| |
|

This overlay will guide you through the buttons:

सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् । गुर्वर्थं पितृमात्र्यर्थं स्वाध्यायार्थ्युपतापिनः ॥ ११.१॥
सान्तानिकम् यक्ष्यमाणम् अध्वगम् सार्ववेदसम् । गुरु-अर्थम् पितृमात्री-अर्थम् स्वाध्याय-अर्थि-उपतापिनः ॥ ११।१॥
sāntānikam yakṣyamāṇam adhvagam sārvavedasam . guru-artham pitṛmātrī-artham svādhyāya-arthi-upatāpinaḥ .. 11.1..
11.1. Him who wishes (to marry for the sake of having) offspring, him who wishes to perform a sacrifice, a traveller, him who has given away all his property, him who begs for the sake of his teacher, his father, or his mother, a student of the Veda, and a sick man,
न वै तान् स्नातकान् विद्याद्ब्राह्मणान् धर्मभिक्षुकान् । निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥ ११.२॥
न वै तान् स्नातकान् विद्यात् ब्राह्मणान् धर्म-भिक्षुकान् । निःस्वेभ्यः देयम् एतेभ्यः दानम् विद्या-विशेषतः ॥ ११।२॥
na vai tān snātakān vidyāt brāhmaṇān dharma-bhikṣukān . niḥsvebhyaḥ deyam etebhyaḥ dānam vidyā-viśeṣataḥ .. 11.2..
11.2. These nine Brahmanas one should consider as Snatakas, begging in order to fulfil the sacred law; to such poor men gifts must be given in proportion to their learning.
एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम् । इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते ॥ ११.३॥
एतेभ्यः हि द्विजाग्र्येभ्यः देयम् अन्नम् स दक्षिणम् । इतरेभ्यः बहिर्वेदि कृतान्नम् देयम् उच्यते ॥ ११।३॥
etebhyaḥ hi dvijāgryebhyaḥ deyam annam sa dakṣiṇam . itarebhyaḥ bahirvedi kṛtānnam deyam ucyate .. 11.3..
11.3. To these most excellent among the twice-born, food and presents (of money) must be given; it is declared that food must be given to others outside the sacrificial enclosure.
सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् । ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ ११.४॥
सर्व-रत्नानि राजा तु यथार्हम् प्रतिपादयेत् । ब्राह्मणान् वेद-विदुषः यज्ञ-अर्थम् च एव दक्षिणाम् ॥ ११।४॥
sarva-ratnāni rājā tu yathārham pratipādayet . brāhmaṇān veda-viduṣaḥ yajña-artham ca eva dakṣiṇām .. 11.4..
11.4. But a king shall bestow, as is proper, jewels of all sorts, and presents for the sake of sacrifices on Brahmanas learned in the Vedas.
कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति । रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः ॥ ११.५॥
कृतदारः अपरान् दारान् भिक्षित्वा यः अधिगच्छति । रति-मात्रम् फलम् तस्य द्रव्य-दातुः तु संततिः ॥ ११।५॥
kṛtadāraḥ aparān dārān bhikṣitvā yaḥ adhigacchati . rati-mātram phalam tasya dravya-dātuḥ tu saṃtatiḥ .. 11.5..
11.5. If a man who has a wife weds a second wife, having begged money (to defray the marriage expenses, he obtains) no advantage but sensual enjoyment; but the issue (of his second marriage belongs) to the giver of the money.
धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥ ११.६॥
धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । वेद-वित्सु विविक्तेषु प्रेत्य स्वर्गम् समश्नुते ॥ ११।६॥
dhanāni tu yathāśakti vipreṣu pratipādayet . veda-vitsu vivikteṣu pretya svargam samaśnute .. 11.6..
11.6. One should give, according to one’s ability, wealth to Brahmanas learned in the Veda and living alone; (thus) one obtains after death heavenly bliss.
यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥ ११.७॥
यस्य त्रैवार्षिकम् भक्तम् पर्याप्तम् भृत्य-वृत्तये । अधिकम् वा अपि विद्येत स सोमम् पातुम् अर्हति ॥ ११।७॥
yasya traivārṣikam bhaktam paryāptam bhṛtya-vṛttaye . adhikam vā api vidyeta sa somam pātum arhati .. 11.7..
11.7. He who may possess (a supply of) food sufficient to maintain those dependant on him during three years or more than that, is worthy to drink the Soma-juice.
अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः । स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥ ११.८॥
अतस् स्वल्पीयसि द्रव्ये यः सोमम् पिबति द्विजः । स पीतसोमपूर्वः अपि न तस्य आप्नोति तत् फलम् ॥ ११।८॥
atas svalpīyasi dravye yaḥ somam pibati dvijaḥ . sa pītasomapūrvaḥ api na tasya āpnoti tat phalam .. 11.8..
11.8. But a twice-born man, who, though possessing less than that amount of property, nevertheless drinks the Soma-juice, does not derive any benefit from that (act), though he may have formerly drunk the Soma-juice.
शक्तः परजने दाता स्वजने दुःखजीविनि । मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ ११.९॥
शक्तः पर-जने दाता स्व-जने दुःख-जीविनि । मध्वापातः विष-आस्वादः स धर्म-प्रतिरूपकः ॥ ११।९॥
śaktaḥ para-jane dātā sva-jane duḥkha-jīvini . madhvāpātaḥ viṣa-āsvādaḥ sa dharma-pratirūpakaḥ .. 11.9..
11.9. (If) an opulent man (is) liberal towards strangers, while his family lives in distress, that counterfeit virtue will first make him taste the sweets (of fame, but afterwards) make him swallow the poison (of punishment in hell).
भृत्यानामुपरोधेन यत्करोत्यौर्ध्वदेहिकम् । तद्भवत्यसुखौदर्कं जीवतश्च मृतस्य च ॥ ११.१०॥
भृत्यानाम् उपरोधेन यत् करोति और्ध्वदेहिकम् । तत् भवति असुख-औदर्कम् जीवतः च मृतस्य च ॥ ११।१०॥
bhṛtyānām uparodhena yat karoti aurdhvadehikam . tat bhavati asukha-audarkam jīvataḥ ca mṛtasya ca .. 11.10..
11.10. If (a man) does anything for the sake of his happiness in another world, to the detriment of those whom he is bound to maintain, that produces evil results for him, both while he lives and when he is dead.
यज्ञश्चेत्प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः । ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ॥ ११.११॥
यज्ञः चेद् प्रतिरुद्धः स्यात् एकेन अङ्गेन यज्वनः । ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ॥ ११।११॥
yajñaḥ ced pratiruddhaḥ syāt ekena aṅgena yajvanaḥ . brāhmaṇasya viśeṣena dhārmike sati rājani .. 11.11..
11.11. If a sacrifice, (offered) by (any twice-born) sacrificer, (and) especially by a Brahmana, must remain incomplete through (the want of) one requisite, while a righteous king rules,
यो वैश्यः स्याद्बहुपशुर्हीनक्रतुरसोमपः । कुटुम्बात्तस्य तद्द्रव्यमाहरेद्यज्ञसिद्धये ॥ ११.१२॥
यः वैश्यः स्यात् बहु-पशुः हीन-क्रतुः असोमपः । कुटुम्बात् तस्य तत् द्रव्यम् आहरेत् यज्ञ-सिद्धये ॥ ११।१२॥
yaḥ vaiśyaḥ syāt bahu-paśuḥ hīna-kratuḥ asomapaḥ . kuṭumbāt tasya tat dravyam āharet yajña-siddhaye .. 11.12..
11.12. That article (required) for the completion of the sacrifice, may be taken (forcibly) from the house of any Vaisya, who possesses a large number of cattle, (but) neither performs the (minor) sacrifices nor drinks the Soma-juice.
आहरेत्त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥ ११.१३॥
आहरेत् त्रीणि वा द्वे वा कामम् शूद्रस्य वेश्मनः । न हि शूद्रस्य यज्ञेषु कश्चिद् अस्ति परिग्रहः ॥ ११।१३॥
āharet trīṇi vā dve vā kāmam śūdrasya veśmanaḥ . na hi śūdrasya yajñeṣu kaścid asti parigrahaḥ .. 11.13..
11.13. (Or) the (sacrificer) may take at his pleasure two or three (articles required for a sacrifice) from the house of a Sudra; for a Sudra has no business with sacrifices.
योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ ११.१४॥
यः अनाहिताग्निः शतगुः अयज्वा च सहस्रगुः । तयोः अपि कुटुम्बाभ्याम् आहरेत् अ विचारयन् ॥ ११।१४॥
yaḥ anāhitāgniḥ śataguḥ ayajvā ca sahasraguḥ . tayoḥ api kuṭumbābhyām āharet a vicārayan .. 11.14..
11.14. If (a man) possessing one hundred cows, kindles not the sacred fire, or one possessing a thousand cows, drinks not the Soma-juice, a (sacrificer) may unhesitatingly take (what he requires) from the houses of those two, even (though they be Brahmanas or Kshatriyas);
आदाननित्याच्चादातुराहरेदप्रयच्छतः । तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥ ११.१५॥
आदान-नित्यात् च अदातुः आहरेत् अप्रयच्छतः । तथा यशः अस्य प्रथते धर्मः च एव प्रवर्धते ॥ ११।१५॥
ādāna-nityāt ca adātuḥ āharet aprayacchataḥ . tathā yaśaḥ asya prathate dharmaḥ ca eva pravardhate .. 11.15..
11.15. (Or) he may take (it by force or fraud) from one who always takes and never gives, and who refuses to give it; thus the fame (of the taker) will spread and his merit increase.
तथैव सप्तमे भक्ते भक्तानि षडनश्नता । अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ ११.१६॥
तथा एव सप्तमे भक्ते भक्तानि षड् अन् अश्नता । अश्वस्तन-विधानेन हर्तव्यम् हीन-कर्मणः ॥ ११।१६॥
tathā eva saptame bhakte bhaktāni ṣaḍ an aśnatā . aśvastana-vidhānena hartavyam hīna-karmaṇaḥ .. 11.16..
11.16. Likewise he who has not eaten at (the time of) six meals, may take at (the time of) the seventh meal (food) from a man who neglects his sacred duties, without (however) making a provision for the morrow,
खलात्क्षेत्रादगाराद्वा यतो वाऽप्युपलभ्यते । आख्यातव्यं तु तत्तस्मै पृच्छते यदि पृच्छति ॥ ११.१७॥
खलात् क्षेत्रात् अगारात् वा यतस् वा अपि उपलभ्यते । आख्यातव्यम् तु तत् तस्मै पृच्छते यदि पृच्छति ॥ ११।१७॥
khalāt kṣetrāt agārāt vā yatas vā api upalabhyate . ākhyātavyam tu tat tasmai pṛcchate yadi pṛcchati .. 11.17..
11.17. Either from the threshing-floor, or from a field, or out of the house, or wherever he finds it; but if (the owner) asks him, he must confess to him that (deed and its cause).
ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन । दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति ॥ ११.१८॥
ब्राह्मण-स्वम् न हर्तव्यम् क्षत्रियेण कदा चन । दस्यु-निष्क्रिययोः तु स्वम् अ जीवन् हर्तुम् अर्हति ॥ ११।१८॥
brāhmaṇa-svam na hartavyam kṣatriyeṇa kadā cana . dasyu-niṣkriyayoḥ tu svam a jīvan hartum arhati .. 11.18..
11.18. (On such occasions) a Kshatriya must never take the property of a (virtuous Brahmana; but he who is starving may appropriate the possessions of a Dasyu, or of one who neglects his sacred duties.
योऽसाधुभ्योऽर्थमादाय साधुभ्यः सम्प्रयच्छति । स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ ११.१९॥
यः असाधुभ्यः अर्थम् आदाय साधुभ्यः सम्प्रयच्छति । स कृत्वा प्लवम् आत्मानम् संतारयति तौ उभौ ॥ ११।१९॥
yaḥ asādhubhyaḥ artham ādāya sādhubhyaḥ samprayacchati . sa kṛtvā plavam ātmānam saṃtārayati tau ubhau .. 11.19..
11.19. He who takes property from the wicked and bestows it on the virtuous, transforms himself into a boat, and carries both (over the sea of misfortune).
यद्धनं यज्ञशीलानां देवस्वं तद्विदुर्बुधाः । अयज्वनां तु यद्वित्तमासुरस्वं तदुच्यते ॥ ११.२०॥
यत् धनम् यज्ञ-शीलानाम् देव-स्वम् तत् विदुः बुधाः । अयज्वनाम् तु यत् वित्तम् आसुर-स्वम् तत् उच्यते ॥ ११।२०॥
yat dhanam yajña-śīlānām deva-svam tat viduḥ budhāḥ . ayajvanām tu yat vittam āsura-svam tat ucyate .. 11.20..
11.20. The property of those who zealously offer sacrifices, the wise call the property of the gods; but the wealth of those who perform no sacrifices is called the property of the Asuras.
न तस्मिन् धारयेद्दण्डं धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्याद्ब्राह्मणः सीदति क्षुधा ॥ ११.२१॥
न तस्मिन् धारयेत् दण्डम् धार्मिकः पृथिवीपतिः । क्षत्रियस्य हि बालिश्यात् ब्राह्मणः सीदति क्षुधा ॥ ११।२१॥
na tasmin dhārayet daṇḍam dhārmikaḥ pṛthivīpatiḥ . kṣatriyasya hi bāliśyāt brāhmaṇaḥ sīdati kṣudhā .. 11.21..
11.21. On him (who, for the reasons stated, appropriates another’s possessions), a righteous king shall not inflict punishment; for (in that case) a Brahmana pines with hunger through the Kshatriya’s want of care.
तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः । श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ ११.२२॥
तस्य भृत्य-जनम् ज्ञात्वा स्व-कुटुम्बात् महीपतिः । श्रुत-शीले च विज्ञाय वृत्तिम् धर्म्याम् प्रकल्पयेत् ॥ ११।२२॥
tasya bhṛtya-janam jñātvā sva-kuṭumbāt mahīpatiḥ . śruta-śīle ca vijñāya vṛttim dharmyām prakalpayet .. 11.22..
11.22. Having ascertained the number of those dependent on such a man, and having fully considered his learning and his conduct, the king shall allow him, out of his own property, a maintenance whereon he may live according to the law;
कल्पयित्वाऽस्य वृत्तिं च रक्षेदेनं समन्ततः । राजा हि धर्मषड्भागं तस्मात्प्राप्नोति रक्षितात् ॥ ११.२३॥
कल्पयित्वा अस्य वृत्तिम् च रक्षेत् एनम् समन्ततः । राजा हि धर्म-षड्भागम् तस्मात् प्राप्नोति रक्षितात् ॥ ११।२३॥
kalpayitvā asya vṛttim ca rakṣet enam samantataḥ . rājā hi dharma-ṣaḍbhāgam tasmāt prāpnoti rakṣitāt .. 11.23..
11.23. And after allotting to him a maintenance, the king must protect him in every way; for he obtains from such (a man) whom he protects, the part of his spiritual merit.
न यज्ञार्थं धनं शूद्राद्विप्रो भिक्षेत कर्हि चित् । यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ ११.२४॥
न यज्ञ-अर्थम् धनम् शूद्रात् विप्रः भिक्षेत कर्हि चित् । यजमानः हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ ११।२४॥
na yajña-artham dhanam śūdrāt vipraḥ bhikṣeta karhi cit . yajamānaḥ hi bhikṣitvā caṇḍālaḥ pretya jāyate .. 11.24..
11.24. A Brahmana shall never beg from a Sudra property for a sacrifice; for a sacrificer, having begged (it from such a man), after death is born (again) as a Kandala.
यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥ ११.२५॥
यज्ञ-अर्थम् अर्थम् भिक्षित्वा यः न सर्वम् प्रयच्छति । स याति भास-ताम् विप्रः काक-ताम् वा शतम् समाः ॥ ११।२५॥
yajña-artham artham bhikṣitvā yaḥ na sarvam prayacchati . sa yāti bhāsa-tām vipraḥ kāka-tām vā śatam samāḥ .. 11.25..
11.25. A Brahmana who, having begged any property for a sacrifice, does not use the whole (for that purpose), becomes for a hundred years a (vulture of the kind called) Bhasa, or a crow.
देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः । स पापात्मा परे लोके गृध्रौच्छिष्टेन जीवति ॥ ११.२६॥
देव-स्वम् ब्राह्मण-स्वम् वा लोभेन उपहिनस्ति यः । स पाप-आत्मा परे लोके गृध्र-उच्छिष्टेन जीवति ॥ ११।२६॥
deva-svam brāhmaṇa-svam vā lobhena upahinasti yaḥ . sa pāpa-ātmā pare loke gṛdhra-ucchiṣṭena jīvati .. 11.26..
11.26. That sinful man, who, through covetousness, seizes the property of the gods, or the property of Brahmanas, feeds in another world on the leavings of vultures.
इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये । कॢप्तानां पशुसोमानां निष्कृत्यर्थमसम्भवे ॥ ११.२७॥
इष्टिम् वैश्वानरीम् नित्यम् निर्वपेत् अब्द-पर्यये । कॢप्तानाम् पशु-सोमानाम् निष्कृति-अर्थम् असम्भवे ॥ ११।२७॥
iṣṭim vaiśvānarīm nityam nirvapet abda-paryaye . kḷptānām paśu-somānām niṣkṛti-artham asambhave .. 11.27..
11.27. In case the prescribed animal and Soma-sacrifices cannot be performed, let him always offer at the change of the year a Vaisvanari Ishti as a penance (for the omission).
आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः । स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥ ११.२८॥
आपद्-कल्पेन यः धर्मम् कुरुते अनापदि द्विजः । स ना आप्नोति फलम् तस्य परत्र इति विचारितम् ॥ ११।२८॥
āpad-kalpena yaḥ dharmam kurute anāpadi dvijaḥ . sa nā āpnoti phalam tasya paratra iti vicāritam .. 11.28..
11.28. But a twice-born, who, without being in distress, performs his duties according to the law for times of distress, obtains no reward for them in the next world; that is the opinion (of the sages).
विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः । आपत्सु मरणाद्भीतैर्विधेः प्रतिनिधिः कृतः ॥ ११.२९॥
विश्वैः च देवैः साध्यैः च ब्राह्मणैः च महा-ऋषिभिः । आपत्सु मरणात् भीतैः विधेः प्रतिनिधिः कृतः ॥ ११।२९॥
viśvaiḥ ca devaiḥ sādhyaiḥ ca brāhmaṇaiḥ ca mahā-ṛṣibhiḥ . āpatsu maraṇāt bhītaiḥ vidheḥ pratinidhiḥ kṛtaḥ .. 11.29..
11.29. By the Visve-devas, by the Sadhyas, and by the great sages (of the) Brahmana (caste), who were afraid of perishing in times of distress, a substitute was made for the (principal) rule.
प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते । न साम्परायिकं तस्य दुर्मतेर्विद्यते फलम् ॥ ११.३०॥
प्रभुः प्रथम-कल्पस्य यः अनुकल्पेन वर्तते । न साम्परायिकम् तस्य दुर्मतेः विद्यते फलम् ॥ ११।३०॥
prabhuḥ prathama-kalpasya yaḥ anukalpena vartate . na sāmparāyikam tasya durmateḥ vidyate phalam .. 11.30..
11.30. That evil-minded man, who, being able (to fulfil) the original law, lives according to the secondary rule, reaps no reward for that after death.
न ब्राह्मणो वेदयेत किञ्चिद्राजनि धर्मवित् । स्ववीर्येणैव तांशिष्यान् मानवानपकारिणः ॥ ११.३१॥
न ब्राह्मणः वेदयेत किञ्चिद् राजनि धर्म-विद् । स्व-वीर्येण एव तान् शिष्यान् मानव-अनपकारिणः ॥ ११।३१॥
na brāhmaṇaḥ vedayeta kiñcid rājani dharma-vid . sva-vīryeṇa eva tān śiṣyān mānava-anapakāriṇaḥ .. 11.31..
11.31. A Brahmana who knows the law need not bring any (offence) to the notice of the king; by his own power alone be can punish those men who injure him.
स्ववीर्याद्राजवीर्याच्च स्ववीर्यं बलवत्तरम् । तस्मात्स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः ॥ ११.३२॥
स्व-वीर्यात् राज-वीर्यात् च स्व-वीर्यम् बलवत्तरम् । तस्मात् स्वेन एव वीर्येण निगृह्णीयात् अरीन् द्विजः ॥ ११।३२॥
sva-vīryāt rāja-vīryāt ca sva-vīryam balavattaram . tasmāt svena eva vīryeṇa nigṛhṇīyāt arīn dvijaḥ .. 11.32..
11.32. His own power is greater than the power of the king; the Brahmana therefore, may punish his foes by his own power alone.
श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् । वाक्षस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन् द्विजः ॥ ११.३३॥
श्रुतीः अथर्व-आङ्गिरसीः कुर्यात् इति अ विचारयन् । वाच्-षस्त्रम् वै ब्राह्मणस्य तेन हन्यात् अरीन् द्विजः ॥ ११।३३॥
śrutīḥ atharva-āṅgirasīḥ kuryāt iti a vicārayan . vāc-ṣastram vai brāhmaṇasya tena hanyāt arīn dvijaḥ .. 11.33..
11.33. Let him use without hesitation the sacred texts, revealed by Atharvan and by Angiras; speech, indeed, is the weapon of the Brahmana, with that he may slay his enemies.
क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥ ११.३४॥
क्षत्रियः बाहु-वीर्येण तरेत् आपदम् आत्मनः । धनेन वैश्य-शूद्रौ तु जप-होमैः द्विजोत्तमः ॥ ११।३४॥
kṣatriyaḥ bāhu-vīryeṇa taret āpadam ātmanaḥ . dhanena vaiśya-śūdrau tu japa-homaiḥ dvijottamaḥ .. 11.34..
11.34. A Kshatriya shall pass through misfortunes which have befallen him by the strength of his arms, a Vaisya and a Sudra by their wealth, the chief of the twice-born by muttered prayers and burnt-oblations.
विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते । तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ॥ ११.३५॥
विधाता शासिता वक्ता मैत्रः ब्राह्मणः उच्यते । तस्मै न अकुशलम् ब्रूयात् न शुष्काम् गिरम् ईरयेत् ॥ ११।३५॥
vidhātā śāsitā vaktā maitraḥ brāhmaṇaḥ ucyate . tasmai na akuśalam brūyāt na śuṣkām giram īrayet .. 11.35..
11.35. The Brahmana is declared (to be) the creator (of the world), the punisher, the teacher, (and hence) a benefactor (of all created beings); to him let no man say anything unpropitious, nor use any harsh words.
न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥ ११.३६॥
न वै कन्या न युवतिः न अल्प-विद्यः न बालिशः । होता स्यात् अग्निहोत्रस्य न आर्तः न अ संस्कृतः तथा ॥ ११।३६॥
na vai kanyā na yuvatiḥ na alpa-vidyaḥ na bāliśaḥ . hotā syāt agnihotrasya na ārtaḥ na a saṃskṛtaḥ tathā .. 11.36..
11.36. Neither a girl, nor a (married) young woman, nor a man of little learning, nor a fool, nor a man in great suffering, nor one uninitiated, shall offer an Agnihotra.
नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् । जुह्वतः तस्माद्वैतानकुशलो होता स्याद्वेदपारगः ॥ ११.३७॥
नरके हि पतन्ति एते जुह्वन्तः स च यस्य तत् । जुह्वतः तस्मात् वैतान-कुशलः होता स्यात् वेदपारगः ॥ ११।३७॥
narake hi patanti ete juhvantaḥ sa ca yasya tat . juhvataḥ tasmāt vaitāna-kuśalaḥ hotā syāt vedapāragaḥ .. 11.37..
11.37. For such (persons) offering a burnt-oblation sink into hell, as well as he to whom that (Agnihotra) belongs; hence the person who sacrifices (for another) must be skilled in (the performance of) Vaitana (rites), and know the whole Veda.
प्राजापत्यमदत्त्वाऽश्वमग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥ ११.३८॥
प्राजापत्यम् अ दत्त्वा अश्वम् अग्न्याधेयस्य दक्षिणाम् । अनाहिताग्निः भवति ब्राह्मणः विभवे सति ॥ ११।३८॥
prājāpatyam a dattvā aśvam agnyādheyasya dakṣiṇām . anāhitāgniḥ bhavati brāhmaṇaḥ vibhave sati .. 11.38..
11.38. A Brahmana who, though wealthy, does not give, as fee for the performance of an Agnyadheya, a horse sacred to Pragapati, becomes (equal to one) who has not kindled the sacred fires.
पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः । न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन ॥ ११.३९॥
पुण्यानि अन्यानि कुर्वीत श्रद्दधानः जित-इन्द्रियः । न तु अल्प-दक्षिणैः यज्ञैः यजेत इह कथम् चन ॥ ११।३९॥
puṇyāni anyāni kurvīta śraddadhānaḥ jita-indriyaḥ . na tu alpa-dakṣiṇaiḥ yajñaiḥ yajeta iha katham cana .. 11.39..
11.39. Let him who has faith and controls his senses perform other meritorious acts, but let him on no account offer sacrifices at which he gives smaller fees (than those prescribed).
इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून् । हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ ११.४०॥
इन्द्रियाणि यशः स्वर्गम् आयुः कीर्तिम् प्रजाः पशून् । हन्ति अल्प-दक्षिणः यज्ञः तस्मात् न अल्प-धनः यजेत् ॥ ११।४०॥
indriyāṇi yaśaḥ svargam āyuḥ kīrtim prajāḥ paśūn . hanti alpa-dakṣiṇaḥ yajñaḥ tasmāt na alpa-dhanaḥ yajet .. 11.40..
11.40. The organs (of sense and action), honour, (bliss in) heaven, longevity, fame, offspring, and cattle are destroyed by a sacrifice at which (too) small sacrificial fees are given; hence a man of small means should not offer a (Srauta) sacrifice.
अग्निहोत्र्यपविद्याग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ ११.४१॥
अग्निहोत्री-अपविद्या-अग्नीन् ब्राह्मणः कामकारतः । चान्द्रायणम् चरेत् मासम् वीर-हत्या-समम् हि तत् ॥ ११।४१॥
agnihotrī-apavidyā-agnīn brāhmaṇaḥ kāmakārataḥ . cāndrāyaṇam caret māsam vīra-hatyā-samam hi tat .. 11.41..
11.41. A Brahmana who, being an Agnihotrin, voluntarily neglects the sacred fires, shall perform a lunar penance during one month; for that (offence) is equal to the slaughter of a son.
ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते । ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ ११.४२॥
ये शूद्रात् अधिगम्य अर्थम् अग्निहोत्रम् उपासते । ऋत्विजः ते हि शूद्राणाम् ब्रह्म-वादिषु गर्हिताः ॥ ११।४२॥
ye śūdrāt adhigamya artham agnihotram upāsate . ṛtvijaḥ te hi śūdrāṇām brahma-vādiṣu garhitāḥ .. 11.42..
11.42. Those who, obtaining wealth from Sudras, (and using that) offer an Agnihotra, are priests officiating for Sudras, (and hence) censured among those who recite the Veda.
तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम् । पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥ ११.४३॥
तेषाम् सततम् अज्ञानाम् वृषल-अग्नि-उपसेविनाम् । पदा मस्तकम् आक्रम्य दाता दुर्गाणि संतरेत् ॥ ११।४३॥
teṣām satatam ajñānām vṛṣala-agni-upasevinām . padā mastakam ākramya dātā durgāṇi saṃtaret .. 11.43..
11.43. Treading with his foot on the heads of those fools who worship a fire (kindled at the expense) of a Sudra, the giver (of the wealth) shall always pass over his miseries (in the next world).
अकुर्वन् विहितं कर्म निन्दितं च समाचरन् । प्रसज्जनिन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ ११.४४॥
अकुर्वन् विहितम् कर्म निन्दितम् च समाचरन् । प्रसज्जन् इन्द्रिय-अर्थेषु प्रायश्चित्तीयते नरः ॥ ११।४४॥
akurvan vihitam karma ninditam ca samācaran . prasajjan indriya-artheṣu prāyaścittīyate naraḥ .. 11.44..
11.44. A man who omits a prescribed act, or performs a blamable act, or cleaves to sensual enjoyments, must perform a penance.
अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ ११.४५॥
अकामतः कृते पापे प्रायश्चित्तम् विदुः बुधाः । कामकार-कृते अपि आहुः एके श्रुति-निदर्शनात् ॥ ११।४५॥
akāmataḥ kṛte pāpe prāyaścittam viduḥ budhāḥ . kāmakāra-kṛte api āhuḥ eke śruti-nidarśanāt .. 11.45..
11.45. (All) sages prescribe a penance for a sin unintentionally committed; some declare, on the evidence of the revealed texts, (that it may be performed) even for an intentional (offence).
अकामतः कृतं पापं वेदाभ्यासेन शुध्यति । कामतस्तु कृतं मोहात्प्रायश्चित्तैः पृथग्विधैः ॥ ११.४६॥
अकामतः कृतम् पापम् वेद-अभ्यासेन शुध्यति । कामतः तु कृतम् मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ ११।४६॥
akāmataḥ kṛtam pāpam veda-abhyāsena śudhyati . kāmataḥ tu kṛtam mohāt prāyaścittaiḥ pṛthagvidhaiḥ .. 11.46..
11.46. A sin unintentionally committed is expiated by the recitation of Vedic texts, but that which (men) in their folly commit intentionally, by various (special) penances.
प्रायश्चित्तीयतां प्राप्य दैवात्पूर्वकृतेन वा । न संसर्गं व्रजेत्सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ ११.४७॥
प्रायश्चित्तीयताम् प्राप्य दैवात् पूर्व-कृतेन वा । न संसर्गम् व्रजेत् सद्भिः प्रायश्चित्ते अ कृते द्विजः ॥ ११।४७॥
prāyaścittīyatām prāpya daivāt pūrva-kṛtena vā . na saṃsargam vrajet sadbhiḥ prāyaścitte a kṛte dvijaḥ .. 11.47..
11.47. A twice-born man, having become liable to perform a penance, be it by (the decree of) fate or by (an act) committed in a former life, must not, before the penance has been performed, have intercourse with virtuous men.
इह दुश्चरितैः के चित्के चित्पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ ११.४८॥
इह दुश्चरितैः के चित् के चित् पूर्व-कृतैः तथा । प्राप्नुवन्ति दुरात्मानः नराः रूप-विपर्ययम् ॥ ११।४८॥
iha duścaritaiḥ ke cit ke cit pūrva-kṛtaiḥ tathā . prāpnuvanti durātmānaḥ narāḥ rūpa-viparyayam .. 11.48..
11.48. Some wicked men suffer a change of their (natural) appearance in consequence of crimes committed in this life, and some in consequence of those committed in a former (existence).
सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् । ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ ११.४९॥
सुवर्ण-चौरः कौनख्यम् सुरा-पः श्याव-दन्त-ताम् । ब्रह्म-हा क्षय-रोगि-त्वम् दौश्चर्म्यम् गुरुतल्प-गः ॥ ११।४९॥
suvarṇa-cauraḥ kaunakhyam surā-paḥ śyāva-danta-tām . brahma-hā kṣaya-rogi-tvam dauścarmyam gurutalpa-gaḥ .. 11.49..
11.49. He who steals the gold (of a Brahmana) has diseased nails; a drinker of (the spirituous liquor called) Sura, black teeth; the slayer of a Brahmana, consumption; the violator of a Guru’s bed, a diseased skin;
पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् । धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः ॥ ११.५०॥
पिशुनः पौतिनासिक्यम् सूचकः पूति-वक्त्र-ताम् । धान्य-चौरः अङ्ग-हीन-त्वम् आतिरैक्यम् तु मिश्रकः ॥ ११।५०॥
piśunaḥ pautināsikyam sūcakaḥ pūti-vaktra-tām . dhānya-cauraḥ aṅga-hīna-tvam ātiraikyam tu miśrakaḥ .. 11.50..
11.50. An informer, a foul-smelling nose; a calumniator, a stinking breath; a stealer of grain, deficiency in limbs; he who adulterates (grain), redundant limbs;
अन्नहर्ताऽमयावित्वं मौक्यं वागपहारकः । वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ॥ ११.५१॥
अन्न-हर्ता आ अमयावि-त्वम् मौक्यम् वाच्-अपहारकः । वस्त्र-अपहारकः श्वैत्र्यम् पङ्गु-ताम् अश्व-हारकः ॥ ११।५१॥
anna-hartā ā amayāvi-tvam maukyam vāc-apahārakaḥ . vastra-apahārakaḥ śvaitryam paṅgu-tām aśva-hārakaḥ .. 11.51..
11.51. A stealer of (cooked) food, dyspepsia; a stealer of the words (of the Veda), dumbness a stealer of clothes, white leprosy; a horse-stealer, lameness.
एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः । जडमूकान्धबधिरा विकृताकृतयस्तथा ॥ ११.५२॥
एवम् कर्म-विशेषेण जायन्ते सत्-विगर्हिताः । जड-मूक-अन्ध-बधिराः विकृत-आकृतयः तथा ॥ ११।५२॥
evam karma-viśeṣeṇa jāyante sat-vigarhitāḥ . jaḍa-mūka-andha-badhirāḥ vikṛta-ākṛtayaḥ tathā .. 11.52..
11.52. Thus in consequence of a remnant of (the guilt of former) crimes, are born idiots, dumb, blind, deaf, and deformed men, who are (all) despised by the virtuous.
चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये । निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतेनसः ॥ ११.५३॥
चरितव्यम् अतस् नित्यम् प्रायश्चित्तम् विशुद्धये । निन्द्यैः हि लक्षणैः युक्ताः जायन्ते अनिष्कृत-एनसः ॥ ११।५३॥
caritavyam atas nityam prāyaścittam viśuddhaye . nindyaiḥ hi lakṣaṇaiḥ yuktāḥ jāyante aniṣkṛta-enasaḥ .. 11.53..
11.53. Penances, therefore, must always be performed for the sake of purification, because those whose sins have not been expiated, are born (again) with disgraceful marks.
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ ११.५४॥
ब्रह्महत्या सुरा-पानम् स्तेयम् गुरु-अङ्गना-आगमः । महान्ति पातकानि आहुः संसर्गः च अपि तैः सह ॥ ११।५४॥
brahmahatyā surā-pānam steyam guru-aṅganā-āgamaḥ . mahānti pātakāni āhuḥ saṃsargaḥ ca api taiḥ saha .. 11.54..
11.54. Killing a Brahmana, drinking (the spirituous liquor called) Sura, stealing (the gold of a Brahmana), adultery with a Guru’s wife, and associating with such (offenders), they declare (to be) mortal sins (mahapataka).
अनृतं च समुत्कर्षे राजगामि च पैशुनम् । गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ ११.५५॥
अनृतम् च समुत्कर्षे राज-गामि च पैशुनम् । गुरोः च अलीक-निर्बन्धः समानि ब्रह्महत्यया ॥ ११।५५॥
anṛtam ca samutkarṣe rāja-gāmi ca paiśunam . guroḥ ca alīka-nirbandhaḥ samāni brahmahatyayā .. 11.55..
11.55. Falsely attributing to oneself high birth, giving information to the king (regarding a crime), and falsely accusing one’s teacher, (are offences) equal to slaying a Brahmana.
ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः । गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ ११.५६॥
ब्रह्म-उज्झता वेद-निन्दा कौट-साक्ष्यम् सुहृद्-वधः । गर्हित-अनाद्ययोः जग्धिः सुरा-पान-समानि षड् ॥ ११।५६॥
brahma-ujjhatā veda-nindā kauṭa-sākṣyam suhṛd-vadhaḥ . garhita-anādyayoḥ jagdhiḥ surā-pāna-samāni ṣaḍ .. 11.56..
11.56. Forgetting the Veda, reviling the Vedas, giving false evidence, slaying a friend, eating forbidden food, or (swallowing substances) unfit for food, are six (offences) equal to drinking Sura.
निक्षेपस्यापहरणं नराश्वरजतस्य च । भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ ११.५७॥
निक्षेपस्य अपहरणम् नर-अश्व-रजतस्य च । भूमि-वज्र-मणीनाम् च रुक्म-स्तेय-समम् स्मृतम् ॥ ११।५७॥
nikṣepasya apaharaṇam nara-aśva-rajatasya ca . bhūmi-vajra-maṇīnām ca rukma-steya-samam smṛtam .. 11.57..
11.57. Stealing a deposit, or men, a horse, and silver, land, diamonds and (other) gems, is declared to be equal to stealing the gold (of a Brahmana).
रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ ११.५८॥
रेतः-सेकः स्व-योनीषु कुमारीषु अन्त्यजासु च । सख्युः पुत्रस्य च स्त्रीषु गुरुतल्प-समम् विदुः ॥ ११।५८॥
retaḥ-sekaḥ sva-yonīṣu kumārīṣu antyajāsu ca . sakhyuḥ putrasya ca strīṣu gurutalpa-samam viduḥ .. 11.58..
11.58. Carnal intercourse with sisters by the same mother, with (unmarried) maidens, with females of the lowest castes, with the wives of a friend, or of a son, they declare to be equal to the violation of a Guru’s bed.
गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः । गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ ११.५९॥
गो-वधः अयाज्य-संयाज्यम् पारदारि-आत्म-विक्रयः । गुरु-मातृ-पितृ-त्यागः स्वाध्याय-अग्न्योः सुतस्य च ॥ ११।५९॥
go-vadhaḥ ayājya-saṃyājyam pāradāri-ātma-vikrayaḥ . guru-mātṛ-pitṛ-tyāgaḥ svādhyāya-agnyoḥ sutasya ca .. 11.59..
11.59. Slaying kine, sacrificing for those who are unworthy to sacrifice, adultery, selling oneself, casting off one’s teacher, mother, father, or son, giving up the (daily) study of the Veda, and neglecting the (sacred domestic) fire
परिवित्तिताऽनुजेऽनूढे परिवेदनमेव च । तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ ११.६०॥
परिवित्ति-ता अनुजे अनूढे परिवेदनम् एव च । तयोः दानम् च कन्यायाः तयोः एव च याजनम् ॥ ११।६०॥
parivitti-tā anuje anūḍhe parivedanam eva ca . tayoḥ dānam ca kanyāyāḥ tayoḥ eva ca yājanam .. 11.60..
11.60. Allowing one’s younger brother to marry first, marrying before one’s elder brother, giving a daughter to, or sacrificing for, (either brother),
कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् । तडागारामदाराणामपत्यस्य च विक्रयः ॥ ११.६१॥
कन्यायाः दूषणम् च एव वार्धुष्यम् व्रत-लोपनम् । तडाग-आराम-दाराणाम् अपत्यस्य च विक्रयः ॥ ११।६१॥
kanyāyāḥ dūṣaṇam ca eva vārdhuṣyam vrata-lopanam . taḍāga-ārāma-dārāṇām apatyasya ca vikrayaḥ .. 11.61..
11.61. Defiling a damsel, usury, breaking a vow, selling a tank, a garden, one’s wife, or child,
व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च । भृताच्चाध्ययनादानम्पण्यानां च विक्रयः ॥ ११.६२॥
व्रात्य-ता बान्धव-त्यागः भृत्य-अध्यापनम् एव च । भृतात् च अध्ययन-आदानम् पण्यानाम् च विक्रयः ॥ ११।६२॥
vrātya-tā bāndhava-tyāgaḥ bhṛtya-adhyāpanam eva ca . bhṛtāt ca adhyayana-ādānam paṇyānām ca vikrayaḥ .. 11.62..
11.62. Living as a Vratya, casting off a relative, teaching (the Veda) for wages, learning (the Veda) from a paid teacher, and selling goods which one ought not to sell,
सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् । हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ॥ ११.६३॥
सर्व-आकारेषु अधीकारः महा-यन्त्र-प्रवर्तनम् । हिंसा-ओषधीनाम् स्त्र्याजीवः अभिचारः मूलकर्म च ॥ ११।६३॥
sarva-ākāreṣu adhīkāraḥ mahā-yantra-pravartanam . hiṃsā-oṣadhīnām stryājīvaḥ abhicāraḥ mūlakarma ca .. 11.63..
11.63. Superintending mines (or factories) of any sort, executing great mechanical works, injuring (living) plants, subsisting on (the earnings of) one’s wife, sorcery (by means of sacrifices), and working (magic by means of) roots, (and so forth),
इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् । आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ ११.६४॥
इन्धन-अर्थम् अशुष्काणाम् द्रुमाणाम् अवपातनम् । आत्म-अर्थम् च क्रिया-आरम्भः निन्दित-अन्न-अदनम् तथा ॥ ११।६४॥
indhana-artham aśuṣkāṇām drumāṇām avapātanam . ātma-artham ca kriyā-ārambhaḥ nindita-anna-adanam tathā .. 11.64..
11.64. Cutting down green trees for firewood, doing acts for one’s own advantage only, eating prohibited food,
अनाहिताग्निता स्तेयं ऋणानामनपक्रिया । असत्शास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥ ११.६५॥
अनाहिताग्नि-ता स्तेयम् ऋणानाम् अनपक्रिया । असत्-शास्त्र-अधिगमनम् कौशीलव्यस्य च क्रिया ॥ ११।६५॥
anāhitāgni-tā steyam ṛṇānām anapakriyā . asat-śāstra-adhigamanam kauśīlavyasya ca kriyā .. 11.65..
11.65. Neglecting to kindle the sacred fires, theft, non-payment of (the three) debts, studying bad books, and practising (the arts of) dancing and singing,
धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् । स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ ११.६६॥
धान्य-कुप्य-पशु-स्तेयम् मद्यप-स्त्री-निषेवणम् । स्त्री-शूद्र-विश्-क्षत्र-वधः नास्तिक्यम् च उपपातकम् ॥ ११।६६॥
dhānya-kupya-paśu-steyam madyapa-strī-niṣevaṇam . strī-śūdra-viś-kṣatra-vadhaḥ nāstikyam ca upapātakam .. 11.66..
11.66. Stealing grain, base metals, or cattle, intercourse with women who drink spirituous liquor, slaying women, Sudras, Vaisyas, or Kshatriyas, and atheism, (are all) minor offences, causing loss of caste (Upapataka).
ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः । जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ ११.६७॥
ब्राह्मणस्य रुजः कृत्वा घ्रातिः अघ्रेय-मद्ययोः । जैह्म्यम् च मैथुनम् पुंसि जाति-भ्रंश-करम् स्मृतम् ॥ ११।६७॥
brāhmaṇasya rujaḥ kṛtvā ghrātiḥ aghreya-madyayoḥ . jaihmyam ca maithunam puṃsi jāti-bhraṃśa-karam smṛtam .. 11.67..
11.67. Giving pain to a Brahmana (by a blow), smelling at things which ought not to be smelt at, or at spirituous liquor, cheating, and an unnatural offence with a man, are declared to cause the loss of caste (Gatibhramsa)
खराश्वोष्ट्रमृगैभानामजाविकवधस्तथा । सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ ११.६८॥
खर-अश्व-उष्ट्र-मृग-एभानाम् अजाविक-वधः तथा । सङ्करीकरणम् ज्ञेयम् मीन-अहि-महिषस्य च ॥ ११।६८॥
khara-aśva-uṣṭra-mṛga-ebhānām ajāvika-vadhaḥ tathā . saṅkarīkaraṇam jñeyam mīna-ahi-mahiṣasya ca .. 11.68..
11.68. Killing a donkey, a horse, a camel, a deer, an elephant, a goat, a sheep, a fish, a snake, or a buffalo, must be known to degrade (the offender) to a mixed caste (Samkarikarana).
निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् । अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ ११.६९॥
निन्दितेभ्यः धन-आदानम् वाणिज्यम् शूद्र-सेवनम् । अपात्रीकरणम् ज्ञेयम् असत्यस्य च भाषणम् ॥ ११।६९॥
ninditebhyaḥ dhana-ādānam vāṇijyam śūdra-sevanam . apātrīkaraṇam jñeyam asatyasya ca bhāṣaṇam .. 11.69..
11.69. Accepting presents from blamed men, trading, serving Sudras, and speaking a falsehood, make (the offender) unworthy to receive gifts (Apatra).
कृमिकीटवयोहत्या मद्यानुगतभोजनम् । फलेधः। कुसुमस्तेयमधैर्यं च मलावहम् ॥ ११.७०॥
कृमि-कीट-वयः-हत्या मद्य-अनुगत-भोजनम् । फलेधः। कुसुम-स्तेयम् अधैर्यम् च मल-आवहम् ॥ ११।७०॥
kṛmi-kīṭa-vayaḥ-hatyā madya-anugata-bhojanam . phaledhaḥ. kusuma-steyam adhairyam ca mala-āvaham .. 11.70..
11.70. Killing insects, small or large, or birds, eating anything kept close to spirituous liquors, stealing fruit, firewood, or flowers, (are offences) which make impure (Malavaha).
एतान्येनांसि सर्वाणि यथोक्तानि पृथक्पृथक् । यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यग्निबोधत ॥ ११.७१॥
एतानि एनांसि सर्वाणि यथा उक्तानि पृथक् पृथक् । यैः यैः व्रतैः अपोह्यन्ते तानि सम्यक् निबोधत ॥ ११।७१॥
etāni enāṃsi sarvāṇi yathā uktāni pṛthak pṛthak . yaiḥ yaiḥ vrataiḥ apohyante tāni samyak nibodhata .. 11.71..
11.71. Learn (now) completely those penances, by means of which all the several offences mentioned (can) be expiated.
ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् । भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ॥ ११.७२॥
ब्रह्म-हा द्वादश समाः कुटीम् कृत्वा वने वसेत् । भैक्ष-आशी आत्म-विशुद्धि-अर्थम् कृत्वा शव-शिरः ध्वजम् ॥ ११।७२॥
brahma-hā dvādaśa samāḥ kuṭīm kṛtvā vane vaset . bhaikṣa-āśī ātma-viśuddhi-artham kṛtvā śava-śiraḥ dhvajam .. 11.72..
11.72. For his purification the slayer of a Brahmana shall make a hut in the forest and dwell (in it) during twelve years, subsisting on alms and making the skull of a dead man his flag.
लक्ष्यं शस्त्रभृतां वा स्याद्विदुषामिच्छयाऽत्मनः । प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्षिराः ॥ ११.७३॥
लक्ष्यम् शस्त्रभृताम् वा स्यात् विदुषाम् इच्छया आ त्मनः । प्रास्येत् आत्मानम् अग्नौ वा समिद्धे त्रिस् अव अक्षिराः ॥ ११।७३॥
lakṣyam śastrabhṛtām vā syāt viduṣām icchayā ā tmanaḥ . prāsyet ātmānam agnau vā samiddhe tris ava akṣirāḥ .. 11.73..
11.73. Or let him, of his own free will, become (in a battle) the target of archers who know (his purpose); or he may thrice throw himself headlong into a blazing fire;
यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा । अभिजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ॥ ११.७४॥
यजेत वा अश्वमेधेन स्वर्जिता गोसवेन वा । अभिजित्-विश्वजिद्भ्याम् वा त्रिवृता अग्निष्टुता अपि वा ॥ ११।७४॥
yajeta vā aśvamedhena svarjitā gosavena vā . abhijit-viśvajidbhyām vā trivṛtā agniṣṭutā api vā .. 11.74..
11.74. Or he may offer a horse-sacrifice, a Svargit, a Gosava, an Abhigit, a Visvagit, a Trivrit, or an Agnishtut;
जपन् वाऽन्यतमं वेदं योजनानां शतं व्रजेत् । ब्रह्महत्यापनोदाय मितभुज्ञियतेन्द्रियः ॥ ११.७५॥
जपन् वा अन्यतमम् वेदम् योजनानाम् शतम् व्रजेत् । ब्रह्महत्या-अपनोदाय ॥ ११।७५॥
japan vā anyatamam vedam yojanānām śatam vrajet . brahmahatyā-apanodāya .. 11.75..
11.75. Or, in order to remove (the guilt of) slaying a Brahmana, he may walk one hundred yoganas, reciting one of the Vedas, eating little, and controlling his organs;
सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् । धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥ ११.७६॥
सर्व-स्वम् वेद-विदुषे ब्राह्मणाय उपपादयेत् । धनम् हि जीवनाय अलम् गृहम् वा स परिच्छदम् ॥ ११।७६॥
sarva-svam veda-viduṣe brāhmaṇāya upapādayet . dhanam hi jīvanāya alam gṛham vā sa paricchadam .. 11.76..
11.76. Or he may present to a Brahmana, learned in the Vedas, whole property, as much wealth as suffices for the maintenance (of the recipient), or a house together with the furniture;
हविष्यभुग्वाऽनुसरेत्प्रतिस्रोतः सरस्वतीम् । जपेद्वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ॥ ११.७७॥
हविष्य-भुज् वा अनुसरेत् प्रतिस्रोतस् सरस्वतीम् । जपेत् वा नियत-आहारः त्रिस् वै वेदस्य संहिताम् ॥ ११।७७॥
haviṣya-bhuj vā anusaret pratisrotas sarasvatīm . japet vā niyata-āhāraḥ tris vai vedasya saṃhitām .. 11.77..
11.77. Or, subsisting on sacrificial food, he may walk against the stream along (the whole course of the river) Sarasvati; or, restricting his food (very much), he may mutter thrice the Samhita of a Veda.
कृतवापनो निवसेद्ग्रामान्ते गोव्रजेऽपि वा । आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ ११.७८॥
कृत-वापनः निवसेत् ग्राम-अन्ते गोव्रजे अपि वा । आश्रमे वृक्ष-मूले वा गो-ब्राह्मण-हिते रतः ॥ ११।७८॥
kṛta-vāpanaḥ nivaset grāma-ante govraje api vā . āśrame vṛkṣa-mūle vā go-brāhmaṇa-hite rataḥ .. 11.78..
11.78. Having shaved off (all his hair), he may dwell at the extremity of the village, or in a cow-pen, or in a hermitage, or at the root of a tree, taking pleasure in doing good to cows and Brahmanas.
ब्राह्मणार्थे गवार्थे वा संयक्प्राणान् परित्यजेत् । मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥ ११.७९॥
ब्राह्मण-अर्थे गवा-अर्थे वा संयक्-प्राणान् परित्यजेत् । मुच्यते ब्रह्म-हत्यायाः गोप्ता गोः ब्राह्मणस्य च ॥ ११।७९॥
brāhmaṇa-arthe gavā-arthe vā saṃyak-prāṇān parityajet . mucyate brahma-hatyāyāḥ goptā goḥ brāhmaṇasya ca .. 11.79..
11.79. He who unhesitatingly abandons life for the sake of Brahmanas or of cows, is freed from (the guilt of) the murder of a Brahmana, and (so is he) who saves (the life of) a cow, or of a Brahmana.
त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा । त्र्यवरंविप्रस्य तन्निमित्ते वा प्राणालाभेऽपि मुच्यते ॥ ११.८०॥
त्रि-वारम् प्रतिरोद्धा वा सर्व-स्वम् अवजित्य वा । त्रि-अवरम् विप्रस्य तद्-निमित्ते वा प्राण-अलाभे अपि मुच्यते ॥ ११।८०॥
tri-vāram pratiroddhā vā sarva-svam avajitya vā . tri-avaram viprasya tad-nimitte vā prāṇa-alābhe api mucyate .. 11.80..
11.80. If either he fights at least three times (against robbers in defence of) a Brahmana’s (property), or reconquers the whole property of a Brahmana, or if he loses his life for such a cause, he is freed (from his guilt).
एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ११.८१॥
एवम् दृढ-व्रतः नित्यम् ब्रह्मचारी समाहितः । समाप्ते द्वादशे वर्षे ब्रह्महत्याम् व्यपोहति ॥ ११।८१॥
evam dṛḍha-vrataḥ nityam brahmacārī samāhitaḥ . samāpte dvādaśe varṣe brahmahatyām vyapohati .. 11.81..
11.81. He who thus (remains) always firm in his vow, chaste, and of concentrated mind, removes after the lapse of twelve years (the guilt of) slaying a Brahmana.
शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे । स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ ११.८२॥
शिष्ट्वा वा भूमिदेवानाम् नरदेव-समागमे । स्व-मेनः-अवभृथ-स्नातः हयमेधे विमुच्यते ॥ ११।८२॥
śiṣṭvā vā bhūmidevānām naradeva-samāgame . sva-menaḥ-avabhṛtha-snātaḥ hayamedhe vimucyate .. 11.82..
11.82. Or he who, after confessing his crime in an assembly of the gods of the earth (Brahnanas), and the gods of men (Kshatriyas), bathes (with the priests) at the close of a horse-sacrifice, is (also) freed (from guilt).
धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते । तस्मात्समागमे तेषामेनो विख्याप्य शुध्यति ॥ ११.८३॥
धर्मस्य ब्राह्मणः मूलम् अग्रम् राजन्यः उच्यते । तस्मात् समागमे तेषाम् एनः विख्याप्य शुध्यति ॥ ११।८३॥
dharmasya brāhmaṇaḥ mūlam agram rājanyaḥ ucyate . tasmāt samāgame teṣām enaḥ vikhyāpya śudhyati .. 11.83..
11.83. The Brahmana is declared (to be) the root of the sacred law and the Kshatriya its top; hence he who has confessed his sin before an assembly of such men, becomes pure.
ब्रह्मणः सम्भवेनैव देवानामपि दैवतम् । प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ ११.८४॥
ब्रह्मणः सम्भवेन एव देवानाम् अपि दैवतम् । प्रमाणम् च एव लोकस्य ब्रह्मा अत्र एव हि कारणम् ॥ ११।८४॥
brahmaṇaḥ sambhavena eva devānām api daivatam . pramāṇam ca eva lokasya brahmā atra eva hi kāraṇam .. 11.84..
11.84. By his origin alone a Brahmana is a deity even for the gods, and (his teaching is) authoritative for men, because the Veda is the foundation for that.
तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् । सा तेषां पावनाय स्यात्पवित्रं विदुषां हि वाक् ॥ ११.८५॥
तेषाम् वेद-विदः ब्रूयुः त्रयः अपि एनः सुनिष्कृतिम् । सा तेषाम् पावनाय स्यात् पवित्रम् विदुषाम् हि वाच् ॥ ११।८५॥
teṣām veda-vidaḥ brūyuḥ trayaḥ api enaḥ suniṣkṛtim . sā teṣām pāvanāya syāt pavitram viduṣām hi vāc .. 11.85..
11.85. (If) only three of them who are learned in the Veda proclaim the expiation for offences, that shall purify the (sinners); for the words of learned men are a means of purification.
अतोऽन्यतममास्थाय विधिं विप्रः समाहितः । ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥ ११.८६॥
अतस् अन्यतमम् आस्थाय विधिम् विप्रः समाहितः । ब्रह्महत्या-कृतम् पापम् व्यपोहति आत्मवत्-तया ॥ ११।८६॥
atas anyatamam āsthāya vidhim vipraḥ samāhitaḥ . brahmahatyā-kṛtam pāpam vyapohati ātmavat-tayā .. 11.86..
11.86. A Brahmana who, with a concentrated mind, follows any of the (above-mentioned) rules, removes the sin committed by slaying a Brahmana through his self-control.
हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् । राजन्यवैश्यौ चैजानावात्रेयीमेव च स्त्रियम् ॥ ११.८७॥
हत्वा गर्भम् अ विज्ञातम् एतत् एव व्रतम् चरेत् । राजन्य-वैश्यौ च एजानौ आत्रेयीम् एव च स्त्रियम् ॥ ११।८७॥
hatvā garbham a vijñātam etat eva vratam caret . rājanya-vaiśyau ca ejānau ātreyīm eva ca striyam .. 11.87..
11.87. For destroying the embryo (of a Brahmana, the sex of which was) unknown, for slaying a Kshatriya or a Vaisya who are (engaged in or) have offered a (Vedic) sacrifice, or a (Brahmana) woman who has bathed after temporary uncleanness (Atreyi), he must perform the same penance,
उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । प्रतिरभ्य अपहृत्य च निक्षेपं कृत्वा च स्त्रीसुहृत्वधम् ॥ ११.८८॥
उक्त्वा च एव अनृतम् साक्ष्ये प्रतिरुध्य गुरुम् तथा । प्रतिरभ्य अपहृत्य च निक्षेपम् कृत्वा च स्त्री-सुहृद्-वधम् ॥ ११।८८॥
uktvā ca eva anṛtam sākṣye pratirudhya gurum tathā . pratirabhya apahṛtya ca nikṣepam kṛtvā ca strī-suhṛd-vadham .. 11.88..
11.88. Likewise for giving false evidence (in an important cause), for passionately abusing the teacher, for stealing a deposit, and for killing (his) wife or his friend:
इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ ११.८९॥
इयम् विशुद्धिः उदिता प्रमाप्य अकामतः द्विजम् । कामतः ब्राह्मण-वधे निष्कृतिः न विधीयते ॥ ११।८९॥
iyam viśuddhiḥ uditā pramāpya akāmataḥ dvijam . kāmataḥ brāhmaṇa-vadhe niṣkṛtiḥ na vidhīyate .. 11.89..
11.89. This expiation has been prescribed for unintentionally killing a Brahmana; but for intentionally slaying a Brahmana no atonement is ordained.
सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ ११.९०॥
सुराम् पीत्वा द्विजः मोहात् अग्नि-वर्णाम् सुराम् पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात् ततस् ॥ ११।९०॥
surām pītvā dvijaḥ mohāt agni-varṇām surām pibet . tayā sa kāye nirdagdhe mucyate kilbiṣāt tatas .. 11.90..
11.90. A twice-born man who has (intentionally) drunk, through delusion of mind, (the spirituous liquor called) Sura shall drink that liquor boiling-hot; when his body has been completely scalded by that, he is freed from his guilt;
गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा । पयो घृतं वाऽ मरणाद्गोशकृद्रसमेव वा ॥ ११.९१॥
गो-मूत्रम् अग्नि-वर्णम् वा पिबेत् उदकम् एव वा । पयः घृतम् वा मरणात् गो-शकृत्-रसम् एव वा ॥ ११।९१॥
go-mūtram agni-varṇam vā pibet udakam eva vā . payaḥ ghṛtam vā maraṇāt go-śakṛt-rasam eva vā .. 11.91..
11.91. Or he may drink cow’s urine, water, milk, clarified butter or (liquid) cowdung boiling-hot, until he dies;
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत्निशि । सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ ११.९२॥
कणान् वा भक्षयेत् अब्दम् पिण्याकम् वा सकृत् निशि । सुरा-पान-अपनुत्ति-अर्थम् वाल-वासाः जटी ध्वजी ॥ ११।९२॥
kaṇān vā bhakṣayet abdam piṇyākam vā sakṛt niśi . surā-pāna-apanutti-artham vāla-vāsāḥ jaṭī dhvajī .. 11.92..
11.92. Or, in order to remove (the guilt of) drinking Sura, he may eat during a year once (a day) at night grains (of rice) or oilcake, wearing clothes made of cowhair and his own hair in braids and carrying (a wine cup as) a flag.
सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ ११.९३॥
सुरा वै मलम् अन्नानाम् पाप्मा च मलम् उच्यते । तस्मात् ब्राह्मण-राजन्यौ वैश्यः च न सुराम् पिबेत् ॥ ११।९३॥
surā vai malam annānām pāpmā ca malam ucyate . tasmāt brāhmaṇa-rājanyau vaiśyaḥ ca na surām pibet .. 11.93..
11.93. Sura, indeed, is the dirty refuse (mala) of grain, sin also is called dirt (mala); hence a Brahmana, a Kshatriya, and a Vaisya shall not drink Sura.
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ ११.९४॥
गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथा एव एका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ ११।९४॥
gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā . yathā eva ekā tathā sarvā na pātavyā dvijottamaiḥ .. 11.94..
11.94. Sura one must know to be of three kinds, that distilled from molasses (gaudi), that distilled from ground rice, and that distilled from Madhuka-flowers (madhvi); as the one (named above) even so are all (three sorts) forbidden to the chief of the twice-born.
यक्षरक्षः। पिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ ११.९५॥
यक्ष-रक्षः। पिशाच-अन्नम् मद्यम् मांसम् सुरा-आसवम् । तत् ब्राह्मणेन न अत्तव्यम् देवानाम् अश्नता हविः ॥ ११।९५॥
yakṣa-rakṣaḥ. piśāca-annam madyam māṃsam surā-āsavam . tat brāhmaṇena na attavyam devānām aśnatā haviḥ .. 11.95..
11.95. Sura, (all other) intoxicating drinks and decoctions and flesh are the food of the Yakshas, Rakshasas, and Pisakas; a Brahmana who eats (the remnants of) the offerings consecrated to the gods, must not partake of such (substances).
अमेध्ये वा पतेन् मत्तो वैदिकं वाऽप्युदाहरेत् । अकार्यमन्यत्कुर्याद्वा ब्राह्मणो मदमोहितः ॥ ११.९६॥
अमेध्ये वा पतेत् मत्तः वैदिकम् वा अपि उदाहरेत् । अकार्यम् अन्यत् कुर्यात् वा ब्राह्मणः मद-मोहितः ॥ ११।९६॥
amedhye vā patet mattaḥ vaidikam vā api udāharet . akāryam anyat kuryāt vā brāhmaṇaḥ mada-mohitaḥ .. 11.96..
11.96. A Brahmana, stupefied by drunkenness, might fall on something impure, or (improperly) pronounce Vedic (texts), or commit some other act which ought not to be committed.
यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ ११.९७॥
यस्य काय-गतम् ब्रह्म मद्येन आप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यम् शूद्र-त्वम् च स गच्छति ॥ ११।९७॥
yasya kāya-gatam brahma madyena āplāvyate sakṛt . tasya vyapaiti brāhmaṇyam śūdra-tvam ca sa gacchati .. 11.97..
11.97. When the Brahman (the Veda) which dwells in his body is (even) once (only) deluged with spirituous liquor, his Brahmanhood forsakes him and he becomes a Sudra.
एषा विचित्राभिहिता सुरापानस्य निष्कृतिः । अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ ११.९८॥
एषा विचित्रा अभिहिता सुरा-पानस्य निष्कृतिः । अतस् ऊर्ध्वम् प्रवक्ष्यामि सुवर्ण-स्तेय-निष्कृतिम् ॥ ११।९८॥
eṣā vicitrā abhihitā surā-pānasya niṣkṛtiḥ . atas ūrdhvam pravakṣyāmi suvarṇa-steya-niṣkṛtim .. 11.98..
11.98. The various expiations for drinking (the spirituous liquors called) Sura have thus been explained; I will 'next proclaim the atonement for stealing the gold (of a Brahmana).
सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु । स्वकर्म ख्यापयन् ब्रूयात्मां भवाननुशास्त्विति ॥ ११.९९॥
सुवर्ण-स्तेय-कृत् विप्रः राजानम् अभिगम्य तु । स्व-कर्म ख्यापयन् ब्रूयात् माम् भवान् अनुशास्तु इति ॥ ११।९९॥
suvarṇa-steya-kṛt vipraḥ rājānam abhigamya tu . sva-karma khyāpayan brūyāt mām bhavān anuśāstu iti .. 11.99..
11.99. A Brahmana who has stolen the gold (of a Brahmana) shall go to the king and, confessing his deed, say, ’Lord, punish me!’
गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ ११.१००॥
गृहीत्वा मुसलम् राजा सकृत् हन्यात् तु तम् स्वयम् । वधेन शुध्यति स्तेनः ब्राह्मणः तपसा एव तु ॥ ११।१००॥
gṛhītvā musalam rājā sakṛt hanyāt tu tam svayam . vadhena śudhyati stenaḥ brāhmaṇaḥ tapasā eva tu .. 11.100..
11.100. Taking (from him) the club (which he must carry), the king himself shall strike him once, by his death the thief becomes pure; or a Brahmana (may purify himself) by austerities.
तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महनो व्रतम् ॥ ११.१०१॥
तपसा अपनुनुत्सुः तु सुवर्ण-स्तेय-जम् मलम् । चीर-वासाः द्विजः अरण्ये चरेत् ब्रह्म-हनः व्रतम् ॥ ११।१०१॥
tapasā apanunutsuḥ tu suvarṇa-steya-jam malam . cīra-vāsāḥ dvijaḥ araṇye caret brahma-hanaḥ vratam .. 11.101..
11.101. He who desires to remove by austerities the guilt of stealing the gold (of a Brahmana), shall perform the penance (prescribed) for the slayer of a Brahmana, (living) in a forest and dressed in (garments) made of bark.
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः । गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥ ११.१०२॥
एतैः व्रतैः अपोहेत पापम् स्तेय-कृतम् द्विजः । गुरु-स्त्री-गमनीयम् तु व्रतैः एभिः अपानुदेत् ॥ ११।१०२॥
etaiḥ vrataiḥ apoheta pāpam steya-kṛtam dvijaḥ . guru-strī-gamanīyam tu vrataiḥ ebhiḥ apānudet .. 11.102..
11.102. By these penances a twice-born man may remove the guilt incurred by a theft (of gold); but he may atone for connexion with a Guru’s wife by the following penances.
गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । तल्पे स्वप्याद्सूर्मीं ज्वलन्तीं वाऽश्लिष्येन् मृत्युना स विशुध्यति ॥ ११.१०३॥
गुरुतल्पी अभिभाष्य एनः तप्ते स्वप्यात् अयः-मये । तल्पे स्वप्यात् सूर्मीम् ज्वलन्तीम् वा आश्लिष्येत् मृत्युना स विशुध्यति ॥ ११।१०३॥
gurutalpī abhibhāṣya enaḥ tapte svapyāt ayaḥ-maye . talpe svapyāt sūrmīm jvalantīm vā āśliṣyet mṛtyunā sa viśudhyati .. 11.103..
11.103. He who has violated his Guru’s bed, shall, after confessing his crime, extend himself on a heated iron bed, or embrace the red-hot image (of a woman); by dying he becomes pure;
स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ । नैर्ऋतीं दिशमातिष्ठेदा निपातादजिह्मगः ॥ ११.१०४॥
स्वयम् वा शिष्ण-वृषणौ उत्कृत्य आधाय च अञ्जलौ । नैरृतीम् दिशम् आतिष्ठेत् आ निपातात् अ जिह्म-गः ॥ ११।१०४॥
svayam vā śiṣṇa-vṛṣaṇau utkṛtya ādhāya ca añjalau . nairṛtīm diśam ātiṣṭhet ā nipātāt a jihma-gaḥ .. 11.104..
11.104. Or, having himself cut off his organ and his testicles and having taken them in his joined hands, he may walk straight towards the region of Nirriti (the south-west), until he falls down (dead);
खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने । प्राजापत्यं चरेत्कृच्छ्रमब्दमेकं समाहितः ॥ ११.१०५॥
खट्वाङ्गी चीर-वासाः वा श्मश्रुलः विजने वने । प्राजापत्यम् चरेत् कृच्छ्रम् अब्दम् एकम् समाहितः ॥ ११।१०५॥
khaṭvāṅgī cīra-vāsāḥ vā śmaśrulaḥ vijane vane . prājāpatyam caret kṛcchram abdam ekam samāhitaḥ .. 11.105..
11.105. Or, carrying the foot of a bedstead, dressed in (garments of) bark and allowing his beard to grow, he may, with a concentrated mind, perform during a whole year the Krikkhra (or hard, penance), revealed by Pragapati, in a lonely forest;
चान्द्रायणं वा त्रीन् मासानभ्यस्येन्नियतैन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ ११.१०६॥
चान्द्रायणम् वा त्रीन् मासान् अभ्यस्येत् नियत-ऐन्द्रियः । हविष्येण यवाग्वा वा गुरुतल्प-अपनुत्तये ॥ ११।१०६॥
cāndrāyaṇam vā trīn māsān abhyasyet niyata-aindriyaḥ . haviṣyeṇa yavāgvā vā gurutalpa-apanuttaye .. 11.106..
11.106. Or, controlling his organs, he may during three months continuously perform the lunar penance, (subsisting) on sacrificial food or barley-gruel, in order to remove (the guilt of) violating a Guru’s bed.
एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् । उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः ॥ ११.१०७॥
एतैः व्रतैः अपोहेयुः महापातकिनः मलम् । उपपातकिनः तु एवम् एभिः नानाविधैः व्रतैः ॥ ११।१०७॥
etaiḥ vrataiḥ apoheyuḥ mahāpātakinaḥ malam . upapātakinaḥ tu evam ebhiḥ nānāvidhaiḥ vrataiḥ .. 11.107..
11.107. By means of these penances men who have committed mortal sins (Mahapataka) may remove their guilt, but those who committed minor offences, causing loss of caste, (Upapataka, can do it) by the various following penances.
उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् । कृतवापो वसेद्गोष्ठे चर्मणा तेन संवृतः ॥ ११.१०८॥
उपपातक-संयुक्तः गो-घ्नः मासम् यवान् पिबेत् । कृतवापः वसेत् गोष्ठे चर्मणा तेन संवृतः ॥ ११।१०८॥
upapātaka-saṃyuktaḥ go-ghnaḥ māsam yavān pibet . kṛtavāpaḥ vaset goṣṭhe carmaṇā tena saṃvṛtaḥ .. 11.108..
11.108. He who has committed a minor offence by slaying a cow (or bull) shall drink during (the first) month (a decoction of) barley-grains; having shaved all his hair, and covering himself with the hide (of the slain cow), he must live in a cow-house.
चतुर्थकालमश्नीयादक्षारलवणं मितम् । गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥ ११.१०९॥
चतुर्थकालम् अश्नीयात् अक्षार-लवणम् मितम् । गो-मूत्रेण आचरेत् स्नानम् द्वौ मासौ नियत-इन्द्रियः ॥ ११।१०९॥
caturthakālam aśnīyāt akṣāra-lavaṇam mitam . go-mūtreṇa ācaret snānam dvau māsau niyata-indriyaḥ .. 11.109..
11.109. During the two (following) months he shall eat a small (quantity of food) without any factitious salt at every fourth meal-time, and shall bathe in the urine of cows, keeping his organs under control.
दिवाऽनुगच्छेद्गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनोवसेत् ॥ ११.११०॥
दिवा अनुगच्छेत् गाः ताः तु तिष्ठन् ऊर्ध्वम् रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ ॥ ११।११०॥
divā anugacchet gāḥ tāḥ tu tiṣṭhan ūrdhvam rajaḥ pibet . śuśrūṣitvā namaskṛtya rātrau .. 11.110..
11.110. During the day he shall follow the cows and, standing upright, inhale the dust (raised by their hoofs); at night, after serving and worshipping them, he shall remain in the (posture, called) virasana.
तिष्ठन्तीष्वनुतिष्ठेत्तु व्रजन्तीष्वप्यनुव्रजेत् । आसीनासु तथाऽसीनो नियतो वीतमत्सरः ॥ ११.१११॥
तिष्ठन्तीषु अनुतिष्ठेत् तु व्रजन्तीषु अपि अनुव्रजेत् । आसीनासु तथा आसीनः नियतः वीत-मत्सरः ॥ ११।१११॥
tiṣṭhantīṣu anutiṣṭhet tu vrajantīṣu api anuvrajet . āsīnāsu tathā āsīnaḥ niyataḥ vīta-matsaraḥ .. 11.111..
11.111. Controlling himself and free from anger, he must stand when they stand, follow them when they walk, and seat himself when they lie down
आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नां वा सर्वप्राणैर्विमोचयेत् ॥ ११.११२॥
आतुराम् अभिशस्ताम् वा चौर-व्याघ्र-आदिभिः भयैः । पतिताम् पङ्क-लग्नाम् वा सर्व-प्राणैः विमोचयेत् ॥ ११।११२॥
āturām abhiśastām vā caura-vyāghra-ādibhiḥ bhayaiḥ . patitām paṅka-lagnām vā sarva-prāṇaiḥ vimocayet .. 11.112..
11.112. (When a cow is) sick, or is threatened by danger from thieves, tigers, and the like, or falls, or sticks in a morass, he must relieve her by all possible means:
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ ११.११३॥
उष्णे वर्षति शीते वा मारुते वाति वा भृशम् । न कुर्वीत आत्मनः त्राणम् गोः अ कृत्वा तु शक्तितः ॥ ११।११३॥
uṣṇe varṣati śīte vā mārute vāti vā bhṛśam . na kurvīta ātmanaḥ trāṇam goḥ a kṛtvā tu śaktitaḥ .. 11.113..
11.113. In heat, in rain, or in cold, or when the wind blows violently, he must not seek to shelter himself, without (first) sheltering the cows according to his ability.
आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले । भक्षयन्तीं न कथयेत्पिबन्तं चैव वत्सकम् ॥ ११.११४॥
आत्मनः यदि वा अन्येषाम् गृहे क्षेत्रे अथ वा खले । भक्षयन्तीम् न कथयेत् पिबन्तम् च एव वत्सकम् ॥ ११।११४॥
ātmanaḥ yadi vā anyeṣām gṛhe kṣetre atha vā khale . bhakṣayantīm na kathayet pibantam ca eva vatsakam .. 11.114..
11.114. Let him not say (a word), if a cow eats (anything) in his own or another’s house or field or on the threshing-floor, or if a calf drinks (milk).
अनेन विधिना यस्तु गोघ्नो गामनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ ११.११५॥
अनेन विधिना यः तु गो-घ्नः गाम् अनुगच्छति । स गोहत्या-कृतम् पापम् त्रिभिः मासैः व्यपोहति ॥ ११।११५॥
anena vidhinā yaḥ tu go-ghnaḥ gām anugacchati . sa gohatyā-kṛtam pāpam tribhiḥ māsaiḥ vyapohati .. 11.115..
11.115. The slayer of a cow who serves cows in this manner, removes after three months the guilt which he incurred by killing a cow.
वृषभैकादशा गाश्च दद्यात्सुचरितव्रतः । अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ ११.११६॥
वृषभ-एकादशाः गाः च दद्यात् सु चरित-व्रतः । अ विद्यमाने सर्व-स्वम् वेद-विद्भ्यः निवेदयेत् ॥ ११।११६॥
vṛṣabha-ekādaśāḥ gāḥ ca dadyāt su carita-vrataḥ . a vidyamāne sarva-svam veda-vidbhyaḥ nivedayet .. 11.116..
11.116. But after he has fully performed the penance, he must give to (Brahmanas) learned in the Veda ten cows and a bull, (or) if he does not possess (so much property) he must offer to them all he has.
एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः । अवकीर्णिवर्जं शुद्ध्यर्थं चान्द्रायणमथापि वा ॥ ११.११७॥
एतत् एव व्रतम् कुर्युः उपपातकिनः द्विजाः । अवकीर्णि-वर्जम् शुद्धि-अर्थम् चान्द्रायणम् अथ अपि वा ॥ ११।११७॥
etat eva vratam kuryuḥ upapātakinaḥ dvijāḥ . avakīrṇi-varjam śuddhi-artham cāndrāyaṇam atha api vā .. 11.117..
11.117. Twice-born men who have committed (other) minor offences (Upapataka), except a student who has broken his vow (Avakirnin), may perform, in order to purify themselves, the same penance or also a lunar penance.
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥ ११.११८॥
अवकीर्णी तु काणेन गर्दभेन चतुष्पथे । पाकयज्ञ-विधानेन यजेत निरृतिम् निशि ॥ ११।११८॥
avakīrṇī tu kāṇena gardabhena catuṣpathe . pākayajña-vidhānena yajeta nirṛtim niśi .. 11.118..
11.118. But a student who has broken his vow shall offer at night on a crossway to Nirriti a one-eyed ass, according to the rule of the Pakayagnas
हुत्वाऽग्नौ विधिवधोमानन्ततश्च समित्यृचा । वातेन्द्रगुरुवह्नीनां जुहुयात्सर्पिषाऽहुतीः ॥ ११.११९॥
हुत्वा अग्नौ विधिवत्-होमान् अन्ततस् च समिति-ऋचा । वात-इन्द्र-गुरु-वह्नीनाम् जुहुयात् सर्पिषा आहुतीः ॥ ११।११९॥
hutvā agnau vidhivat-homān antatas ca samiti-ṛcā . vāta-indra-guru-vahnīnām juhuyāt sarpiṣā āhutīḥ .. 11.119..
11.119. Having offered according to the rule oblations in the fire, he shall finally offer (four) oblations of clarified butter to Vata, to Indra, to the teacher (of the gods, Brihaspati) and to Agni, reciting the Rik verse ’May the Maruts grant me.
कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ ११.१२०॥
कामतः रेतसः सेकम् व्रत-स्थस्य द्विजन्मनः । अतिक्रमम् व्रतस्य आहुः धर्म-ज्ञाः ब्रह्म-वादिनः ॥ ११।१२०॥
kāmataḥ retasaḥ sekam vrata-sthasya dvijanmanaḥ . atikramam vratasya āhuḥ dharma-jñāḥ brahma-vādinaḥ .. 11.120..
11.120. Those who know the Veda declare that a voluntary effusion of semen by a twice-born (youth) who fulfils the vow (of studentship constitutes) a breach of that vow.
मारुतं पुरुहूतं च गुरुं पावकमेव च । चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ ११.१२१॥
मारुतम् पुरुहूतम् च गुरुम् पावकम् एव च । चतुरः व्रतिनः अभ्येति ब्राह्मम् तेजः-अवकीर्णिनः ॥ ११।१२१॥
mārutam puruhūtam ca gurum pāvakam eva ca . caturaḥ vratinaḥ abhyeti brāhmam tejaḥ-avakīrṇinaḥ .. 11.121..
11.121. The divine light which the Veda imparts to the student, enters, if he breaks his vow, the Maruts, Puruhuta (Indra), the teacher (of the gods, Brihaspati) and Pavaka (Fire).
एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् । सप्तागारांश्चरेद्भैक्षं स्वकर्म परिकीर्तयन् ॥ ११.१२२॥
एतस्मिन् एनसि प्राप्ते वसित्वा गर्दभ-अजिनम् । सप्त-अगारान् चरेत् भैक्षम् स्व-कर्म परिकीर्तयन् ॥ ११।१२२॥
etasmin enasi prāpte vasitvā gardabha-ajinam . sapta-agārān caret bhaikṣam sva-karma parikīrtayan .. 11.122..
11.122. When this sin has been committed, he shall go begging to seven houses, dressed in the hide of the (sacrificed) ass, proclaiming his deed.
तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् । उपस्पृशंस्त्रिषवणं अब्देन स विशुध्यति ॥ ११.१२३॥
तेभ्यः लब्धेन भैक्षेण वर्तयन् एककालिकम् । उपस्पृशन् त्रिषवणम् अब्देन स विशुध्यति ॥ ११।१२३॥
tebhyaḥ labdhena bhaikṣeṇa vartayan ekakālikam . upaspṛśan triṣavaṇam abdena sa viśudhyati .. 11.123..
11.123. Subsisting on a single (daily meal that consists) of the alms obtained there and bathing at (the time of) the three savanas (morning, noon, and evening), he becomes pure after (the lapse of) one year.
जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया । चरेत्सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ ११.१२४॥
जाति-भ्रंश-करम् कर्म कृत्वा अन्यतमम् इच्छया । चरेत् सांतपनम् कृच्छ्रम् प्राजापत्यम् अनिच्छया ॥ ११।१२४॥
jāti-bhraṃśa-karam karma kṛtvā anyatamam icchayā . caret sāṃtapanam kṛcchram prājāpatyam anicchayā .. 11.124..
11.124. For committing with intent any of the deeds which cause loss of caste (Gatibhramsakara), (the offender) shall perform a Samtapana Krikkhra; (for doing it) unintentionally, (the Krikkhra) revealed by Pragapati.
सङ्करापात्रकृत्यासु मासं शोधनम ऐन्दवः । मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम् ॥ ११.१२५॥
सङ्कर-अपात्रकृत्यासु मासम् शोधनम् ऐन्दवः । मलिनीकरणीयेषु तप्तः स्यात् यावकैः त्रि-अहम् ॥ ११।१२५॥
saṅkara-apātrakṛtyāsu māsam śodhanam aindavaḥ . malinīkaraṇīyeṣu taptaḥ syāt yāvakaiḥ tri-aham .. 11.125..
11.125. As atonement for deeds which degrade to a mixed caste (Samkara), and for those which make a man unworthy to receive gifts (Apatra), (he shall perform) the lunar (penance) during a month; for (acts) which render impure (Malinikaraniya) he shall scald himself during three days with (hot) barley-gruel.
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ ११.१२६॥
तुरीयः ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः । वैश्ये अष्टम-अंशः वृत्त-स्थे शूद्रे ज्ञेयः तु षोडशः ॥ ११।१२६॥
turīyaḥ brahmahatyāyāḥ kṣatriyasya vadhe smṛtaḥ . vaiśye aṣṭama-aṃśaḥ vṛtta-sthe śūdre jñeyaḥ tu ṣoḍaśaḥ .. 11.126..
11.126. One fourth (of the penance) for the murder of a Brahmana is prescribed (as expiation) for (intentionally) killing a Kshatriya, one-eighth for killing a Vaisya; know that it is one-sixteenth for killing a virtuous Sudra.
अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः । वृषभैकसहस्रा गा दद्यात्सुचरितव्रतः ॥ ११.१२७॥
अकामतस् तु राजन्यम् विनिपात्य द्विजोत्तमः । वृषभैकसहस्राः गाः दद्यात् सु चरित-व्रतः ॥ ११।१२७॥
akāmatas tu rājanyam vinipātya dvijottamaḥ . vṛṣabhaikasahasrāḥ gāḥ dadyāt su carita-vrataḥ .. 11.127..
11.127. But if a Brahmana unintentionally kills a Kshatriya, he shall give, in order to purify himself, one thousand cows and a bull;
त्र्यब्दं चरेद्वा नियतो जटी ब्रह्महनो व्रतम् । वसन् दूरतरे ग्रामाद्वृक्षमूलनिकेतनः ॥ ११.१२८॥
त्रि-अब्दम् चरेत् वा नियतः जटी ब्रह्म-हनः व्रतम् । वसन् दूरतरे ग्रामात् वृक्ष-मूल-निकेतनः ॥ ११।१२८॥
tri-abdam caret vā niyataḥ jaṭī brahma-hanaḥ vratam . vasan dūratare grāmāt vṛkṣa-mūla-niketanaḥ .. 11.128..
11.128. Or he may perform the penance prescribed for the murderer of a Brahmana during three years, controlling himself, wearing his hair in braids, staying far away from the village, and dwelling at the root of a tree.
एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः । प्रमाप्य वैश्यं वृत्तस्थं दद्याद्वैकशतं गवाम् ॥ ११.१२९॥
एतत् एव चरेत् अब्दम् प्रायश्चित्तम् द्विजोत्तमः । प्रमाप्य वैश्यम् वृत्त-स्थम् दद्यात् वा एक-शतम् गवाम् ॥ ११।१२९॥
etat eva caret abdam prāyaścittam dvijottamaḥ . pramāpya vaiśyam vṛtta-stham dadyāt vā eka-śatam gavām .. 11.129..
11.129. A Brahmana who has slain a virtuous Vaisya, shall perform the same penance during one year, or he may give one hundred cows and one (bull).
एतदेव व्रतं कृत्स्नं षण्मासांशूद्रहा चरेत्। वृषभेकादशा वाऽपि दद्याद्विप्राय गाः सिताः ॥ ११.१३०॥
एतत् एव व्रतम् कृत्स्नम् षष्-मासान् शूद्र-हा चरेत्। वृषभ-एकादशाः वा अपि दद्यात् विप्राय गाः सिताः ॥ ११।१३०॥
etat eva vratam kṛtsnam ṣaṣ-māsān śūdra-hā caret. vṛṣabha-ekādaśāḥ vā api dadyāt viprāya gāḥ sitāḥ .. 11.130..
11.130. He who has slain a Sudra, shall perform that whole penance during six months, or he may also give ten white cows and one bull to a Brahmana.
मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च । श्वगोधौलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ ११.१३१॥
मार्जार-नकुलौ हत्वा चाषम् मण्डूकम् एव च । श्व-गोधा-औलूक-काकान् च शूद्र-हत्या-व्रतम् चरेत् ॥ ११।१३१॥
mārjāra-nakulau hatvā cāṣam maṇḍūkam eva ca . śva-godhā-aulūka-kākān ca śūdra-hatyā-vratam caret .. 11.131..
11.131. Having killed a cat, an ichneumon, a blue jay, a frog, a dog, an iguana, an owl, or a crow, he shall perform the penance for the murder of a Sudra;
पयः पिबेत्त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् । उपस्पृशेत्स्रवन्त्यां वा सूक्तं वाऽब्। दैवतं जपेत् ॥ ११.१३२॥
पयः पिबेत् त्रि-रात्रम् वा योजनम् वा अध्वनः व्रजेत् । उपस्पृशेत् स्रवन्त्याम् वा सूक्तम् वा अप्। दैवतम् जपेत् ॥ ११।१३२॥
payaḥ pibet tri-rātram vā yojanam vā adhvanaḥ vrajet . upaspṛśet sravantyām vā sūktam vā ap. daivatam japet .. 11.132..
11.132. Or he may drink milk during three days, or walk one hundred yoganas, or bathe in a river, or mutter the hymn addressed to the Waters.
अभ्रिं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः । पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ ११.१३३॥
अभ्रिम् कार्ष्णायसीम् दद्यात् सर्पम् हत्वा द्विजोत्तमः । पलाल-भारकम् षण्ढे सैसकम् च एक-माषकम् ॥ ११।१३३॥
abhrim kārṣṇāyasīm dadyāt sarpam hatvā dvijottamaḥ . palāla-bhārakam ṣaṇḍhe saisakam ca eka-māṣakam .. 11.133..
11.133. For killing a snake, a Brahmana shall give a spade of black iron, for a eunuch a load of straw and a masha of lead;
घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ । शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ ११.१३४॥
घृत-कुम्भम् वराहे तु तिल-द्रोणम् तु तित्तिरौ । शुके द्वि-हायनम् वत्सम् क्रौञ्चम् हत्वा त्रि-हायनम् ॥ ११।१३४॥
ghṛta-kumbham varāhe tu tila-droṇam tu tittirau . śuke dvi-hāyanam vatsam krauñcam hatvā tri-hāyanam .. 11.134..
11.134. For a boar a pot of clarified butter, for a partridge a drona of sesamum-grains, for a parrot a calf two years old, for a crane (a calf) three years old.
हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ॥ ११.१३५॥
हत्वा हंसम् बलाकाम् च बकम् बर्हिणम् एव च । वानरम् श्येन-भासौ च स्पर्शयेत् ब्राह्मणाय गाम् ॥ ११।१३५॥
hatvā haṃsam balākām ca bakam barhiṇam eva ca . vānaram śyena-bhāsau ca sparśayet brāhmaṇāya gām .. 11.135..
11.135. If he has killed a Hamsa, a Balaka, a heron, a peacock, a monkey, a falcon, or a Bhasa, he shall give a cow to a Brahmana.
वासो दद्याधयं हत्वा पञ्च नीलान् वृषान् गजम् । अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥ ११.१३६॥
वासः दद्यात् हयम् हत्वा पञ्च नीलान् वृषान् गजम् । अज-मेषौ अनड्वाहम् खरम् हत्वा एक-हायनम् ॥ ११।१३६॥
vāsaḥ dadyāt hayam hatvā pañca nīlān vṛṣān gajam . aja-meṣau anaḍvāham kharam hatvā eka-hāyanam .. 11.136..
11.136. For killing a horse, he shall give a garment, for (killing) an elephant, five black bulls, for (killing) a goat, or a sheep, a draught-ox, for killing a donkey, (a calf) one year old;
क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ ११.१३७॥
क्रव्यादान् तु मृगान् हत्वा धेनुम् दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीम् उष्ट्रम् हत्वा तु कृष्णलम् ॥ ११।१३७॥
kravyādān tu mṛgān hatvā dhenum dadyāt payasvinīm . akravyādān vatsatarīm uṣṭram hatvā tu kṛṣṇalam .. 11.137..
11.137. But for killing carnivorous wild beasts, he shall give a milch-cow, for (killing) wild beasts that are not carnivorous, a heifer, for killing a camel, one krishnala.
जीनकार्मुकबस्तावीन् पृथग्दद्याद्विशुद्धये । चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः ॥ ११.१३८॥
जीन-कार्मुक-बस्त-अवीन् पृथक् दद्यात् विशुद्धये । चतुर्णाम् अपि वर्णानाम् नारीः हत्वा अनवस्थिताः ॥ ११।१३८॥
jīna-kārmuka-basta-avīn pṛthak dadyāt viśuddhaye . caturṇām api varṇānām nārīḥ hatvā anavasthitāḥ .. 11.138..
11.138. For killing adulterous women of the four castes, he must give, in order to purify himself, respectively a leathern bag, a bow, a goat, or a sheep.
दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् । एकैकशश्चरेत्कृच्छ्रं द्विजः पापापनुत्तये ॥ ११.१३९॥
दानेन वध-निर्णेकम् सर्प-आदीनाम् अशक्नुवन् । एकैकशस् चरेत् कृच्छ्रम् द्विजः पाप-अपनुत्तये ॥ ११।१३९॥
dānena vadha-nirṇekam sarpa-ādīnām aśaknuvan . ekaikaśas caret kṛcchram dvijaḥ pāpa-apanuttaye .. 11.139..
11.139. A twice-born man, who is unable to atone by gifts for the slaughter of a serpent and the other (creatures mentioned), shall perform for each of them, a Krikkhra (penance) in order to remove his guilt.
अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे । पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ ११.१४०॥
अस्थिमताम् तु सत्त्वानाम् सहस्रस्य प्रमापणे । पूर्णे तु शूद्र-हत्या-व्रतम् चरेत् ॥ ११।१४०॥
asthimatām tu sattvānām sahasrasya pramāpaṇe . pūrṇe tu śūdra-hatyā-vratam caret .. 11.140..
11.140. But for destroying one thousand (small) animals that have bones, or a whole cart-load of boneless (animals), he shall perform the penance (prescribed) for the murder of a Sudra.
किं चिदेव तु विप्राय दद्यादस्थिमतां वधे । अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ ११.१४१॥
किम् चित् एव तु विप्राय दद्यात् अस्थिमताम् वधे । अनस्थ्नाम् च एव हिंसायाम् प्राणायामेन शुध्यति ॥ ११।१४१॥
kim cit eva tu viprāya dadyāt asthimatām vadhe . anasthnām ca eva hiṃsāyām prāṇāyāmena śudhyati .. 11.141..
11.141. But for killing (small) animals which have bones, he should give some trifle to a Brahmana; if he injures boneless (animals), he becomes pure by a suppressing his breath (pranayama).
फलदानां तु वृक्षाणां छेदने जप्यमृच्शतम् । गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ ११.१४२॥
फल-दानाम् तु वृक्षाणाम् छेदने जप्य-मृद्-शतम् । गुल्म-वल्ली-लतानाम् च पुष्पितानाम् च वीरुधाम् ॥ ११।१४२॥
phala-dānām tu vṛkṣāṇām chedane japya-mṛd-śatam . gulma-vallī-latānām ca puṣpitānām ca vīrudhām .. 11.142..
11.142. For cutting fruit-trees, shrubs, creepers, lianas, or flowering plants, one hundred Rikas must be muttered.
अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः । फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ ११.१४३॥
अन्नाद्य-जानाम् सत्त्वानाम् रस-जानाम् च सर्वशस् । फल-पुष्प-उद्भवानाम् च घृत-प्राशः विशोधनम् ॥ ११।१४३॥
annādya-jānām sattvānām rasa-jānām ca sarvaśas . phala-puṣpa-udbhavānām ca ghṛta-prāśaḥ viśodhanam .. 11.143..
11.143. (For destroying) any kind of creature, bred in food, in condiments, in fruit, or in flowers, the expiation is to eat clarified butter.
कृष्तजानामोषधीनां जातानां च स्वयं वने । वृथालम्भेऽनुगच्छेद्गां दिनमेकं पयोव्रतः ॥ ११.१४४॥
कृष्त-जानाम् ओषधीनाम् जातानाम् च स्वयम् वने । वृथा आलम्भे अनुगच्छेत् गाम् दिनम् एकम् पयोव्रतः ॥ ११।१४४॥
kṛṣta-jānām oṣadhīnām jātānām ca svayam vane . vṛthā ālambhe anugacchet gām dinam ekam payovrataḥ .. 11.144..
11.144. If a man destroys for no good purpose plants produced by cultivation, or such as spontaneously spring up in the forest, he shall attend a cow during one day, subsisting on milk alone.
एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् । ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ ११.१४५॥
एतैः व्रतैः अपोह्यम् स्यात् एनः हिंसा-समुद्भवम् । ज्ञान-अज्ञान-कृतम् कृत्स्नम् शृणुत अनाद्य-भक्षणे ॥ ११।१४५॥
etaiḥ vrataiḥ apohyam syāt enaḥ hiṃsā-samudbhavam . jñāna-ajñāna-kṛtam kṛtsnam śṛṇuta anādya-bhakṣaṇe .. 11.145..
11.145. The guilt incurred intentionally or unintentionally by injuring (created beings) can be removed by means of these penances; hear (now, how) all (sins) committed by partaking of forbidden food (or drink, can be expiated).
अज्ञानाद्वारुणीं पीत्वा संस्कारेणैव शुध्यति । मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ ११.१४६॥
अज्ञानात् वारुणीम् पीत्वा संस्कारेण एव शुध्यति । मति-पूर्वम् अनिर्देश्यम् प्राणान्तिकम् इति स्थितिः ॥ ११।१४६॥
ajñānāt vāruṇīm pītvā saṃskāreṇa eva śudhyati . mati-pūrvam anirdeśyam prāṇāntikam iti sthitiḥ .. 11.146..
11.146. He who drinks unintentionally (the spirituous liquor, called) Varuni, becomes pure by being initiated (again); (even for drinking it) intentionally (a penance) destructive to life must not be imposed; that is a settled rule.
अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा । पञ्चरात्रं पिबेत्पीत्वा शङ्खपुष्पीशृतं पयः ॥ ११.१४७॥
अपः सुरा-भाजन-स्थाः मद्य-भाण्ड-स्थिताः तथा । पञ्च-रात्रम् पिबेत् पीत्वा शङ्खपुष्पी-शृतम् पयः ॥ ११।१४७॥
apaḥ surā-bhājana-sthāḥ madya-bhāṇḍa-sthitāḥ tathā . pañca-rātram pibet pītvā śaṅkhapuṣpī-śṛtam payaḥ .. 11.147..
11.147. He who has drunk water which has stood in a vessel used for keeping (the spirituous liquor, called) Sura, or other intoxicating drinks, shall drink during five (days and) nights (nothing but) milk in which the Sankhapushpi (plant) has been boiled.
स्पृष्ट्वा दत्त्वा च मदिरां विधिवत्प्रतिगृह्य च । शूद्रोच्छिष्टाश्च पीत्वाऽपः कुशवारि पिबेत्त्र्यहम् ॥ ११.१४८॥
स्पृष्ट्वा दत्त्वा च मदिराम् विधिवत् प्रतिगृह्य च । शूद्र-उच्छिष्टाः च पीत्वा अपः कुशवारि पिबेत् त्रि-अहम् ॥ ११।१४८॥
spṛṣṭvā dattvā ca madirām vidhivat pratigṛhya ca . śūdra-ucchiṣṭāḥ ca pītvā apaḥ kuśavāri pibet tri-aham .. 11.148..
11.148. He who has touched spirituous liquor, has given it away, or received it in accordance with the rule, or has drunk water left by a Sudra, shall drink during three days water in which Kusa-grass has been boiled.
ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः । प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति ॥ ११.१४९॥
ब्राह्मणः तु सुरा-पस्य गन्धम् आघ्राय सोमपः । प्राणान् अप्सु त्रिस् आयम्य घृतम् प्राश्य विशुध्यति ॥ ११।१४९॥
brāhmaṇaḥ tu surā-pasya gandham āghrāya somapaḥ . prāṇān apsu tris āyamya ghṛtam prāśya viśudhyati .. 11.149..
11.149. But when a Brahmana who has partaken of Soma-juice, has smelt the odour exhaled by a drinker of Sura, he becomes pure by thrice suppressing his breath in water, and eating clarified butter.
अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ ११.१५०॥
अज्ञानात् प्राश्य विष्-मूत्रम् सुरा-संस्पृष्टम् एव च । पुनर् संस्कारम् अर्हन्ति त्रयः वर्णाः द्विजातयः ॥ ११।१५०॥
ajñānāt prāśya viṣ-mūtram surā-saṃspṛṣṭam eva ca . punar saṃskāram arhanti trayaḥ varṇāḥ dvijātayaḥ .. 11.150..
11.150. (Men of) the three twice-born castes who have unintentionally swallowed ordure or urine, or anything that has touched Sura, must be initiated again.
वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । भैक्ष्यचर्या निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ ११.१५१॥
वपनम् मेखला दण्डः भैक्ष-चर्या व्रतानि च । भैक्ष्य-चर्याः निवर्तन्ते द्विजातीनाम् पुनःसंस्कार-कर्मणि ॥ ११।१५१॥
vapanam mekhalā daṇḍaḥ bhaikṣa-caryā vratāni ca . bhaikṣya-caryāḥ nivartante dvijātīnām punaḥsaṃskāra-karmaṇi .. 11.151..
11.151. The tonsure, (wearing) the sacred girdle, (carrying) a staff, going to beg, and the vows (incumbent on a student), are omitted on the second initiation of twice-born men.
अभोज्यानां तु भुक्त्वाऽन्नं स्त्रीशूद्रोच्छिष्टमेव च । जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ ११.१५२॥
अभोज्यानाम् तु भुक्त्वा अन्नम् स्त्री-शूद्र-उच्छिष्टम् एव च । जग्ध्वा मांसम् अभक्ष्यम् च सप्त-रात्रम् यवान् पिबेत् ॥ ११।१५२॥
abhojyānām tu bhuktvā annam strī-śūdra-ucchiṣṭam eva ca . jagdhvā māṃsam abhakṣyam ca sapta-rātram yavān pibet .. 11.152..
11.152. But he who has eaten the food of men, whose food must not be eaten, or the leavings of women and Sudras, or forbidden flesh, shall drink barley (-gruel) during seven (days and) nights.
शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः । तावद्भवत्यप्रयतो यावत्तन्न व्रजत्यधः ॥ ११.१५३॥
शुक्तानि च कषायान् च पीत्वा मेध्यानि अपि द्विजः । तावत् भवति अप्रयतः यावत् तत् न व्रजति अधस् ॥ ११।१५३॥
śuktāni ca kaṣāyān ca pītvā medhyāni api dvijaḥ . tāvat bhavati aprayataḥ yāvat tat na vrajati adhas .. 11.153..
11.153. A twice-born man who has drunk (fluids that have turned) sour, or astringent decoctions, becomes, though (these substances may) not (be specially) forbidden, impure until they have been digested.
विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ ११.१५४॥
विड्वराह-खर-उष्ट्राणाम् गोमायोः कपि-काकयोः । प्राश्य मूत्र-पुरीषाणि द्विजः चान्द्रायणम् चरेत् ॥ ११।१५४॥
viḍvarāha-khara-uṣṭrāṇām gomāyoḥ kapi-kākayoḥ . prāśya mūtra-purīṣāṇi dvijaḥ cāndrāyaṇam caret .. 11.154..
11.154. A twice-born man, who has swallowed the urine or ordure of a village pig, of a donkey, of a camel, of a jackal, of a monkey, or of a crow, shall perform a lunar penance.
शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ॥ ११.१५५॥
शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च । अज्ञातम् च एव सूना-स्थम् एतत् एव व्रतम् चरेत् ॥ ११।१५५॥
śuṣkāṇi bhuktvā māṃsāni bhaumāni kavakāni ca . ajñātam ca eva sūnā-stham etat eva vratam caret .. 11.155..
11.155. He who has eaten dried meat, mushrooms growing on the ground, or (meat, the nature of) which is unknown, (or) such as had been kept in a slaughter-house, shall perform the same penance.
क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे । नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ ११.१५६॥
क्रव्याद-सूकर-उष्ट्राणाम् कुक्कुटानाम् च भक्षणे । नरकाक-खराणाम् च तप्तकृच्छ्रम् विशोधनम् ॥ ११।१५६॥
kravyāda-sūkara-uṣṭrāṇām kukkuṭānām ca bhakṣaṇe . narakāka-kharāṇām ca taptakṛcchram viśodhanam .. 11.156..
11.156. The atonement for partaking of (the meat of) carnivorous animals, of pigs, of camels, of cocks, of crows, of donkeys, and of human flesh, is a Tapta Krikkhra (penance).
मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः । स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ ११.१५७॥
मासिकान्नम् तु यः अश्नीयात् असमावर्तकः द्विजः । स त्रीणि अहानि उपवसेत् एक-अहम् च उदके वसेत् ॥ ११।१५७॥
māsikānnam tu yaḥ aśnīyāt asamāvartakaḥ dvijaḥ . sa trīṇi ahāni upavaset eka-aham ca udake vaset .. 11.157..
11.157. If a twice-born man, who has not returned (home from his teacher’s house), eats food, given at a monthly (Sraddha,) he shall fast during three days and pass one day (standing) in water.
व्रतचारी तु योऽश्नीयान् मधु मांसं कथं चन । स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ ११.१५८॥
व्रत-चारी तु यः अश्नीयात् मधु मांसम् कथम् चन । स कृत्वा प्राकृतम् कृच्छ्रम् व्रत-शेषम् समापयेत् ॥ ११।१५८॥
vrata-cārī tu yaḥ aśnīyāt madhu māṃsam katham cana . sa kṛtvā prākṛtam kṛcchram vrata-śeṣam samāpayet .. 11.158..
11.158. But a student who on any occasion eats honey or meat, shall perform an ordinary Krikkhra (penance), and afterwards complete his vow (of studentship).
बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च । केशकीटावपन्नं च पिबेद्ब्रह्मसुवर्चलाम् ॥ ११.१५९॥
बिडाल-काक-आखु-उच्छिष्टम् जग्ध्वा श्व-नकुलस्य च । केश-कीट-अवपन्नम् च पिबेत् ब्रह्मसुवर्चलाम् ॥ ११।१५९॥
biḍāla-kāka-ākhu-ucchiṣṭam jagdhvā śva-nakulasya ca . keśa-kīṭa-avapannam ca pibet brahmasuvarcalām .. 11.159..
11.159. He who eats what is left by a cat, by a crow, by a mouse (or rat), by a dog, or by an ichneumon, or (food) into which a hair or an insect has fallen, shall drink (a decoction of) the Brahmasuvarkala (plant).
अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता । अज्ञानभुक्तं तूत्तार्यं शोध्यं वाऽप्याशु शोधनैः ॥ ११.१६०॥
अभोज्यम् अन्नम् न अत्तव्यम् आत्मनः शुद्धिम् इच्छता । अज्ञान-भुक्तम् तु उत्तार्यम् शोध्यम् वा अपि आशु शोधनैः ॥ ११।१६०॥
abhojyam annam na attavyam ātmanaḥ śuddhim icchatā . ajñāna-bhuktam tu uttāryam śodhyam vā api āśu śodhanaiḥ .. 11.160..
11.160. He who desires to be pure, must not eat forbidden food, and must vomit up such as he has eaten unintentionally, or quickly atone for it by (various) means of purification.
एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः । स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ ११.१६१॥
एषः अनाद्य-अदनस्य उक्तः व्रतानाम् विविधः विधिः । स्तेय-दोष-अपहर्तॄणाम् व्रतानाम् श्रूयताम् विधिः ॥ ११।१६१॥
eṣaḥ anādya-adanasya uktaḥ vratānām vividhaḥ vidhiḥ . steya-doṣa-apahartṝṇām vratānām śrūyatām vidhiḥ .. 11.161..
11.161. The various rules respecting penances for eating forbidden food have been thus declared; hear now the law of those penances which remove the guilt of theft.
धान्यान्नधनचौर्याणि कृत्वा कामाद्द्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥ ११.१६२॥
धान्य-अन्न-धन-चौर्याणि कृत्वा कामात् द्विजोत्तमः । स्व-जातीय-गृहात् एव कृच्छ्र-अब्देन विशुध्यति ॥ ११।१६२॥
dhānya-anna-dhana-cauryāṇi kṛtvā kāmāt dvijottamaḥ . sva-jātīya-gṛhāt eva kṛcchra-abdena viśudhyati .. 11.162..
11.162. The chief of the twice-born, having voluntarily stolen (valuable) property, grain, or cooked food, from the house of a caste-fellow, is purified by performing Krikkhra (penances) during a whole year.
मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च । कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् ॥ ११.१६३॥
मनुष्याणाम् तु हरणे स्त्रीणाम् क्षेत्रगृहस्य च । कूप-वापी-जलानाम् च शुद्धिः चान्द्रायणम् स्मृतम् ॥ ११।१६३॥
manuṣyāṇām tu haraṇe strīṇām kṣetragṛhasya ca . kūpa-vāpī-jalānām ca śuddhiḥ cāndrāyaṇam smṛtam .. 11.163..
11.163. The lunar penance has been declared to be the expiation for stealing men and women, and (for wrongfully appropriating) a field, a house, or the water of wells and cisterns.
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनि । चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ११.१६४॥
द्रव्याणाम् अल्प-साराणाम् स्तेयम् कृत्वा अन्य-वेश्मनि । चरेत् सांतपनम् कृच्छ्रम् तत् निर्याति आत्म-शुद्धये ॥ ११।१६४॥
dravyāṇām alpa-sārāṇām steyam kṛtvā anya-veśmani . caret sāṃtapanam kṛcchram tat niryāti ātma-śuddhaye .. 11.164..
11.164. He who has stolen objects of small value from the house of another man, shall, after restoring the (stolen article), perform a Samtapana Krikkhra for his purification.
भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ११.१६५॥
भक्ष्य-भोज्य-अपहरणे यान-शय्या-आसनस्य च । पुष्प-मूल-फलानाम् च पञ्चगव्यम् विशोधनम् ॥ ११।१६५॥
bhakṣya-bhojya-apaharaṇe yāna-śayyā-āsanasya ca . puṣpa-mūla-phalānām ca pañcagavyam viśodhanam .. 11.165..
11.165. (To swallow) the five products of the cow (pankagavya) is the atonement for stealing eatables of various kinds, a vehicle, a bed, a seat, flowers, roots, or fruit.
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चैलचर्मामिक्षाणां च त्रिरात्रं स्यादभोजनम् ॥ ११.१६६॥
तृण-काष्ठ-द्रुमाणाम् च शुष्क-अन्नस्य गुडस्य च । चैल-चर्म-आमिक्षाणाम् च त्रि-रात्रम् स्यात् अभोजनम् ॥ ११।१६६॥
tṛṇa-kāṣṭha-drumāṇām ca śuṣka-annasya guḍasya ca . caila-carma-āmikṣāṇām ca tri-rātram syāt abhojanam .. 11.166..
11.166. Fasting during three (days and) nights shall be (the penance for stealing) grass, wood, trees, dry food, molasses, clothes, leather, and meat.
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयः। कांस्यौपलानां च द्वादशाहं कणान्नता ॥ ११.१६७॥
मणि-मुक्ता-प्रवालानाम् ताम्रस्य रजतस्य च । अयः। कांस्य-औपलानाम् च द्वादश-अहम् कण-अन्न-ता ॥ ११।१६७॥
maṇi-muktā-pravālānām tāmrasya rajatasya ca . ayaḥ. kāṃsya-aupalānām ca dvādaśa-aham kaṇa-anna-tā .. 11.167..
11.167. To subsist during twelve days on (uncooked) grains (is the penance for stealing) gems, pearls, coral, copper, silver, iron, brass, or stone.
कार्पासकीटजोर्णानां द्वेशफेकखुरस्य च। पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥ ११.१६८॥
कार्पास-कीटज-ऊर्णानाम् द्वेश-फेक-खुरस्य च। पक्षि-गन्ध-ओषधीनाम् च रज्ज्वाः च एव त्रि-अहम् पयः ॥ ११।१६८॥
kārpāsa-kīṭaja-ūrṇānām dveśa-pheka-khurasya ca. pakṣi-gandha-oṣadhīnām ca rajjvāḥ ca eva tri-aham payaḥ .. 11.168..
11.168. (For stealing) cotton, silk, wool, an animal with cloven hoofs, or one with uncloven hoofs, a bird, perfumes, medicinal herbs, or a rope (the penance is to subsist) during three days (on) milk.
एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः । अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ ११.१६९॥
एतैः व्रतैः अपोहेत पापम् स्तेय-कृतम् द्विजः । अगम्यागमनीयम् तु व्रतैः एभिः अपानुदेत् ॥ ११।१६९॥
etaiḥ vrataiḥ apoheta pāpam steya-kṛtam dvijaḥ . agamyāgamanīyam tu vrataiḥ ebhiḥ apānudet .. 11.169..
11.169. By means of these penances, a twice-born man may remove the guilt of theft; but the guilt of approaching women who ought not to be approached (agamya), he may expiate by (the following) penances.
गुरुतल्पव्रतं कुर्याद्रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ ११.१७०॥
गुरुतल्प-व्रतम् कुर्यात् रेतः सिक्त्वा स्वयोनिषु । सख्युः पुत्रस्य च स्त्रीषु कुमारीषु अन्त्यजासु च ॥ ११।१७०॥
gurutalpa-vratam kuryāt retaḥ siktvā svayoniṣu . sakhyuḥ putrasya ca strīṣu kumārīṣu antyajāsu ca .. 11.170..
11.170. He who has had sexual intercourse with sisters by the same mother, with the wives of a friend, or of a son, with unmarried maidens, and with females of the lowest castes, shall perform the penance, prescribed for the violation of a Guru’s bed.
पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च । मातुश्च भ्रातुराप्तस्य गत्वा चान्द्रायणं चरेत् ॥ ११.१७१॥
पैतृस्वसेयीम् भगिनीम् स्वस्रीयाम् मातुः एव च । मातुः च भ्रातुः आप्तस्य गत्वा चान्द्रायणम् चरेत् ॥ ११।१७१॥
paitṛsvaseyīm bhaginīm svasrīyām mātuḥ eva ca . mātuḥ ca bhrātuḥ āptasya gatvā cāndrāyaṇam caret .. 11.171..
11.171. He who has approached the daughter of his father’s sister, (who is almost equal to) a sister, (the daughter) of his mother’s sister, or of his mother’s full brother, shall perform a lunar penance.
एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत्तु बुद्धिमान् । ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ॥ ११.१७२॥
एताः तिस्रः तु भार्या-अर्थे न उपयच्छेत् तु बुद्धिमान् । ज्ञाति-त्वेन अनुपेयाः ताः पतति हि उपयन् अधस् ॥ ११।१७२॥
etāḥ tisraḥ tu bhāryā-arthe na upayacchet tu buddhimān . jñāti-tvena anupeyāḥ tāḥ patati hi upayan adhas .. 11.172..
11.172. A wise man should not take as his wife any of these three; they must not be wedded because they are (Sapinda-) relatives, he who marries (one of them), sinks low.
अमानुषीषू पुरुष उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ ११.१७३॥
अमानुषीषु पुरुषः उदक्यायाम् अयोनिषु । रेतः सिक्त्वा जले च एव कृच्छ्रम् सांतपनम् चरेत् ॥ ११।१७३॥
amānuṣīṣu puruṣaḥ udakyāyām ayoniṣu . retaḥ siktvā jale ca eva kṛcchram sāṃtapanam caret .. 11.173..
11.173. A man who has committed a bestial crime, or an unnatural crime with a female, or has had intercourse in water, or with a menstruating woman, shall perform a Samtapana Krikkhra.
मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः । गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ ११.१७४॥
मैथुनम् तु समासेव्य पुंसि योषिति वा द्विजः । गोयाने अप्सु दिवा च एव स वासाः स्नानम् आचरेत् ॥ ११।१७४॥
maithunam tu samāsevya puṃsi yoṣiti vā dvijaḥ . goyāne apsu divā ca eva sa vāsāḥ snānam ācaret .. 11.174..
11.174. A twice-born man who commits an unnatural offence with a male, or has intercourse with a female in a cart drawn by oxen, in water, or in the day-time, shall bathe, dressed in his clothes.
चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ॥ ११.१७५॥
चण्डाल-अन्त्य-स्त्रियः गत्वा भुक्त्वा च प्रतिगृह्य च । पतति अज्ञानतः विप्रः ज्ञानात् साम्यम् तु गच्छति ॥ ११।१७५॥
caṇḍāla-antya-striyaḥ gatvā bhuktvā ca pratigṛhya ca . patati ajñānataḥ vipraḥ jñānāt sāmyam tu gacchati .. 11.175..
11.175. A Brahmana who unintentionally approaches a woman of the Kandala or of (any other) very low caste, who eats (the food of such persons) and accepts (presents from them) becomes an outcast; but (if he does it) intentionally, he becomes their equal.
विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि । यत्पुंसः परदारेषु तच्चैनां चारयेद्व्रतम् ॥ ११.१७६॥
विप्रदुष्टाम् स्त्रियम् भर्ता निरुन्ध्यात् एक-वेश्मनि । यत् पुंसः परदारेषु तत् च एनाम् चारयेत् व्रतम् ॥ ११।१७६॥
vipraduṣṭām striyam bhartā nirundhyāt eka-veśmani . yat puṃsaḥ paradāreṣu tat ca enām cārayet vratam .. 11.176..
11.176. An exceedingly corrupt wife let her husband confine to one apartment, and compel her to perform the penance which is prescribed for males in cases of adultery.
सा चेत्पुनः प्रदुष्येत्तु सदृशेनोपयन्त्रिता । कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥ ११.१७७॥
सा चेद् पुनर् प्रदुष्येत् तु सदृशेन उपयन्त्रिता । कृच्छ्रम् चान्द्रायणम् च एव तत् अस्याः पावनम् स्मृतम् ॥ ११।१७७॥
sā ced punar praduṣyet tu sadṛśena upayantritā . kṛcchram cāndrāyaṇam ca eva tat asyāḥ pāvanam smṛtam .. 11.177..
11.177. If, being solicited by a man (of) equal (caste), she (afterwards) is again unfaithful, then a Krikkhra and a lunar penance are prescribed as the means of purifying her.
यत्करोत्येकरात्रेण वृषलीसेवनाद्द्विजः । तद्भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ ११.१७८॥
यत् करोति एक-रात्रेण वृषली-सेवनात् द्विजः । तत् भैक्ष-भुज् जपन् नित्यम् त्रिभिः वर्षैः व्यपोहति ॥ ११।१७८॥
yat karoti eka-rātreṇa vṛṣalī-sevanāt dvijaḥ . tat bhaikṣa-bhuj japan nityam tribhiḥ varṣaiḥ vyapohati .. 11.178..
11.178. The sin which a twice-born man commits by dallying one night with a Vrishali, he removes in three years, by subsisting on alms and daily muttering (sacred texts).
एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः । पतितैः सम्प्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ ११.१७९॥
एषा पाप-कृताम् उक्ता चतुर्णाम् अपि निष्कृतिः । पतितैः सम्प्रयुक्तानाम् इमाः शृणुत निष्कृतीः ॥ ११।१७९॥
eṣā pāpa-kṛtām uktā caturṇām api niṣkṛtiḥ . patitaiḥ samprayuktānām imāḥ śṛṇuta niṣkṛtīḥ .. 11.179..
11.179. The atonement (to be performed) by sinners (of) four (kinds) even, has been thus declared; hear now the penances for those who have intercourse with outcasts.
संवत्सरेण पतति पतितेन सहाचरन् । याजनाध्यापनाद्यौनान्न तु यानासनाशनात् ॥ ११.१८०॥
संवत्सरेण पतति पतितेन सह आचरन् । याजन-अध्यापनात् यौनात् न तु यान-आसन-अशनात् ॥ ११।१८०॥
saṃvatsareṇa patati patitena saha ācaran . yājana-adhyāpanāt yaunāt na tu yāna-āsana-aśanāt .. 11.180..
11.180. He who associates with an outcast, himself becomes an outcast after a year, not by sacrificing for him, teaching him, or forming a matrimonial alliance with him, but by using the same carriage or seat, or by eating with him.
यो येन पतितेनैषां संसर्गं याति मानवः । स तस्यैव व्रतं कुर्यात्तत्संसर्गविशुद्धये ॥ ११.१८१॥
यः येन पतितेन एषाम् संसर्गम् याति मानवः । स तस्य एव व्रतम् कुर्यात् तद्-संसर्ग-विशुद्धये ॥ ११।१८१॥
yaḥ yena patitena eṣām saṃsargam yāti mānavaḥ . sa tasya eva vratam kuryāt tad-saṃsarga-viśuddhaye .. 11.181..
11.181. He who associates with any one of those outcasts, must perform, in order to atone for (such) intercourse, the penance prescribed for that (sinner).
पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ ॥ ११.१८२॥
पतितस्य उदकम् कार्यम् सपिण्डैः बान्धवैः बहिस् । निन्दिते अहनि सायाह्ने ज्ञातिः त्विज् गुरु-संनिधौ ॥ ११।१८२॥
patitasya udakam kāryam sapiṇḍaiḥ bāndhavaiḥ bahis . nindite ahani sāyāhne jñātiḥ tvij guru-saṃnidhau .. 11.182..
11.182. The Sapindas and Samanodakas of an outcast must offer (a libation of) water (to him, as if he were dead), outside (the village), on an inauspicious day, in the evening and in the presence of the relatives, officiating priests, and teachers.
दासी घटमपां पूर्णं पर्यस्येत्प्रेतवत्पदा । अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ ११.१८३॥
दासी घटम् अपाम् पूर्णम् पर्यस्येत् प्रेत-वत् पदा । अहर्-रात्रम् उपासीरन् अशौचम् बान्धवैः सह ॥ ११।१८३॥
dāsī ghaṭam apām pūrṇam paryasyet preta-vat padā . ahar-rātram upāsīran aśaucam bāndhavaiḥ saha .. 11.183..
11.183. A female slave shall upset with her foot a pot filled with water, as if it were for a dead person; (his Sapindas) as well as the Samanodakas shall be impure for a day and a night;
निवर्तेरंश्च तस्मात्तु सम्भाषणसहासने । दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ ११.१८४॥
निवर्तेरन् च तस्मात् तु सम्भाषण-सहासने । दायाद्यस्य प्रदानम् च यात्रा च एव हि लौकिकी ॥ ११।१८४॥
nivarteran ca tasmāt tu sambhāṣaṇa-sahāsane . dāyādyasya pradānam ca yātrā ca eva hi laukikī .. 11.184..
11.184. But thenceforward it shall be forbidden to converse with him, to sit with him, to give him a share of the inheritance, and to hold with him such intercourse as is usual among men;
ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद्वसु । ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ॥ ११.१८५॥
ज्येष्ठ-ता च निवर्तेत ज्येष्ठ-अवाप्यम् च यत् वसु । ज्येष्ठ-अंशम् प्राप्नुयात् च अस्य यवीयान् गुणतः अधिकः ॥ ११।१८५॥
jyeṣṭha-tā ca nivarteta jyeṣṭha-avāpyam ca yat vasu . jyeṣṭha-aṃśam prāpnuyāt ca asya yavīyān guṇataḥ adhikaḥ .. 11.185..
11.185. And (if he be the eldest) his right of primogeniture shall be withheld and the additional share, due to the eldest son; and his stead a younger brother, excelling in virtue, shall obtain the share of the eldest.
प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ ११.१८६॥
प्रायश्चित्ते तु चरिते पूर्णकुम्भम् अपाम् नवम् । तेन एव सार्धम् प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ ११।१८६॥
prāyaścitte tu carite pūrṇakumbham apām navam . tena eva sārdham prāsyeyuḥ snātvā puṇye jalāśaye .. 11.186..
11.186. But when he has performed his penance, they shall bathe with him in a holy pool and throw down a new pot, filled with water.
स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् । सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ ११.१८७॥
स तु अप्सु तम् घटम् प्रास्य प्रविश्य भवनम् स्वकम् । सर्वाणि ज्ञाति-कार्याणि यथापूर्वम् समाचरेत् ॥ ११।१८७॥
sa tu apsu tam ghaṭam prāsya praviśya bhavanam svakam . sarvāṇi jñāti-kāryāṇi yathāpūrvam samācaret .. 11.187..
11.187. But he shall throw that pot into water, enter his house and perform, as before, all the duties incumbent on a relative.
एतमेव विधिं कुर्याद्योषित्सु पतितास्वपि । वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ ११.१८८॥
एतम् एव विधिम् कुर्यात् योषित्सु पतितासु अपि । वस्त्र-अन्न-पानम् देयम् तु वसेयुः च गृह-अन्तिके ॥ ११।१८८॥
etam eva vidhim kuryāt yoṣitsu patitāsu api . vastra-anna-pānam deyam tu vaseyuḥ ca gṛha-antike .. 11.188..
11.188. Let him follow the same rule in the case of female outcasts; but clothes, food, and drink shall be given to them, and they shall live close to the (family-) house.
एनस्विभिरनिर्णिक्तैर्नार्थं किं चित्सहाचरेत् । कृतनिर्णेजनांश्चैतान् न जुगुप्सेत कर्हि चित् ॥ ११.१८९॥
एनस्विभिः अ निर्णिक्तैः न अर्थम् किम् चित् सह आचरेत् । कृत-निर्णेजनान् च एतान् न जुगुप्सेत कर्हि चित् ॥ ११।१८९॥
enasvibhiḥ a nirṇiktaiḥ na artham kim cit saha ācaret . kṛta-nirṇejanān ca etān na jugupseta karhi cit .. 11.189..
11.189. Let him not transact any business with unpurified sinners; but let him in no way reproach those who have made atonement.
बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः । शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ ११.१९०॥
बाल-घ्नान् च कृतघ्नान् च विशुद्धान् अपि धर्मतः । शरण-आगत-हन्तॄन् च स्त्री-हन्तॄन् च न संवसेत् ॥ ११।१९०॥
bāla-ghnān ca kṛtaghnān ca viśuddhān api dharmataḥ . śaraṇa-āgata-hantṝn ca strī-hantṝn ca na saṃvaset .. 11.190..
11.190. Let him not dwell together with the murderers of children, with those who have returned evil for good, and with the slayers of suppliants for protection or of women, though they may have been purified according to the sacred law.
येषां द्विजानां सावित्री नानूच्येत यथाविधि । तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्योपनाययेत् ॥ ११.१९१॥
येषाम् द्विजानाम् सावित्री न अनूच्येत यथाविधि । तान् चारयित्वा त्रीन् कृच्छ्रान् यथाविध्य उपनाययेत् ॥ ११।१९१॥
yeṣām dvijānām sāvitrī na anūcyeta yathāvidhi . tān cārayitvā trīn kṛcchrān yathāvidhya upanāyayet .. 11.191..
11.191. Those twice-born men who may not have been taught the Savitri (at the time) prescribed by the rule, he shall cause to perform three Krikkhra (penances) and afterwards initiate them in accordance with the law.
प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः । ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ ११.१९२॥
प्रायश्चित्तम् चिकीर्षन्ति विकर्म-स्थाः तु ये द्विजाः । ब्रह्मणा च परित्यक्ताः तेषाम् अपि एतत् आदिशेत् ॥ ११।१९२॥
prāyaścittam cikīrṣanti vikarma-sthāḥ tu ye dvijāḥ . brahmaṇā ca parityaktāḥ teṣām api etat ādiśet .. 11.192..
11.192. Let him prescribe the same (expiation) when twice-born men, who follow forbidden occupations or have neglected (to learn) the Veda, desire to perform a penance.
यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ ११.१९३॥
यत् गर्हितेन अर्जयन्ति कर्मणा ब्राह्मणाः धनम् । तस्य उत्सर्गेण शुध्यन्ति जप्येन तपसा एव च ॥ ११।१९३॥
yat garhitena arjayanti karmaṇā brāhmaṇāḥ dhanam . tasya utsargeṇa śudhyanti japyena tapasā eva ca .. 11.193..
11.193. If Brahmanas acquire property by a reprehensible action, they become pure by relinquishing it, muttering prayers, and (performing) austerities.
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ ११.१९४॥
जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासम् गोष्ठे पयः पीत्वा मुच्यते असत्-प्रतिग्रहात् ॥ ११।१९४॥
japitvā trīṇi sāvitryāḥ sahasrāṇi samāhitaḥ . māsam goṣṭhe payaḥ pītvā mucyate asat-pratigrahāt .. 11.194..
11.194. By muttering with a concentrated mind the Savitri three thousand times, (dwelling) for a month in a cow-house, (and) subsisting on milk, (a man) is freed from (the guilt of) accepting presents from a wicked man.
उपवासकृशं तं तु गोव्रजात्पुनरागतम् । प्रणतं प्रति पृच्छेयुः साम्यं सौम्यैच्छसीति किम् ॥ ११.१९५॥
उपवास-कृशम् तम् तु गोव्रजात् पुनर् आगतम् । प्रणतम् प्रति पृच्छेयुः साम्यम् सौम्य एच्छसि इति किम् ॥ ११।१९५॥
upavāsa-kṛśam tam tu govrajāt punar āgatam . praṇatam prati pṛccheyuḥ sāmyam saumya ecchasi iti kim .. 11.195..
11.195. But when he returns from the cow-house, emaciated with his fast, and reverently salutes, (the Brahmanas) shall ask him, ’Friend, dost thou desire to become our equal?’
सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ ११.१९६॥
सत्यम् उक्त्वा तु विप्रेषु विकिरेत् यवसम् गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युः तस्य परिग्रहम् ॥ ११।१९६॥
satyam uktvā tu vipreṣu vikiret yavasam gavām . gobhiḥ pravartite tīrthe kuryuḥ tasya parigraham .. 11.196..
11.196. If he answers to the Brahmanas, ’Forsooth, (I will not offend again), ’he shall scatter (some) grass for the cows; if the cows hallow that place (by eating the grass) the (Brahmana) shall re -admit him (into their community).
व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ ११.१९७॥
व्रात्यानाम् याजनम् कृत्वा परेषाम् अन्त्यकर्म च । अभिचारम् अहीनम् च त्रिभिः कृच्छ्रैः व्यपोहति ॥ ११।१९७॥
vrātyānām yājanam kṛtvā pareṣām antyakarma ca . abhicāram ahīnam ca tribhiḥ kṛcchraiḥ vyapohati .. 11.197..
11.197. He who has sacrificed for Vratyas, or has performed the obsequies of strangers, or a magic sacrifice (intended to destroy life) or an Ahina sacrifice, removes (his guilt) by three Krikkhra (penances).
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः । संवत्सरं यवाहारस्तत्पापमपसेधति ॥ ११.१९८॥
शरण-आगतम् परित्यज्य वेदम् विप्लाव्य च द्विजः । संवत्सरम् यव-आहारः तत् पापम् अपसेधति ॥ ११।१९८॥
śaraṇa-āgatam parityajya vedam viplāvya ca dvijaḥ . saṃvatsaram yava-āhāraḥ tat pāpam apasedhati .. 11.198..
11.198. A twice-born man who has cast off a suppliant for protection, or has (improperly) divulged the Veda, atones for his offence, if he subsists during a year on barley.
श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥ ११.१९९॥
श्व-शृगाल-खरैः दष्टः ग्राम्यैः क्रव्याद्भिः एव च । नर-अश्व-उष्ट्र-वराहैः च प्राणायामेन शुध्यति ॥ ११।१९९॥
śva-śṛgāla-kharaiḥ daṣṭaḥ grāmyaiḥ kravyādbhiḥ eva ca . nara-aśva-uṣṭra-varāhaiḥ ca prāṇāyāmena śudhyati .. 11.199..
11.199. He who has been bitten by a dog, a jackal, or a donkey, by a tame carnivorous animal, by a man, a horse, a camel, or a (village-) pig, becomes pure by suppressing his breath (Pranayama).
षष्ठान्नकालता मासं संहिताजप एव वा । होमाश्च शाकला नित्यमपाङ्क्त्यानां विशोधनम् ॥ ११.२००॥
षष्ठ-अन्न-कालता मासम् संहिता-जपः एव वा । होमाः च शाकलाः नित्यम् अपाङ्क्त्यानाम् विशोधनम् ॥ ११।२००॥
ṣaṣṭha-anna-kālatā māsam saṃhitā-japaḥ eva vā . homāḥ ca śākalāḥ nityam apāṅktyānām viśodhanam .. 11.200..
11.200. To eat during a month at each sixth mealtime (only), to recite the Samhita (of a Veda), and (to perform) daily the Sakala oblations, are the means of purifying those excluded from society at repasts (Apanktya).
उष्ट्रयानं समारुह्य खरयानं तु कामतः । स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ ११.२०१॥
उष्ट्र-यानम् समारुह्य खर-यानम् तु कामतः । स्नात्वा तु विप्रः दिग्वासाः प्राणायामेन शुध्यति ॥ ११।२०१॥
uṣṭra-yānam samāruhya khara-yānam tu kāmataḥ . snātvā tu vipraḥ digvāsāḥ prāṇāyāmena śudhyati .. 11.201..
11.201. A Brahmana who voluntarily rode in a carriage drawn by camels or by asses, and he who bathed naked, become pure by suppressing his breath (Pranayama).
विनाऽद्भिरप्सु वाऽप्यार्तः शारीरं संनिषेव्य च । सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥ ११.२०२॥
विना अद्भिः अप्सु वा अपि आर्तः शारीरम् संनिषेव्य च । स चैलः बहिस् आप्लुत्य गाम् आलभ्य विशुध्यति ॥ ११।२०२॥
vinā adbhiḥ apsu vā api ārtaḥ śārīram saṃniṣevya ca . sa cailaḥ bahis āplutya gām ālabhya viśudhyati .. 11.202..
11.202. He who has relieved the necessities of nature, being greatly pressed, either without (using) water or in water, becomes pure by bathing outside (the village) in his clothes and by touching a cow.
वेदोदितानां नित्यानां कर्मणां समतिक्रमे । स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ ११.२०३॥
वेद-उदितानाम् नित्यानाम् कर्मणाम् समतिक्रमे । स्नातक-व्रत-लोपे च प्रायश्चित्तम् अभोजनम् ॥ ११।२०३॥
veda-uditānām nityānām karmaṇām samatikrame . snātaka-vrata-lope ca prāyaścittam abhojanam .. 11.203..
11.203. Fasting is the penance for omitting the daily rites prescribed by the Veda and for neglecting the special duties of a Snataka.
हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । स्नात्वाऽनश्नन्नहः शेषमभिवाद्य प्रसादयेत् ॥ ११.२०४॥
हुङ्कारम् ब्राह्मणस्य उक्त्वा त्वङ्कारम् च गरीयसः । स्नात्वा अन् अश्नन् अहर् शेषम् अभिवाद्य प्रसादयेत् ॥ ११।२०४॥
huṅkāram brāhmaṇasya uktvā tvaṅkāram ca garīyasaḥ . snātvā an aśnan ahar śeṣam abhivādya prasādayet .. 11.204..
11.204. He who has said ’Hum’ to a Brahmana, or has addressed one of his betters with ’Thou,’ shall bathe, fast during the remaining part of the day, and appease (the person offended) by a reverential salutation.
ताडयित्वा तृणेनापि कण्ठे वाऽबध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ ११.२०५॥
ताडयित्वा तृणेन अपि कण्ठे वा अ बध्य वाससा । विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ ११।२०५॥
tāḍayitvā tṛṇena api kaṇṭhe vā a badhya vāsasā . vivāde vā vinirjitya praṇipatya prasādayet .. 11.205..
11.205. He who has struck (a Brahmana) even with a blade of grass, tied him by the neck with a cloth, or conquered him in an altercation, shall appease him by a prostration.
अवगूर्य त्वब्दशतं सहस्रमभिहत्य च । जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ ११.२०६॥
अवगूर्य तु अब्द-शतम् सहस्रम् अभिहत्य च । जिघांसया ब्राह्मणस्य नरकम् प्रतिपद्यते ॥ ११।२०६॥
avagūrya tu abda-śatam sahasram abhihatya ca . jighāṃsayā brāhmaṇasya narakam pratipadyate .. 11.206..
11.206. But he who, intending to hurt a Brahmana, has threatened (him with a stick and the like) shall remain in hell during a hundred years; he who (actually) struck him, during one thousand years.
शोणितं यावतः पांसून् सङ्गृह्णाति महीतले । तावन्त्यब्दसहस्राणि तत्कर्ता नरके व्रजेत् ॥ ११.२०७॥
शोणितम् यावतः पांसून् सङ्गृह्णाति मही-तले । तावन्ति अब्द-सहस्राणि तद्-कर्ता नरके व्रजेत् ॥ ११।२०७॥
śoṇitam yāvataḥ pāṃsūn saṅgṛhṇāti mahī-tale . tāvanti abda-sahasrāṇi tad-kartā narake vrajet .. 11.207..
11.207. As many particles of dust as the blood of a Brahmana causes to coagulate, for so many thousand years shall the shedder of that (blood) remain in hell.
अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ११.२०८॥
अवगूर्य चरेत् कृच्छ्रम् अतिकृच्छ्रम् निपातने । कृच्छ्र-अतिकृच्छ्रौ कुर्वीत विप्रस्य उत्पाद्य शोणितम् ॥ ११।२०८॥
avagūrya caret kṛcchram atikṛcchram nipātane . kṛcchra-atikṛcchrau kurvīta viprasya utpādya śoṇitam .. 11.208..
11.208. For threatening a Brahmana, (the offender) shall perform a Krikkhra, for striking him an Atikrikkhra, for shedding his blood a Krikkhra and an Atikrikkhra.
अनुक्तनिष्कृतीनां तु पापानामपनुत्तये । शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ ११.२०९॥
अन् उक्त-निष्कृतीनाम् तु पापानाम् अपनुत्तये । शक्तिम् च अवेक्ष्य पापम् च प्रायश्चित्तम् प्रकल्पयेत् ॥ ११।२०९॥
an ukta-niṣkṛtīnām tu pāpānām apanuttaye . śaktim ca avekṣya pāpam ca prāyaścittam prakalpayet .. 11.209..
11.209. For the expiation of offences for which no atonement has been prescribed, let him fix a penance after considering (the offender’s) strength and the (nature of the) offence.
यैरभ्युपायैरेनांसि मानवो व्यपकर्षति । तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ ११.२१०॥
यैः अभ्युपायैः एनांसि मानवः व्यपकर्षति । तान् वः अभ्युपायान् वक्ष्यामि देव-ऋषि-पितृ-सेवितान् ॥ ११।२१०॥
yaiḥ abhyupāyaiḥ enāṃsi mānavaḥ vyapakarṣati . tān vaḥ abhyupāyān vakṣyāmi deva-ṛṣi-pitṛ-sevitān .. 11.210..
11.210. I will (now) describe to you those means, adopted by the gods, the sages, and the manes, through which a man may remove his sins.
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । त्र्यहं परं च नाश्नीयात्प्राजापत्यं चरन् द्विजः ॥ ११.२११॥
त्रि-अहम् प्रातर् त्रि-अहम् सायम् त्रि-अहम् अद्यात् अ याचितम् । त्रि-अहम् परम् च न अश्नीयात् प्राजापत्यम् चरन् द्विजः ॥ ११।२११॥
tri-aham prātar tri-aham sāyam tri-aham adyāt a yācitam . tri-aham param ca na aśnīyāt prājāpatyam caran dvijaḥ .. 11.211..
11.211. A twice-born man who performs (the Krikkhra penance), revealed by Pragapati, shall eat during three days in the morning (only), during (the next) three days in the evening (only), during the (following) three days (food given) unasked, and shall fast during another period of three days.
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥ ११.२१२॥
गो-मूत्रम् गोमयम् क्षीरम् दधि सर्पिः कुश-उदकम् । एक-रात्र-उपवासः च कृच्छ्रम् सांतपनम् स्मृतम् ॥ ११।२१२॥
go-mūtram gomayam kṣīram dadhi sarpiḥ kuśa-udakam . eka-rātra-upavāsaḥ ca kṛcchram sāṃtapanam smṛtam .. 11.212..
11.212. (Subsisting on) the urine of cows, cowdung, milk, sour milk, clarified butter, and a decoction of Kusa- grass, and fasting during one (day and) night, (that is) called a Samtapana Krikkhra.
एकैकं ग्रासमश्नीयात्त्र्यहाणि त्रीणि पूर्ववत् । त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥ ११.२१३॥
एकैकम् ग्रासम् अश्नीयात् त्रि-अहाणि त्रीणि पूर्ववत् । त्रि-अहम् च उपवसेत् अन्त्यमतिकृच्छ्रम् चरन् द्विजः ॥ ११।२१३॥
ekaikam grāsam aśnīyāt tri-ahāṇi trīṇi pūrvavat . tri-aham ca upavaset antyamatikṛcchram caran dvijaḥ .. 11.213..
11.213. A twice-born man who performs an Atikrikkhra (penance), must take his food during three periods of three days in the manner described above, (but) one mouthful only at each meal, and fast during the last three days.
तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् । प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥ ११.२१४॥
तप्तकृच्छ्रम् चरन् विप्रः जल-क्षीर-घृत-अनिलान् । प्रतित्र्यहम् पिबेत् उष्णान् सकृत् स्नायी समाहितः ॥ ११।२१४॥
taptakṛcchram caran vipraḥ jala-kṣīra-ghṛta-anilān . pratitryaham pibet uṣṇān sakṛt snāyī samāhitaḥ .. 11.214..
11.214. A Brahmana who performs a Taptakrikkhra (penance) must drink hot water, hot milk, hot clarified butter and (inhale) hot air, each during three days, and bathe once with a concentrated mind.
यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् । पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥ ११.२१५॥
यत-आत्मनः अप्रमत्तस्य द्वादश-अहम् अभोजनम् । पराकः नाम कृच्छ्रः अयम् सर्व-पाप-अपनोदनः ॥ ११।२१५॥
yata-ātmanaḥ apramattasya dvādaśa-aham abhojanam . parākaḥ nāma kṛcchraḥ ayam sarva-pāpa-apanodanaḥ .. 11.215..
11.215. A fast for twelve days by a man who controls himself and commits no mistakes, is called a Paraka Krikkhra, which removes all guilt.
एकैकं ह्रासयेत्पिण्डं कृष्णे शुक्ले च वर्धयेत् । उपस्पृशंस्त्रिषवणमेतत्चाण्ड्रायणं स्मृतम् ॥ ११.२१६॥
एकैकम् ह्रासयेत् पिण्डम् कृष्णे शुक्ले च वर्धयेत् । उपस्पृशन् त्रिषवणम् एतत् चाण्ड्रायणम् स्मृतम् ॥ ११।२१६॥
ekaikam hrāsayet piṇḍam kṛṣṇe śukle ca vardhayet . upaspṛśan triṣavaṇam etat cāṇḍrāyaṇam smṛtam .. 11.216..
11.216. If one diminishes (one’s food daily by) one mouthful during the dark (half of the month) and increases (it in the same manner) during the bright half, and bathes (daily) at the time of three libations (morning, noon, and evening), that is called a lunar penance (Kandrayana).
एतमेव विधिं कृत्स्नमाचरेद्यवमध्यमे । शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ ११.२१७॥
एतम् एव विधिम् कृत्स्नम् आचरेत् यवमध्यमे । शुक्ल-पक्ष-आदि-नियतः चरन् चान्द्रायणम् व्रतम् ॥ ११।२१७॥
etam eva vidhim kṛtsnam ācaret yavamadhyame . śukla-pakṣa-ādi-niyataḥ caran cāndrāyaṇam vratam .. 11.217..
11.217. Let him follow throughout the same rule at the (Kandrayana, called) yavamadhyama (shaped like a barley-corn), (but) let him (in that case) begin the lunar penance, (with a) controlled (mind), on the first day of the bright half (of the month).
अष्टावष्टौ समश्नीयात्पिण्डान् मध्यंदिने स्थिते । नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ ११.२१८॥
अष्टौ अष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते । नियत-आत्मा हविष्य-आशी यतिचान्द्रायणम् चरन् ॥ ११।२१८॥
aṣṭau aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite . niyata-ātmā haviṣya-āśī yaticāndrāyaṇam caran .. 11.218..
11.218. He who performs the lunar penance of ascetics, shall eat (during a month) daily at midday eight mouthfuls, controlling himself and consuming sacrificial food (only).
चतुरः प्रातरश्नीयात्पिण्डान् विप्रः समाहितः । चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ ११.२१९॥
चतुरः प्रातर् अश्नीयात् पिण्डान् विप्रः समाहितः । चतुरः अस्तम् इते सूर्ये शिशुचान्द्रायणम् स्मृतम् ॥ ११।२१९॥
caturaḥ prātar aśnīyāt piṇḍān vipraḥ samāhitaḥ . caturaḥ astam ite sūrye śiśucāndrāyaṇam smṛtam .. 11.219..
11.219. If a Brahmana, with concentrated mind, eats (during a month daily) four mouthfuls in a morning and four after sunset, (that is) called the lunar penance of children.
यथा कथं चित्पिण्डानां तिस्रोऽशीतीः समाहितः । मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ ११.२२०॥
यथा कथम् चित् पिण्डानाम् तिस्रः अशीतीः समाहितः । मासेन अश्नन् हविष्यस्य चन्द्रस्य एति सलोकताम् ॥ ११।२२०॥
yathā katham cit piṇḍānām tisraḥ aśītīḥ samāhitaḥ . māsena aśnan haviṣyasya candrasya eti salokatām .. 11.220..
11.220. He who, concentrating his mind, eats during a month in any way thrice eighty mouthfuls of sacrificial food, dwells (after death) in the world of the moon.
एतद्रुद्रास्तथाऽदित्या वसवश्चाचरन् व्रतम् । सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥ ११.२२१॥
एतत् रुद्राः तथा आदित्याः वसवः च अचरन् व्रतम् । सर्व-अकुशल-मोक्षाय मरुतः च महा-ऋषिभिः ॥ ११।२२१॥
etat rudrāḥ tathā ādityāḥ vasavaḥ ca acaran vratam . sarva-akuśala-mokṣāya marutaḥ ca mahā-ṛṣibhiḥ .. 11.221..
11.221. The Rudras, likewise the Adityas, the Vasus and the Maruts, together with the great sages, practised this (rite) in order to remove all evil.
महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् । अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ ११.२२२॥
महाव्याहृतिभिः होमः कर्तव्यः स्वयम् अन्वहम् । अहिंसा सत्यम् अक्रोधम् आर्जवम् च समाचरेत् ॥ ११।२२२॥
mahāvyāhṛtibhiḥ homaḥ kartavyaḥ svayam anvaham . ahiṃsā satyam akrodham ārjavam ca samācaret .. 11.222..
11.222. Burnt oblations, accompanied by (the recitation of) the Mahavyahritis, must daily be made (by the penitent) himself, and he must abstain from injuring (sentient creatures), speak the truth, and keep himself free from anger and from dishonesty.
त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् । स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ॥ ११.२२३॥
त्रिस् अह्नः त्रिस् निशायाम् च स वासाः जलम् आविशेत् । स्त्री-शूद्र-पतितान् च एव न अभिभाषेत कर्हि चित् ॥ ११।२२३॥
tris ahnaḥ tris niśāyām ca sa vāsāḥ jalam āviśet . strī-śūdra-patitān ca eva na abhibhāṣeta karhi cit .. 11.223..
11.223. Let him bathe three times each day and thrice each night, dressed in his clothes; let him on no account talk to women, Sudras, and outcasts.
स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा । ब्रह्मचारी व्रती च स्याद्गुरुदेवद्विजार्चकः ॥ ११.२२४॥
स्थान-आसनाभ्याम् विहरेत् अशक्तः अधस् शयीत वा । ब्रह्मचारी व्रती च स्यात् गुरु-देव-द्विज-अर्चकः ॥ ११।२२४॥
sthāna-āsanābhyām viharet aśaktaḥ adhas śayīta vā . brahmacārī vratī ca syāt guru-deva-dvija-arcakaḥ .. 11.224..
11.224. Let him pass the time standing (during the day) and sitting (during the night), or if he is unable (to do that) let him lie on the (bare) ground; let him be chaste and observe the vows (of a student) and worship his Gurus, the gods, and Brahmanas.
सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः । सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥ ११.२२५॥
सावित्रीम् च जपेत् नित्यम् पवित्राणि च शक्तितस् । सर्वेषु एव व्रतेषु एवम् प्रायश्चित्त-अर्थम् आदृतः ॥ ११।२२५॥
sāvitrīm ca japet nityam pavitrāṇi ca śaktitas . sarveṣu eva vrateṣu evam prāyaścitta-artham ādṛtaḥ .. 11.225..
11.225. Let him constantly mutter the Savitri and (other) purificatory texts according to his ability; (let him) carefully (act thus) on (the occasion of) all (other) vows (performed) by way of penance.
एतैर्द्विजातयः शोध्या व्रतैराविष्कृतेनसः । अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ ११.२२६॥
एतैः द्विजातयः शोध्याः व्रतैः आविष्कृत-एनसः । अन् आविष्कृत-पापान् तु मन्त्रैः होमैः च शोधयेत् ॥ ११।२२६॥
etaiḥ dvijātayaḥ śodhyāḥ vrataiḥ āviṣkṛta-enasaḥ . an āviṣkṛta-pāpān tu mantraiḥ homaiḥ ca śodhayet .. 11.226..
11.226. By these expiations twice-born men must be purified whose sins are known, but let him purify those whose sins are not known by (the recitation of) sacred texts and by (the performance of) burnt oblations.
ख्यापनेनानुतापेन तपसाऽध्ययनेन च । पापकृत्मुच्यते पापात्तथा दानेन चापदि ॥ ११.२२७॥
ख्यापनेन अनुतापेन तपसा अध्ययनेन च । पाप-कृत् मुच्यते पापात् तथा दानेन च आपदि ॥ ११।२२७॥
khyāpanena anutāpena tapasā adhyayanena ca . pāpa-kṛt mucyate pāpāt tathā dānena ca āpadi .. 11.227..
11.227. By confession, by repentance, by austerity, and by reciting (the Veda) a sinner is freed from guilt, and in case no other course is possible, by liberality.
यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते । तथा तथा त्वचैवाहिस्तेनाधर्मेण मुच्यते ॥ ११.२२८॥
यथा यथा नरः अधर्मम् स्वयम् कृत्वा अनुभाषते । तथा तथा त्वचा एव अहिः तेन अधर्मेण मुच्यते ॥ ११।२२८॥
yathā yathā naraḥ adharmam svayam kṛtvā anubhāṣate . tathā tathā tvacā eva ahiḥ tena adharmeṇa mucyate .. 11.228..
11.228. In proportion as a man who has done wrong, himself confesses it, even so far he is freed from guilt, as a snake from its slough.
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति । तथा तथा शरीरं तत्तेनाधर्मेण मुच्यते ॥ ११.२२९॥
यथा यथा मनः तस्य दुष्कृतम् कर्म गर्हति । तथा तथा शरीरम् तत् तेन अधर्मेण मुच्यते ॥ ११।२२९॥
yathā yathā manaḥ tasya duṣkṛtam karma garhati . tathā tathā śarīram tat tena adharmeṇa mucyate .. 11.229..
11.229. In proportion as his heart loathes his evil deed, even so far is his body freed from that guilt.
कृत्वा पापं हि संतप्य तस्मात्पापात्प्रमुच्यते । नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ॥ ११.२३०॥
कृत्वा पापम् हि संतप्य तस्मात् पापात् प्रमुच्यते । न एवम् कुर्याम् पुनर् इति निवृत्त्या पूयते तु सः ॥ ११।२३०॥
kṛtvā pāpam hi saṃtapya tasmāt pāpāt pramucyate . na evam kuryām punar iti nivṛttyā pūyate tu saḥ .. 11.230..
11.230. He who has committed a sin and has repented, is freed from that sin, but he is purified only by (the resolution of) ceasing (to sin and thinking) ’I will do so no more.
एवं सञ्चिन्त्य मनसा प्रेत्य कर्मफलोदयम् । मनोवाङ्मूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ ११.२३१॥
एवम् सञ्चिन्त्य मनसा प्रेत्य कर्म-फल-उदयम् । मनः-वाच्-मूर्तिभिः नित्यम् शुभम् कर्म समाचरेत् ॥ ११।२३१॥
evam sañcintya manasā pretya karma-phala-udayam . manaḥ-vāc-mūrtibhiḥ nityam śubham karma samācaret .. 11.231..
11.231. Having thus considered in his mind what results will arise from his deeds after death, let him always be good in thoughts, speech, and actions.
अज्ञानाद्यदि वा ज्ञानात्कृत्वा कर्म विगर्हितम् । तस्माद्विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ ११.२३२॥
अज्ञानात् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् । तस्मात् विमुक्तिम् अन्विच्छन् द्वितीयम् न समाचरेत् ॥ ११।२३२॥
ajñānāt yadi vā jñānāt kṛtvā karma vigarhitam . tasmāt vimuktim anvicchan dvitīyam na samācaret .. 11.232..
11.232. He who, having either unintentionally or intentionally committed a reprehensible deed, desires to be freed from (the guilt on it, must not commit it a second time.
यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम् । तस्मिंस्तावत्तपः कुर्याद्यावत्तुष्टिकरं भवेत् ॥ ११.२३३॥
यस्मिन् कर्मणि अस्य कृते मनसः स्यात् अलाघवम् । तस्मिन् तावत् तपः कुर्यात् यावत् तुष्टि-करम् भवेत् ॥ ११।२३३॥
yasmin karmaṇi asya kṛte manasaḥ syāt alāghavam . tasmin tāvat tapaḥ kuryāt yāvat tuṣṭi-karam bhavet .. 11.233..
11.233. If his mind be uneasy with respect to any act, let him repeat the austerities (prescribed as a penance) for it until they fully satisfy (his conscience).
तपोमूलमिदं सर्वं दैवमानुषकं सुखम् । तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥ ११.२३४॥
तपः-मूलम् इदम् सर्वम् दैव-मानुषकम् सुखम् । तपः-मध्यम् बुधैः प्रोक्तम् तपः-अन्तम् वेद-दर्शिभिः ॥ ११।२३४॥
tapaḥ-mūlam idam sarvam daiva-mānuṣakam sukham . tapaḥ-madhyam budhaiḥ proktam tapaḥ-antam veda-darśibhiḥ .. 11.234..
11.234. All the bliss of gods and men is declared by the sages to whom the Veda was revealed, to have austerity for its root, austerity for its middle, and austerity for its end.
ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ ११.२३५॥
ब्राह्मणस्य तपः ज्ञानम् तपः क्षत्रस्य रक्षणम् । वैश्यस्य तु तपः वार्ता तपः शूद्रस्य सेवनम् ॥ ११।२३५॥
brāhmaṇasya tapaḥ jñānam tapaḥ kṣatrasya rakṣaṇam . vaiśyasya tu tapaḥ vārtā tapaḥ śūdrasya sevanam .. 11.235..
11.235. (The pursuit of sacred) knowledge is the austerity of a Brahmana, protecting (the people) is the austerity of a Kshatriya, (the pursuit of) his daily business is the austerity of a Vaisya, and service the austerity of a Sudra.
ऋषयः संयतात्मानः फलमूलानिलाशनाः । तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ ११.२३६॥
ऋषयः संयत-आत्मानः फल-मूल-अनिल-अशनाः । तपसा एव प्रपश्यन्ति त्रैलोक्यम् सचराचरम् ॥ ११।२३६॥
ṛṣayaḥ saṃyata-ātmānaḥ phala-mūla-anila-aśanāḥ . tapasā eva prapaśyanti trailokyam sacarācaram .. 11.236..
11.236. The sages who control themselves and subsist on fruit, roots, and air, survey the three worlds together with their moving and immovable (creatures) through their austerities alone.
औषधान्यगदो विद्या दैवी च विविधा स्थितिः । तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ ११.२३७॥
औषधानि अगदः विद्या दैवी च विविधा स्थितिः । तपसा एव प्रसिध्यन्ति तपः तेषाम् हि साधनम् ॥ ११।२३७॥
auṣadhāni agadaḥ vidyā daivī ca vividhā sthitiḥ . tapasā eva prasidhyanti tapaḥ teṣām hi sādhanam .. 11.237..
11.237. Medicines, good health, learning, and the various divine stations are attained by austerities alone; for austerity is the means of gaining them.
यद्दुस्तरं यद्दुरापं यद्दुर्गं यच्च दुष्करम् । सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् ॥ ११.२३८॥
यत् दुस्तरम् यत् दुरापम् यत् दुर्गम् यत् च दुष्करम् । सर्वम् तत् तपसा साध्यम् तपः हि दुरतिक्रमम् ॥ ११।२३८॥
yat dustaram yat durāpam yat durgam yat ca duṣkaram . sarvam tat tapasā sādhyam tapaḥ hi duratikramam .. 11.238..
11.238. Whatever is hard to be traversed, whatever is hard to be attained, whatever is hard to be reached, whatever is hard to be performed, all (this) may be accomplished by austerities; for austerity (possesses a power) which it is difficult to surpass.
महापातकिनश्चैव शेषाश्चाकार्यकारिणः । तपसैव सुतप्तेन मुच्यन्ते किल्बिषात्ततः ॥ ११.२३९॥
महापातकिनः च एव शेषाः च अकार्य-कारिणः । तपसा एव सुतप्तेन मुच्यन्ते किल्बिषात् ततस् ॥ ११।२३९॥
mahāpātakinaḥ ca eva śeṣāḥ ca akārya-kāriṇaḥ . tapasā eva sutaptena mucyante kilbiṣāt tatas .. 11.239..
11.239. Both those who have committed mortal sin (Mahapataka) and all other offenders are severally freed from their guilt by means of well-performed austerities.
कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च । स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ ११.२४०॥
कीटाः च अहि-पतङ्गाः च पशवः च वयांसि च । स्थावराणि च भूतानि दिवम् यान्ति तपः-बलात् ॥ ११।२४०॥
kīṭāḥ ca ahi-pataṅgāḥ ca paśavaḥ ca vayāṃsi ca . sthāvarāṇi ca bhūtāni divam yānti tapaḥ-balāt .. 11.240..
11.240. Insects, snakes, moths, bees, birds and beings, bereft of motion, reach heaven by the power of austerities.
यत्किं चिदेनः कुर्वन्ति मनोवाच्। कर्मभिर् । तत्सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ ११.२४१॥
यत् किम् चित् एनः कुर्वन्ति मनः वाच्। कर्मभिः । तत् सर्वम् निर्दहन्ति आशु तपसा एव तपोधनाः ॥ ११।२४१॥
yat kim cit enaḥ kurvanti manaḥ vāc. karmabhiḥ . tat sarvam nirdahanti āśu tapasā eva tapodhanāḥ .. 11.241..
11.241. Whatever sin men commit by thoughts, words, or deeds, that they speedily burn away by penance, if they keep penance as their only riches.
तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याश्च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ ११.२४२॥
तपसा एव विशुद्धस्य ब्राह्मणस्य दिवौकसः । इज्याः च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ ११।२४२॥
tapasā eva viśuddhasya brāhmaṇasya divaukasaḥ . ijyāḥ ca pratigṛhṇanti kāmān saṃvardhayanti ca .. 11.242..
11.242. The gods accept the offerings of that Brahmana alone who has purified himself by austerities, and grant to him all he desires.
प्रजापतिरिदं शास्त्रं तपसैवासृजत्प्रभुः । तथैव वेदान् ऋषयस्तपसा प्रतिपेदिरे ॥ ११.२४३॥
प्रजापतिः इदम् शास्त्रम् तपसा एव असृजत् प्रभुः । तथा एव वेदान् ऋषयः तपसा प्रतिपेदिरे ॥ ११।२४३॥
prajāpatiḥ idam śāstram tapasā eva asṛjat prabhuḥ . tathā eva vedān ṛṣayaḥ tapasā pratipedire .. 11.243..
11.243. The lord, Pragapati, created these Institutes (of the sacred law) by his austerities alone; the sages likewise obtained (the revelation of) the Vedas through their austerities.
यदेतत्तपसो देवा महाभाग्यं प्रचक्षते । सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुद्भवं ॥ ११.२४४॥
यत् एतत् तपसः देवाः महाभाग्यम् प्रचक्षते । सर्वस्य अस्य प्रपश्यन्तः तपसः पुण्यम् उद्भवम् ॥ ११।२४४॥
yat etat tapasaḥ devāḥ mahābhāgyam pracakṣate . sarvasya asya prapaśyantaḥ tapasaḥ puṇyam udbhavam .. 11.244..
11.244. The gods, discerning that the holy origin of this whole (world) is from austerity, have thus proclaimed the incomparable power of austerity.
वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयन्त्याशु पापानि महापातकजान्यपि ॥ ११.२४५॥
वेद-अभ्यासः अन्वहम् शक्त्या महायज्ञ-क्रिया क्षमा । नाशयन्ति आशु पापानि महापातक-जानि अपि ॥ ११।२४५॥
veda-abhyāsaḥ anvaham śaktyā mahāyajña-kriyā kṣamā . nāśayanti āśu pāpāni mahāpātaka-jāni api .. 11.245..
11.245. The daily study of the Veda, the performance of the great sacrifices according to one’s ability, (and) patience (in suffering) quickly destroy all guilt, even that caused by mortal sins.
यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् । तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ ११.२४६॥
यथा एधः तेजसा वह्निः प्राप्तम् निर्दहति क्षणात् । तथा ज्ञान-अग्निना पापम् सर्वम् दहति वेदविद् ॥ ११।२४६॥
yathā edhaḥ tejasā vahniḥ prāptam nirdahati kṣaṇāt . tathā jñāna-agninā pāpam sarvam dahati vedavid .. 11.246..
11.246. As a fire in one moment consumes with its bright flame the fuel that has been placed on it, even so he who knows the Veda destroys all guilt by the fire of knowledge.
इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि । अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ ११.२४७॥
इति एतत् एनसाम् उक्तम् प्रायश्चित्तम् यथाविधि । अतस् ऊर्ध्वम् रहस्यानाम् प्रायश्चित्तम् निबोधत ॥ ११।२४७॥
iti etat enasām uktam prāyaścittam yathāvidhi . atas ūrdhvam rahasyānām prāyaścittam nibodhata .. 11.247..
11.247. The penances for sins (made public) have been thus declared according to the law; learn next the penances for secret (sins).
सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहनं मासात्पुनन्त्यहरहः कृताः ॥ ११.२४८॥
स व्याहृति-प्रणवकाः प्राणायामाः तु षोडश । अपि भ्रूण-हनम् मासात् पुनन्ति अहर्-अहर् कृताः ॥ ११।२४८॥
sa vyāhṛti-praṇavakāḥ prāṇāyāmāḥ tu ṣoḍaśa . api bhrūṇa-hanam māsāt punanti ahar-ahar kṛtāḥ .. 11.248..
11.248. Sixteen suppressions of the breath (Pranayama) accompanied by (the recitation of) the Vyahritis and of the syllable Om, purify, if they are repeated daily, after a month even the murderer of a learned Brahmana.
कौत्सं जप्त्वाऽप इत्येतद्वसिष्ठं च प्रतीत्यृचम् । माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ ११.२४९॥
कौत्सम् जप्त्वा अपः इति एतत् वसिष्ठम् च प्रति इति ऋचम् । माहित्रम् शुद्धवत्यः च सुरा-पः अपि विशुध्यति ॥ ११।२४९॥
kautsam japtvā apaḥ iti etat vasiṣṭham ca prati iti ṛcam . māhitram śuddhavatyaḥ ca surā-paḥ api viśudhyati .. 11.249..
11.249. Even a drinker of (the spirituous liquor called) Sura becomes pure, if he mutters the hymn (seen) by Kutsa, ’Removing by thy splendour our guilt, O Agni, (that seen) by Vasishtha, ’With their hymns the Vasishthas woke the Dawn, the Mahitra (hymn) and (the verses called) Suddhavatis.
सकृत्जप्त्वाऽस्यवामीयं शिवसङ्कल्पमेव च । अपहृत्य सुवर्णं तु क्षणाद्भवति निर्मलः ॥ ११.२५०॥
सकृत् जप्त्वा अस्यवामीयम् शिवसङ्कल्पम् एव च । अपहृत्य सुवर्णम् तु क्षणात् भवति निर्मलः ॥ ११।२५०॥
sakṛt japtvā asyavāmīyam śivasaṅkalpam eva ca . apahṛtya suvarṇam tu kṣaṇāt bhavati nirmalaḥ .. 11.250..
11.250. Even he who has stolen gold, instantly becomes free from guilt, if he once mutters (the hymn beginning with the words) ’The middlemost brother of this beautiful, ancient Hotri-priest’ and the Sivasamkalpa.
हविष्पान्तीयमभ्यस्य न तमं ह इतीति च । जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥ ११.२५१॥
हविष्पान्तीयम् अभ्यस्य न तमम् ह इति इति च । जपित्वा पौरुषम् सूक्तम् मुच्यते गुरु-तल्प-गः ॥ ११।२५१॥
haviṣpāntīyam abhyasya na tamam ha iti iti ca . japitvā pauruṣam sūktam mucyate guru-talpa-gaḥ .. 11.251..
11.251. The violator of a Guru’s bed is freed (from sin), if he repeatedly recites the Havishpantiya (hymn), (that beginning) ’Neither anxiety nor misfortune,’ (and that beginning) ’Thus, verily, thus,’ and mutters the hymn addressed to Purusha.
एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्यृचं जपेदब्दं यत्किञ्चेदमितीति वा ॥ ११.२५२॥
एनसाम् स्थूल-सूक्ष्माणाम् चिकीर्षन् अपनोदनम् । अव इति ऋचम् जपेत् अब्दम् यत् किञ्च इदम् इति इति वा ॥ ११।२५२॥
enasām sthūla-sūkṣmāṇām cikīrṣan apanodanam . ava iti ṛcam japet abdam yat kiñca idam iti iti vā .. 11.252..
11.252. He who desires to expiate sins great or small, must mutter during a year the Rit-verse ’May we remove thy anger, O Varuna,’ &c., or ’Whatever offence here, O Varuna.
प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ ११.२५३॥
प्रतिगृह्य अ प्रतिग्राह्यम् भुक्त्वा च अन्नम् विगर्हितम् । जपन् तरत्समन्दीयम् पूयते मानवः त्रि-अहात् ॥ ११।२५३॥
pratigṛhya a pratigrāhyam bhuktvā ca annam vigarhitam . japan taratsamandīyam pūyate mānavaḥ tri-ahāt .. 11.253..
11.253. That man who, having accepted presents which ought not to be accepted, or having eaten forbidden food, mutters the Taratsamandiya (Rikas), becomes pure after three days.
सोमारौद्रं तु बह्वेनाः समामभ्यस्य शुध्यति । स्रवन्त्यामाचरन् स्नानमर्यम्णामिति च तृचम् ॥ ११.२५४॥
सोमारौद्रम् तु बह्वेनाः समाम् अभ्यस्य शुध्यति । स्रवन्त्याम् आचरन् स्नानम् अर्यम्णाम् इति च तृचम् ॥ ११।२५४॥
somāraudram tu bahvenāḥ samām abhyasya śudhyati . sravantyām ācaran snānam aryamṇām iti ca tṛcam .. 11.254..
11.254. But he who has committed many sins, becomes pure, if he recites during a month the (four verses) addressed to Soma and Rudra, and the three verses (beginning) ’Aryaman, Varuna, and Mitra,’ while he bathes in a river.
अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् । अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक् ॥ ११.२५५॥
अब्द-अर्धम् इन्द्रम् इति एतत् एनस्वी सप्तकम् जपेत् । अप्रशस्तम् तु कृत्वा अप्सु मासम् आसीत भैक्ष-भुज् ॥ ११।२५५॥
abda-ardham indram iti etat enasvī saptakam japet . apraśastam tu kṛtvā apsu māsam āsīta bhaikṣa-bhuj .. 11.255..
11.255. A grievous offender shall mutter the seven verses (beginning with) ’Indra,’ for half a year; but he who has committed any blamable act in water, shall subsist during a month on food obtained by begging.
मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ॥ ११.२५६॥
मन्त्रैः शाकल-होमीयैः अब्दम् हुत्वा घृतम् द्विजः । सु गुरु अपि अपहन्ति एनः जप्त्वा वा नमः इति ऋचम् ॥ ११।२५६॥
mantraiḥ śākala-homīyaiḥ abdam hutvā ghṛtam dvijaḥ . su guru api apahanti enaḥ japtvā vā namaḥ iti ṛcam .. 11.256..
11.256. A twice-born man removes even very great guilt by offering clarified butter with the sacred texts belonging to the Sakala-homas, or by muttering the Rik, (beginning) ’Adoration.
महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः । अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति ॥ ११.२५७॥
महापातक-संयुक्तः अनुगच्छेत् गाः समाहितः । अभ्यस्य अब्दम् पावमानीः भैक्ष-आहारः विशुध्यति ॥ ११।२५७॥
mahāpātaka-saṃyuktaḥ anugacchet gāḥ samāhitaḥ . abhyasya abdam pāvamānīḥ bhaikṣa-āhāraḥ viśudhyati .. 11.257..
11.257. He who is stained by mortal sin, becomes pure, if, with a concentrated mind, he attends cows for a year, reciting the Pavamani (hymns) and subsisting on alms.
अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ ११.२५८॥
अरण्ये वा त्रिस् अभ्यस्य प्रयतः वेद-संहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितः त्रिभिः ॥ ११।२५८॥
araṇye vā tris abhyasya prayataḥ veda-saṃhitām . mucyate pātakaiḥ sarvaiḥ parākaiḥ śodhitaḥ tribhiḥ .. 11.258..
11.258. Or if, pure (in mind and in body), he thrice repeats the Samhita of the Veda in a forest, sanctified by three Paraka (penances), he is freed from all crimes causing loss of caste (pataka).
त्र्यहं तूपवसेद्युक्तस्त्रिरह्नोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम् ॥ ११.२५९॥
त्रि-अहम् तु उपवसेत् युक्तः त्रिस् अह्नः अभ्युपयन् अपः । मुच्यते पातकैः सर्वैः त्रिस् जपित्वा अघमर्षणम् ॥ ११।२५९॥
tri-aham tu upavaset yuktaḥ tris ahnaḥ abhyupayan apaḥ . mucyate pātakaiḥ sarvaiḥ tris japitvā aghamarṣaṇam .. 11.259..
11.259. But if (a man) fasts during three days, bathing thrice a day, and muttering (in the water the hymn seen by) Aghamarshana, he is (likewise) freed from all sins causing loss of caste.
यथाऽश्वमेधः क्रतुराट् सर्वपापापनोदनः । तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ ११.२६०॥
यथा अश्वमेधः क्रतु-राज् सर्व-पाप-अपनोदनः । तथा अघमर्षणम् सूक्तम् सर्व-पाप-अपनोदनम् ॥ ११।२६०॥
yathā aśvamedhaḥ kratu-rāj sarva-pāpa-apanodanaḥ . tathā aghamarṣaṇam sūktam sarva-pāpa-apanodanam .. 11.260..
11.260. As the horse-sacrifice, the king of sacrifices, removes all sin, even so the Aghamarshana hymn effaces all guilt.
हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः । ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ॥ ११.२६१॥
हत्वा लोकान् अपि इमान् त्रीन् अश्नन् अपि यतस् ततस् । ऋग्वेदम् धारयन् विप्रः न एनः प्राप्नोति किम् चन ॥ ११।२६१॥
hatvā lokān api imān trīn aśnan api yatas tatas . ṛgvedam dhārayan vipraḥ na enaḥ prāpnoti kim cana .. 11.261..
11.261. A Brahmana who retains in his memory the Rig-veda is not stained by guilt, though he may have destroyed these three worlds, though he may eat the food of anybody.
ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः । साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ ११.२६२॥
ऋक्-संहिताम् त्रिस् अभ्यस्य यजुषाम् वा समाहितः । साम्नाम् वा स रहस्यानाम् सर्व-पापैः प्रमुच्यते ॥ ११।२६२॥
ṛk-saṃhitām tris abhyasya yajuṣām vā samāhitaḥ . sāmnām vā sa rahasyānām sarva-pāpaiḥ pramucyate .. 11.262..
11.262. He who, with a concentrated mind, thrice recites the Riksamhita, or (that of the) Yagur-veda; or (that of the) Sama-veda together with the secret (texts, the Upanishads), is completely freed from all sins.
यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति । तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ ११.२६३॥
यथा महाह्रदम् प्राप्य क्षिप्तम् लोष्टम् विनश्यति । तथा दुश्चरितम् सर्वम् वेदे त्रिवृति मज्जति ॥ ११।२६३॥
yathā mahāhradam prāpya kṣiptam loṣṭam vinaśyati . tathā duścaritam sarvam vede trivṛti majjati .. 11.263..
11.263. As a clod of earth, falling into a great lake, is quickly dissolved, even so every sinful act is engulfed in the threefold Veda.
ऋचो यजूंषि चान्यानि सामानि विविधानि च । एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ ११.२६४॥
ऋचः यजूंषि च अन्यानि सामानि विविधानि च । एष ज्ञेयः त्रिवृत् वेदः यः वेद एनम् स वेद-विद् ॥ ११।२६४॥
ṛcaḥ yajūṃṣi ca anyāni sāmāni vividhāni ca . eṣa jñeyaḥ trivṛt vedaḥ yaḥ veda enam sa veda-vid .. 11.264..
11.264. The Rikas, the Yagus which differ (from the former), the manifold Saman (-songs), must be known (to form) the triple Veda; he who knows them, (is called) learned in the Veda.
आद्यं यत्त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥ ११.२६५॥
आद्यम् यत् त्रि-अक्षरम् ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता । स गुह्यः अन्यः त्रिवृत् वेदः यः तम् वेद स वेद-विद् ॥ ११।२६५॥
ādyam yat tri-akṣaram brahma trayī yasmin pratiṣṭhitā . sa guhyaḥ anyaḥ trivṛt vedaḥ yaḥ tam veda sa veda-vid .. 11.265..
11.265. The initial triliteral Brahman on which the threefold (sacred science) is based, is another triple Veda which must be kept secret; he who knows that, (is called) learned in the Veda.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In