| |
|

This overlay will guide you through the buttons:

विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः । हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ २.१॥
विद्वद्भिः सेवितः सद्भिः नित्यम् अ द्वेष-रागिभिः । हृदयेन अभ्यनुज्ञातः यः धर्मः तम् निबोधत ॥ २।१॥
vidvadbhiḥ sevitaḥ sadbhiḥ nityam a dveṣa-rāgibhiḥ . hṛdayena abhyanujñātaḥ yaḥ dharmaḥ tam nibodhata .. 2.1..
2.1. Learn that sacred law which is followed by men learned (in the Veda) and assented to in their hearts by the virtuous, who are ever exempt from hatred and inordinate affection.
कामात्मता न प्रशस्ता न चैवैहास्त्यकामता । काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ २.२॥
काम-आत्म-ता न प्रशस्ता न च एव ऐह अस्ति अकाम-ता । काम्यः हि वेद-अधिगमः कर्मयोगः च वैदिकः ॥ २।२॥
kāma-ātma-tā na praśastā na ca eva aiha asti akāma-tā . kāmyaḥ hi veda-adhigamaḥ karmayogaḥ ca vaidikaḥ .. 2.2..
2.2. To act solely from a desire for rewards is not laudable, yet an exemption from that desire is not (to be found) in this (world): for on (that) desire is grounded the study of the Veda and the performance of the actions, prescribed by the Veda.
सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ २.३॥
सङ्कल्प-मूलः कामः वै यज्ञाः सङ्कल्प-सम्भवाः । व्रतानि यम-धर्माः च सर्वे सङ्कल्प-जाः स्मृताः ॥ २।३॥
saṅkalpa-mūlaḥ kāmaḥ vai yajñāḥ saṅkalpa-sambhavāḥ . vratāni yama-dharmāḥ ca sarve saṅkalpa-jāḥ smṛtāḥ .. 2.3..
2.3. The desire (for rewards), indeed, has its root in the conception that an act can yield them, and in consequence of (that) conception sacrifices are performed; vows and the laws prescribing restraints are all stated to be kept through the idea that they will bear fruit.
अकामस्य क्रिया का चिद्दृश्यते नैह कर्हि चित् । यद्यधि कुरुते किं चित्तत्तत्कामस्य चेष्टितम् ॥ २.४॥
अकामस्य क्रिया का चित् दृश्यते ना इह कर्हि चित् । यदि अधि कुरुते किम् चित् तत् तत् कामस्य चेष्टितम् ॥ २।४॥
akāmasya kriyā kā cit dṛśyate nā iha karhi cit . yadi adhi kurute kim cit tat tat kāmasya ceṣṭitam .. 2.4..
2.4. Not a single act here (below) appears ever to be done by a man free from desire; for whatever (man) does, it is (the result of) the impulse of desire.
तेषु सम्यग्वर्तमानो गच्छत्यमरलोकताम् । यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते ॥ २.५॥
तेषु सम्यक् वर्तमानः गच्छति अमर-लोक-ताम् । यथा सङ्कल्पितान् च एह सर्वान् कामान् समश्नुते ॥ २।५॥
teṣu samyak vartamānaḥ gacchati amara-loka-tām . yathā saṅkalpitān ca eha sarvān kāmān samaśnute .. 2.5..
2.5. He who persists in discharging these (prescribed duties) in the right manner, reaches the deathless state and even in this (life) obtains (the fulfilment of) all the desires that he may have conceived.
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ २.६॥
वेदः अखिलः धर्म-मूलम् स्मृति-शीले च तद्-विदाम् । आचारः च एव साधूनाम् आत्मनः तुष्टिः एव च ॥ २।६॥
vedaḥ akhilaḥ dharma-mūlam smṛti-śīle ca tad-vidām . ācāraḥ ca eva sādhūnām ātmanaḥ tuṣṭiḥ eva ca .. 2.6..
2.6. The whole Veda is the (first) source of the sacred law, next the tradition and the virtuous conduct of those who know the (Veda further), also the customs of holy men, and (finally) self-satisfaction.
यः कश्चित्कस्य चिद्धर्मो मनुना परिकीर्तितः । स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ २.७॥
यः कश्चिद् कस्य चित्-धर्मः मनुना परिकीर्तितः । स सर्वः अभिहितः वेदे सर्व-ज्ञान-मयः हि सः ॥ २।७॥
yaḥ kaścid kasya cit-dharmaḥ manunā parikīrtitaḥ . sa sarvaḥ abhihitaḥ vede sarva-jñāna-mayaḥ hi saḥ .. 2.7..
2.7. Whatever law has been ordained for any (person) by Manu, that has been fully declared in the Veda: for that (sage was) omniscient.
सर्वं तु समवेक्ष्यैदं निखिलं ज्ञानचक्षुषा । श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ २.८॥
सर्वम् तु समवेक्ष्य एदम् निखिलम् ज्ञानचक्षुषा । श्रुति-प्रामाण्यतः विद्वान् स्वधर्मे निविशेत वै ॥ २।८॥
sarvam tu samavekṣya edam nikhilam jñānacakṣuṣā . śruti-prāmāṇyataḥ vidvān svadharme niviśeta vai .. 2.8..
2.8. But a learned man after fully scrutinising all this with the eye of knowledge, should, in accordance with the authority of the revealed texts, be intent on (the performance of) his duties.
श्रुतिस्मृत्योदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ २.९॥
श्रुति-स्मृत्या उदितम् धर्मम् अनुतिष्ठन् हि मानवः । इह कीर्तिम् अवाप्नोति प्रेत्य च अनुत्तमम् सुखम् ॥ २।९॥
śruti-smṛtyā uditam dharmam anutiṣṭhan hi mānavaḥ . iha kīrtim avāpnoti pretya ca anuttamam sukham .. 2.9..
2.9. For that man who obeys the law prescribed in the revealed texts and in the sacred tradition, gains fame in this (world) and after death unsurpassable bliss.
श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः । ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ २.१०॥
श्रुतिः तु वेदः विज्ञेयः धर्म-शास्त्रम् तु वै स्मृतिः । ते सर्व-अर्थेषु अमीमांस्ये ताभ्याम् धर्मः हि निर्बभौ ॥ २।१०॥
śrutiḥ tu vedaḥ vijñeyaḥ dharma-śāstram tu vai smṛtiḥ . te sarva-artheṣu amīmāṃsye tābhyām dharmaḥ hi nirbabhau .. 2.10..
2.10. But by Sruti (revelation) is meant the Veda, and by Smriti (tradition) the Institutes of the sacred law: those two must not be called into question in any matter, since from those two the sacred law shone forth.
योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्द्विजः । स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ २.११॥
यः अवमन्येत ते मूले हेतु-शास्त्र-आश्रयात् द्विजः । स साधुभिः बहिष्कार्यः नास्तिकः वेद-निन्दकः ॥ २।११॥
yaḥ avamanyeta te mūle hetu-śāstra-āśrayāt dvijaḥ . sa sādhubhiḥ bahiṣkāryaḥ nāstikaḥ veda-nindakaḥ .. 2.11..
2.11. Every twice-born man, who, relying on the Institutes of dialectics, treats with contempt those two sources (of the law), must be cast out by the virtuous, as an atheist and a scorner of the Veda.
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ॥ २.१२॥
वेदः स्मृतिः सत्-आचारः स्वस्य च प्रियम् आत्मनः । एतत् चतुर्विधम् प्राहुः साक्षात् धर्मस्य लक्षणम् ॥ २।१२॥
vedaḥ smṛtiḥ sat-ācāraḥ svasya ca priyam ātmanaḥ . etat caturvidham prāhuḥ sākṣāt dharmasya lakṣaṇam .. 2.12..
2.12. The Veda, the sacred tradition, the customs of virtuous men, and one’s own pleasure, they declare to be visibly the fourfold means of defining the sacred law.
अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते । धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ २.१३॥
अर्थ-कामेषु असक्तानाम् धर्म-ज्ञानम् विधीयते । धर्मम् जिज्ञासमानानाम् प्रमाणम् परमम् श्रुतिः ॥ २।१३॥
artha-kāmeṣu asaktānām dharma-jñānam vidhīyate . dharmam jijñāsamānānām pramāṇam paramam śrutiḥ .. 2.13..
2.13. The knowledge of the sacred law is prescribed for those who are not given to the acquisition of wealth and to the gratification of their desires; to those who seek the knowledge of the sacred law the supreme authority is the revelation (Sruti).
श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्मावुभौ स्मृतौ । उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥ २.१४॥
श्रुति-द्वैधम् तु यत्र स्यात् तत्र धर्मौ उभौ स्मृतौ । उभौ अपि हि तौ धर्मौ सम्यक् उक्तौ मनीषिभिः ॥ २।१४॥
śruti-dvaidham tu yatra syāt tatra dharmau ubhau smṛtau . ubhau api hi tau dharmau samyak uktau manīṣibhiḥ .. 2.14..
2.14. But when two sacred texts (Sruti) are conflicting, both are held to be law; for both are pronounced by the wise (to be) valid law.
उदितेऽनुदिते चैव समयाध्युषिते तथा । सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ २.१५॥
उदिते अनुदिते च एव समयाध्युषिते तथा । सर्वथा वर्तते यज्ञः इति इयम् वैदिकी श्रुतिः ॥ २।१५॥
udite anudite ca eva samayādhyuṣite tathā . sarvathā vartate yajñaḥ iti iyam vaidikī śrutiḥ .. 2.15..
2.15. (Thus) the (Agnihotra) sacrifice may be (optionally) performed, at any time after the sun has risen, before he has risen, or when neither sun nor stars are visible; that (is declared) by Vedic texts.
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः । तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ॥ २.१६॥
निषेक-आदि-श्मशान-अन्तः मन्त्रैः यस्य उदितः विधिः । तस्य शास्त्रे अधिकारः अस्मिन् ज्ञेयः न अन्यस्य कस्य चित् ॥ २।१६॥
niṣeka-ādi-śmaśāna-antaḥ mantraiḥ yasya uditaḥ vidhiḥ . tasya śāstre adhikāraḥ asmin jñeyaḥ na anyasya kasya cit .. 2.16..
2.16. Know that he for whom (the performance of) the ceremonies beginning with the rite of impregnation (Garbhadhana) and ending with the funeral rite (Antyeshti) is prescribed, while sacred formulas are being recited, is entitled (to study) these Institutes, but no other man whatsoever.
सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ २.१७॥
सरस्वती-दृशद्वत्योः देव-नद्योः यत् अन्तरम् । तम् देव-निर्मितम् देशम् ब्रह्मावर्तम् प्रचक्षते ॥ २।१७॥
sarasvatī-dṛśadvatyoḥ deva-nadyoḥ yat antaram . tam deva-nirmitam deśam brahmāvartam pracakṣate .. 2.17..
2.17. That land, created by the gods, which lies between the two divine rivers Sarasvati and Drishadvati, the (sages) call Brahmavarta.
तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः । वर्णानां सान्तरालानां स सदाचार उच्यते ॥ २.१८॥
तस्मिन् देशे यः आचारः पारम्पर्य-क्रम-आगतः । वर्णानाम् स अन्तरालानाम् स सत्-आचारः उच्यते ॥ २।१८॥
tasmin deśe yaḥ ācāraḥ pāramparya-krama-āgataḥ . varṇānām sa antarālānām sa sat-ācāraḥ ucyate .. 2.18..
2.18. The custom handed down in regular succession (since time immemorial) among the (four chief) castes (varna) and the mixed (races) of that country, is called the conduct of virtuous men.
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ २.१९॥
कुरुक्षेत्रम् च मत्स्याः च पञ्चालाः शूरसेनकाः । एष ब्रह्मर्षि-देशः वै ब्रह्मावर्तात् अनन्तरः ॥ २।१९॥
kurukṣetram ca matsyāḥ ca pañcālāḥ śūrasenakāḥ . eṣa brahmarṣi-deśaḥ vai brahmāvartāt anantaraḥ .. 2.19..
2.19. The plain of the Kurus, the (country of the) Matsyas, Pankalas, and Surasenakas, these (form), indeed, the country of the Brahmarshis (Brahmanical sages, which ranks) immediately after Brahmavarta.
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः । स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ २.२०॥
एतद्-देश-प्रसूतस्य सकाशात् अग्रजन्मनः । स्वम् स्वम् चरित्रम् शिक्षेरन् पृथिव्याम् सर्व-मानवाः ॥ २।२०॥
etad-deśa-prasūtasya sakāśāt agrajanmanaḥ . svam svam caritram śikṣeran pṛthivyām sarva-mānavāḥ .. 2.20..
2.20. From a Brahmana, born in that country, let all men on earth learn their several usages.
हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ २.२१॥
हिमवत्-विन्ध्ययोः मध्यम् यत् प्राक् विनशनात् अपि । प्रत्यक् एव प्रयागात् च मध्यदेशः प्रकीर्तितः ॥ २।२१॥
himavat-vindhyayoḥ madhyam yat prāk vinaśanāt api . pratyak eva prayāgāt ca madhyadeśaḥ prakīrtitaḥ .. 2.21..
2.21. That (country) which (lies) between the Himavat and the Vindhya (mountains) to the east of Prayaga and to the west of Vinasana (the place where the river Sarasvati disappears) is called Madhyadesa (the central region).
आ समुद्रात्तु वै पूर्वादा समुद्राच्च पश्चिमात् । तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ २.२२॥
आ समुद्रात् तु वै पूर्वात् आ समुद्रात् च पश्चिमात् । तयोः एव अन्तरम् गिर्योः आर्यावर्तम् विदुः बुधाः ॥ २।२२॥
ā samudrāt tu vai pūrvāt ā samudrāt ca paścimāt . tayoḥ eva antaram giryoḥ āryāvartam viduḥ budhāḥ .. 2.22..
2.22. But (the tract) between those two mountains (just mentioned), which (extends) as far as the eastern and the western oceans, the wise call Aryavarta (the country of the Aryans).
कृष्णसारस्तु चरति मृगो यत्र स्वभावतः । स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ २.२३॥
कृष्णसारः तु चरति मृगः यत्र स्वभावतः । स ज्ञेयः यज्ञियः देशः म्लेच्छ-देशः तु अतस् परः ॥ २।२३॥
kṛṣṇasāraḥ tu carati mṛgaḥ yatra svabhāvataḥ . sa jñeyaḥ yajñiyaḥ deśaḥ mleccha-deśaḥ tu atas paraḥ .. 2.23..
2.23. That land where the black antelope naturally roams, one must know to be fit for the performance of sacrifices; (the tract) different from that (is) the country of the Mlekkhas (barbarians).
एतान्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः । शूद्रस्तु यस्मिंस्तस्मिन् वा निवसेद्वृत्तिकर्शितः ॥ २.२४॥
एतान् द्विजातयः देशान् संश्रयेरन् प्रयत्नतः । शूद्रः तु यस्मिन् तस्मिन् वा निवसेत् वृत्ति-कर्शितः ॥ २।२४॥
etān dvijātayaḥ deśān saṃśrayeran prayatnataḥ . śūdraḥ tu yasmin tasmin vā nivaset vṛtti-karśitaḥ .. 2.24..
2.24. Let twice-born men seek to dwell in those (above-mentioned countries); but a Sudra, distressed for subsistence, may reside anywhere.
एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता । सम्भवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ २.२५॥
एषा धर्मस्य वः योनिः समासेन प्रकीर्तिता । सम्भवः च अस्य सर्वस्य वर्ण-धर्मान् निबोधत ॥ २।२५॥
eṣā dharmasya vaḥ yoniḥ samāsena prakīrtitā . sambhavaḥ ca asya sarvasya varṇa-dharmān nibodhata .. 2.25..
2.25. Thus has the origin of the sacred law been succinctly described to you and the origin of this universe; learn (now) the duties of the castes (varna).
वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् । कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च ॥ २.२६॥
वैदिकैः कर्मभिः पुण्यैः निषेक-आदिः द्विजन्मनाम् । कार्यः शरीर-संस्कारः पावनः प्रेत्य च एह च ॥ २।२६॥
vaidikaiḥ karmabhiḥ puṇyaiḥ niṣeka-ādiḥ dvijanmanām . kāryaḥ śarīra-saṃskāraḥ pāvanaḥ pretya ca eha ca .. 2.26..
2.26. With holy rites, prescribed by the Veda, must the ceremony on conception and other sacraments be performed for twice-born men, which sanctify the body and purify (from sin) in this (life) and after death.
गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः । बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते ॥ २.२७॥
गार्भैः होमैः जातकर्म-चौड-मौञ्जीनिबन्धनैः । बैजिकम् गार्भिकम् च एनम् द्विजानाम् अपमृज्यते ॥ २।२७॥
gārbhaiḥ homaiḥ jātakarma-cauḍa-mauñjīnibandhanaiḥ . baijikam gārbhikam ca enam dvijānām apamṛjyate .. 2.27..
2.27. By burnt oblations during (the mother’s) pregnancy, by the Gatakarman (the ceremony after birth), the Kauda (tonsure), and the Maungibandhana (the tying of the sacred girdle of Munga grass) is the taint, derived from both parents, removed from twice-born men.
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः । महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ २.२८॥
स्वाध्यायेन व्रतैः होमैः त्रैविद्येन इज्यया सुतैः । महायज्ञैः च यज्ञैः च ब्राह्मी इयम् क्रियते तनुः ॥ २।२८॥
svādhyāyena vrataiḥ homaiḥ traividyena ijyayā sutaiḥ . mahāyajñaiḥ ca yajñaiḥ ca brāhmī iyam kriyate tanuḥ .. 2.28..
2.28. By the study of the Veda, by vows, by burnt oblations, by (the recitation of) sacred texts, by the (acquisition of the) threefold sacred science, by offering (to the gods, Rishis, and manes), by (the procreation of) sons, by the great sacrifices, and by (Srauta) rites this (human) body is made fit for (union with) Brahman.
प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ २.२९॥
प्राक् नाभि-वर्धनात् पुंसः जातकर्म विधीयते । मन्त्रवत् प्राशनम् च अस्य हिरण्य-मधु-सर्पिषाम् ॥ २।२९॥
prāk nābhi-vardhanāt puṃsaḥ jātakarma vidhīyate . mantravat prāśanam ca asya hiraṇya-madhu-sarpiṣām .. 2.29..
2.29. Before the navel-string is cut, the Gatakarman (birth-rite) must be performed for a male (child); and while sacred formulas are being recited, he must be fed with gold, honey, and butter.
नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ २.३०॥
नामधेयम् दशम्याम् तु द्वादश्याम् वा अस्य कारयेत् । पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुण-अन्विते ॥ २।३०॥
nāmadheyam daśamyām tu dvādaśyām vā asya kārayet . puṇye tithau muhūrte vā nakṣatre vā guṇa-anvite .. 2.30..
2.30. But let (the father perform or) cause to be performed the Namadheya (the rite of naming the child), on the tenth or twelfth (day after birth), or on a lucky lunar day, in a lucky muhurta, under an auspicious constellation.
मङ्गल्यं ब्राह्मणस्य स्यात्क्षत्रियस्य बलान्वितम् । वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ २.३१॥
मङ्गल्यम् ब्राह्मणस्य स्यात् क्षत्रियस्य बल-अन्वितम् । वैश्यस्य धन-संयुक्तम् शूद्रस्य तु जुगुप्सितम् ॥ २।३१॥
maṅgalyam brāhmaṇasya syāt kṣatriyasya bala-anvitam . vaiśyasya dhana-saṃyuktam śūdrasya tu jugupsitam .. 2.31..
2.31. Let (the first part of) a Brahmana’s name (denote something) auspicious, a Kshatriya’s be connected with power, and a Vaisya’s with wealth, but a Sudra’s (express something) contemptible.
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । राज्ञावैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ २.३२॥
शर्मवत् ब्राह्मणस्य स्यात् राज्ञः रक्षा-समन्वितम् । राज्ञा वैश्यस्य पुष्टि-संयुक्तम् शूद्रस्य प्रेष्य-संयुतम् ॥ २।३२॥
śarmavat brāhmaṇasya syāt rājñaḥ rakṣā-samanvitam . rājñā vaiśyasya puṣṭi-saṃyuktam śūdrasya preṣya-saṃyutam .. 2.32..
2.32. (The second part of) a Brahmana’s (name) shall be (a word) implying happiness, of a Kshatriya’s (a word) implying protection, of a Vaisya’s (a term) expressive of thriving, and of a Sudra’s (an expression) denoting service.
स्त्रीणां सुखौद्यमक्रूरं विस्पष्टार्थं मनोहरम् । मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ २.३३॥
स्त्रीणाम् सुख-औद्यम् अक्रूरम् विस्पष्ट-अर्थम् मनोहरम् । मङ्गल्यम् दीर्घ-वर्ण-अन्तम् आशीर्वाद-अभिधान-वत् ॥ २।३३॥
strīṇām sukha-audyam akrūram vispaṣṭa-artham manoharam . maṅgalyam dīrgha-varṇa-antam āśīrvāda-abhidhāna-vat .. 2.33..
2.33. The names of women should be easy to pronounce, not imply anything dreadful, possess a plain meaning, be pleasing and auspicious, end in long vowels, and contain a word of benediction.
चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वैष्टं मङ्गलं कुले ॥ २.३४॥
चतुर्थे मासि कर्तव्यम् शिशोः निष्क्रमणम् गृहात् । षष्ठे अन्नप्राशनम् मासि यत् वा एष्टम् मङ्गलम् कुले ॥ २।३४॥
caturthe māsi kartavyam śiśoḥ niṣkramaṇam gṛhāt . ṣaṣṭhe annaprāśanam māsi yat vā eṣṭam maṅgalam kule .. 2.34..
2.34. In the fourth month the Nishkramana (the first leaving of the house) of the child should be performed, in the sixth month the Annaprasana (first feeding with rice), and optionally (any other) auspicious ceremony required by (the custom of) the family.
चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिनोदनात् ॥ २.३५॥
चूडाकर्म द्विजातीनाम् सर्वेषाम् एव धर्मतः । प्रथमे अब्दे तृतीये वा कर्तव्यम् श्रुति-नोदनात् ॥ २।३५॥
cūḍākarma dvijātīnām sarveṣām eva dharmataḥ . prathame abde tṛtīye vā kartavyam śruti-nodanāt .. 2.35..
2.35. According to the teaching of the revealed texts, the Kudakarman (tonsure) must be performed, for the sake of spiritual merit, by all twice-born men in the first or third year.
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् । गर्भादेकादशे राज्ञो गर्भात्तु द्वादशे विशः ॥ २.३६॥
गर्भ-अष्टमे अब्दे कुर्वीत ब्राह्मणस्य औपनायनम् । गर्भात् एकादशे राज्ञः गर्भात् तु द्वादशे विशः ॥ २।३६॥
garbha-aṣṭame abde kurvīta brāhmaṇasya aupanāyanam . garbhāt ekādaśe rājñaḥ garbhāt tu dvādaśe viśaḥ .. 2.36..
2.36. In the eighth year after conception, one should perform the initiation (upanayana) of a Brahmana, in the eleventh after conception (that) of a Kshatriya, but in the twelfth that of a Vaisya.
ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे । राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे ॥ २.३७॥
ब्रह्मवर्चस-कामस्य कार्यः विप्रस्य पञ्चमे । राज्ञः बल-अर्थिनः षष्ठे वैश्यस्य ऐह-अर्थिनः अष्टमे ॥ २।३७॥
brahmavarcasa-kāmasya kāryaḥ viprasya pañcame . rājñaḥ bala-arthinaḥ ṣaṣṭhe vaiśyasya aiha-arthinaḥ aṣṭame .. 2.37..
2.37. (The initiation) of a Brahmana who desires proficiency in sacred learning should take place in the fifth (year after conception), (that) of a Kshatriya who wishes to become powerful in the sixth, (and that) of a Vaisya who longs for (success in his) business in the eighth.
आ षोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते । आ द्वाविंशात्क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ २.३८॥
आ षोडशात् ब्राह्मणस्य सावित्री न अतिवर्तते । आ द्वाविंशात् क्षत्रबन्धोः आ चतुर्विंशतेः विशः ॥ २।३८॥
ā ṣoḍaśāt brāhmaṇasya sāvitrī na ativartate . ā dvāviṃśāt kṣatrabandhoḥ ā caturviṃśateḥ viśaḥ .. 2.38..
2.38. The (time for the) Savitri (initiation) of a Brahmana does not pass until the completion of the sixteenth year (after conception), of a Kshatriya until the completion of the twenty-second, and of a Vaisya until the completion of the twenty-fourth.
अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ २.३९॥
अतस् ऊर्ध्वम् त्रयः अपि एते यथाकालम् असंस्कृताः । सावित्रीपतिताः व्रात्याः भवन्ति आर्य-विगर्हिताः ॥ २।३९॥
atas ūrdhvam trayaḥ api ete yathākālam asaṃskṛtāḥ . sāvitrīpatitāḥ vrātyāḥ bhavanti ārya-vigarhitāḥ .. 2.39..
2.39. After those (periods men of) these three (castes) who have not received the sacrament at the proper time, become Vratyas (outcasts), excluded from the Savitri (initiation) and despised by the Aryans.
नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् । ब्राह्मान् यौनांश्च सम्बन्धान्नाचरेद् ब्राह्मणैः सह ॥ २.४०॥
न एतैः अपूतैः विधिवत् आपदि अपि हि कर्हि चित् । ब्राह्मान् यौनान् च सम्बन्धात् न आचरेत् ब्राह्मणैः सह ॥ २।४०॥
na etaiḥ apūtaiḥ vidhivat āpadi api hi karhi cit . brāhmān yaunān ca sambandhāt na ācaret brāhmaṇaiḥ saha .. 2.40..
2.40. With such men, if they have not been purified according to the rule, let no Brahmana ever, even in times of distress, form a connexion either through the Veda or by marriage.
कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥ २.४१॥
कार्ष्ण-रौरव-बास्तानि चर्माणि ब्रह्मचारिणः । वसीरन् आनुपूर्व्येण शाण-क्षौम-आविकानि च ॥ २।४१॥
kārṣṇa-raurava-bāstāni carmāṇi brahmacāriṇaḥ . vasīran ānupūrvyeṇa śāṇa-kṣauma-āvikāni ca .. 2.41..
2.41. Let students, according to the order (of their castes), wear (as upper dresses) the skins of black antelopes, spotted deer, and he-goats, and (lower garments) made of hemp, flax or wool.
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ २.४२॥
मौञ्जी त्रिवृत्-समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शण-तान्तवी ॥ २।४२॥
mauñjī trivṛt-samā ślakṣṇā kāryā viprasya mekhalā . kṣatriyasya tu maurvī jyā vaiśyasya śaṇa-tāntavī .. 2.42..
2.42. The girdle of a Brahmana shall consist of a of a triple cord of Munga grass, smooth and soft; (that) of a Kshatriya, of a bowstring, made of Murva fibres; (that) of a Vaisya, of hempen threads.
मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ २.४३॥
मुञ्ज-अलाभे तु कर्तव्याः कुश-अश्मन्तक-बल्वजैः । त्रिवृता ग्रन्थिना एकेन त्रिभिः पञ्चभिः एव वा ॥ २।४३॥
muñja-alābhe tu kartavyāḥ kuśa-aśmantaka-balvajaiḥ . trivṛtā granthinā ekena tribhiḥ pañcabhiḥ eva vā .. 2.43..
2.43. If Munga grass (and so forth) be not procurable, (the girdles) may be made of Kusa, Asmantaka, and Balbaga (fibres), with a single threefold knot, or with three or five (knots according to the custom of the family).
कार्पासमुपवीतं स्याद्विप्रस्यौर्ध्ववृतं त्रिवृत् । शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ २.४४॥
कार्पासम् उपवीतम् स्यात् विप्रस्य और्ध्ववृतम् त्रिवृत् । शण-सूत्र-मयम् राज्ञः वैश्यस्य आविक-सौत्रिकम् ॥ २।४४॥
kārpāsam upavītam syāt viprasya aurdhvavṛtam trivṛt . śaṇa-sūtra-mayam rājñaḥ vaiśyasya āvika-sautrikam .. 2.44..
2.44. The sacrificial string of a Brahmana shall be made of cotton, (shall be) twisted to the right, (and consist) of three threads, that of a Kshatriya of hempen threads, (and) that of a Vaisya of woollen threads.
ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ । पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ २.४५॥
ब्राह्मणः बैल्व-पालाशौ क्षत्रियः वाट-खादिरौ । पैलव-औदुम्बरौ वैश्यः दण्डान् अर्हन्ति धर्मतः ॥ २।४५॥
brāhmaṇaḥ bailva-pālāśau kṣatriyaḥ vāṭa-khādirau . pailava-audumbarau vaiśyaḥ daṇḍān arhanti dharmataḥ .. 2.45..
2.45. A Brahmana shall (carry), according to the sacred law, a staff of Bilva or Palasa; a Kshatriya, of Vata or Khadira; (and) a Vaisya, of Pilu or Udumbara.
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ २.४६॥
केश-अन्तिकः ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाट-सम्मितः राज्ञः स्यात् तु नासा-अन्तिकः विशः ॥ २।४६॥
keśa-antikaḥ brāhmaṇasya daṇḍaḥ kāryaḥ pramāṇataḥ . lalāṭa-sammitaḥ rājñaḥ syāt tu nāsā-antikaḥ viśaḥ .. 2.46..
2.46. The staff of a Brahmana shall be made of such length as to reach the end of his hair; that of a Kshatriya, to reach his forehead; (and) that of a Vaisya, to reach (the tip of his) nose.
ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ २.४७॥
ऋजवः ते तु सर्वे स्युः अव्रणाः सौम्य-दर्शनाः । अनुद्वेग-कराः नॄणाम् स त्वचः अनग्नि-दूषिताः ॥ २।४७॥
ṛjavaḥ te tu sarve syuḥ avraṇāḥ saumya-darśanāḥ . anudvega-karāḥ nṝṇām sa tvacaḥ anagni-dūṣitāḥ .. 2.47..
2.47. Let all the staves be straight, without a blemish, handsome to look at, not likely to terrify men, with their bark perfect, unhurt by fire.
प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परीत्याग्निं चरेद्भैक्षं यथाविधि ॥ २.४८॥
प्रतिगृह्य ईप्सितम् दण्डम् उपस्थाय च भास्करम् । प्रदक्षिणम् परीत्य अग्निम् चरेत् भैक्षम् यथाविधि ॥ २।४८॥
pratigṛhya īpsitam daṇḍam upasthāya ca bhāskaram . pradakṣiṇam parītya agnim caret bhaikṣam yathāvidhi .. 2.48..
2.48. Having taken a staff according to his choice, having worshipped the sun and walked round the fire, turning his right hand towards it, (the student) should beg alms according to the prescribed rule.
भवत्पूर्वं चरेद्भैक्षमुपनीतो द्विजोत्तमः । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ २.४९॥
भवत्-पूर्वम् चरेत् भैक्षम् उपनीतः द्विजोत्तमः । भवत्-मध्यम् तु राजन्यः वैश्यः तु भवत्-उत्तरम् ॥ २।४९॥
bhavat-pūrvam caret bhaikṣam upanītaḥ dvijottamaḥ . bhavat-madhyam tu rājanyaḥ vaiśyaḥ tu bhavat-uttaram .. 2.49..
2.49. An initiated Brahmana should beg, beginning (his request with the word) lady (bhavati); a Kshatriya, placing (the word) lady in the middle, but a Vaisya, placing it at the end (of the formula).
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ २.५०॥
मातरम् वा स्वसारम् वा मातुः वा भगिनीम् निजाम् । भिक्षेत भिक्षाम् प्रथमम् या च एनम् न अवमानयेत् ॥ २।५०॥
mātaram vā svasāram vā mātuḥ vā bhaginīm nijām . bhikṣeta bhikṣām prathamam yā ca enam na avamānayet .. 2.50..
2.50. Let him first beg food of his mother, or of his sister, or of his own maternal aunt, or of (some other) female who will not disgrace him (by a refusal).
समाहृत्य तु तद्भैक्षं यावदन्नममायया । यावदर्थंनिवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ २.५१॥
समाहृत्य तु तत् भैक्षम् यावत् अन्नम् अमायया । यावदर्थम् निवेद्य गुरवे अश्नीयात् आचम्य प्राच्-मुखः शुचिः ॥ २।५१॥
samāhṛtya tu tat bhaikṣam yāvat annam amāyayā . yāvadartham nivedya gurave aśnīyāt ācamya prāc-mukhaḥ śuciḥ .. 2.51..
2.51. Having collected as much food as is required (from several persons), and having announced it without guile to his teacher, let him eat, turning his face towards the east, and having purified himself by sipping water.
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ २.५२॥
आयुष्यम् प्राच्-मुखः भुङ्क्ते यशस्यम् दक्षिणा-मुखः । श्रियम् प्रत्यक्-मुखः भुङ्क्ते ऋतम् भुङ्क्ते हि उदक्-मुखः ॥ २।५२॥
āyuṣyam prāc-mukhaḥ bhuṅkte yaśasyam dakṣiṇā-mukhaḥ . śriyam pratyak-mukhaḥ bhuṅkte ṛtam bhuṅkte hi udak-mukhaḥ .. 2.52..
2.52. (His meal will procure) long life, if he eats facing the east; fame, if he turns to the south; prosperity, if he turns to the west; truthfulness, if he faces the east.
उपस्पृश्य द्विजो नित्यमन्नमद्यात्समाहितः । भुक्त्वा चौपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् ॥ २.५३॥
उपस्पृश्य द्विजः नित्यम् अन्नम् अद्यात् समाहितः । भुक्त्वा च एपस्पृशेत् सम्यक् अद्भिः खानि च संस्पृशेत् ॥ २।५३॥
upaspṛśya dvijaḥ nityam annam adyāt samāhitaḥ . bhuktvā ca epaspṛśet samyak adbhiḥ khāni ca saṃspṛśet .. 2.53..
2.53. Let a twice-born man always eat his food with concentrated mind, after performing an ablution; and after he has eaten, let him duly cleanse himself with water and sprinkle the cavities (of his head).
पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ २.५४॥
पूजयेत् अशनम् नित्यम् अद्यात् च एतत् अकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेत् च प्रतिनन्देत् च सर्वशस् ॥ २।५४॥
pūjayet aśanam nityam adyāt ca etat akutsayan . dṛṣṭvā hṛṣyet prasīdet ca pratinandet ca sarvaśas .. 2.54..
2.54. Let him always worship his food, and eat it without contempt; when he sees it, let him rejoice, show a pleased face, and pray that he may always obtain it.
पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति । अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ॥ २.५५॥
पूजितम् हि अशनम् नित्यम् बलम् ऊर्जम् च यच्छति । अपूजितम् तु तत् भुक्तम् उभयम् नाशयेत् इदम् ॥ २।५५॥
pūjitam hi aśanam nityam balam ūrjam ca yacchati . apūjitam tu tat bhuktam ubhayam nāśayet idam .. 2.55..
2.55. Food, that is always worshipped, gives strength and manly vigour; but eaten irreverently, it destroys them both.
नौच्छिष्टं कस्य चिद्दद्यान्नाद्यादेतत्तथाऽन्तरा । न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद्व्रजेत् ॥ २.५६॥
न औच्छिष्टम् कस्य चित् दद्यात् न अद्यात् एतत् तथा अन्तरा । न च एव अत्यशनम् कुर्यात् न च औच्छिष्टः क्व चित् व्रजेत् ॥ २।५६॥
na aucchiṣṭam kasya cit dadyāt na adyāt etat tathā antarā . na ca eva atyaśanam kuryāt na ca aucchiṣṭaḥ kva cit vrajet .. 2.56..
2.56. Let him not give to any man what he leaves, and beware of eating between (the two meal-times); let him not over-eat himself, nor go anywhere without having purified himself (after his meal).
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २.५७॥
अनारोग्यम् अनायुष्यम् अस्वर्ग्यम् च अति भोजनम् । अपुण्यम् लोक-विद्विष्टम् तस्मात् तत् परिवर्जयेत् ॥ २।५७॥
anārogyam anāyuṣyam asvargyam ca ati bhojanam . apuṇyam loka-vidviṣṭam tasmāt tat parivarjayet .. 2.57..
2.57. Excessive eating is prejudicial to health, to fame, and to (bliss in) heaven; it prevents (the acquisition of) spiritual merit, and is odious among men; one ought, for these reasons, to avoid it carefully.
ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् । कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ २.५८॥
ब्राह्मेण विप्रः तीर्थेन नित्यकालम् उपस्पृशेत् । काय-त्रैदशिकाभ्याम् वा न पित्र्येण कदा चन ॥ २।५८॥
brāhmeṇa vipraḥ tīrthena nityakālam upaspṛśet . kāya-traidaśikābhyām vā na pitryeṇa kadā cana .. 2.58..
2.58. Let a Brahmana always sip water out of the part of the hand (tirtha) sacred to Brahman, or out of that sacred to Ka (Pragapati), or out of (that) sacred to the gods, never out of that sacred to the manes.
अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते । कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥ २.५९॥
अङ्गुष्ठ-मूलस्य तले ब्राह्मम् तीर्थम् प्रचक्षते । कायम् अङ्गुलि-मूले अग्रे देवम् पित्र्यम् तयोः अधस् ॥ २।५९॥
aṅguṣṭha-mūlasya tale brāhmam tīrtham pracakṣate . kāyam aṅguli-mūle agre devam pitryam tayoḥ adhas .. 2.59..
2.59. They call (the part) at the root of the thumb the tirtha sacred to Brahman, that at the root of the (little) finger (the tirtha) sacred to Ka (Pragapati), (that) at the tips (of the fingers, the tirtha) sacred to the gods, and that below (between the index and the thumb, the tirtha) sacred to the manes.
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् । खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ २.६०॥
त्रिस् आचामेत् अपः पूर्वम् द्विस् प्रमृज्यात् ततस् मुखम् । खानि च एव स्पृशेत् अद्भिः आत्मानम् शिरः एव च ॥ २।६०॥
tris ācāmet apaḥ pūrvam dvis pramṛjyāt tatas mukham . khāni ca eva spṛśet adbhiḥ ātmānam śiraḥ eva ca .. 2.60..
2.60. Let him first sip water thrice; next twice wipe his mouth; and, lastly, touch with water the cavities (of the head), (the seat of) the soul and the head.
अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् । शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः ॥ २.६१॥
अन् उष्णाभिः अ फेनाभिः अद्भिः तीर्थेन धर्म-विद् । शौच-ईप्सुः सर्वदा आचामेत् एकान्ते प्राच्-उदक्-मुखः ॥ २।६१॥
an uṣṇābhiḥ a phenābhiḥ adbhiḥ tīrthena dharma-vid . śauca-īpsuḥ sarvadā ācāmet ekānte prāc-udak-mukhaḥ .. 2.61..
2.61. He who knows the sacred law and seeks purity shall always perform the rite of sipping with water neither hot nor frothy, with the (prescribed) tirtha, in a lonely place, and turning to the east or to the north.
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ २.६२॥
हृद्-गाभिः पूयते विप्रः कण्ठ-गाभिः तु भूमिपः । वैश्यः अद्भिः प्राशिताभिः तु शूद्रः स्पृष्टाभिः अन्ततस् ॥ २।६२॥
hṛd-gābhiḥ pūyate vipraḥ kaṇṭha-gābhiḥ tu bhūmipaḥ . vaiśyaḥ adbhiḥ prāśitābhiḥ tu śūdraḥ spṛṣṭābhiḥ antatas .. 2.62..
2.62. A Brahmana is purified by water that reaches his heart, a Kshatriya by water reaching his throat, a Vaisya by water taken into his mouth, (and) a Sudra by water touched with the extremity (of his lips).
उद्धृते दक्षिणे पाणावुपवीत्यौच्यते द्विजः । सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ २.६३॥
उद्धृते दक्षिणे पाणौ उपवीत्य उच्यते द्विजः । सव्ये प्राचीनावीती निवीती कण्ठ-सज्जने ॥ २।६३॥
uddhṛte dakṣiṇe pāṇau upavītya ucyate dvijaḥ . savye prācīnāvītī nivītī kaṇṭha-sajjane .. 2.63..
2.63. A twice-born man is called upavitin when his right arm is raised (and the sacrificial string or the dress, passed under it, rests on the left shoulder); (when his) left (arm) is raised (and the string, or the dress, passed under it, rests on the right shoulder, he is called) prakinavitin; and nivitin when it hangs down (straight) from the neck.
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ २.६४॥
मेखलाम् अजिनम् दण्डम् उपवीतम् कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीत अन्यानि मन्त्रवत् ॥ २।६४॥
mekhalām ajinam daṇḍam upavītam kamaṇḍalum . apsu prāsya vinaṣṭāni gṛhṇīta anyāni mantravat .. 2.64..
2.64. His girdle, the skin (which serves as his upper garment), his staff, his sacrificial thread, (and) his water-pot he must throw into water, when they have been damaged, and take others, reciting sacred formulas.
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः ॥ २.६५॥
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोः द्वाविंशे वैश्यस्य द्वि-अधिके मतः ॥ २।६५॥
keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate . rājanyabandhoḥ dvāviṃśe vaiśyasya dvi-adhike mataḥ .. 2.65..
2.65. (The ceremony called) Kesanta (clipping the hair) is ordained for a Brahmana in the sixteenth year (from conception); for a Kshatriya, in the twenty-second; and for a Vaisya, two (years) later than that.
अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः । संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ २.६६॥
अमन्त्रिका तु स्त्रीणाम् आवृत् अशेषतः । संस्कार-अर्थम् शरीरस्य यथाकालम् यथाक्रमम् ॥ २।६६॥
amantrikā tu strīṇām āvṛt aśeṣataḥ . saṃskāra-artham śarīrasya yathākālam yathākramam .. 2.66..
2.66. This whole series (of ceremonies) must be performed for females (also), in order to sanctify the body, at the proper time and in the proper order, but without (the recitation of) sacred texts.
वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः । पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥ २.६७॥
वैवाहिकः विधिः स्त्रीणाम् संस्कारः वैदिकः स्मृतः । पति-सेवा गुरौ वासः गृह-अर्थः अग्नि-परिक्रिया ॥ २।६७॥
vaivāhikaḥ vidhiḥ strīṇām saṃskāraḥ vaidikaḥ smṛtaḥ . pati-sevā gurau vāsaḥ gṛha-arthaḥ agni-parikriyā .. 2.67..
2.67. The nuptial ceremony is stated to be the Vedic sacrament for women (and to be equal to the initiation), serving the husband (equivalent to) the residence in (the house of the) teacher, and the household duties (the same) as the (daily) worship of the sacred fire.
एष प्रोक्तो द्विजातीनामौपनायनिको विधिः । उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ २.६८॥
एष प्रोक्तः द्विजातीनाम् औपनायनिकः विधिः । उत्पत्ति-व्यञ्जकः पुण्यः कर्मयोगम् निबोधत ॥ २।६८॥
eṣa proktaḥ dvijātīnām aupanāyanikaḥ vidhiḥ . utpatti-vyañjakaḥ puṇyaḥ karmayogam nibodhata .. 2.68..
2.68. Thus has been described the rule for the initiation of the twice-born, which indicates a (new) birth, and sanctifies; learn (now) to what duties they must afterwards apply themselves.
उपनीयं गुरुः शिष्यं शिक्षयेत्शौचमादितः । आचारमग्निकार्यं च संध्यौपासनमेव च ॥ २.६९॥
उपनीयम् गुरुः शिष्यम् शिक्षयेत् शौचम् आदितस् । आचारम् अग्नि-कार्यम् च संध्या-औपासनम् एव च ॥ २।६९॥
upanīyam guruḥ śiṣyam śikṣayet śaucam āditas . ācāram agni-kāryam ca saṃdhyā-aupāsanam eva ca .. 2.69..
2.69. Having performed the (rite of) initiation, the teacher must first instruct the (pupil) in (the rules of) personal purification, of conduct, of the fire-worship, and of the twilight devotions.
अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः । ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः ॥ २.७०॥
अध्येष्यमाणः तु आचान्तः यथाशास्त्रम् उदक्-मुखः । ब्रह्माञ्जलि-कृतः अध्याप्यः लघु-वासाः जित-ऐन्द्रियः ॥ २।७०॥
adhyeṣyamāṇaḥ tu ācāntaḥ yathāśāstram udak-mukhaḥ . brahmāñjali-kṛtaḥ adhyāpyaḥ laghu-vāsāḥ jita-aindriyaḥ .. 2.70..
2.70. But (a student) who is about to begin the Study (of the Veda), shall receive instruction, after he has sipped water in accordance with the Institutes (of the sacred law), has made the Brahmangali, (has put on) a clean dress, and has brought his organs under due control.
ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ २.७१॥
ब्रह्म-आरम्भे अवसाने च पादौ ग्राह्यौ गुरोः सदा । संहत्य हस्तौ अध्येयम् स हि ब्रह्माञ्जलिः स्मृतः ॥ २।७१॥
brahma-ārambhe avasāne ca pādau grāhyau guroḥ sadā . saṃhatya hastau adhyeyam sa hi brahmāñjaliḥ smṛtaḥ .. 2.71..
2.71. At the beginning and at the end of (a lesson in the) Veda he must always clasp both the feet of his teacher, (and) he must study, joining his hands; that is called the Brahmangali (joining the palms for the sake of the Veda).
व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ २.७२॥
व्यत्यस्त-पाणिना कार्यम् उपसङ्ग्रहणम् गुरोः । सव्येन सव्यः स्प्रष्टव्यः दक्षिणेन च दक्षिणः ॥ २।७२॥
vyatyasta-pāṇinā kāryam upasaṅgrahaṇam guroḥ . savyena savyaḥ spraṣṭavyaḥ dakṣiṇena ca dakṣiṇaḥ .. 2.72..
2.72. With crossed hands he must clasp (the feet) of the teacher, and touch the left (foot) with his left (hand), the right (foot) with his right (hand).
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २.७३॥
अध्येष्यमाणम् तु गुरुः नित्यकालम् अतन्द्रितः । अधीष्व भो इति ब्रूयात् विरामः अस्तु इति च आरमेत् ॥ २।७३॥
adhyeṣyamāṇam tu guruḥ nityakālam atandritaḥ . adhīṣva bho iti brūyāt virāmaḥ astu iti ca āramet .. 2.73..
2.73. But to him who is about to begin studying, the teacher always unwearied, must say: Ho, recite! He shall leave off (when the teacher says): Let a stoppage take place!
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यति ॥ २.७४॥
ब्रह्मणः प्रणवम् कुर्यात् आदौ अन्ते च सर्वदा । स्रवति अनोङ्कृतम् पूर्वम् परस्तात् च विशीर्यति ॥ २।७४॥
brahmaṇaḥ praṇavam kuryāt ādau ante ca sarvadā . sravati anoṅkṛtam pūrvam parastāt ca viśīryati .. 2.74..
2.74. Let him always pronounce the syllable Om at the beginning and at the end of (a lesson in) the Veda; (for) unless the syllable Om precede (the lesson) will slip away (from him), and unless it follow it will fade away.
प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः पूतस्तत ओं। कारमर्हति ॥ २.७५॥
प्राच्-कूलान् पर्युपासीनः पवित्रैः च एव पावितः । प्राणायामैः त्रिभिः पूतः ततस् ओम्। कारम् अर्हति ॥ २।७५॥
prāc-kūlān paryupāsīnaḥ pavitraiḥ ca eva pāvitaḥ . prāṇāyāmaiḥ tribhiḥ pūtaḥ tatas om. kāram arhati .. 2.75..
2.75. Seated on (blades of Kusa grass) with their points to the east, purified by Pavitras (blades of Kusa grass), and sanctified by three suppressions of the breath (Pranayama), he is worthy (to pronounce) the syllable Om.
अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयान्निरदुहद्भूर्भुवः स्वरितीति च ॥ २.७६॥
अकारम् च अपि उकारम् च मकारम् च प्रजापतिः । वेद-त्रयात् निरदुहत् भूः भुवः स्वर् इति इति च ॥ २।७६॥
akāram ca api ukāram ca makāram ca prajāpatiḥ . veda-trayāt niraduhat bhūḥ bhuvaḥ svar iti iti ca .. 2.76..
2.76. Pragapati (the lord of creatures) milked out (as it were) from the three Vedas the sounds A, U, and M, and (the Vyahritis) Bhuh, Bhuvah, Svah.
त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २.७७॥
त्रिभ्यः एव तु वेदेभ्यः पादम् पादम् अदूदुहत् । तत् इति ऋचः अस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ २।७७॥
tribhyaḥ eva tu vedebhyaḥ pādam pādam adūduhat . tat iti ṛcaḥ asyāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ .. 2.77..
2.77. Moreover from the three Vedas Pragapati, who dwells in the highest heaven (Parameshthin), milked out (as it were) that Rik-verse, sacred to Savitri (Savitri), which begins with the word tad, one foot from each.
एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् । संध्ययोर्वेदविद्विप्रो वेदपुण्येन युज्यते ॥ २.७८॥
एतद्-अक्षरम् एताम् च जपन् व्याहृति-पूर्विकाम् । संध्ययोः वेद-विद् विप्रः वेद-पुण्येन युज्यते ॥ २।७८॥
etad-akṣaram etām ca japan vyāhṛti-pūrvikām . saṃdhyayoḥ veda-vid vipraḥ veda-puṇyena yujyate .. 2.78..
2.78. A Brahmana, learned in the Veda, who recites during both twilights that syllable and that (verse), preceded by the Vyahritis, gains the (whole) merit which (the recitation of) the Vedas confers.
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचैवाहिर्विमुच्यते ॥ २.७९॥
सहस्र-कृत्वस् तु अभ्यस्य बहिस् एतत् त्रिकम् द्विजः । महतः अपि एनसः मासात् त्वचा एव अहिः विमुच्यते ॥ २।७९॥
sahasra-kṛtvas tu abhyasya bahis etat trikam dvijaḥ . mahataḥ api enasaḥ māsāt tvacā eva ahiḥ vimucyate .. 2.79..
2.79. A twice-born man who (daily) repeats those three one thousand times outside (the village), will be freed after a month even from great guilt, as a snake from its slough.
एतयाऋचा विसंयुक्तः काले च क्रियया स्वया । ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु ॥ २.८०॥
एतया ऋचा विसंयुक्तः काले च क्रियया स्वया । ब्रह्म-क्षत्रिय-विद्या-निर्गर्हणाम् याति साधुषु ॥ २।८०॥
etayā ṛcā visaṃyuktaḥ kāle ca kriyayā svayā . brahma-kṣatriya-vidyā-nirgarhaṇām yāti sādhuṣu .. 2.80..
2.80. The Brahmana, the Kshatriya, and the Vaisya who neglect (the recitation of) that Rik-verse and the timely (performance of the) rites (prescribed for) them, will be blamed among virtuous men.
ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ २.८१॥
ओंकार-पूर्विकाः तिस्रः महाव्याहृतयः अव्ययाः । त्रिपदा च एव सावित्री विज्ञेयम् ब्रह्मणः मुखम् ॥ २।८१॥
oṃkāra-pūrvikāḥ tisraḥ mahāvyāhṛtayaḥ avyayāḥ . tripadā ca eva sāvitrī vijñeyam brahmaṇaḥ mukham .. 2.81..
2.81. Know that the three imperishable Mahavyahritis, preceded by the syllable Om, and (followed) by the three-footed Savitri are the portal of the Veda and the gate leading (to union with) Brahman.
योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः । स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ २.८२॥
यः अधीते अहनि अहनि एताम् त्रीणि वर्षाणि अतन्द्रितः । स ब्रह्म परम् अभ्येति वायु-भूतः ख-मूर्तिमान् ॥ २।८२॥
yaḥ adhīte ahani ahani etām trīṇi varṣāṇi atandritaḥ . sa brahma param abhyeti vāyu-bhūtaḥ kha-mūrtimān .. 2.82..
2.82. He who daily recites that (verse), untired, during three years, will enter (after death) the highest Brahman, move as free as air, and assume an ethereal form.
एकाक्षरं परं ब्रह्म प्राणायामः परं तपः । सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते ॥ २.८३॥
एकाक्षरम् परम् ब्रह्म प्राणायामः परम् तपः । सावित्र्याः तु परम् ना अस्ति मौनात् सत्यम् विशिष्यते ॥ २।८३॥
ekākṣaram param brahma prāṇāyāmaḥ param tapaḥ . sāvitryāḥ tu param nā asti maunāt satyam viśiṣyate .. 2.83..
2.83. The monosyllable (Om) is the highest Brahman, (three) suppressions of the breath are the best (form of) austerity, but nothing surpasses the Savitri truthfulness is better than silence.
क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः । अक्षरं त्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २.८४॥
क्षरन्ति सर्वाः वैदिक्यः जुहोति-यजति-क्रियाः । अक्षरम् तु अक्षरम् ज्ञेयम् ब्रह्म च एव प्रजापतिः ॥ २।८४॥
kṣaranti sarvāḥ vaidikyaḥ juhoti-yajati-kriyāḥ . akṣaram tu akṣaram jñeyam brahma ca eva prajāpatiḥ .. 2.84..
2.84. All rites ordained in the Veda, burnt oblations and (other) sacrifices, pass away; but know that the syllable (Om) is imperishable, and (it is) Brahman, (and) the Lord of creatures (Pragapati).
विधियज्ञाज्जपयज्ञो विशिष्टो दशभिर्गुणैः । उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः ॥ २.८५॥
विधियज्ञात् जप-यज्ञः विशिष्टः दशभिः गुणैः । उपांशुः स्यात् शतगुणः साहस्रः मानसः स्मृतः ॥ २।८५॥
vidhiyajñāt japa-yajñaḥ viśiṣṭaḥ daśabhiḥ guṇaiḥ . upāṃśuḥ syāt śataguṇaḥ sāhasraḥ mānasaḥ smṛtaḥ .. 2.85..
2.85. An offering, consisting of muttered prayers, is ten times more efficacious than a sacrifice performed according to the rules (of the Veda); a (prayer) which is inaudible (to others) surpasses it a hundred times, and the mental (recitation of sacred texts) a thousand times.
ये पाकयज्ञाः चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ २.८६॥
ये पाकयज्ञाः चत्वारः विधि-यज्ञ-समन्विताः । सर्वे ते जप-यज्ञस्य कलाम् न अर्हन्ति षोडशीम् ॥ २।८६॥
ye pākayajñāḥ catvāraḥ vidhi-yajña-samanvitāḥ . sarve te japa-yajñasya kalām na arhanti ṣoḍaśīm .. 2.86..
2.86. The four Pakayagnas and those sacrifices which are enjoined by the rules (of the Veda) are all together not equal in value to a sixteenth part of the sacrifice consisting of muttered prayers.
जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ २.८७॥
जप्येन एव तु संसिध्येत् ब्राह्मणः न अत्र संशयः । कुर्यात् अन्यत् न वा कुर्यात् मैत्रः ब्राह्मणः उच्यते ॥ २।८७॥
japyena eva tu saṃsidhyet brāhmaṇaḥ na atra saṃśayaḥ . kuryāt anyat na vā kuryāt maitraḥ brāhmaṇaḥ ucyate .. 2.87..
2.87. But, undoubtedly, a Brahmana reaches the highest goal by muttering prayers only; (whether) he perform other (rites) or neglect them, he who befriends (all creatures) is declared (to be) a (true) Brahmana.
इन्द्रियाणां विचरतां विषयेष्वपहारिषु । संयमे यत्नमातिष्ठेद्विद्वान् यन्तैव वाजिनाम् ॥ २.८८॥
इन्द्रियाणाम् विचरताम् विषयेषु अपहारिषु । संयमे यत्नम् आतिष्ठेत् विद्वान् यन्ता एव वाजिनाम् ॥ २।८८॥
indriyāṇām vicaratām viṣayeṣu apahāriṣu . saṃyame yatnam ātiṣṭhet vidvān yantā eva vājinām .. 2.88..
2.88. A wise man should strive to restrain his organs which run wild among alluring sensual objects, like a charioteer his horses.
एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः । तानि सम्यक्प्रवक्ष्यामि यथावदनुपूर्वशः ॥ २.८९॥
एकादश इन्द्रियाणि आहुः यानि पूर्वे मनीषिणः । तानि सम्यक् प्रवक्ष्यामि यथावत् अनुपूर्वशस् ॥ २।८९॥
ekādaśa indriyāṇi āhuḥ yāni pūrve manīṣiṇaḥ . tāni samyak pravakṣyāmi yathāvat anupūrvaśas .. 2.89..
2.89. Those eleven organs which former sages have named, I will properly (and) precisely enumerate in due order,
श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक्चैव दशमी स्मृता ॥ २.९०॥
श्रोत्रम् त्वच् चक्षुषी जिह्वा नासिका च एव पञ्चमी । पायु-उपस्थम् हस्त-पादम् वाच् च एव दशमी स्मृता ॥ २।९०॥
śrotram tvac cakṣuṣī jihvā nāsikā ca eva pañcamī . pāyu-upastham hasta-pādam vāc ca eva daśamī smṛtā .. 2.90..
2.90. (Viz.) the ear, the skin, the eyes, the tongue, and the nose as the fifth, the anus, the organ of generation, hands and feet, and the (organ of) speech, named as the tenth.
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः । कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ २.९१॥
बुद्धीन्द्रियाणि पञ्च एषाम् श्रोत्र-आदीनि अनुपूर्वशस् । कर्मेन्द्रियाणि पञ्च एषाम् पायु-आदीनि प्रचक्षते ॥ २।९१॥
buddhīndriyāṇi pañca eṣām śrotra-ādīni anupūrvaśas . karmendriyāṇi pañca eṣām pāyu-ādīni pracakṣate .. 2.91..
2.91. Five of them, the ear and the rest according to their order, they call organs of sense, and five of them, the anus and the rest, organs of action.
एकादशं मनो ज्ञेयं स्वगुणेनौभयात्मकम् । यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ २.९२॥
एकादशम् मनः ज्ञेयम् स्व-गुणेन औभय-आत्मकम् । यस्मिन् जिते जितौ एतौ भवतः पञ्चकौ गणौ ॥ २।९२॥
ekādaśam manaḥ jñeyam sva-guṇena aubhaya-ātmakam . yasmin jite jitau etau bhavataḥ pañcakau gaṇau .. 2.92..
2.92. Know that the internal organ (manas) is the eleventh, which by its quality belongs to both (sets); when that has been subdued, both those sets of five have been conquered.
इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् । संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ २.९३॥
इन्द्रियाणाम् प्रसङ्गेन दोषम् ऋच्छति असंशयम् । संनियम्य तु तानि एव ततस् सिद्धिम् निगच्छति ॥ २।९३॥
indriyāṇām prasaṅgena doṣam ṛcchati asaṃśayam . saṃniyamya tu tāni eva tatas siddhim nigacchati .. 2.93..
2.93. Through the attachment of his organs (to sensual pleasure) a man doubtlessly will incur guilt; but if he keep them under complete control, he will obtain success (in gaining all his aims).
न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥ २.९४॥
न जातु कामः कामानाम् उपभोगेन शाम्यति । हविषा कृष्णवर्त्मा एव भूयस् एव अभिवर्धते ॥ २।९४॥
na jātu kāmaḥ kāmānām upabhogena śāmyati . haviṣā kṛṣṇavartmā eva bhūyas eva abhivardhate .. 2.94..
2.94. Desire is never extinguished by the enjoyment of desired objects; it only grows stronger like a fire (fed) with clarified butter.
यश्चैतान् प्राप्नुयात्सर्वान् यश्चैतान् केवलांस्त्यजेत् ॥प्रापणात्सर्वकामानां परित्यागो विशिष्यते ॥ २.९५॥
यः च एतान् प्राप्नुयात् सर्वान् यः च एतान् केवलान् त्यजेत् ॥प्रापणात् सर्व-कामानाम् परित्यागः विशिष्यते ॥ २।९५॥
yaḥ ca etān prāpnuyāt sarvān yaḥ ca etān kevalān tyajet ..prāpaṇāt sarva-kāmānām parityāgaḥ viśiṣyate .. 2.95..
2.95. If one man should obtain all those (sensual enjoyments) and another should renounce them all, the renunciation of all pleasure is far better than the attainment of them.
न तथैतानि शक्यन्ते संनियन्तुमसेवया ॥विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ २.९६॥
न तथा एतानि शक्यन्ते संनियन्तुम् असेवया ॥विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशस् ॥ २।९६॥
na tathā etāni śakyante saṃniyantum asevayā ..viṣayeṣu prajuṣṭāni yathā jñānena nityaśas .. 2.96..
2.96. Those (organs) which are strongly attached to sensual pleasures, cannot so effectually be restrained by abstinence (from enjoyments) as by a constant (pursuit of true) knowledge.
वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च । न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ॥ २.९७॥
वेदाः त्यागः च यज्ञाः च नियमाः च तपांसि च । न विप्रदुष्ट-भावस्य सिद्धिम् गच्छति कर्हि चित् ॥ २।९७॥
vedāḥ tyāgaḥ ca yajñāḥ ca niyamāḥ ca tapāṃsi ca . na vipraduṣṭa-bhāvasya siddhim gacchati karhi cit .. 2.97..
2.97. Neither (the study of) the Vedas, nor liberality, nor sacrifices, nor any (self-imposed) restraint, nor austerities, ever procure the attainment (of rewards) to a man whose heart is contaminated (by sensuality).
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ॥ २.९८॥
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यः नरः । न हृष्यति ग्लायति वा स विज्ञेयः जित-ऐन्द्रियः ॥ २।९८॥
śrutvā spṛṣṭvā ca dṛṣṭvā ca bhuktvā ghrātvā ca yaḥ naraḥ . na hṛṣyati glāyati vā sa vijñeyaḥ jita-aindriyaḥ .. 2.98..
2.98. That man may be considered to have (really) subdued his organs, who on hearing and touching and seeing, on tasting and smelling (anything) neither rejoices nor repines.
इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् । तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ २.९९॥
इन्द्रियाणाम् तु सर्वेषाम् यदि एकम् क्षरति इन्द्रियम् । तेन अस्य क्षरति प्रज्ञा दृतेः पादात् इव उदकम् ॥ २।९९॥
indriyāṇām tu sarveṣām yadi ekam kṣarati indriyam . tena asya kṣarati prajñā dṛteḥ pādāt iva udakam .. 2.99..
2.99. But when one among all the organs slips away (from control), thereby (man’s) wisdom slips away from him, even as the water (flows) through the one (open) foot of a (water-carrier’s) skin.
वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ २.१००॥
वशे कृत्वा इन्द्रिय-ग्रामम् संयम्य च मनः तथा । सर्वान् संसाधयेत् अर्थान् अक्षिण्वन् योगतः तनुम् ॥ २।१००॥
vaśe kṛtvā indriya-grāmam saṃyamya ca manaḥ tathā . sarvān saṃsādhayet arthān akṣiṇvan yogataḥ tanum .. 2.100..
2.100. If he keeps all the (ten) organs as well as the mind in subjection, he may gain all his aims, without reducing his body by (the practice) of Yoga.
पूर्वां संध्यां जपंस्तिष्ठेत्सावित्रीमाऽर्कदर्शनात् । पश्चिमां तु सदासीत सम्यगृक्षविभावनात् ॥ २.१०१॥
पूर्वाम् संध्याम् जपन् तिष्ठेत् सावित्रीम् आ अर्क-दर्शनात् । पश्चिमाम् तु सदा आसीत सम्यक् ऋक्ष-विभावनात् ॥ २।१०१॥
pūrvām saṃdhyām japan tiṣṭhet sāvitrīm ā arka-darśanāt . paścimām tu sadā āsīta samyak ṛkṣa-vibhāvanāt .. 2.101..
2.101. Let him stand during the morning twilight, muttering the Savitri until the sun appears, but (let him recite it), seated, in the evening until the constellations can be seen distinctly.
पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति । पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ २.१०२॥
पूर्वाम् संध्याम् जपन् तिष्ठत् नैशम् एनः व्यपोहति । पश्चिमाम् तु समासीनः मलम् हन्ति दिवा कृतम् ॥ २।१०२॥
pūrvām saṃdhyām japan tiṣṭhat naiśam enaḥ vyapohati . paścimām tu samāsīnaḥ malam hanti divā kṛtam .. 2.102..
2.102. He who stands during the morning twilight muttering (the Savitri), removes the guilt contracted during the (previous) night; but he who (recites it), seated, in the evening, destroys the sin he committed during the day.
न तिष्ठति तु यः पूर्वां नौपास्ते यश्च पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः ॥ २.१०३॥
न तिष्ठति तु यः पूर्वाम् न उपास्ते यः च पश्चिमाम् । स शूद्र-वत् बहिष्कार्यः सर्वस्मात् द्विज-कर्मणः ॥ २।१०३॥
na tiṣṭhati tu yaḥ pūrvām na upāste yaḥ ca paścimām . sa śūdra-vat bahiṣkāryaḥ sarvasmāt dvija-karmaṇaḥ .. 2.103..
2.103. But he who does not (worship) standing in the morning, nor sitting in the evening, shall be excluded, just like a Sudra, from all the duties and rights of an Aryan.
अपां समीपे नियतो नैत्यकं विधिमास्थितः । सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ २.१०४॥
अपाम् समीपे नियतः नैत्यकम् विधिम् आस्थितः । सावित्रीम् अपि अधीयीत गत्वा अरण्यम् समाहितः ॥ २।१०४॥
apām samīpe niyataḥ naityakam vidhim āsthitaḥ . sāvitrīm api adhīyīta gatvā araṇyam samāhitaḥ .. 2.104..
2.104. He who (desires to) perform the ceremony (of the) daily (recitation), may even recite the Savitri near water, retiring into the forest, controlling his organs and concentrating his mind.
वेदौपकरणे चैव स्वाध्याये चैव नैत्यके । नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ २.१०५॥
वेद-औपकरणे च एव स्वाध्याये च एव नैत्यके । न अनुरोधः अस्ति अनध्याये होम-मन्त्रेषु च एव हि ॥ २।१०५॥
veda-aupakaraṇe ca eva svādhyāye ca eva naityake . na anurodhaḥ asti anadhyāye homa-mantreṣu ca eva hi .. 2.105..
2.105. Both when (one studies) the supplementary treatises of the Veda, and when (one recites) the daily portion of the Veda, no regard need be paid to forbidden days, likewise when (one repeats) the sacred texts required for a burnt oblation.
नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत्स्मृतम् ॥ब्रह्माहुतिहुतं पुण्यमनध्यायवषट्कृतम् ॥ २.१०६॥
नैत्यके न अस्ति अनध्यायः ब्रह्म-सत्रम् हि तत् स्मृतम् ॥ब्रह्माहुति-हुतम् पुण्यम् अनध्याय-वषट्कृतम् ॥ २।१०६॥
naityake na asti anadhyāyaḥ brahma-satram hi tat smṛtam ..brahmāhuti-hutam puṇyam anadhyāya-vaṣaṭkṛtam .. 2.106..
2.106. There are no forbidden days for the daily recitation, since that is declared to be a Brahmasattra (an everlasting sacrifice offered to Brahman); at that the Veda takes the place of the burnt oblations, and it is meritorious (even), when (natural phenomena, requiring) a cessation of the Veda-study, take the place of the exclamation Vashat.
यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः । तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ २.१०७॥
यः स्वाध्यायम् अधीते अब्दम् विधिना नियतः शुचिः । तस्य नित्यम् क्षरति एष पयः दधि घृतम् मधु ॥ २।१०७॥
yaḥ svādhyāyam adhīte abdam vidhinā niyataḥ śuciḥ . tasya nityam kṣarati eṣa payaḥ dadhi ghṛtam madhu .. 2.107..
2.107. For him who, being pure and controlling his organs, during a year daily recites the Veda according to the rule, that (daily recitation) will ever cause sweet and sour milk, clarified butter and honey to flow
अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् । आ समावर्तनात्कुर्यात्कृतोपनयनो द्विजः ॥ २.१०८॥
अग्नि-इन्धनम् भैक्ष-चर्याम् अधःशय्याम् गुरोः हितम् । आ समावर्तनात् कुर्यात् कृत-उपनयनः द्विजः ॥ २।१०८॥
agni-indhanam bhaikṣa-caryām adhaḥśayyām guroḥ hitam . ā samāvartanāt kuryāt kṛta-upanayanaḥ dvijaḥ .. 2.108..
2.108. Let an Aryan who has been initiated, (daily) offer fuel in the sacred fire, beg food, sleep on the ground and do what is beneficial to this teacher, until (he performs the ceremony of) Samavartana (on returning home).
आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ॥ २.१०९॥
आचार्य-पुत्रः शुश्रूषुः ज्ञान-दः धार्मिकः शुचिः । आप्तः शक्तः अर्थ-दः साधुः स्वर् अध्याप्याः दश धर्मतः ॥ २।१०९॥
ācārya-putraḥ śuśrūṣuḥ jñāna-daḥ dhārmikaḥ śuciḥ . āptaḥ śaktaḥ artha-daḥ sādhuḥ svar adhyāpyāḥ daśa dharmataḥ .. 2.109..
2.109. According to the sacred law the (following) ten (persons, viz.) the teacher’s son, one who desires to do service, one who imparts knowledge, one who is intent on fulfilling the law, one who is pure, a person connected by marriage or friendship, one who possesses (mental) ability, one who makes presents of money, one who is honest, and a relative, may be instructed (in the Veda).
नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः । जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ २.११०॥
न अपृष्टः कस्य चित् ब्रूयात् न च अन्यायेन पृच्छतः । जानन् अपि हि मेधावी जड-वत् लोके आचरेत् ॥ २।११०॥
na apṛṣṭaḥ kasya cit brūyāt na ca anyāyena pṛcchataḥ . jānan api hi medhāvī jaḍa-vat loke ācaret .. 2.110..
2.110. Unless one be asked, one must not explain (anything) to anybody, nor (must one answer) a person who asks improperly; let a wise man, though he knows (the answer), behave among men as (if he were) an idiot.
अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥ २.१११॥
अधर्मेण च यः प्राह यः च अधर्मेण पृच्छति । तयोः अन्यतरः प्रैति विद्वेषम् वा अधिगच्छति ॥ २।१११॥
adharmeṇa ca yaḥ prāha yaḥ ca adharmeṇa pṛcchati . tayoḥ anyataraḥ praiti vidveṣam vā adhigacchati .. 2.111..
2.111. Of the two persons, him who illegally explains (anything), and him who illegally asks (a question), one (or both) will die or incur (the other’s) enmity.
धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा । तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे ॥ २.११२॥
धर्म-अर्थौ यत्र न स्याताम् शुश्रूषा वा अपि तद्विधा । तत्र विद्या न वप्तव्या शुभम् बीजम् इव औषरे ॥ २।११२॥
dharma-arthau yatra na syātām śuśrūṣā vā api tadvidhā . tatra vidyā na vaptavyā śubham bījam iva auṣare .. 2.112..
2.112. Where merit and wealth are not (obtained by teaching) nor (at least) due obedience, in such (soil) sacred knowledge must not be sown, just as good seed (must) not (be thrown) on barren land.
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ २.११३॥
विद्यया एव समम् कामम् मर्तव्यम् ब्रह्म-वादिना । आपदि अपि हि घोरायाम् न तु एनाम् इरिणे वपेत् ॥ २।११३॥
vidyayā eva samam kāmam martavyam brahma-vādinā . āpadi api hi ghorāyām na tu enām iriṇe vapet .. 2.113..
2.113. Even in times of dire distress a teacher of the Veda should rather die with his knowledge than sow it in barren soil.
विद्या ब्राह्मणमेत्याह शेवधिष्टेऽस्मि रक्ष माम् । असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ २.११४॥
विद्या ब्राह्मणम् एत्य आह शेवधिः ते अस्मि रक्ष माम् । असूयकाय माम् मा अदाः तथा स्याम् वीर्यवत्तमा ॥ २।११४॥
vidyā brāhmaṇam etya āha śevadhiḥ te asmi rakṣa mām . asūyakāya mām mā adāḥ tathā syām vīryavattamā .. 2.114..
2.114. Sacred Learning approached a Brahmana and said to him: ’I am thy treasure, preserve me, deliver me not to a scorner; so (preserved) I shall become supremely strong.’
यमेव तु शुचिं विद्या नियतं ब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ २.११५॥
यम् एव तु शुचिम् विद्या नियतम् ब्रह्मचारिणम् । तस्मै माम् ब्रूहि विप्राय निधिपाय अप्रमादिने ॥ २।११५॥
yam eva tu śucim vidyā niyatam brahmacāriṇam . tasmai mām brūhi viprāya nidhipāya apramādine .. 2.115..
2.115. ’But deliver me, as to the keeper of thy treasure, to a Brahmana whom thou shalt know to be pure, of subdued senses, chaste and attentive.’
ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् । स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ॥ २.११६॥
ब्रह्म यः तु अननुज्ञातम् अधीयानात् अवाप्नुयात् । स ब्रह्मस्तेय-संयुक्तः नरकम् प्रतिपद्यते ॥ २।११६॥
brahma yaḥ tu ananujñātam adhīyānāt avāpnuyāt . sa brahmasteya-saṃyuktaḥ narakam pratipadyate .. 2.116..
2.116. But he who acquires without permission the Veda from one who recites it, incurs the guilt of stealing the Veda, and shall sink into hell.
लौकिकं वैदिकं वाऽपि तथाऽध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २.११७॥
लौकिकम् वैदिकम् वा अपि तथा आध्यात्मिकम् एव वा । आददीत यतस् ज्ञानम् तम् पूर्वम् अभिवादयेत् ॥ २।११७॥
laukikam vaidikam vā api tathā ādhyātmikam eva vā . ādadīta yatas jñānam tam pūrvam abhivādayet .. 2.117..
2.117. (A student) shall first reverentially salute that (teacher) from whom he receives (knowledge), referring to worldly affairs, to the Veda, or to the Brahman.
सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः । नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ २.११८॥
सावित्री-मात्र-सारः अपि वरम् विप्रः सु यन्त्रितः । न अ यन्त्रितः त्रि-वेदः अपि सर्व-आशी सर्व-विक्रयी ॥ २।११८॥
sāvitrī-mātra-sāraḥ api varam vipraḥ su yantritaḥ . na a yantritaḥ tri-vedaḥ api sarva-āśī sarva-vikrayī .. 2.118..
2.118. A Brahmana who completely governs himself, though he know the Savitri only, is better than he who knows the three Vedas, (but) does not control himself, eats all (sorts of) food, and sells all (sorts of goods).
शय्याऽऽसनेऽध्याचरिते श्रेयसा न समाविशेत् । शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ॥ २.११९॥
शय्या-आसने अध्याचरिते श्रेयसा न समाविशेत् । शय्या-आसन-स्थः च एव इनम् प्रत्युत्थाय अभिवादयेत् ॥ २।११९॥
śayyā-āsane adhyācarite śreyasā na samāviśet . śayyā-āsana-sthaḥ ca eva inam pratyutthāya abhivādayet .. 2.119..
2.119. One must not sit down on a couch or seat which a superior occupies; and he who occupies a couch or seat shall rise to meet a (superior), and (afterwards) salute him.
ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति । प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ २.१२०॥
ऊर्ध्वम् प्राणाः हि उत्क्रमन्ति यूनः स्थविरे आयति । प्रत्युत्थान-अभिवादाभ्याम् पुनर् तान् प्रतिपद्यते ॥ २।१२०॥
ūrdhvam prāṇāḥ hi utkramanti yūnaḥ sthavire āyati . pratyutthāna-abhivādābhyām punar tān pratipadyate .. 2.120..
2.120. For the vital airs of a young man mount upwards to leave his body when an elder approaches; but by rising to meet him and saluting he recovers them.
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि सम्प्रवर्धन्ते आयुर्धर्मो यशो बलम् ॥ २.१२१॥
अभिवादन-शीलस्य नित्यम् वृद्ध-उपसेविनः । चत्वारि सम्प्रवर्धन्ते आयुः धर्मः यशः बलम् ॥ २।१२१॥
abhivādana-śīlasya nityam vṛddha-upasevinaḥ . catvāri sampravardhante āyuḥ dharmaḥ yaśaḥ balam .. 2.121..
2.121. He who habitually salutes and constantly pays reverence to the aged obtains an increase of four (things), (viz.) length of life, knowledge, fame, (and) streng
अभिवादात्परं विप्रो ज्यायांसमभिवादयन् । असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ २.१२२॥
अभिवादात् परम् विप्रः ज्यायांसम् अभिवादयन् । असौ नाम अहम् अस्मि इति स्वम् नाम परिकीर्तयेत् ॥ २।१२२॥
abhivādāt param vipraḥ jyāyāṃsam abhivādayan . asau nāma aham asmi iti svam nāma parikīrtayet .. 2.122..
2.122. After the (word of) salutation, a Brahmana who greets an elder must pronounce his name, saying, ’I am
नामधेयस्य ये के चिदभिवादं न जानते । तान् प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च ॥ २.१२३॥
नामधेयस्य ये के चित् अभिवादम् न जानते । तान् प्राज्ञः अहम् इति ब्रूयात् स्त्रियः सर्वाः तथा एव च ॥ २।१२३॥
nāmadheyasya ye ke cit abhivādam na jānate . tān prājñaḥ aham iti brūyāt striyaḥ sarvāḥ tathā eva ca .. 2.123..
2.123. To those (persons) who, when a name is pronounced, do not understand (the meaning of) the salutation, a wise man should say, ’It is I;’ and (he should address) in the same manner all women.
भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने । नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ २.१२४॥
भोः शब्दम् कीर्तयेत् अन्ते स्वस्य नाम्नः अभिवादने । नाम्नाम् स्वरूप-भावः हि भो भावः ऋषिभिः स्मृतः ॥ २।१२४॥
bhoḥ śabdam kīrtayet ante svasya nāmnaḥ abhivādane . nāmnām svarūpa-bhāvaḥ hi bho bhāvaḥ ṛṣibhiḥ smṛtaḥ .. 2.124..
2.124. In saluting he should pronounce after his name the word bhoh; for the sages have declared that the nature of bhoh is the same as that of (all proper) names.
आयुष्मान् भव सौम्यैति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २.१२५॥
आयुष्मान् भव सौम्य एति वाच्यः विप्रः अभिवादने । अकारः च अस्य नाम्नः अन्ते वाच्यः पूर्व-अक्षरः प्लुतः ॥ २।१२५॥
āyuṣmān bhava saumya eti vācyaḥ vipraḥ abhivādane . akāraḥ ca asya nāmnaḥ ante vācyaḥ pūrva-akṣaraḥ plutaḥ .. 2.125..
2.125. A Brahmana should thus be saluted in return, ’May’st thou be long-lived, O gentle one!’ and the vowel ’a’ must be added at the end of the name (of the person addressed), the syllable preceding it being drawn out to the length of three moras.
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २.१२६॥
यः न वेत्ति अभिवादस्य विप्रः प्रत्यभिवादनम् । न अभिवाद्यः स विदुषा यथा शूद्रः तथा एव सः ॥ २।१२६॥
yaḥ na vetti abhivādasya vipraḥ pratyabhivādanam . na abhivādyaḥ sa viduṣā yathā śūdraḥ tathā eva saḥ .. 2.126..
2.126. A Brahmana who does not know the form of returning a salutation, must not be saluted by a learned man; as a Sudra, even so is he.
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ २.१२७॥
ब्राह्मणम् कुशलम् पृच्छेत् क्षत्रबन्धुम् अनामयम् । वैश्यम् क्षेमम् समागम्य शूद्रम् आरोग्यम् एव च ॥ २।१२७॥
brāhmaṇam kuśalam pṛcchet kṣatrabandhum anāmayam . vaiśyam kṣemam samāgamya śūdram ārogyam eva ca .. 2.127..
2.127. Let him ask a Brahmana, on meeting him, after (his health, with the word) kusala, a Kshatriya (with the word) anamaya, a Vaisya (with the word) kshema, and a Sudra (with the word) anarogya.
अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ २.१२८॥
अ वाच्यः दीक्षितः नाम्ना यवीयान् अपि यः भवेत् । भो भवत्-पूर्वकम् तु एनम् अभिभाषेत धर्म-विद् ॥ २।१२८॥
a vācyaḥ dīkṣitaḥ nāmnā yavīyān api yaḥ bhavet . bho bhavat-pūrvakam tu enam abhibhāṣeta dharma-vid .. 2.128..
2.128. He who has been initiated (to perform a Srauta sacrifice) must not be addressed by his name, even though he be a younger man; he who knows the sacred law must use in speaking to such (a man the particle) bhoh and (the pronoun) bhavat (your worship).
परपत्नी तु या स्त्री स्यादसम्बन्धा च योनितः । तां ब्रूयाद्भवतीत्येवं सुभगे भगिनीति च ॥ २.१२९॥
पर-पत्नी तु या स्त्री स्यात् असम्बन्धा च योनितः । ताम् ब्रूयात् भवती इति एवम् सुभगे भगिनि इति च ॥ २।१२९॥
para-patnī tu yā strī syāt asambandhā ca yonitaḥ . tām brūyāt bhavatī iti evam subhage bhagini iti ca .. 2.129..
2.129. But to a female who is the wife of another man, and not a blood-relation, he must say, ’Lady’ (bhavati) or ’Beloved sister!’
मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजो गुरून् । असावहमिति ब्रूयात्प्रत्युत्थाय यवीयसः ॥ २.१३०॥
मातुलान् च पितृव्यान् च श्वशुरान् ऋत्विजः गुरून् । असौ अहम् इति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ २।१३०॥
mātulān ca pitṛvyān ca śvaśurān ṛtvijaḥ gurūn . asau aham iti brūyāt pratyutthāya yavīyasaḥ .. 2.130..
2.130. To his maternal and paternal uncles, fathers-in-law, officiating priests, (and other) venerable persons, he must say, ’I am N. N.,’ and rise (to meet them), even though they be younger (than himself).
मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा । सम्पूज्या गुरुपत्नीवत्समास्ता गुरुभार्यया ॥ २.१३१॥
मातृ-श्वसा मातुलानी श्वश्रूः अथ पितृ-श्वसा । सम्पूज्याः गुरु-पत्नी-वत् समाः ताः गुरु-भार्यया ॥ २।१३१॥
mātṛ-śvasā mātulānī śvaśrūḥ atha pitṛ-śvasā . sampūjyāḥ guru-patnī-vat samāḥ tāḥ guru-bhāryayā .. 2.131..
2.131. A maternal aunt, the wife of a maternal uncle, a mother-in-law, and a paternal aunt must be honoured like the wife of one’s teacher; they are equal to the wife of one’s teacher.
भ्रातुर्भार्यौपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि । विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसम्बन्धियोषितः ॥ २.१३२॥
भ्रातुः भार्या औपसङ्ग्राह्या सवर्णा अहनि अहनि अपि । विप्रोष्य तु उपसङ्ग्राह्याः ज्ञाति-सम्बन्धि-योषितः ॥ २।१३२॥
bhrātuḥ bhāryā aupasaṅgrāhyā savarṇā ahani ahani api . viproṣya tu upasaṅgrāhyāḥ jñāti-sambandhi-yoṣitaḥ .. 2.132..
2.132. (The feet of the) wife of one’s brother, if she be of the same caste (varna), must be clasped every day; but (the feet of) wives of (other) paternal and maternal relatives need only be embraced on one’s return from a journey.
पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि । मातृवद्वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी ॥ २.१३३॥
पितुः भगिन्याम् मातुः च ज्यायस्याम् च स्वसरि अपि । मातृ-वत् वृत्तिम् आतिष्ठेत् माता ताभ्यः गरीयसी ॥ २।१३३॥
pituḥ bhaginyām mātuḥ ca jyāyasyām ca svasari api . mātṛ-vat vṛttim ātiṣṭhet mātā tābhyaḥ garīyasī .. 2.133..
2.133. Towards a sister of one’s father and of one’s mother, and towards one’s own elder sister, one must behave as towards one’s mother; (but) the mother is more venerable than they.
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ २.१३४॥
दश-अब्द-आख्यम् पौर-सख्यम् पञ्च-अब्द-आख्यम् कलाभृताम् । त्रि-अब्द-पूर्वम् श्रोत्रियाणाम् सु अल्पेन अपि स्व-योनिषु ॥ २।१३४॥
daśa-abda-ākhyam paura-sakhyam pañca-abda-ākhyam kalābhṛtām . tri-abda-pūrvam śrotriyāṇām su alpena api sva-yoniṣu .. 2.134..
2.134. Fellow-citizens are called friends (and equals though one be) ten years (older than the other), men practising (the same) fine art (though one be) five years (older than the other), Srotriyas (though) three years (intervene between their ages), but blood-relations only (if the) difference of age be very small.
ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् । पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ २.१३५॥
ब्राह्मणम् दश-वर्षम् तु शत-वर्षम् तु भूमिपम् । पितापुत्रौ विजानीयात् ब्राह्मणः तु तयोः पिता ॥ २।१३५॥
brāhmaṇam daśa-varṣam tu śata-varṣam tu bhūmipam . pitāputrau vijānīyāt brāhmaṇaḥ tu tayoḥ pitā .. 2.135..
2.135. Know that a Brahmana of ten years and Kshatriya of a hundred years stand to each other in the relation of father and son; but between those two the Brahmana is the father.
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मानस्थानानि गरीयो यद्यदुत्तरम् ॥ २.१३६॥
वित्तम् बन्धुः वयः कर्म विद्या भवति पञ्चमी । एतानि मानस्थानानि गरीयः यत् यत् उत्तरम् ॥ २।१३६॥
vittam bandhuḥ vayaḥ karma vidyā bhavati pañcamī . etāni mānasthānāni garīyaḥ yat yat uttaram .. 2.136..
2.136. Wealth, kindred, age, (the due performance of) rites, and, fifthly, sacred learning are titles to respect; but each later-named (cause) is more weighty (than the preceding ones).
पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ २.१३७॥
पञ्चानाम् त्रिषु वर्णेषु भूयांसि गुणवन्ति च । यत्र स्युः सः अत्र मान-अर्हः शूद्रः अपि दशमीम् गतः ॥ २।१३७॥
pañcānām triṣu varṇeṣu bhūyāṃsi guṇavanti ca . yatra syuḥ saḥ atra māna-arhaḥ śūdraḥ api daśamīm gataḥ .. 2.137..
2.137. Whatever man of the three (highest) castes possesses most of those five, both in number and degree, that man is worthy of honour among them; and (so is) also a Sudra who has entered the tenth (decade of his life).
चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः । स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ २.१३८॥
चक्रिणः दशमी-स्थस्य रोगिणः भारिणः स्त्रियाः । स्नातकस्य च राज्ञः च पन्थाः देयः वरस्य च ॥ २।१३८॥
cakriṇaḥ daśamī-sthasya rogiṇaḥ bhāriṇaḥ striyāḥ . snātakasya ca rājñaḥ ca panthāḥ deyaḥ varasya ca .. 2.138..
2.138. Way must be made for a man in a carriage, for one who is above ninety years old, for one diseased, for the carrier of a burden, for a woman, for a Snataka, for the king, and for a bridegroom.
तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ । राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ २.१३९॥
तेषाम् तु समवेतानाम् मान्यौ स्नातक-पार्थिवौ । राज-स्नातकयोः च एव स्नातकः नृप-मान-भाज् ॥ २।१३९॥
teṣām tu samavetānām mānyau snātaka-pārthivau . rāja-snātakayoḥ ca eva snātakaḥ nṛpa-māna-bhāj .. 2.139..
2.139. Among all those, if they meet (at one time), a Snataka and the king must be (most) honoured; and if the king and a Snataka (meet), the latter receives respect from the king.
उपनीय तु यः शिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ २.१४०॥
उपनीय तु यः शिष्यम् वेदम् अध्यापयेत् द्विजः । स कल्पम् स रहस्यम् च तम् आचार्यम् प्रचक्षते ॥ २।१४०॥
upanīya tu yaḥ śiṣyam vedam adhyāpayet dvijaḥ . sa kalpam sa rahasyam ca tam ācāryam pracakṣate .. 2.140..
2.140. They call that Brahmana who initiates a pupil and teaches him the Veda together with the Kalpa and the Rahasyas, the teacher (akarya, of the latter).
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ २.१४१॥
एक-देशम् तु वेदस्य वेदाङ्गानि अपि वा पुनर् । यः अध्यापयति वृत्ति-अर्थम् उपाध्यायः सः उच्यते ॥ २।१४१॥
eka-deśam tu vedasya vedāṅgāni api vā punar . yaḥ adhyāpayati vṛtti-artham upādhyāyaḥ saḥ ucyate .. 2.141..
2.141. But he who for his livelihood teaches a portion only of the Veda, or also the Angas of the Veda, is called the sub-teacher (upadhyaya).
निषेकादीनि कर्माणि यः करोति यथाविधि । सम्भावयति चान्नेन स विप्रो गुरुरुच्यते ॥ २.१४२॥
निषेक-आदीनि कर्माणि यः करोति यथाविधि । सम्भावयति च अन्नेन स विप्रः गुरुः उच्यते ॥ २।१४२॥
niṣeka-ādīni karmāṇi yaḥ karoti yathāvidhi . sambhāvayati ca annena sa vipraḥ guruḥ ucyate .. 2.142..
2.142. That Brahmana, who performs in accordance with the rules (of the Veda) the rites, the Garbhadhana (conception-rite), and so forth, and gives food (to the child), is called the Guru (the venerable one).
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥ २.१४३॥
अग्न्याधेयम् पाकयज्ञान् अग्निष्टोम-आदिकान् मखान् । यः करोति वृतः यस्य स तस्य ऋत्विजः इह उच्यते ॥ २।१४३॥
agnyādheyam pākayajñān agniṣṭoma-ādikān makhān . yaḥ karoti vṛtaḥ yasya sa tasya ṛtvijaḥ iha ucyate .. 2.143..
2.143. He who, being (duly) chosen (for the purpose), performs the Agnyadheya, the Pakayagnas, (and) the (Srauta) sacrifices, such as the Agnishtoma (for another man), is called (his) officiating priest.
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । स माता स पिता ज्ञेयस्तं न द्रुह्येत्कदा चन ॥ २.१४४॥
यः आवृणोति अवितथम् ब्रह्मणा श्रवणौ उभौ । स माता स पिता ज्ञेयः तम् न द्रुह्येत् कदा चन ॥ २।१४४॥
yaḥ āvṛṇoti avitatham brahmaṇā śravaṇau ubhau . sa mātā sa pitā jñeyaḥ tam na druhyet kadā cana .. 2.144..
2.144. That (man) who truthfully fills both his ears with the Veda, (the pupil) shall consider as his father and mother; he must never offend him.
उपाध्यायान् दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ २.१४५॥
उपाध्यायान् दश आचार्यः आचार्याणाम् शतम् पिता । सहस्रम् तु पितॄन् माता गौरवेण अतिरिच्यते ॥ २।१४५॥
upādhyāyān daśa ācāryaḥ ācāryāṇām śatam pitā . sahasram tu pitṝn mātā gauraveṇa atiricyate .. 2.145..
2.145. The teacher (akarya) is ten times more venerable than a sub-teacher (upadhyaya), the father a hundred times more than the teacher, but the mother a thousand times more than the father.
उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् ॥ २.१४६॥
उत्पादक-ब्रह्म-दात्रोः गरीयान् ब्रह्म-दः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य च एह च शाश्वतम् ॥ २।१४६॥
utpādaka-brahma-dātroḥ garīyān brahma-daḥ pitā . brahmajanma hi viprasya pretya ca eha ca śāśvatam .. 2.146..
2.146. Of him who gives natural birth and him who gives (the knowledge of) the Veda, the giver of the Veda is the more venerable father; for the birth for the sake of the Veda (ensures) eternal (rewards) both in this (life) and after death.
कामान् माता पिता चैनं यदुत्पादयतो मिथः । सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ २.१४७॥
कामात् माता पिता च एनम् यत् उत्पादयतः मिथस् । सम्भूतिम् तस्य ताम् विद्यात् यत् योनौ अभिजायते ॥ २।१४७॥
kāmāt mātā pitā ca enam yat utpādayataḥ mithas . sambhūtim tasya tām vidyāt yat yonau abhijāyate .. 2.147..
2.147. Let him consider that (he received) a (mere animal) existence, when his parents begat him through mutual affection, and when he was born from the womb (of his mother).
आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥ २.१४८॥
आचार्यः तु अस्य याम् जातिम् विधिवत् वेदपारगः । उत्पादयति सावित्र्या सा सत्या सा अजरा अमरा ॥ २।१४८॥
ācāryaḥ tu asya yām jātim vidhivat vedapāragaḥ . utpādayati sāvitryā sā satyā sā ajarā amarā .. 2.148..
2.148. But that birth which a teacher acquainted with the whole Veda, in accordance with the law, procures for him through the Savitri, is real, exempt from age and deat
अल्पं वा बहु वा यस्य श्रुतस्यौपकरोति यः । तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया ॥ २.१४९॥
अल्पम् वा बहु वा यस्य श्रुतस्य औपकरोति यः । तम् अपि इह गुरुम् विद्यात् श्रुत-औपक्रियया तया ॥ २।१४९॥
alpam vā bahu vā yasya śrutasya aupakaroti yaḥ . tam api iha gurum vidyāt śruta-aupakriyayā tayā .. 2.149..
2.149. (The pupil) must know that that man also who benefits him by (instruction in) the Veda, be it little or much, is called in these (Institutes) his Guru, in consequence of that benefit (conferred by instruction in) the Veda.
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ २.१५०॥
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालः अपि विप्रः वृद्धस्य पिता भवति धर्मतः ॥ २।१५०॥
brāhmasya janmanaḥ kartā svadharmasya ca śāsitā . bālaḥ api vipraḥ vṛddhasya pitā bhavati dharmataḥ .. 2.150..
2.150. That Brahmana who is the giver of the birth for the sake of the Veda and the teacher of the prescribed duties becomes by law the father of an aged man, even though he himself be a child.
अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः । पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् ॥ २.१५१॥
अध्यापयामास पितॄन् शिशुः आङ्गिरसः कविः । पुत्रकाः इति ह उवाच ज्ञानेन परिगृह्य तान् ॥ २।१५१॥
adhyāpayāmāsa pitṝn śiśuḥ āṅgirasaḥ kaviḥ . putrakāḥ iti ha uvāca jñānena parigṛhya tān .. 2.151..
2.151. Young Kavi, the son of Angiras, taught his (relatives who were old enough to be) fathers, and, as he excelled them in (sacred) knowledge, he called them ’Little sons.’
ते तमर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् ॥ २.१५२॥
ते तम् अर्थम् अपृच्छन्त देवान् आगत-मन्यवः । देवाः च एतान् समेत्य ऊचुः न्याय्यम् वः शिशुः उक्तवान् ॥ २।१५२॥
te tam artham apṛcchanta devān āgata-manyavaḥ . devāḥ ca etān sametya ūcuḥ nyāyyam vaḥ śiśuḥ uktavān .. 2.152..
2.152. They, moved with resentment, asked the gods concerning that matter, and the gods, having assembled, answered, ’The child has addressed you properly.’
अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ २.१५३॥
अज्ञः भवति वै बालः पिता भवति मन्त्र-दः । अज्ञम् हि बालम् इति आहुः पिता इति एव तु मन्त्र-दम् ॥ २।१५३॥
ajñaḥ bhavati vai bālaḥ pitā bhavati mantra-daḥ . ajñam hi bālam iti āhuḥ pitā iti eva tu mantra-dam .. 2.153..
2.153. ’For (a man) destitute of (sacred) knowledge is indeed a child, and he who teaches him the Veda is his father; for (the sages) have always said "child" to an ignorant man, and "father" to a teacher of the Veda.’
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ २.१५४॥
न हायनैः न पलितैः न वित्तेन न बन्धुभिः । ऋषयः चक्रिरे धर्मम् यः अनूचानः स नः महान् ॥ २।१५४॥
na hāyanaiḥ na palitaiḥ na vittena na bandhubhiḥ . ṛṣayaḥ cakrire dharmam yaḥ anūcānaḥ sa naḥ mahān .. 2.154..
2.154. Neither through years, nor through white (hairs), nor through wealth, nor through (powerful) kinsmen (comes greatness). The sages have made this law, ’He who has learnt the Veda together with the Angas (Anukana) is (considered) great by us.’
विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः । वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ २.१५५॥
विप्राणाम् ज्ञानतः ज्यैष्ठ्यम् क्षत्रियाणाम् तु वीर्यतः । वैश्यानाम् धान्य-धनतः शूद्राणाम् एव जन्मतः ॥ २।१५५॥
viprāṇām jñānataḥ jyaiṣṭhyam kṣatriyāṇām tu vīryataḥ . vaiśyānām dhānya-dhanataḥ śūdrāṇām eva janmataḥ .. 2.155..
2.155. The seniority of Brahmanas is from (sacred) knowledge, that of Kshatriyas from valour, that of Vaisyas from wealth in grain (and other goods), but that of Sudras alone from age.
न तेन वृद्धो भवति येनास्य पलितं शिरः । यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ २.१५६॥
न तेन वृद्धः भवति येन अस्य पलितम् शिरः । यः वै युवा अपि अधीयानः तम् देवाः स्थविरम् विदुः ॥ २।१५६॥
na tena vṛddhaḥ bhavati yena asya palitam śiraḥ . yaḥ vai yuvā api adhīyānaḥ tam devāḥ sthaviram viduḥ .. 2.156..
2.156. A man is not therefore (considered) venerable because his head is gray; him who, though young, has learned the Veda, the gods consider to be venerable.
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ २.१५७॥
यथा काष्ठ-मयः हस्ती यथा चर्म-मयः मृगः । यः च विप्रः अन् अधीयानः त्रयः ते नाम बिभ्रति ॥ २।१५७॥
yathā kāṣṭha-mayaḥ hastī yathā carma-mayaḥ mṛgaḥ . yaḥ ca vipraḥ an adhīyānaḥ trayaḥ te nāma bibhrati .. 2.157..
2.157. As an elephant made of wood, as an antelope made of leather, such is an unlearned Brahmana; those three have nothing but the names (of their kind).
यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला । यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ २.१५८॥
यथा षण्ढः अफलः स्त्रीषु यथा गौः गवि च अफला । यथा च अज्ञे अफलम् दानम् तथा विप्रः अनृचः अफलः ॥ २।१५८॥
yathā ṣaṇḍhaḥ aphalaḥ strīṣu yathā gauḥ gavi ca aphalā . yathā ca ajñe aphalam dānam tathā vipraḥ anṛcaḥ aphalaḥ .. 2.158..
2.158. As a eunuch is unproductive with women, as a cow with a cow is unprolific, and as a gift made to an ignorant man yields no reward, even so is a Brahmana useless, who (does) not (know) the Rikas.
अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् । वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ २.१५९॥
अहिंसया एव भूतानाम् कार्यम् श्रेयः-अनुशासनम् । वाच् च एव मधुरा श्लक्ष्णा प्रयोज्या धर्मम् इच्छता ॥ २।१५९॥
ahiṃsayā eva bhūtānām kāryam śreyaḥ-anuśāsanam . vāc ca eva madhurā ślakṣṇā prayojyā dharmam icchatā .. 2.159..
2.159. Created beings must be instructed in (what concerns) their welfare without giving them pain, and sweet and gentle speech must be used by (a teacher) who desires (to abide by) the sacred law.
यस्य वाङ्मनसी शुद्धे सम्यग्गुप्ते च सर्वदा । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ २.१६०॥
यस्य वाच्-मनसी शुद्धे सम्यक् गुप्ते च सर्वदा । स वै सर्वम् अवाप्नोति वेदान्त-उपगतम् फलम् ॥ २।१६०॥
yasya vāc-manasī śuddhe samyak gupte ca sarvadā . sa vai sarvam avāpnoti vedānta-upagatam phalam .. 2.160..
2.160. He, forsooth, whose speech and thoughts are pure and ever perfectly guarded, gains the whole reward which is conferred by the Vedanta.
नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः । ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ २.१६१॥
नारुंतुदः स्यात् आर्तः अपि न पर-द्रोह-कर्म-धीः । यया अस्य उद्विजते वाचा न अलोक्याम् ताम् उदीरयेत् ॥ २।१६१॥
nāruṃtudaḥ syāt ārtaḥ api na para-droha-karma-dhīḥ . yayā asya udvijate vācā na alokyām tām udīrayet .. 2.161..
2.161. Let him not, even though in pain, (speak words) cutting (others) to the quick; let him not injure others in thought or deed; let him not utter speeches which make (others) afraid of him, since that will prevent him from gaining heaven.
सम्मानाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ २.१६२॥
सम्मानात् ब्राह्मणः नित्यम् उद्विजेत विषात् इव । अमृतस्य इव च आकाङ्क्षेत् अवमानस्य सर्वदा ॥ २।१६२॥
sammānāt brāhmaṇaḥ nityam udvijeta viṣāt iva . amṛtasya iva ca ākāṅkṣet avamānasya sarvadā .. 2.162..
2.162. A Brahmana should always fear homage as if it were poison; and constantly desire (to suffer) scorn as (he would long for) nectar.
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ॥सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ २.१६३॥
सुखम् हि अवमतः शेते सुखम् च प्रतिबुध्यते ॥सुखम् चरति लोके अस्मिन् अवमन्ता विनश्यति ॥ २।१६३॥
sukham hi avamataḥ śete sukham ca pratibudhyate ..sukham carati loke asmin avamantā vinaśyati .. 2.163..
2.163. For he who is scorned (nevertheless may) sleep with an easy mind, awake with an easy mind, and with an easy mind walk here among men; but the scorner utterly perishes.
अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः । गुरौ वसन् सञ्चिनुयाद्ब्रह्माधिगमिकं तपः ॥ २.१६४॥
अनेन क्रम-योगेन संस्कृत-आत्मा द्विजः शनैस् । गुरौ वसन् सञ्चिनुयात् ब्रह्म-अधिगमिकम् तपः ॥ २।१६४॥
anena krama-yogena saṃskṛta-ātmā dvijaḥ śanais . gurau vasan sañcinuyāt brahma-adhigamikam tapaḥ .. 2.164..
2.164. A twice-born man who has been sanctified by the (employment of) the means, (described above) in due order, shall gradually and cumulatively perform the various austerities prescribed for (those who) study the Veda.
तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः । वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ २.१६५॥
तपः-विशेषैः विविधैः व्रतैः च विधि-चोदितैः । वेदः कृत्स्नः अधिगन्तव्यः स रहस्यः द्विजन्मना ॥ २।१६५॥
tapaḥ-viśeṣaiḥ vividhaiḥ vrataiḥ ca vidhi-coditaiḥ . vedaḥ kṛtsnaḥ adhigantavyaḥ sa rahasyaḥ dvijanmanā .. 2.165..
2.165. An Aryan must study the whole Veda together with the Rahasyas, performing at the same time various kinds of austerities and the vows prescribed by the rules (of the Veda).
वेदमेव सदाऽभ्यस्येत्तपस्तप्यन् द्विजोत्तमः । वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते ॥ २.१६६॥
वेदम् एव सदा अभ्यस्येत् तपः तप्यन् द्विजोत्तमः । वेद-अभ्यासः हि विप्रस्य तपः परम् इह उच्यते ॥ २।१६६॥
vedam eva sadā abhyasyet tapaḥ tapyan dvijottamaḥ . veda-abhyāsaḥ hi viprasya tapaḥ param iha ucyate .. 2.166..
2.166. Let a Brahmana who desires to perform austerities, constantly repeat the Veda; for the study of the Veda is declared (to be) in this world the highest austerity for a Brahmana.
आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ २.१६७॥
आ ह एव स नख-अग्रेभ्यः परमम् तप्यते तपः । यः स्रग्वी अपि द्विजः अधीते स्वाध्यायम् शक्तितस् अन्वहम् ॥ २।१६७॥
ā ha eva sa nakha-agrebhyaḥ paramam tapyate tapaḥ . yaḥ sragvī api dvijaḥ adhīte svādhyāyam śaktitas anvaham .. 2.167..
2.167. Verily, that twice-born man performs the highest austerity up to the extremities of his nails, who, though wearing a garland, daily recites the Veda in private to the utmost of his ability.
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ २.१६८॥
यः अन् अधीत्य द्विजः वेदम् अन्यत्र कुरुते श्रमम् । स जीवन् एव शूद्र-त्वम् आशु गच्छति स अन्वयः ॥ २।१६८॥
yaḥ an adhītya dvijaḥ vedam anyatra kurute śramam . sa jīvan eva śūdra-tvam āśu gacchati sa anvayaḥ .. 2.168..
2.168. A twice-born man who, not having studied the Veda, applies himself to other (and worldly study), soon falls, even while living, to the condition of a Sudra and his descendants (after him).
मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने । तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ २.१६९॥
मातुः अग्रे अधिजननम् द्वितीयम् मौञ्जिबन्धने । तृतीयम् यज्ञ-दीक्षायाम् द्विजस्य श्रुति-चोदनात् ॥ २।१६९॥
mātuḥ agre adhijananam dvitīyam mauñjibandhane . tṛtīyam yajña-dīkṣāyām dvijasya śruti-codanāt .. 2.169..
2.169. According to the injunction of the revealed texts the first birth of an Aryan is from (his natural) mother, the second (happens) on the tying of the girdle of Munga grass, and the third on the initiation to (the performance of) a (Srauta) sacrifice.
तत्र यद्ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् । तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ २.१७०॥
तत्र यत् ब्रह्मजन्म अस्य मौञ्जीबन्धन-चिह्नितम् । तत्र अस्य माता सावित्री पिता तु आचार्यः उच्यते ॥ २।१७०॥
tatra yat brahmajanma asya mauñjībandhana-cihnitam . tatra asya mātā sāvitrī pitā tu ācāryaḥ ucyate .. 2.170..
2.170. Among those (three) the birth which is symbolised by the investiture with the girdle of Munga grass, is his birth for the sake of the Veda; they declare that in that (birth) the Sivitri (verse) is his mother and the teacher his father.
वेदप्रदानादाचार्यं पितरं परिचक्षते । न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ २.१७१॥
वेद-प्रदानात् आचार्यम् पितरम् परिचक्षते । न हि अस्मिन् युज्यते कर्म किञ्चिद् आ मौञ्जिबन्धनात् ॥ २।१७१॥
veda-pradānāt ācāryam pitaram paricakṣate . na hi asmin yujyate karma kiñcid ā mauñjibandhanāt .. 2.171..
2.171. They call the teacher (the pupil’s) father because he gives the Veda; for nobody can perform a (sacred) rite before the investiture with the girdle of Munga grass.
नाभिव्याहारयेद्ब्रह्म स्वधानिनयनादृते । शूद्रेण हि समस्तावद्यावद्वेदे न जायते ॥ २.१७२॥
न अभिव्याहारयेत् ब्रह्म स्वधा-निनयनात् ऋते । शूद्रेण हि समः तावत् यावत् वेदे न जायते ॥ २।१७२॥
na abhivyāhārayet brahma svadhā-ninayanāt ṛte . śūdreṇa hi samaḥ tāvat yāvat vede na jāyate .. 2.172..
2.172. (He who has not been initiated) should not pronounce (any) Vedic text excepting (those required for) the performance of funeral rites, since he is on a level with a Sudra before his birth from the Veda.
कृतौपनयनस्यास्य व्रतादेशनमिष्यते । ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ २.१७३॥
कृत-औपनयनस्य अस्य व्रत-आदेशनम् इष्यते । ब्रह्मणः ग्रहणम् च एव क्रमेण विधि-पूर्वकम् ॥ २।१७३॥
kṛta-aupanayanasya asya vrata-ādeśanam iṣyate . brahmaṇaḥ grahaṇam ca eva krameṇa vidhi-pūrvakam .. 2.173..
2.173. The (student) who has been initiated must be instructed in the performance of the vows, and gradually learn the Veda, observing the prescribed rules.
यद्यस्य विहितं चर्म यत्सूत्रं या च मेखला । यो दण्डो यत्च वसनं तत्तदस्य व्रतेष्वपि ॥ २.१७४॥
यत् यस्य विहितम् चर्म यत् सूत्रम् या च मेखला । यः दण्डः यत् च वसनम् तत् तत् अस्य व्रतेषु अपि ॥ २।१७४॥
yat yasya vihitam carma yat sūtram yā ca mekhalā . yaḥ daṇḍaḥ yat ca vasanam tat tat asya vrateṣu api .. 2.174..
2.174. Whatever dress of skin, sacred thread, girdle, staff, and lower garment are prescribed for a (student at the initiation), the like (must again be used) at the (performance of the) vows.
सेवेतैमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ २.१७५॥
सेवेत एमान् तु नियमान् ब्रह्मचारी गुरौ वसन् । सन् नियम्य ऐन्द्रिय-ग्रामम् तपः-वृद्धि-अर्थम् आत्मनः ॥ २।१७५॥
seveta emān tu niyamān brahmacārī gurau vasan . san niyamya aindriya-grāmam tapaḥ-vṛddhi-artham ātmanaḥ .. 2.175..
2.175. But a student who resides with his teacher must observe the following restrictive rules, duly controlling all his organs, in order to increase his spiritual merit.
नित्यं स्नात्वा शुचिः कुर्याद्देवर्षिपितृतर्पणम् । देवताभ्यर्चनं चैव समिदाधानमेव च ॥ २.१७६॥
नित्यम् स्नात्वा शुचिः कुर्यात् देव-ऋषि-पितृ-तर्पणम् । देवता-अभ्यर्चनम् च एव समिध्-आधानम् एव च ॥ २।१७६॥
nityam snātvā śuciḥ kuryāt deva-ṛṣi-pitṛ-tarpaṇam . devatā-abhyarcanam ca eva samidh-ādhānam eva ca .. 2.176..
2.176. Every day, having bathed, and being purified, he must offer libations of water to the gods, sages and manes, worship (the images of) the gods, and place fuel on (the sacred fire).
वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ २.१७७॥
वर्जयेत् मधु मांसम् च गन्धम् माल्यम् रसान् स्त्रियः । शुक्तानि यानि सर्वाणि प्राणिनाम् च एव हिंसनम् ॥ २।१७७॥
varjayet madhu māṃsam ca gandham mālyam rasān striyaḥ . śuktāni yāni sarvāṇi prāṇinām ca eva hiṃsanam .. 2.177..
2.177. Let him abstain from honey, meat, perfumes, garlands, substances (used for) flavouring (food), women, all substances turned acid, and from doing injury to living creatures.
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ २.१७८॥
अभ्यङ्गम् अञ्जनम् च अक्ष्णोः ऊरु-पान-छत्र-धारणम् । कामम् क्रोधम् च लोभम् च नर्तनम् गीत-वादनम् ॥ २।१७८॥
abhyaṅgam añjanam ca akṣṇoḥ ūru-pāna-chatra-dhāraṇam . kāmam krodham ca lobham ca nartanam gīta-vādanam .. 2.178..
2.178. From anointing (his body), applying collyrium to his eyes, from the use of shoes and of an umbrella (or parasol), from (sensual) desire, anger, covetousness, dancing, singing, and playing (musical instruments),
द्यूतं च जनवादं च परिवादं तथाऽनृतम् । स्त्रीणां च प्रेक्षण आलम्भाऽवघातं परस्य च ॥ २.१७९॥
द्यूतम् च जनवादम् च परिवादम् तथा अनृतम् । स्त्रीणाम् च प्रेक्षणे आलम्भ-अवघातम् परस्य च ॥ २।१७९॥
dyūtam ca janavādam ca parivādam tathā anṛtam . strīṇām ca prekṣaṇe ālambha-avaghātam parasya ca .. 2.179..
2.179. From gambling, idle disputes, backbiting, and lying, from looking at and touching women, and from hurting others.
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्व चित् । कामाधि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ २.१८०॥
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित् । काम-अधि स्कन्दयन् रेतः हिनस्ति व्रतम् आत्मनः ॥ २।१८०॥
ekaḥ śayīta sarvatra na retaḥ skandayet kva cit . kāma-adhi skandayan retaḥ hinasti vratam ātmanaḥ .. 2.180..
2.180. Let him always sleep alone, let him never waste his manhood; for he who voluntarily wastes his manhood, breaks his vow.
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ २.१८१॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः । स्नात्वा अर्कम् अर्चयित्वा त्रिस् पुनर् माम् इति ऋचम् जपेत् ॥ २।१८१॥
svapne siktvā brahmacārī dvijaḥ śukram akāmataḥ . snātvā arkam arcayitvā tris punar mām iti ṛcam japet .. 2.181..
2.181. A twice-born student, who has involuntarily wasted his manly strength during sleep, must bathe, worship the sun, and afterwards thrice mutter the Rik-verse (which begins), ’Again let my strength return to me.’
उदकुम्भं सुमनसो गोशकृत्मृत्तिकाकुशान् । आहरेद्यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ २.१८२॥
उद-कुम्भम् सुमनसः गो-शकृत्-मृत्तिका-कुशान् । आहरेत् यावदर्थानि भैक्षम् च अहरहर् चरेत् ॥ २।१८२॥
uda-kumbham sumanasaḥ go-śakṛt-mṛttikā-kuśān . āharet yāvadarthāni bhaikṣam ca aharahar caret .. 2.182..
2.182. Let him fetch a pot full of water, flowers, cowdung, earth, and Kusa grass, as much as may be required (by his teacher), and daily go to beg food.
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचार्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ २.१८३॥
वेद-यज्ञैः अहीनानाम् प्रशस्तानाम् स्व-कर्मसु । ब्रह्मचारी आहरेत् भैक्षम् गृहेभ्यः प्रयतः अन्वहम् ॥ २।१८३॥
veda-yajñaiḥ ahīnānām praśastānām sva-karmasu . brahmacārī āharet bhaikṣam gṛhebhyaḥ prayataḥ anvaham .. 2.183..
2.183. A student, being pure, shall daily bring food from the houses of men who are not deficient in (the knowledge of) the Veda and in (performing) sacrifices, and who are famous for (following their lawful) occupations.
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २.१८४॥
गुरोः कुले न भिक्षेत न ज्ञाति-कुल-बन्धुषु । अलाभे तु अन्य-गेहानाम् पूर्वम् पूर्वम् विवर्जयेत् ॥ २।१८४॥
guroḥ kule na bhikṣeta na jñāti-kula-bandhuṣu . alābhe tu anya-gehānām pūrvam pūrvam vivarjayet .. 2.184..
2.184. Let him not beg from the relatives of his teacher, nor from his own or his mother’s blood-relations; but if there are no houses belonging to strangers, let him go to one of those named above, taking the last-named first;
सर्वं वापि चरेद्ग्रामं पूर्वौक्तानामसम्भवे । नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ २.१८५॥
सर्वम् वा अपि चरेत् ग्रामम् पूर्व-उक्तानाम् असम्भवे । नियम्य प्रयतः वाचम् अभिशस्तान् तु वर्जयेत् ॥ २।१८५॥
sarvam vā api caret grāmam pūrva-uktānām asambhave . niyamya prayataḥ vācam abhiśastān tu varjayet .. 2.185..
2.185. Or, if there are no (virtuous men of the kind) mentioned above, he may go to each (house in the) village, being pure and remaining silent; but let him avoid Abhisastas (those accused of mortal sin).
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि । सायं। प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥ २.१८६॥
दूरात् आहृत्य समिधः सन् निदध्यात् विहायसि । सायम्। प्रातर् च जुहुयात् ताभिः अग्निम् अतन्द्रितः ॥ २।१८६॥
dūrāt āhṛtya samidhaḥ san nidadhyāt vihāyasi . sāyam. prātar ca juhuyāt tābhiḥ agnim atandritaḥ .. 2.186..
2.186. Having brought sacred fuel from a distance, let him place it anywhere but on the ground, and let him, unwearied, make with it burnt oblations to the sacred fire, both evening and morning.
अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ २.१८७॥
अ कृत्वा भैक्ष-चरणम् अ समिध्य च पावकम् । अनातुरः सप्त-रात्रम् अवकीर्णि-व्रतम् चरेत् ॥ २।१८७॥
a kṛtvā bhaikṣa-caraṇam a samidhya ca pāvakam . anāturaḥ sapta-rātram avakīrṇi-vratam caret .. 2.187..
2.187. He who, without being sick, neglects during seven (successive) days to go out begging, and to offer fuel in the sacred fire, shall perform the penance of an Avakirnin (one who has broken his vow).
भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ २.१८८॥
भैक्षेण वर्तयेत् नित्यम् न एक-अन्न-आदी भवेत् व्रती । भैक्षेण व्रतिनः वृत्तिः उपवास-समा स्मृता ॥ २।१८८॥
bhaikṣeṇa vartayet nityam na eka-anna-ādī bhavet vratī . bhaikṣeṇa vratinaḥ vṛttiḥ upavāsa-samā smṛtā .. 2.188..
2.188. He who performs the vow (of studentship) shall constantly subsist on alms, (but) not eat the food of one (person only); the subsistence of a student on begged food is declared to be equal (in merit) to fasting.
व्रतवद्देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् । काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ २.१८९॥
व्रत-वत् देव-दैवत्ये पित्र्ये कर्मणि अथ ऋषि-वत् । कामम् अभ्यर्थितः अश्नीयात् व्रतम् अस्य न लुप्यते ॥ २।१८९॥
vrata-vat deva-daivatye pitrye karmaṇi atha ṛṣi-vat . kāmam abhyarthitaḥ aśnīyāt vratam asya na lupyate .. 2.189..
2.189. At his pleasure he may eat, when invited, the food of one man at (a rite) in honour of the gods, observing (however the conditions on his vow, or at a (funeral meal) in honor of the manes, behaving (however) like a hermit.
ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः । राजन्यवैश्ययोस्त्वेवं नैतत्कर्म विधीयते ॥ २.१९०॥
ब्राह्मणस्य एव कर्म एतत् उपदिष्टम् मनीषिभिः । राजन्य-वैश्ययोः तु एवम् न एतत् कर्म विधीयते ॥ २।१९०॥
brāhmaṇasya eva karma etat upadiṣṭam manīṣibhiḥ . rājanya-vaiśyayoḥ tu evam na etat karma vidhīyate .. 2.190..
2.190. This duty is prescribed by the wise for a Brahmana only; but no such duty is ordained for a Kshatriya and a Vaisya.
चोदितो गुरुणा नित्यमप्रचोदित एव वा । अध्ययने योगम् यत्नमाचार्यस्य हितेषु च ॥ २.१९१॥
चोदितः गुरुणा नित्यम् अ प्रचोदितः एव वा । अध्ययने योगम् यत्नम् आचार्यस्य हितेषु च ॥ २।१९१॥
coditaḥ guruṇā nityam a pracoditaḥ eva vā . adhyayane yogam yatnam ācāryasya hiteṣu ca .. 2.191..
2.191. Both when ordered by his teacher, and without a (special) command, (a student) shall always exert himself in studying (the Veda), and in doing what is serviceable to his teacher.
शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ २.१९२॥
शरीरम् च एव वाचम् च बुद्धीन्द्रिय-मनांसि च । नियम्य प्राञ्जलिः तिष्ठेत् वीक्षमाणः गुरोः मुखम् ॥ २।१९२॥
śarīram ca eva vācam ca buddhīndriya-manāṃsi ca . niyamya prāñjaliḥ tiṣṭhet vīkṣamāṇaḥ guroḥ mukham .. 2.192..
2.192. Controlling his body, his speech, his organs (of sense), and his mind, let him stand with joined hands, looking at the face of his teacher.
नित्यमुद्धृतपाणिः स्यात्साध्वाचारः सुसंवृतः । आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः ॥ २.१९३॥
नित्यम् उद्धृत-पाणिः स्यात् साधु-आचारः सु संवृतः । आस्यताम् इति च औक्तः सन् आसीत अभिमुखम् गुरोः ॥ २।१९३॥
nityam uddhṛta-pāṇiḥ syāt sādhu-ācāraḥ su saṃvṛtaḥ . āsyatām iti ca auktaḥ san āsīta abhimukham guroḥ .. 2.193..
2.193. Let him always keep his right arm uncovered, behave decently and keep his body well covered, and when he is addressed (with the words), ’Be seated,’ he shall sit down, facing his teacher.
हीनान्नवस्त्रवेषः स्यात्सर्वदा गुरुसन्निधौ । उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ २.१९४॥
हीन-अन्न-वस्त्र-वेषः स्यात् सर्वदा गुरु-सन्निधौ । उत्तिष्ठेत् प्रथमम् च अस्य चरमम् च एव संविशेत् ॥ २।१९४॥
hīna-anna-vastra-veṣaḥ syāt sarvadā guru-sannidhau . uttiṣṭhet prathamam ca asya caramam ca eva saṃviśet .. 2.194..
2.194. In the presence of his teacher let him always eat less, wear a less valuable dress and ornaments (than the former), and let him rise earlier (from his bed), and go to rest later.
प्रतिश्रावणसम्भाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ २.१९५॥
प्रतिश्रावण-सम्भाषे शयानः न समाचरेत् । न आसीनः न च भुञ्जानः न तिष्ठन् न पराङ्मुखः ॥ २।१९५॥
pratiśrāvaṇa-sambhāṣe śayānaḥ na samācaret . na āsīnaḥ na ca bhuñjānaḥ na tiṣṭhan na parāṅmukhaḥ .. 2.195..
2.195. Let him not answer or converse with (his teacher), reclining on a bed, nor sitting, nor eating, nor standing, nor with an averted face.
आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः । प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥ २.१९६॥
आसीनस्य स्थितः कुर्यात् अभिगच्छन् तु तिष्ठतः । प्रत्युद्गम्य तु आव्रजतः पश्चात् धावन् तु धावतः ॥ २।१९६॥
āsīnasya sthitaḥ kuryāt abhigacchan tu tiṣṭhataḥ . pratyudgamya tu āvrajataḥ paścāt dhāvan tu dhāvataḥ .. 2.196..
2.196. Let him do (that), standing up, if (his teacher) is seated, advancing towards him when he stands, going to meet him if he advances, and running after him when he runs;
पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ २.१९७॥
पराङ्मुखस्य अभिमुखः दूर-स्थस्य एत्य च अन्तिकम् । प्रणम्य तु शयानस्य निदेशे च एव तिष्ठतः ॥ २।१९७॥
parāṅmukhasya abhimukhaḥ dūra-sthasya etya ca antikam . praṇamya tu śayānasya nideśe ca eva tiṣṭhataḥ .. 2.197..
2.197. Going (round) to face (the teacher), if his face is averted, approaching him if he stands at a distance, but bending towards him if he lies on a bed, and if he stands in a lower place.
नीचं शय्याऽऽसनं चास्य नित्यं स्याद्गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २.१९८॥
नीचम् शय्या आसनम् च अस्य नित्यम् स्यात् गुरु-सन्निधौ । गुरोः तु चक्षुः-विषये न यथा इष्ट-आसनः भवेत् ॥ २।१९८॥
nīcam śayyā āsanam ca asya nityam syāt guru-sannidhau . guroḥ tu cakṣuḥ-viṣaye na yathā iṣṭa-āsanaḥ bhavet .. 2.198..
2.198. When his teacher is nigh, let his bed or seat be low; but within sight of his teacher he shall not sit carelessly at ease.
नौदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ २.१९९॥
न उदाहरेत् अस्य नाम परोक्षम् अपि केवलम् । न च एव अस्य अनुकुर्वीत गति-भाषित-चेष्टितम् ॥ २।१९९॥
na udāharet asya nāma parokṣam api kevalam . na ca eva asya anukurvīta gati-bhāṣita-ceṣṭitam .. 2.199..
2.199. Let him not pronounce the mere name of his teacher (without adding an honorific title) behind his back even, and let him not mimic his gait, speech, and deportment.
गुरोर्यत्र परिवादो निन्दा वाऽपि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ २.२००॥
गुरोः यत्र परिवादः निन्दा वा अपि प्रवर्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यम् वा ततस् अन्यतस् ॥ २।२००॥
guroḥ yatra parivādaḥ nindā vā api pravartate . karṇau tatra pidhātavyau gantavyam vā tatas anyatas .. 2.200..
2.200. Wherever (people) justly censure or falsely defame his teacher, there he must cover his ears or depart thence to another place.
परीवादात्खरो भवति श्वा वै भवति निन्दकः । परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ २.२०१॥
परीवादात् खरः भवति श्वा वै भवति निन्दकः । परिभोक्ता कृमिः भवति कीटः भवति मत्सरी ॥ २।२०१॥
parīvādāt kharaḥ bhavati śvā vai bhavati nindakaḥ . paribhoktā kṛmiḥ bhavati kīṭaḥ bhavati matsarī .. 2.201..
2.201. By censuring (his teacher), though justly, he will become (in his next birth) an ass, by falsely defaming him, a dog; he who lives on his teacher’s substance, will become a worm, and he who is envious (of his merit), a (larger) insect.
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ २.२०२॥
दूर-स्थः न अर्चयेत् एनम् न क्रुद्धः न अन्तिके स्त्रियाः । यान-आसन-स्थः च एव एनम् अवरुह्य अभिवादयेत् ॥ २।२०२॥
dūra-sthaḥ na arcayet enam na kruddhaḥ na antike striyāḥ . yāna-āsana-sthaḥ ca eva enam avaruhya abhivādayet .. 2.202..
2.202. He must not serve the (teacher by the intervention of another) while he himself stands aloof, nor when he (himself) is angry, nor when a woman is near; if he is seated in a carriage or on a (raised) seat, he must descend and afterwards salute his (teacher).
प्रतिवातानुवाते च नासीत गुरुणा सह । असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥ २.२०३॥
प्रतिवात-अनुवाते च न आसीत गुरुणा सह । असंश्रवे च एव गुरोः न किम् चित् अपि कीर्तयेत् ॥ २।२०३॥
prativāta-anuvāte ca na āsīta guruṇā saha . asaṃśrave ca eva guroḥ na kim cit api kīrtayet .. 2.203..
2.203. Let him not sit with his teacher, to the leeward or to the windward (of him); nor let him say anything which his teacher cannot hear.
गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २.२०४॥
गो-अश्व-ओष्ट्र-यान-प्रासाद-प्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धम् शिला-फलक-नौषु च ॥ २।२०४॥
go-aśva-oṣṭra-yāna-prāsāda-prastareṣu kaṭeṣu ca . āsīta guruṇā sārdham śilā-phalaka-nauṣu ca .. 2.204..
2.204. He may sit with his teacher in a carriage drawn by oxen, horses, or camels, on a terrace, on a bed of grass or leaves, on a mat, on a rock, on a wooden bench, or in a boat.
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् । न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ २.२०५॥
गुरोः गुरौ सन्निहिते गुरु-वत् वृत्तिम् आचरेत् । न च अ निसृष्टः गुरुणा स्वान् गुरून् अभिवादयेत् ॥ २।२०५॥
guroḥ gurau sannihite guru-vat vṛttim ācaret . na ca a nisṛṣṭaḥ guruṇā svān gurūn abhivādayet .. 2.205..
2.205. If his teacher’s teacher is near, let him behave (towards him) as towards his own teacher; but let him, unless he has received permission from his teacher, not salute venerable persons of his own (family).
विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु । प्रतिषेधत्सु चाधर्माधितं चोपदिशत्स्वपि ॥ २.२०६॥
विद्या-गुरुषु एवम् एव नित्या वृत्तिः स्व-योनिषु । प्रतिषेधत्सु च अधर्म-आधितम् च उपदिशत्सु अपि ॥ २।२०६॥
vidyā-guruṣu evam eva nityā vṛttiḥ sva-yoniṣu . pratiṣedhatsu ca adharma-ādhitam ca upadiśatsu api .. 2.206..
2.206. This is likewise (ordained as) his constant behaviour towards (other) instructors in science, towards his relatives (to whom honour is due), towards all who may restrain him from sin, or may give him salutary advice.
श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रे तथाचार्ये गुरोश्चैव स्वबन्धुषु ॥ २.२०७॥
श्रेयःसु गुरु-वत् वृत्तिम् नित्यम् एव समाचरेत् । गुरु-पुत्रे तथा आचार्ये गुरोः च एव स्व-बन्धुषु ॥ २।२०७॥
śreyaḥsu guru-vat vṛttim nityam eva samācaret . guru-putre tathā ācārye guroḥ ca eva sva-bandhuṣu .. 2.207..
2.207. Towards his betters let him always behave as towards his teacher, likewise towards sons of his teacher, born by wives of equal caste, and towards the teacher’s relatives both on the side of the father and of the mother.
बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति ॥ २.२०८॥
बालः समान-जन्मा वा शिष्यः वा यज्ञ-कर्मणि । अध्यापयन् गुरु-सुतः गुरु-वत् मानम् अर्हति ॥ २।२०८॥
bālaḥ samāna-janmā vā śiṣyaḥ vā yajña-karmaṇi . adhyāpayan guru-sutaḥ guru-vat mānam arhati .. 2.208..
2.208. The son of the teacher who imparts instruction (in his father’s stead), whether younger or of equal age, or a student of (the science of) sacrifices (or of other Angas), deserves the same honour as the teacher.
उत्सादनं च गात्राणां स्नापनौच्छिष्टभोजने । न कुर्याद्गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ २.२०९॥
उत्सादनम् च गात्राणाम् स्नापन-औच्छिष्ट-भोजने । न कुर्यात् गुरु-पुत्रस्य पादयोः च अवनेजनम् ॥ २।२०९॥
utsādanam ca gātrāṇām snāpana-aucchiṣṭa-bhojane . na kuryāt guru-putrasya pādayoḥ ca avanejanam .. 2.209..
2.209. (A student) must not shampoo the limbs of his teacher’s son, nor assist him in bathing, nor eat the fragments of his food, nor wash his feet.
गुरुवत्प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ २.२१०॥
गुरु-वत् प्रतिपूज्याः स्युः सवर्णाः गुरु-योषितः । असवर्णाः तु सम्पूज्याः प्रत्युत्थान-अभिवादनैः ॥ २।२१०॥
guru-vat pratipūjyāḥ syuḥ savarṇāḥ guru-yoṣitaḥ . asavarṇāḥ tu sampūjyāḥ pratyutthāna-abhivādanaiḥ .. 2.210..
2.210. The wives of the teacher, who belong to the same caste, must be treated as respectfully as the teacher; but those who belong to a different caste, must be honoured by rising and salutation.
अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २.२११॥
अभ्यञ्जनम् स्नापनम् च गात्र-उत्सादनम् एव च । गुरु-पत्न्याः न कार्याणि केशानाम् च प्रसाधनम् ॥ २।२११॥
abhyañjanam snāpanam ca gātra-utsādanam eva ca . guru-patnyāḥ na kāryāṇi keśānām ca prasādhanam .. 2.211..
2.211. Let him not perform for a wife of his teacher (the offices of) anointing her, assisting her in the bath, shampooing her limbs, or arranging her hair.
गुरुपत्नी तु युवतिर्नाभिवाद्यैह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ २.२१२॥
गुरु-पत्नी तु युवतिः न अभिवाद्या इह पादयोः । पूर्ण-विंशति-वर्षेण गुण-दोषौ विजानता ॥ २।२१२॥
guru-patnī tu yuvatiḥ na abhivādyā iha pādayoḥ . pūrṇa-viṃśati-varṣeṇa guṇa-doṣau vijānatā .. 2.212..
2.212. (A pupil) who is full twenty years old, and knows what is becoming and unbecoming, shall not salute a young wife of his teacher (by clasping) her feet.
स्वभाव एष नारीणां नराणामिह दूषणम् । अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २.२१३॥
स्वभावः एष नारीणाम् नराणाम् इह दूषणम् । अतस् अर्थान् न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ २।२१३॥
svabhāvaḥ eṣa nārīṇām narāṇām iha dūṣaṇam . atas arthān na pramādyanti pramadāsu vipaścitaḥ .. 2.213..
2.213. It is the nature of women to seduce men in this (world); for that reason the wise are never unguarded in (the company of) females.
अविद्वांसमलं लोके विद्वांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ २.२१४॥
अ विद्वांसम् अलम् लोके विद्वांसम् अपि वा पुनर् । प्रमदा हि उत्पथम् नेतुम् काम-क्रोध-वश-अनुगम् ॥ २।२१४॥
a vidvāṃsam alam loke vidvāṃsam api vā punar . pramadā hi utpatham netum kāma-krodha-vaśa-anugam .. 2.214..
2.214. For women are able to lead astray in (this) world not only a fool, but even a learned man, and (to make) him a slave of desire and anger.
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ २.२१५॥
मात्रा स्वस्रा दुहित्रा वा न विविक्त-आसनः भवेत् । बलवान् इन्द्रिय-ग्रामः विद्वांसम् अपि कर्षति ॥ २।२१५॥
mātrā svasrā duhitrā vā na vivikta-āsanaḥ bhavet . balavān indriya-grāmaḥ vidvāṃsam api karṣati .. 2.215..
2.215. One should not sit in a lonely place with one’s mother, sister, or daughter; for the senses are powerful, and master even a learned man.
कामं तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ २.२१६॥
कामम् तु गुरु-पत्नीनाम् युवतीनाम् युवा भुवि । विधिवत् वन्दनम् कुर्यात् असौ अहम् इति ब्रुवन् ॥ २।२१६॥
kāmam tu guru-patnīnām yuvatīnām yuvā bhuvi . vidhivat vandanam kuryāt asau aham iti bruvan .. 2.216..
2.216. But at his pleasure a young student may prostrate himself on the ground before the young wife of a teacher, in accordance with the rule, and say, ’I (worship thee, O lady).’
विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ २.२१७॥
विप्रोष्य पाद-ग्रहणम् अन्वहम् च अभिवादनम् । गुरु-दारेषु कुर्वीत सताम् धर्मम् अनुस्मरन् ॥ २।२१७॥
viproṣya pāda-grahaṇam anvaham ca abhivādanam . guru-dāreṣu kurvīta satām dharmam anusmaran .. 2.217..
2.217. On returning from a journey he must clasp the feet of his teacher’s wife and daily salute her (in the manner just mentioned), remembering the duty of the virtuous.
यथा खनन् खनित्रेण नरो वार्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ २.२१८॥
यथा खनन् खनित्रेण नरः वारि अधिगच्छति । तथा गुरु-गताम् विद्याम् शुश्रूषुः अधिगच्छति ॥ २।२१८॥
yathā khanan khanitreṇa naraḥ vāri adhigacchati . tathā guru-gatām vidyām śuśrūṣuḥ adhigacchati .. 2.218..
2.218. As the man who digs with a spade (into the ground) obtains water, even so an obedient (pupil) obtains the knowledge which lies (hidden) in his teacher.
मुण्डो वा जटिलो वा स्यादथ वा स्यात्शिखाजटः । नैनं ग्रामेऽभिनिम्लोचेत्सूर्यो नाभ्युदियात्क्व चित् ॥ २.२१९॥
मुण्डः वा जटिलः वा स्यात् अथ वा स्यात् शिखा-जटः । न एनम् ग्रामे अभिनिम्लोचेत् सूर्यः न अभ्युदियात् क्व चित् ॥ २।२१९॥
muṇḍaḥ vā jaṭilaḥ vā syāt atha vā syāt śikhā-jaṭaḥ . na enam grāme abhinimlocet sūryaḥ na abhyudiyāt kva cit .. 2.219..
2.219. A (student) may either shave his head, or wear his hair in braids, or braid one lock on the crown of his head; the sun must never set or rise while he (lies asleep) in the village.
तं चेदभ्युदियात्सूर्यः शयानं कामचारतः । निम्लोचेद्वाऽप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ २.२२०॥
तम् चेद् अभ्युदियात् सूर्यः शयानम् कामचारतः । निम्लोचेत् वा अपि अविज्ञानात् जपन् उपवसेत् दिनम् ॥ २।२२०॥
tam ced abhyudiyāt sūryaḥ śayānam kāmacārataḥ . nimlocet vā api avijñānāt japan upavaset dinam .. 2.220..
2.220. If the sun should rise or set while he is sleeping, be it (that he offended) intentionally or unintentionally, he shall fast during the (next) day, muttering (the Savitri).
सूर्येण अभिनिम्लुक्तः शयानोऽभ्युदितश्च यः । प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा ॥ २.२२१॥
सूर्येण अभिनिम्लुक्तः शयानः अभ्युदितः च यः । प्रायश्चित्तम् अकुर्वाणः युक्तः स्यात् महत्-तेनसा ॥ २।२२१॥
sūryeṇa abhinimluktaḥ śayānaḥ abhyuditaḥ ca yaḥ . prāyaścittam akurvāṇaḥ yuktaḥ syāt mahat-tenasā .. 2.221..
2.221. For he who lies (sleeping), while the sun sets or rises, and does not perform (that) penance, is tainted by great guilt.
आचम्य प्रयतो नित्यमुभे संध्ये समाहितः । शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ २.२२२॥
आचम्य प्रयतः नित्यम् उभे संध्ये समाहितः । शुचौ देशे जपन् जप्यम् उपासीत यथाविधि ॥ २।२२२॥
ācamya prayataḥ nityam ubhe saṃdhye samāhitaḥ . śucau deśe japan japyam upāsīta yathāvidhi .. 2.222..
2.222. Purified by sipping water, he shall daily worship during both twilights with a concentrated mind in a pure place, muttering the prescribed text according to the rule.
यदि स्त्री यद्यवरजः श्रेयः किं चित्समाचरेत् । तत्सर्वमाचरेद्युक्तो यत्र चास्य रमेन् मनः ॥ २.२२३॥
यदि स्त्री यदि अवरजः श्रेयः किम् चित् समाचरेत् । तत् सर्वम् आचरेत् युक्तः यत्र च अस्य रमेत् मनः ॥ २।२२३॥
yadi strī yadi avarajaḥ śreyaḥ kim cit samācaret . tat sarvam ācaret yuktaḥ yatra ca asya ramet manaḥ .. 2.223..
2.223. If a woman or a man of low caste perform anything (leading to) happiness, let him diligently practise it, as well as (any other permitted act) in which his heart finds pleasure.
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च । अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ २.२२४॥
धर्म-अर्थौ उच्यते श्रेयः काम-अर्थौ धर्मः एव च । अर्थः एव एह वा श्रेयः त्रिवर्गः इति तु स्थितिः ॥ २।२२४॥
dharma-arthau ucyate śreyaḥ kāma-arthau dharmaḥ eva ca . arthaḥ eva eha vā śreyaḥ trivargaḥ iti tu sthitiḥ .. 2.224..
2.224. (Some declare that) the chief good consists in (the acquisition of) spiritual merit and wealth, (others place it) in (the gratification of) desire and (the acquisition of) wealth, (others) in (the acquisition of) spiritual merit alone, and (others say that the acquisition of) wealth alone is the chief good here (below); but the (correct) decision is that it consists of the aggregate of (those) three.
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः । नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ २.२२५॥
आचार्यः च पिता च एव माता भ्राता च पूर्वजः । न आर्तेन अपि अवमन्तव्याः ब्राह्मणेन विशेषतः ॥ २।२२५॥
ācāryaḥ ca pitā ca eva mātā bhrātā ca pūrvajaḥ . na ārtena api avamantavyāḥ brāhmaṇena viśeṣataḥ .. 2.225..
2.225. The teacher, the father, the mother, and an elder brother must not be treated with disrespect, especially by a Brahmana, though one be grievously offended (by them).
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ २.२२६॥
आचार्यः ब्रह्मणः मूर्तिः पिता मूर्तिः प्रजापतेः । माता पृथिव्याः मूर्तिः तु भ्राता स्वः मूर्तिः आत्मनः ॥ २।२२६॥
ācāryaḥ brahmaṇaḥ mūrtiḥ pitā mūrtiḥ prajāpateḥ . mātā pṛthivyāḥ mūrtiḥ tu bhrātā svaḥ mūrtiḥ ātmanaḥ .. 2.226..
2.226. The teacher is the image of Brahman, the father the image of Pragipati (the lord of created beings), the mother the image of the earth, and an (elder) full brother the image of oneself.
यं मातापितरौ क्लेशं सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ २.२२७॥
यम् माता-पितरौ क्लेशम् सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुम् वर्ष-शतैः अपि ॥ २।२२७॥
yam mātā-pitarau kleśam sahete sambhave nṛṇām . na tasya niṣkṛtiḥ śakyā kartum varṣa-śataiḥ api .. 2.227..
2.227. That trouble (and pain) which the parents undergo on the birth of (their) children, cannot be compensated even in a hundred years.
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा । तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ २.२२८॥
तयोः नित्यम् प्रियम् कुर्यात् आचार्यस्य च सर्वदा । तेषु एव त्रिषु तुष्टेषु तपः सर्वम् समाप्यते ॥ २।२२८॥
tayoḥ nityam priyam kuryāt ācāryasya ca sarvadā . teṣu eva triṣu tuṣṭeṣu tapaḥ sarvam samāpyate .. 2.228..
2.228. Let him always do what is agreeable to those (two) and always (what may please) his teacher; when those three are pleased, he obtains all (those rewards which) austerities (yield)
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ २.२२९॥
तेषाम् त्रयाणाम् शुश्रूषा परमम् तपः उच्यते । न तैः अनभ्यनुज्ञातः धर्मम् अन्यम् समाचरेत् ॥ २।२२९॥
teṣām trayāṇām śuśrūṣā paramam tapaḥ ucyate . na taiḥ anabhyanujñātaḥ dharmam anyam samācaret .. 2.229..
2.229. Obedience towards those three is declared to be the best (form of) austerity; let him not perform other meritorious acts without their permission.
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः । त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः ॥ २.२३०॥
ते एव हि त्रयः लोकाः ते एव त्रयः आश्रमाः । ते एव हि त्रयः वेदाः ते एव उक्ताः त्रयः अग्नयः ॥ २।२३०॥
te eva hi trayaḥ lokāḥ te eva trayaḥ āśramāḥ . te eva hi trayaḥ vedāḥ te eva uktāḥ trayaḥ agnayaḥ .. 2.230..
2.230. For they are declared to be the three worlds, they the three (principal) orders, they the three Vedas, and they the three sacred fires.
पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः । गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥ २.२३१॥
पिता वै गार्हपत्यः अग्निः माता अग्निः दक्षिणः स्मृतः । गुरुः आहवनीयः तु सा अग्नि-त्रेता गरीयसी ॥ २।२३१॥
pitā vai gārhapatyaḥ agniḥ mātā agniḥ dakṣiṇaḥ smṛtaḥ . guruḥ āhavanīyaḥ tu sā agni-tretā garīyasī .. 2.231..
2.231. The father, forsooth, is stated to be the Garhapatya fire, the mother the Dakshinagni, but the teacher the Ahavaniya fire; this triad of fires is most venerable.
त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद्गृही । दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥ २.२३२॥
त्रिषु अप्रमाद्यन् एतेषु त्रीन् लोकान् विजयेत् गृही । दीप्यमानः स्व-वपुषा देव-वत् दिवि मोदते ॥ २।२३२॥
triṣu apramādyan eteṣu trīn lokān vijayet gṛhī . dīpyamānaḥ sva-vapuṣā deva-vat divi modate .. 2.232..
2.232. He who neglects not those three, (even after he has become) a householder, will conquer the three worlds and, radiant in body like a god, he will enjoy bliss in heaven.
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् । गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ २.२३३॥
इमम् लोकम् मातृ-भक्त्या पितृ-भक्त्या तु मध्यमम् । गुरु-शुश्रूषया तु एवम् ब्रह्म-लोकम् समश्नुते ॥ २।२३३॥
imam lokam mātṛ-bhaktyā pitṛ-bhaktyā tu madhyamam . guru-śuśrūṣayā tu evam brahma-lokam samaśnute .. 2.233..
2.233. By honouring his mother he gains this (nether) world, by honouring his father the middle sphere, but by obedience to his teacher the world of Brahman.
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ २.२३४॥
सर्वे तस्य आदृताः धर्माः यस्य एते त्रयः आदृताः । अन् आदृताः तु यस्य एते सर्वाः तस्य अफलाः क्रियाः ॥ २।२३४॥
sarve tasya ādṛtāḥ dharmāḥ yasya ete trayaḥ ādṛtāḥ . an ādṛtāḥ tu yasya ete sarvāḥ tasya aphalāḥ kriyāḥ .. 2.234..
2.234. All duties have been fulfilled by him who honours those three; but to him who honours them not, all rites remain fruitless.
यावत्त्रयस्ते जीवेयुस्तावत्नान्यं समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ॥ २.२३५॥
यावत् त्रयः ते जीवेयुः तावत् न अन्यम् समाचरेत् । तेषु एव नित्यम् शुश्रूषाम् कुर्यात् प्रिय-हिते रतः ॥ २।२३५॥
yāvat trayaḥ te jīveyuḥ tāvat na anyam samācaret . teṣu eva nityam śuśrūṣām kuryāt priya-hite rataḥ .. 2.235..
2.235. As long as those three live, so long let him not (independently) perform any other (meritorious acts); let him always serve them, rejoicing (to do what is) agreeable and beneficial (to them).
तेषामनुपरोधेन पारत्र्यं यद्यदाचरेत् । तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २.२३६॥
तेषाम् अन् उपरोधेन पारत्र्यम् यत् यत् आचरेत् । तत् तत् निवेदयेत् तेभ्यः मनः-वचन-कर्मभिः ॥ २।२३६॥
teṣām an uparodhena pāratryam yat yat ācaret . tat tat nivedayet tebhyaḥ manaḥ-vacana-karmabhiḥ .. 2.236..
2.236. He shall inform them of everything that with their consent he may perform in thought, word, or deed for the sake of the next world.
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते । एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २.२३७॥
त्रिषु एतेषु इतिकृत्यम् हि पुरुषस्य समाप्यते । एष धर्मः परः साक्षात् उपधर्मः अन्यः उच्यते ॥ २।२३७॥
triṣu eteṣu itikṛtyam hi puruṣasya samāpyate . eṣa dharmaḥ paraḥ sākṣāt upadharmaḥ anyaḥ ucyate .. 2.237..
2.237. By (honouring) these three all that ought to be done by man, is accomplished; that is clearly the highest duty, every other (act) is a subordinate duty.
श्रद्दधानः शुभां विद्यामाददीतावरादपि । अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ २.२३८॥
श्रद्दधानः शुभाम् विद्याम् आददीत अवरात् अपि । अन्यात् अपि परम् धर्मम् स्त्री-रत्नम् दुष्कुलात् अपि ॥ २।२३८॥
śraddadhānaḥ śubhām vidyām ādadīta avarāt api . anyāt api param dharmam strī-ratnam duṣkulāt api .. 2.238..
2.238. He who possesses faith may receive pure learning even from a man of lower caste, the highest law even from the lowest, and an excellent wife even from a base family.
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २.२३९॥
विषात् अपि अमृतम् ग्राह्यम् बालात् अपि सुभाषितम् । अमित्रात् अपि सत्-वृत्तम् अमेध्यात् अपि काञ्चनम् ॥ २।२३९॥
viṣāt api amṛtam grāhyam bālāt api subhāṣitam . amitrāt api sat-vṛttam amedhyāt api kāñcanam .. 2.239..
2.239. Even from poison nectar may be taken, even from a child good advice, even from a foe (a lesson in) good conduct, and even from an impure (substance) gold.
स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतः ॥ २.२४०॥
स्त्रियः रत्नानि अथो विद्या धर्मः शौचम् सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वतस् ॥ २।२४०॥
striyaḥ ratnāni atho vidyā dharmaḥ śaucam subhāṣitam . vividhāni ca śilpāni samādeyāni sarvatas .. 2.240..
2.240. Excellent wives, learning, (the knowledge of) the law, (the rules of) purity, good advice, and various arts may be acquired from anybody.
अब्राह्मणादध्यायनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ॥ २.२४१॥
अ ब्राह्मणात् अध्यायनम् आपद्-काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्यायनम् गुरोः ॥ २।२४१॥
a brāhmaṇāt adhyāyanam āpad-kāle vidhīyate . anuvrajyā ca śuśrūṣā yāvadadhyāyanam guroḥ .. 2.241..
2.241. It is prescribed that in times of distress (a student) may learn (the Veda) from one who is not a Brahmana; and that he shall walk behind and serve (such a) teacher, as long as the instruction lasts.
नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् । ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥ २.२४२॥
न अब्राह्मणे गुरौ शिष्यः वासम् आत्यन्तिकम् वसेत् । ब्राह्मणे वा अन् अनूचाने काङ्क्षन् गतिम् अनुत्तमाम् ॥ २।२४२॥
na abrāhmaṇe gurau śiṣyaḥ vāsam ātyantikam vaset . brāhmaṇe vā an anūcāne kāṅkṣan gatim anuttamām .. 2.242..
2.242. He who desires incomparable bliss (in heaven) shall not dwell during his whole life in (the house of) a non-Brahmanical teacher, nor with a Brahmana who does not know the whole Veda and the Angas.
यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले । युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ २.२४३॥
यदि तु आत्यन्तिकम् वासम् रोचयेत गुरोः कुले । युक्तः परिचरेत् एनम् आ शरीरविमोक्षणात् ॥ २।२४३॥
yadi tu ātyantikam vāsam rocayeta guroḥ kule . yuktaḥ paricaret enam ā śarīravimokṣaṇāt .. 2.243..
2.243. But if (a student) desires to pass his whole life in the teacher’s house, he must diligently serve him, until he is freed from this body.
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ २.२४४॥
आ समाप्तेः शरीरस्य यः तु शुश्रूषते गुरुम् । स गच्छति अञ्जसा विप्रः ब्रह्मणः सद्म शाश्वतम् ॥ २।२४४॥
ā samāpteḥ śarīrasya yaḥ tu śuśrūṣate gurum . sa gacchati añjasā vipraḥ brahmaṇaḥ sadma śāśvatam .. 2.244..
2.244. A Brahmana who serves his teacher till the dissolution of his body, reaches forthwith the eternal mansion of Brahman.
न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् । स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् ॥ २.२४५॥
न पूर्वम् गुरवे किम् चित् उपकुर्वीत धर्म-विद् । स्नास्यन् तु गुरुणा अज्ञप्तः शक्त्या गुरु-ऋथम् आहरेत् ॥ २।२४५॥
na pūrvam gurave kim cit upakurvīta dharma-vid . snāsyan tu guruṇā ajñaptaḥ śaktyā guru-ṛtham āharet .. 2.245..
2.245. He who knows the sacred law must not present any gift to his teacher before (the Samavartana); but when, with the permission of his teacher, he is about to take the (final) bath, let him procure (a present) for the venerable man according to his ability,
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमन्ततः। धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ २.२४६॥
क्षेत्रम् हिरण्यम् गाम् अश्वम् छत्र-उपानहम् अन्ततस्। धान्यम् शाकम् च वासांसि गुरवे प्रीतिम् आवहेत् ॥ २।२४६॥
kṣetram hiraṇyam gām aśvam chatra-upānaham antatas. dhānyam śākam ca vāsāṃsi gurave prītim āvahet .. 2.246..
2.246. (Viz.) a field, gold, a cow, a horse, a parasol and shoes, a seat, grain, (even) vegetables, (and thus) give pleasure to his teacher.
आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते । गुरुदारे सपिण्डे वा गुरुवद्वृत्तिमाचरेत् ॥ २.२४७॥
आचार्ये तु खलु प्रेते गुरु-पुत्रे गुण-अन्विते । गुरु-दारे सपिण्डे वा गुरु-वत् वृत्तिम् आचरेत् ॥ २।२४७॥
ācārye tu khalu prete guru-putre guṇa-anvite . guru-dāre sapiṇḍe vā guru-vat vṛttim ācaret .. 2.247..
2.247. (A perpetual student) must, if his teacher dies, serve his son (provided he be) endowed with good qualities, or his widow, or his Sapinda, in the same manner as the teacher.
एतेष्वविद्यमानेषु स्थानासनविहारवान् । प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्मनः ॥ २.२४८॥
एतेषु अ विद्यमानेषु स्थान-आसन-विहारवान् । प्रयुञ्जानः अग्नि-शुश्रूषाम् साधयेत् देहम् आत्मनः ॥ २।२४८॥
eteṣu a vidyamāneṣu sthāna-āsana-vihāravān . prayuñjānaḥ agni-śuśrūṣām sādhayet deham ātmanaḥ .. 2.248..
2.248. Should none of these be alive, he must serve the sacred fire, standing (by day) and sitting (during the night), and thus finish his life.
एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः । स गच्छत्युत्तमस्थानं न चैह जायते पुनः ॥ २.२४९॥
एवम् चरति यः विप्रः ब्रह्मचर्यम् अविप्लुतः । स गच्छति उत्तम-स्थानम् न च एह जायते पुनर् ॥ २।२४९॥
evam carati yaḥ vipraḥ brahmacaryam aviplutaḥ . sa gacchati uttama-sthānam na ca eha jāyate punar .. 2.249..
2.249. A Brahmana who thus passes his life as a student without breaking his vow, reaches (after death) the highest abode and will not be born again in this world.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In