter is next to him in rank.
उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षमास्थाय जीवेद्वैश्यस्य जीविकाम् ॥ १०.८२॥
उभाभ्याम् अपि अ जीवन् तु कथम् स्यात् इति चेद् भवेत् । कृषि-गोरक्षम् आस्थाय जीवेत् वैश्यस्य जीविकाम् ॥ १०।८२॥
ubhābhyām api a jīvan tu katham syāt iti ced bhavet . kṛṣi-gorakṣam āsthāya jīvet vaiśyasya jīvikām .. 10.82..
10.82. If it be asked, ’How shall it be, if he cannot maintain himself by either (of these occupations?’ the answer is), he may adopt a Vaisya’s mode of life, employing himself in agriculture and rearing cattle.
वैश्यवृत्त्याऽपि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा । हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ १०.८३॥
वैश्य-वृत्त्या अपि जीवन् तु ब्राह्मणः क्षत्रियः अपि वा । हिंसा-प्रायाम् पर-अधीनाम् कृषिम् यत्नेन वर्जयेत् ॥ १०।८३॥
vaiśya-vṛttyā api jīvan tu brāhmaṇaḥ kṣatriyaḥ api vā . hiṃsā-prāyām para-adhīnām kṛṣim yatnena varjayet .. 10.83..
10.83. But a Brahmana, or a Kshatriya, living by a Vaisya’s mode of subsistence, shall carefully avoid (the pursuit of) agriculture, (which causes) injury to many beings and depends on others.
कृषिं साधुइति मन्यन्ते सा वृत्तिः सद्विगर्हिताः । भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ १०.८४॥
कृषिम् साधु इति मन्यन्ते सा वृत्तिः सत्-विगर्हिताः । भूमिम् भूमिशयान् च एव हन्ति काष्ठम् अयः-मुखम् ॥ १०।८४॥
kṛṣim sādhu iti manyante sā vṛttiḥ sat-vigarhitāḥ . bhūmim bhūmiśayān ca eva hanti kāṣṭham ayaḥ-mukham .. 10.84..
10.84. (Some) declare that agriculture is something excellent, (but) that means of subsistence is blamed by the virtuous; (for) the wooden (implement) with iron point injuries the earth and (the beings) living in the earth.
इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम् । विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ १०.८५॥
इदम् तु वृत्ति-वैकल्यात् त्यजतः धर्म-नैपुणम् । विट्पण्यम् उद्धृतोद्धारम् विक्रेयम् वित्त-वर्धनम् ॥ १०।८५॥
idam tu vṛtti-vaikalyāt tyajataḥ dharma-naipuṇam . viṭpaṇyam uddhṛtoddhāram vikreyam vitta-vardhanam .. 10.85..
10.85. But he who, through a want of means of subsistence, gives up the strictness with respect to his duties, may sell, in order to increase his wealth, the commodities sold by Vaisyas, making (however) the (following) exceptions.
सर्वान् रसानपोहेत कृतान्नं च तिलैः सह । अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ १०.८६॥
सर्वान् रसान् अपोहेत कृतान्नम् च तिलैः सह । अश्मनः लवणम् च एव पशवः ये च मानुषाः ॥ १०।८६॥
sarvān rasān apoheta kṛtānnam ca tilaiḥ saha . aśmanaḥ lavaṇam ca eva paśavaḥ ye ca mānuṣāḥ .. 10.86..
10.86. He must avoid (selling) condiments of all sorts, cooked food and sesamum, stones, salt, cattle, and human (beings),
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्युररक्तानि फलमूले तथौषधीः ॥ १०.८७॥
सर्वम् च तान्तवम् रक्तम् शाण-क्षौम-आविकानि च । अपि चेद् स्युः अ रक्तानि फल-मूले तथा ओषधीः ॥ १०।८७॥
sarvam ca tāntavam raktam śāṇa-kṣauma-āvikāni ca . api ced syuḥ a raktāni phala-mūle tathā oṣadhīḥ .. 10.87..
10.87. All dyed cloth, as well as cloth made of hemp, or flax, or wool, even though they be not dyed, fruit, roots, and (medical) herbs
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ १०.८८॥
अपः शस्त्रम् विषम् मांसम् सोमम् गन्धान् च सर्वशस् । क्षीरम् क्षौद्रम् दधि घृतम् तैलम् मधु गुडम् कुशान् ॥ १०।८८॥
apaḥ śastram viṣam māṃsam somam gandhān ca sarvaśas . kṣīram kṣaudram dadhi ghṛtam tailam madhu guḍam kuśān .. 10.88..
10.88. Water, weapons, poison, meat, Soma, and perfumes of all kinds, fresh milk, honey, sour milk, clarified butter, oil, wax, sugar, Kusa-grass;
आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च । मद्यं नीलीं च लाक्षां च सर्वांश्चैकशफांस्तथा ॥ १०.८९॥
आरण्यान् च पशून् सर्वान् दंष्ट्रिणः च वयांसि च । मद्यम् नीलीम् च लाक्षाम् च सर्वान् च एकशफान् तथा ॥ १०।८९॥
āraṇyān ca paśūn sarvān daṃṣṭriṇaḥ ca vayāṃsi ca . madyam nīlīm ca lākṣām ca sarvān ca ekaśaphān tathā .. 10.89..
10.89. All beasts of the forest, animals with fangs or tusks, birds, spirituous liquor, indigo, lac, and all one- hoofed beasts.
काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः । विक्रीणीत तिलांशुद्धान् धर्मार्थमचिरस्थितान् ॥ १०.९०॥
कामम् उत्पाद्य कृष्याम् तु स्वयम् एव कृषीवलः । विक्रीणीत तिलान् शुद्धान् धर्म-अर्थम् अचिर-स्थितान् ॥ १०।९०॥
kāmam utpādya kṛṣyām tu svayam eva kṛṣīvalaḥ . vikrīṇīta tilān śuddhān dharma-artham acira-sthitān .. 10.90..
10.90. But he who subsists by agriculture, may at pleasure sell unmixed sesamum grains for sacred purposes, provided he himself has grown them and has not kept them long.
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ १०.९१॥
भोजन-अभ्यञ्जनात् दानात् यत् अन्यत् कुरुते तिलैः । कृमि-भूतः श्व-विष्ठायाम् पितृभिः सह मज्जति ॥ १०।९१॥
bhojana-abhyañjanāt dānāt yat anyat kurute tilaiḥ . kṛmi-bhūtaḥ śva-viṣṭhāyām pitṛbhiḥ saha majjati .. 10.91..
10.91. If he applies sesamum to any other purpose but food, anointing, and charitable gifts, he will be born (again) as a worm and, together with his ancestors, be plunged into the ordure of dogs.
सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ १०.९२॥
सद्यस् पतति मांसेन लाक्षया लवणेन च । त्रि-अहेण शूद्रः भवति ब्राह्मणः क्षीर-विक्रयात् ॥ १०।९२॥
sadyas patati māṃsena lākṣayā lavaṇena ca . tri-aheṇa śūdraḥ bhavati brāhmaṇaḥ kṣīra-vikrayāt .. 10.92..
10.92. By (selling) flesh, salt, and lac a Brahmana at once becomes an outcast; by selling milk he becomes (equal to) a Sudra in three days.
इतरेषां तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ १०.९३॥
इतरेषाम् तु पण्यानाम् विक्रयात् इह कामतः । ब्राह्मणः सप्त-रात्रेण वैश्य-भावम् नियच्छति ॥ १०।९३॥
itareṣām tu paṇyānām vikrayāt iha kāmataḥ . brāhmaṇaḥ sapta-rātreṇa vaiśya-bhāvam niyacchati .. 10.93..
10.93. But by willingly selling in this world other (forbidden) commodities, a Brahmana assumes after seven nights the character of a Vaisya.
रसा रसैर्निमातव्या न त्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ १०.९४॥
रसाः रसैः निमातव्याः न तु एव लवणम् रसैः । कृतान्नम् च कृतान्नेन तिलाः धान्येन तद्-समाः ॥ १०।९४॥
rasāḥ rasaiḥ nimātavyāḥ na tu eva lavaṇam rasaiḥ . kṛtānnam ca kṛtānnena tilāḥ dhānyena tad-samāḥ .. 10.94..
10.94. Condiments may be bartered for condiments, but by no means salt for (other) condiments; cooked food (may be exchanged) for (other kinds of) cooked food, and sesamum seeds for grain in equal quantities.
जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः । न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित् ॥ १०.९५॥
जीवेत् एतेन राजन्यः सर्वेण अपि अनयम् गतः । न तु एव ज्यायंसीम् वृत्तिम् अभिमन्येत कर्हि चित् ॥ १०।९५॥
jīvet etena rājanyaḥ sarveṇa api anayam gataḥ . na tu eva jyāyaṃsīm vṛttim abhimanyeta karhi cit .. 10.95..
10.95. A Kshatriya who has fallen into distress, may subsist by all these (means); but he must never arrogantly adopt the mode of life (prescribed for his) betters.
यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ १०.९६॥
यः लोभात् अधमः जात्याः जीवेत् उत्कृष्ट-कर्मभिः । तम् राजा निर्धनम् कृत्वा क्षिप्रम् एव प्रवासयेत् ॥ १०।९६॥
yaḥ lobhāt adhamaḥ jātyāḥ jīvet utkṛṣṭa-karmabhiḥ . tam rājā nirdhanam kṛtvā kṣipram eva pravāsayet .. 10.96..
10.96. A man of low caste who through covetousness lives by the occupations of a higher one, the king shall deprive of his property and banish.
वरं स्वधर्मो विगुणः परधर्मात्स्वधिष्ठितात् । परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ १०.९७॥
वरम् स्वधर्मः विगुणः पर-धर्मात् स्वधिष्ठितात् । पर-धर्मेण जीवन् हि सद्यस् पतति जातितः ॥ १०।९७॥
varam svadharmaḥ viguṇaḥ para-dharmāt svadhiṣṭhitāt . para-dharmeṇa jīvan hi sadyas patati jātitaḥ .. 10.97..
10.97. It is better (to discharge) one’s own (appointed) duty incompletely than to perform completely that of another; for he who lives according to the law of another (caste) is instantly excluded from his own.
वैश्योऽजीवन् स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् । अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥ १०.९८॥
वैश्यः अ जीवन् स्वधर्मेण शूद्र-वृत्त्या अपि वर्तयेत् । अन् आचरन् अकार्याणि निवर्तेत च शक्तिमान् ॥ १०।९८॥
vaiśyaḥ a jīvan svadharmeṇa śūdra-vṛttyā api vartayet . an ācaran akāryāṇi nivarteta ca śaktimān .. 10.98..
10.98. A Vaisya who is unable to subsist by his own duties, may even maintain himself by a Sudra’s mode of life, avoiding (however) acts forbidden (to him), and he should give it up, when he is able (to do so).
अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् । पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥ १०.९९॥
अशक्नुवन् तु शुश्रूषाम् शूद्रः कर्तुम् द्विजन्मनाम् । पुत्र-दार-अत्ययम् प्राप्तः जीवेत् कारुका-कर्मभिः ॥ १०।९९॥
aśaknuvan tu śuśrūṣām śūdraḥ kartum dvijanmanām . putra-dāra-atyayam prāptaḥ jīvet kārukā-karmabhiḥ .. 10.99..
10.99. But a Sudra, being unable to find service with the twice-born and threatened with the loss of his sons and wife (through hunger), may maintain himself by handicrafts.
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥ १०.१००॥
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुका-कर्माणि शिल्पानि विविधानि च ॥ १०।१००॥
yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ . tāni kārukā-karmāṇi śilpāni vividhāni ca .. 10.100..
10.100. (Let him follow) those mechanical occupations and those various practical arts by following which the twice-born are (best) served.
वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः । अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ॥ १०.१०१॥
वैश्य-वृत्तिम् अनातिष्ठान् ब्राह्मणः स्वे पथि स्थितः । अवृत्ति-कर्षितः सीदन् इमम् धर्मम् समाचरेत् ॥ १०।१०१॥
vaiśya-vṛttim anātiṣṭhān brāhmaṇaḥ sve pathi sthitaḥ . avṛtti-karṣitaḥ sīdan imam dharmam samācaret .. 10.101..
10.101. A Brahmana who is distressed through a want of means of subsistence and pines (with hunger), (but) unwilling to adopt a Vaisya’s mode of life and resolved to follow his own (prescribed) path, may act in the following manner.
सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः । पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते ॥ १०.१०२॥
सर्वतस् प्रतिगृह्णीयात् ब्राह्मणः तु अनयम् गतः । पवित्रम् दुष्यति इति एतत् धर्मतः न उपपद्यते ॥ १०।१०२॥
sarvatas pratigṛhṇīyāt brāhmaṇaḥ tu anayam gataḥ . pavitram duṣyati iti etat dharmataḥ na upapadyate .. 10.102..
10.102. A Brahmana who has fallen into distress may accept (gifts) from anybody; for according to the law it is not possible (to assert) that anything pure can be sullied.
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ १०.१०३॥
न अध्यापनात् याजनात् वा गर्हितात् वा प्रतिग्रहात् । दोषः भवति विप्राणाम् ज्वलन-अम्बु-समाः हि ते ॥ १०।१०३॥
na adhyāpanāt yājanāt vā garhitāt vā pratigrahāt . doṣaḥ bhavati viprāṇām jvalana-ambu-samāḥ hi te .. 10.103..
10.103. By teaching, by sacrificing for, and by accepting gifts from despicable (men) Brahmanas (in distress) commit not sin; for they (are as pure) as fire and water.
जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ १०.१०४॥
जीवित-अत्ययम् आपन्नः यः अन्नम् अत्ति ततस् ततस् । आकाशम् इव पङ्केन न स पापेन लिप्यते ॥ १०।१०४॥
jīvita-atyayam āpannaḥ yaḥ annam atti tatas tatas . ākāśam iva paṅkena na sa pāpena lipyate .. 10.104..
10.104. He who, when in danger of losing his life, accepts food from any person whatsoever, is no more tainted by sin than the sky by mud.
अजीगर्तः सुतं हन्तुमुपासर्पद्बुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ १०.१०५॥
अजीगर्तः सुतम् हन्तुम् उपासर्पत् बुभुक्षितः । न च अलिप्यत पापेन क्षुध्-प्रतीकारम् आचरन् ॥ १०।१०५॥
ajīgartaḥ sutam hantum upāsarpat bubhukṣitaḥ . na ca alipyata pāpena kṣudh-pratīkāram ācaran .. 10.105..
10.105. Agigarta, who suffered hunger, approached in order to slay (his own) son, and was not tainted by sin, since he (only) sought a remedy against famishing.
श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः । प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ १०.१०६॥
श्व-मांसम् इच्छन् आर्तः अत्तुम् धर्म-अधर्म-विचक्षणः । प्राणानाम् परिरक्षा-अर्थम् वामदेवः न लिप्तवान् ॥ १०।१०६॥
śva-māṃsam icchan ārtaḥ attum dharma-adharma-vicakṣaṇaḥ . prāṇānām parirakṣā-artham vāmadevaḥ na liptavān .. 10.106..
10.106. Vamadeva, who well knew right and wrong, did not sully himself when, tormented (by hunger), he desired to eat the flesh of a dog in order to save his life.
भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥ १०.१०७॥
भरद्वाजः क्षुधा-आर्तः तु स पुत्रः विजने वने । बह्वीः गाः प्रतिजग्राह वृधोः तक्ष्णः महा-तपाः ॥ १०।१०७॥
bharadvājaḥ kṣudhā-ārtaḥ tu sa putraḥ vijane vane . bahvīḥ gāḥ pratijagrāha vṛdhoḥ takṣṇaḥ mahā-tapāḥ .. 10.107..
10.107. Bharadvaga, a performer of great austerities, accepted many cows from the carpenter Bribu, when he was starving together with his sons in a lonely forest.
क्षुधार्तश्चात्तुमभ्यागाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ १०.१०८॥
क्षुधा आर्तः च अत्तुम् अभ्यागात् विश्वामित्रः श्व-जाघनीम् । चण्डाल-हस्तात् आदाय धर्म-अधर्म-विचक्षणः ॥ १०।१०८॥
kṣudhā ārtaḥ ca attum abhyāgāt viśvāmitraḥ śva-jāghanīm . caṇḍāla-hastāt ādāya dharma-adharma-vicakṣaṇaḥ .. 10.108..
10.108. Visvamitra, who well knew what is right or wrong, approached, when he was tormented by hunger, (to eat) the haunch of a dog, receiving it the hands of a Kandala.
प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि । प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०.१०९॥
प्रतिग्रहात् याजनात् वा तथा एव अध्यापनात् अपि । प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ १०।१०९॥
pratigrahāt yājanāt vā tathā eva adhyāpanāt api . pratigrahaḥ pratyavaraḥ pretya viprasya garhitaḥ .. 10.109..
10.109. On (comparing) the acceptance (of gifts from low men), sacrificing (for them), and teaching (them), the acceptance of gifts is the meanest (of those acts) and (most) reprehensible for a Brahmana (on account of its results) in the next life.
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥ १०.११०॥
याजन-अध्यापने नित्यम् क्रियेते संस्कृत-आत्मनाम् । प्रतिग्रहः तु क्रियते शूद्रात् अपि अन्त्यजन्मनः ॥ १०।११०॥
yājana-adhyāpane nityam kriyete saṃskṛta-ātmanām . pratigrahaḥ tu kriyate śūdrāt api antyajanmanaḥ .. 10.110..
10.110. (For) assisting in sacrifices and teaching are (two acts) always performed for men who have received the sacraments; but the acceptance of gifts takes place even in (case the giver is) a Sudra of the lowest class.
जपहोमैरपेत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ १०.१११॥
जप-होमैः अपेति एनः याजन-अध्यापनैः कृतम् । प्रतिग्रह-निमित्तम् तु त्यागेन तपसा एव च ॥ १०।१११॥
japa-homaiḥ apeti enaḥ yājana-adhyāpanaiḥ kṛtam . pratigraha-nimittam tu tyāgena tapasā eva ca .. 10.111..
10.111. The guilt incurred by offering sacrifices for teaching (unworthy men) is removed by muttering (sacred texts) and by burnt offerings, but that incurred by accepting gifts (from them) by throwing (the gifts) away and by austerities.
शिलौञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः । प्रतिग्रहात्शिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ १०.११२॥
शिल-ओञ्छम् अपि आददीत विप्रः अ जीवन् यतस् ततस् । प्रतिग्रहात् शिलः श्रेयान् ततस् अपि उञ्छः प्रशस्यते ॥ १०।११२॥
śila-oñcham api ādadīta vipraḥ a jīvan yatas tatas . pratigrahāt śilaḥ śreyān tatas api uñchaḥ praśasyate .. 10.112..
10.112. A Brahmana who is unable to maintain himself, should (rather) glean ears or grains from (the field of) any (man); gleaning ears is better than accepting gifts, picking up single grains is declared to be still more laudable.
सीदद्भिः कुप्यमिच्छद्भि धनं वा पृथिवीपतिः । याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागमर्हति ॥ १०.११३॥
सीदद्भिः धनम् वा पृथिवीपतिः । याच्यः स्यात् स्नातकैः विप्रैः अ दित्सन् त्यागम् अर्हति ॥ १०।११३॥
sīdadbhiḥ dhanam vā pṛthivīpatiḥ . yācyaḥ syāt snātakaiḥ vipraiḥ a ditsan tyāgam arhati .. 10.113..
10.113. If Brahmanas, who are Snatakas, are pining with hunger, or in want of (utensils made of) common metals, or of other property, they may ask the king for them; if he is not disposed to be liberal, he must be left.
अकृतं च कृतात्क्षेत्राद्गौरजाविकमेव च । हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत् ॥ १०.११४॥
अकृतम् च कृतात् क्षेत्रात् गौः अज-आविकम् एव च । हिरण्यम् धान्यम् अन्नम् च पूर्वम् पूर्वम् अदोषवत् ॥ १०।११४॥
akṛtam ca kṛtāt kṣetrāt gauḥ aja-āvikam eva ca . hiraṇyam dhānyam annam ca pūrvam pūrvam adoṣavat .. 10.114..
10.114. (The acceptance on an untilled field is less blamable than (that of) a tilled one; (with respect to) cows, goats, sheep, gold, grain, and cooked food, (the acceptance of) each earlier-named (article is less blamable than of the following ones).
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ १०.११५॥
सप्त वित्तागमाः धर्म्याः दायः लाभः क्रयः जयः । प्रयोगः कर्म-योगः च सत्-प्रतिग्रहः एव च ॥ १०।११५॥
sapta vittāgamāḥ dharmyāḥ dāyaḥ lābhaḥ krayaḥ jayaḥ . prayogaḥ karma-yogaḥ ca sat-pratigrahaḥ eva ca .. 10.115..
10.115. There are seven lawful modes of acquiring property, (viz.) inheritance, finding or friendly donation, purchase, conquest, lending at interest, the performance of work, and the acceptance of gifts from virtuous men.
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः ॥ १०.११६॥
विद्या शिल्पम् भृतिः सेवा गोरक्ष्यम् विपणिः कृषिः । धृतिः भैक्षम् कुसीदम् च दश जीवन-हेतवः ॥ १०।११६॥
vidyā śilpam bhṛtiḥ sevā gorakṣyam vipaṇiḥ kṛṣiḥ . dhṛtiḥ bhaikṣam kusīdam ca daśa jīvana-hetavaḥ .. 10.116..
10.116. Learning, mechanical arts, work for wages, service, rearing cattle, traffic, agriculture, contentment (with little), alms, and receiving interest on money, are the ten modes of subsistence (permitted to all men in times of distress).
ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् । कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम् ॥ १०.११७॥
ब्राह्मणः क्षत्रियः वा अपि वृद्धिम् न एव प्रयोजयेत् । कामम् तु खलु धर्म-अर्थम् दद्यात् पापीयसे अल्पिकाम् ॥ १०।११७॥
brāhmaṇaḥ kṣatriyaḥ vā api vṛddhim na eva prayojayet . kāmam tu khalu dharma-artham dadyāt pāpīyase alpikām .. 10.117..
10.117. Neither a Brahmana, nor a Kshatriya must lend (money at) interest; but at his pleasure (either of them) may, in times of distress when he requires money) for sacred purposes, lend to a very sinful man at a small interest.
चतुर्थमाददानोऽपि क्षत्रियो भागमापदि । प्रजा रक्षन् परं शक्त्या किल्बिषात्प्रतिमुच्यते ॥ १०.११८॥
चतुर्थम् आददानः अपि क्षत्रियः भागम् आपदि । प्रजाः रक्षन् परम् शक्त्या किल्बिषात् प्रतिमुच्यते ॥ १०।११८॥
caturtham ādadānaḥ api kṣatriyaḥ bhāgam āpadi . prajāḥ rakṣan param śaktyā kilbiṣāt pratimucyate .. 10.118..
10.118. A Kshatriya (king) who, in times of distress, takes even the fourth part (of the crops), is free from guilt, if he protects his subjects to the best of his ability.
स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः । शस्त्रेण वैश्याद्रक्षित्वा धर्म्यमाहारयेद्बलिम् ॥ १०.११९॥
स्वधर्मः विजयः तस्य न आहवे स्यात् पराङ्मुखः । शस्त्रेण वैश्यात् रक्षित्वा धर्म्यम् आहारयेत् बलिम् ॥ १०।११९॥
svadharmaḥ vijayaḥ tasya na āhave syāt parāṅmukhaḥ . śastreṇa vaiśyāt rakṣitvā dharmyam āhārayet balim .. 10.119..
10.119. His peculiar duty is conquest, and he must not turn back in danger; having protected the Vaisyas by his weapons, he may cause the legal tax to be collected;
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् । कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥ १०.१२०॥
धान्ये अष्टमम् विशाम् शुल्कम् विंशम् कार्षापणावरम् । कर्म-उपकरणाः शूद्राः कारवः शिल्पिनः तथा ॥ १०।१२०॥
dhānye aṣṭamam viśām śulkam viṃśam kārṣāpaṇāvaram . karma-upakaraṇāḥ śūdrāḥ kāravaḥ śilpinaḥ tathā .. 10.120..
10.120. (Viz.) from Vaisyas one-eighth as the tax on grain, one-twentieth (on the profits on gold and cattle), which amount at least to one Karshapana; Sudras, artisans, and mechanics (shall) benefit (the king) by (doing) work (for him).
शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रम आराधयेदिति । धनिनं वाऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ १०.१२१॥
शूद्रः तु वृत्तिम् आकाङ्क्षन् क्षत्रमः आराधयेत् इति । धनिनम् वा अपि उपाराध्य वैश्यम् शूद्रः जिजीविषेत् ॥ १०।१२१॥
śūdraḥ tu vṛttim ākāṅkṣan kṣatramaḥ ārādhayet iti . dhaninam vā api upārādhya vaiśyam śūdraḥ jijīviṣet .. 10.121..
10.121. If a Sudra, (unable to subsist by serving Brahmanas,) seeks a livelihood, he may serve Kshatriyas, or he may also seek to maintain himself by attending on a wealthy Vaisya.
स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत्तु सः । जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥ १०.१२२॥
स्वर्ग-अर्थम् उभय-अर्थम् वा विप्रान् आराधयेत् तु सः । जातब्राह्मण-शब्दस्य सा हि अस्य कृतकृत्य-ता ॥ १०।१२२॥
svarga-artham ubhaya-artham vā viprān ārādhayet tu saḥ . jātabrāhmaṇa-śabdasya sā hi asya kṛtakṛtya-tā .. 10.122..
10.122. But let a (Sudra) serve Brahmanas, either for the sake of heaven, or with a view to both (this life and the next); for he who is called the servant of a Brahmana thereby gains all his ends
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते । यदतोऽन्यधि कुरुते तद्भवत्यस्य निष्फलम् ॥ १०.१२३॥
विप्र-सेवा एव शूद्रस्य विशिष्टम् कर्म कीर्त्यते । यत् अतस् अन्यधि कुरुते तत् भवति अस्य निष्फलम् ॥ १०।१२३॥
vipra-sevā eva śūdrasya viśiṣṭam karma kīrtyate . yat atas anyadhi kurute tat bhavati asya niṣphalam .. 10.123..
10.123. The service of Brahmanas alone is declared (to be) an excellent occupation for a Sudra; for whatever else besides this he may perform will bear him no fruit.
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः । शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ १०.१२४॥
प्रकल्प्या तस्य तैः वृत्तिः स्व-कुटुम्बात् यथार्हतः । शक्तिम् च अवेक्ष्य दाक्ष्यम् च भृत्यानाम् च परिग्रहम् ॥ १०।१२४॥
prakalpyā tasya taiḥ vṛttiḥ sva-kuṭumbāt yathārhataḥ . śaktim ca avekṣya dākṣyam ca bhṛtyānām ca parigraham .. 10.124..
10.124. They must allot to him out of their own family (-property) a suitable maintenance, after considering his ability, his industry, and the number of those whom he is bound to support.
उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ १०.१२५॥
उच्छिष्टम् अन्नम् दातव्यम् जीर्णानि वसनानि च । पुलाकाः च एव धान्यानाम् जीर्णाः च एव परिच्छदाः ॥ १०।१२५॥
ucchiṣṭam annam dātavyam jīrṇāni vasanāni ca . pulākāḥ ca eva dhānyānām jīrṇāḥ ca eva paricchadāḥ .. 10.125..
10.125. The remnants of their food must be given to him, as well as their old clothes, the refuse of their grain, and their old household furniture.
न शूद्रे पातकं किं चिन्न च संस्कारमर्हति । नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ॥ १०.१२६॥
न शूद्रे पातकम् किम् चित् न च संस्कारम् अर्हति । न अस्य अधिकारः धर्मे अस्ति न धर्मात् प्रतिषेधनम् ॥ १०।१२६॥
na śūdre pātakam kim cit na ca saṃskāram arhati . na asya adhikāraḥ dharme asti na dharmāt pratiṣedhanam .. 10.126..
10.126. A Sudra cannot commit an offence, causing loss of caste (pataka), and he is not worthy to receive the sacraments; he has no right to (fulfil) the sacred law (of the Aryans, yet) there is no prohibition against (his fulfilling certain portions of) the law.
धर्मैप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः । सतां धर्मं मन्त्रवर्जं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ १०.१२७॥
धर्म-एप्सवः तु धर्म-ज्ञाः सताम् वृत्तम् अनुष्ठिताः । सताम् धर्मम् मन्त्र-वर्जम् न दुष्यन्ति प्रशंसाम् प्राप्नुवन्ति च ॥ १०।१२७॥
dharma-epsavaḥ tu dharma-jñāḥ satām vṛttam anuṣṭhitāḥ . satām dharmam mantra-varjam na duṣyanti praśaṃsām prāpnuvanti ca .. 10.127..
10.127. (Sudras) who are desirous to gain merit, and know (their) duty, commit no sin, but gain praise, if they imitate the practice of virtuous men without reciting sacred texts.
यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः । तथा तथैमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥ १०.१२८॥
यथा यथा हि सत्-वृत्तम् आतिष्ठति अनसूयकः । तथा तथा एमम् च अमुम् च लोकम् प्राप्नोति अनिन्दितः ॥ १०।१२८॥
yathā yathā hi sat-vṛttam ātiṣṭhati anasūyakaḥ . tathā tathā emam ca amum ca lokam prāpnoti aninditaḥ .. 10.128..
10.128. The more a (Sudra), keeping himself free from envy, imitates the behaviour of the virtuous, the more he gains, without being censured, (exaltation in) this world and the next.
शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः । शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ १०.१२९॥
शक्तेन अपि हि शूद्रेण न कार्यः धन-सञ्चयः । शूद्रः हि धनम् आसाद्य ब्राह्मणान् एव बाधते ॥ १०।१२९॥
śaktena api hi śūdreṇa na kāryaḥ dhana-sañcayaḥ . śūdraḥ hi dhanam āsādya brāhmaṇān eva bādhate .. 10.129..
10.129. No collection of wealth must be made by a Sudra, even though he be able (to do it); for a Sudra who has acquired wealth, gives pain to Brahmanas.
एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः । यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् ॥ १०.१३०॥
एते चतुर्णाम् वर्णानाम् आपद्-धर्माः प्रकीर्तिताः । यान् सम्यक् अनुतिष्ठन्तः व्रजन्ति परमम् गतिम् ॥ १०।१३०॥
ete caturṇām varṇānām āpad-dharmāḥ prakīrtitāḥ . yān samyak anutiṣṭhantaḥ vrajanti paramam gatim .. 10.130..
10.130. The duties of the four castes (varna) in times of distress have thus been declared, and if they perform them well, they will reach the most blessed state.
एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ १०.१३१॥
एष धर्म-विधिः कृत्स्नः चातुर्वर्ण्यस्य कीर्तितः । अतस् परम् प्रवक्ष्यामि प्रायश्चित्त-विधिम् शुभम् ॥ १०।१३१॥
eṣa dharma-vidhiḥ kṛtsnaḥ cāturvarṇyasya kīrtitaḥ . atas param pravakṣyāmi prāyaścitta-vidhim śubham .. 10.131..
10.131. Thus all the legal rules for the four castes have been proclaimed; I next will promulgate the auspicious rules for penances.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In