| |
|

This overlay will guide you through the buttons:

षट्त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् । तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ ३.१॥
षट्त्रिंशत्-आब्दिकम् चर्यम् गुरौ त्रैवेदिकम् व्रतम् । तद्-अर्धिकम् पादिकम् वा ग्रहण-अन्तिकम् एव वा ॥ ३।१॥
ṣaṭtriṃśat-ābdikam caryam gurau traivedikam vratam . tad-ardhikam pādikam vā grahaṇa-antikam eva vā .. 3.1..
3.1. The vow (of studying) the three Vedas under a teacher must be kept for thirty-six years, or for half that time, or for a quarter, or until the (student) has perfectly learnt them.
वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ ३.२॥
वेदान् अधीत्य वेदौ वा वेदम् वा अपि यथाक्रमम् । अ विप्लुत-ब्रह्मचर्यः गृहस्थ-आश्रमम् आवसेत् ॥ ३।२॥
vedān adhītya vedau vā vedam vā api yathākramam . a vipluta-brahmacaryaḥ gṛhastha-āśramam āvaset .. 3.2..
3.2. (A student) who has studied in due order the three Vedas, or two, or even one only, without breaking the (rules of) studentship, shall enter the order of householders.
तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः । स्रग्विणं तल्प आसीनमर्हयेत्प्रथमं गवा ॥ ३.३॥
तम् प्रतीतम् स्वधर्मेण ब्रह्म-दाय-हरम् पितुः । स्रग्विणम् तल्पे आसीनम् अर्हयेत् प्रथमम् गवा ॥ ३।३॥
tam pratītam svadharmeṇa brahma-dāya-haram pituḥ . sragviṇam talpe āsīnam arhayet prathamam gavā .. 3.3..
3.3. He who is famous for (the strict performance of) his duties and has received his heritage, the Veda, from his father, shall be honoured, sitting on a couch and adorned with a garland, with (the present of) a cow (and the honey-mixture).
गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि । उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ ३.४॥
गुरुणा अनुमतः स्नात्वा समावृत्तः यथाविधि । उद्वहेत द्विजः भार्याम् सवर्णाम् लक्षण-अन्विताम् ॥ ३।४॥
guruṇā anumataḥ snātvā samāvṛttaḥ yathāvidhi . udvaheta dvijaḥ bhāryām savarṇām lakṣaṇa-anvitām .. 3.4..
3.4. Having bathed, with the permission of his teacher, and performed according to the rule the Samavartana (the rite on returning home), a twice-born man shall marry a wife of equal caste who is endowed with auspicious (bodily) marks.
असपिण्डा च या मातुरसगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनां दारकर्मणि अमैथिनी ॥ ३.५॥
असपिण्डा च या मातुः असगोत्रा च या पितुः । सा प्रशस्ता द्विजातीनाम् दारकर्मणि अ मैथिनी ॥ ३।५॥
asapiṇḍā ca yā mātuḥ asagotrā ca yā pituḥ . sā praśastā dvijātīnām dārakarmaṇi a maithinī .. 3.5..
3.5. A damsel who is neither a Sapinda on the mother’s side, nor belongs to the same family on the father’s side, is recommended to twice-born men for wedlock and conjugal union.
महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः । स्त्रीसम्बन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ३.६॥
महान्ति अपि समृद्धानि गो-अज-अवि-धन-धान्यतः । स्त्री-सम्बन्धे दश एतानि कुलानि परिवर्जयेत् ॥ ३।६॥
mahānti api samṛddhāni go-aja-avi-dhana-dhānyataḥ . strī-sambandhe daśa etāni kulāni parivarjayet .. 3.6..
3.6. In connecting himself with a wife, let him carefully avoid the ten following families, be they ever so great, or rich in kine, horses, sheep, grain, or (other) property,
हीनक्रियं निश्पुरुषं निश्छन्दो रोमशार्शसम् । क्षय्यामयाव्य्ऽपस्मारिश्वित्रिकुष्ठिकुलानि च ॥ ३.७॥
हीन-क्रियम् निश्पुरुषम् निश्छन्दः रोमश-अर्शसम् । क्षयि-आमयावि-अपस्मारि-श्वित्रि-कुष्ठि-कुलानि च ॥ ३।७॥
hīna-kriyam niśpuruṣam niśchandaḥ romaśa-arśasam . kṣayi-āmayāvi-apasmāri-śvitri-kuṣṭhi-kulāni ca .. 3.7..
3.7. (Viz.) one which neglects the sacred rites, one in which no male children (are born), one in which the Veda is not studied, one (the members of) which have thick hair on the body, those which are subject to hemorrhoids, phthisis, weakness of digestion, epilepsy, or white or black leprosy.
नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् । नालोमिकां नातिलोमां न वाचालां न पिङ्गलाम् ॥ ३.८॥
न उद्वहेत् कपिलाम् कन्याम् न अधिक-अङ्गीम् न रोगिणीम् । न अलोमकाम् न अतिलोमाम् न वाचालाम् न पिङ्गलाम् ॥ ३।८॥
na udvahet kapilām kanyām na adhika-aṅgīm na rogiṇīm . na alomakām na atilomām na vācālām na piṅgalām .. 3.8..
3.8. Let him not marry a maiden (with) reddish (hair), nor one who has a redundant member, nor one who is sickly, nor one either with no hair (on the body) or too much, nor one who is garrulous or has red (eyes),
नऋक्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् । न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ३.९॥
न ऋक्ष-वृक्ष-नदी-नाम्नीम् न अन्त्य-पर्वत-नामिकाम् । न पक्षि-अहि-प्रेष्य-नाम्नीम् न च भीषण-नामिकाम् ॥ ३।९॥
na ṛkṣa-vṛkṣa-nadī-nāmnīm na antya-parvata-nāmikām . na pakṣi-ahi-preṣya-nāmnīm na ca bhīṣaṇa-nāmikām .. 3.9..
3.9. Nor one named after a constellation, a tree, or a river, nor one bearing the name of a low caste, or of a mountain, nor one named after a bird, a snake, or a slave, nor one whose name inspires terror.
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् । तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत्स्त्रियम् ॥ ३.१०॥
अव्यङ्ग-अङ्गीम् सौम्य-नाम्नीम् हंस-वारण-गामिनीम् । तनु-लोम-केश-दशनाम् मृदु-अङ्गीम् उद्वहेत् स्त्रियम् ॥ ३।१०॥
avyaṅga-aṅgīm saumya-nāmnīm haṃsa-vāraṇa-gāminīm . tanu-loma-keśa-daśanām mṛdu-aṅgīm udvahet striyam .. 3.10..
3.10. Let him wed a female free from bodily defects, who has an agreeable name, the (graceful) gait of a Hamsa or of an elephant, a moderate (quantity of) hair on the body and on the head, small teeth, and soft limbs.
यस्यास्तु न भवेद्भ्राता न विज्ञायेत वा पिता । नौपयच्छेत तां प्राज्ञः पुत्रिकाऽधर्मशङ्कया ॥ ३.११॥
यस्याः तु न भवेत् भ्राता न विज्ञायेत वा पिता । न एव उपयच्छेत ताम् प्राज्ञः पुत्रिका-अधर्म-शङ्कया ॥ ३।११॥
yasyāḥ tu na bhavet bhrātā na vijñāyeta vā pitā . na eva upayaccheta tām prājñaḥ putrikā-adharma-śaṅkayā .. 3.11..
3.11. But a prudent man should not marry (a maiden) who has no brother, nor one whose father is not known, through fear lest (in the former case she be made) an appointed daughter (and in the latter) lest (he should commit) sin.
सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि । कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥ ३.१२॥
सवर्णा अग्रे द्विजातीनाम् प्रशस्ता दारकर्मणि । कामतस् तु प्रवृत्तानाम् इमाः स्युः क्रमशस् अवराः ॥ ३।१२॥
savarṇā agre dvijātīnām praśastā dārakarmaṇi . kāmatas tu pravṛttānām imāḥ syuḥ kramaśas avarāḥ .. 3.12..
3.12. For the first marriage of twice-born men (wives) of equal caste are recommended; but for those who through desire proceed (to marry again) the following females, (chosen) according to the (direct) order (of the castes), are most approved.
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ ३.१३॥
शूद्रा एव भार्या शूद्रस्य सा च स्वा च विशः स्मृते । ते च स्वा च एव राज्ञः च ताः च स्वा च अग्रजन्मनः ॥ ३।१३॥
śūdrā eva bhāryā śūdrasya sā ca svā ca viśaḥ smṛte . te ca svā ca eva rājñaḥ ca tāḥ ca svā ca agrajanmanaḥ .. 3.13..
3.13. It is declared that a Sudra woman alone (can be) the wife of a Sudra, she and one of his own caste (the wives) of a Vaisya, those two and one of his own caste (the wives) of a Kshatriya, those three and one of his own caste (the wives) of a Brahmana.
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः । कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्यौपदिश्यते ॥ ३.१४॥
न ब्राह्मण-क्षत्रिययोः आपदि अपि हि तिष्ठतोः । कस्मिंश्चिद् अपि वृत्तान्ते शूद्रा भार्या उपदिश्यते ॥ ३।१४॥
na brāhmaṇa-kṣatriyayoḥ āpadi api hi tiṣṭhatoḥ . kasmiṃścid api vṛttānte śūdrā bhāryā upadiśyate .. 3.14..
3.14. A Sudra woman is not mentioned even in any (ancient) story as the (first) wife of a Brahmana or of a Kshatriya, though they lived in the (greatest) distress.
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः । कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥ ३.१५॥
हीन-जाति-स्त्रियम् मोहात् उद्वहन्तः द्विजातयः । कुलानि एव नयन्ति आशु स सन्तानानि शूद्र-ताम् ॥ ३।१५॥
hīna-jāti-striyam mohāt udvahantaḥ dvijātayaḥ . kulāni eva nayanti āśu sa santānāni śūdra-tām .. 3.15..
3.15. Twice-born men who, in their folly, wed wives of the low (Sudra) caste, soon degrade their families and their children to the state of Sudras.
शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च । शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ ३.१६॥
शूद्रा-आवेदी पतति अत्रेः उतथ्यतनयस्य च । शौनकस्य सुत-उत्पत्त्या तद्-अपत्य-तया भृगोः ॥ ३।१६॥
śūdrā-āvedī patati atreḥ utathyatanayasya ca . śaunakasya suta-utpattyā tad-apatya-tayā bhṛgoḥ .. 3.16..
3.16. According to Atri and to (Gautama) the son of Utathya, he who weds a Sudra woman becomes an outcast, according to Saunaka on the birth of a son, and according to Bhrigu he who has (male) offspring from a (Sudra female, alone).
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् । जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ ३.१७॥
शूद्राम् शयनम् आरोप्य ब्राह्मणः याति अधोगतिम् । जनयित्वा सुतम् तस्याम् ब्राह्मण्यात् एव हीयते ॥ ३।१७॥
śūdrām śayanam āropya brāhmaṇaḥ yāti adhogatim . janayitvā sutam tasyām brāhmaṇyāt eva hīyate .. 3.17..
3.17. A Brahmana who takes a Sudra wife to his bed, will (after death) sink into hell; if he begets a child by her, he will lose the rank of a Brahmana.
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु । नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥ ३.१८॥
दैव-पित्र्य-तद्-प्रधानानि यस्य तु । न अश्नन्ति पितृ-देवाः तत् न च स्वर्गम् स गच्छति ॥ ३।१८॥
daiva-pitrya-tad-pradhānāni yasya tu . na aśnanti pitṛ-devāḥ tat na ca svargam sa gacchati .. 3.18..
3.18. The manes and the gods will not eat the (offerings) of that man who performs the rites in honour of the gods, of the manes, and of guests chiefly with a (Sudra wife’s) assistance, and such (a man) will not go to heaven.
वृषलीफेनपीतस्य निःश्वासोपहतस्य च । तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ ३.१९॥
वृषली-फेन-पीतस्य निःश्वास-उपहतस्य च । तस्याम् च एव प्रसूतस्य निष्कृतिः न विधीयते ॥ ३।१९॥
vṛṣalī-phena-pītasya niḥśvāsa-upahatasya ca . tasyām ca eva prasūtasya niṣkṛtiḥ na vidhīyate .. 3.19..
3.19. For him who drinks the moisture of a Sudra’s lips, who is tainted by her breath, and who begets a son on her, no expiation is prescribed.
चतुर्णामपि वर्णानं प्रेत्य चैह हिताहितान् । अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥ ३.२०॥
चतुर्णाम् अपि प्रेत्य च इह हित-अहितान् । अष्टौ इमान् समासेन स्त्री-विवाहात् निबोधत ॥ ३।२०॥
caturṇām api pretya ca iha hita-ahitān . aṣṭau imān samāsena strī-vivāhāt nibodhata .. 3.20..
3.20. Now listen to (the) brief (description of) the following eight marriage-rites used by the four castes (varna) which partly secure benefits and partly produce evil both in this life and after death.
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽसुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ ३.२१॥
ब्राह्मः दैवः तथा एव आर्षः प्राजापत्यः तथा आसुरः । गान्धर्वः राक्षसः च एव पैशाचः च अष्टमः अधमः ॥ ३।२१॥
brāhmaḥ daivaḥ tathā eva ārṣaḥ prājāpatyaḥ tathā āsuraḥ . gāndharvaḥ rākṣasaḥ ca eva paiśācaḥ ca aṣṭamaḥ adhamaḥ .. 3.21..
3.21. (They are) the rite of Brahman (Brahma), that of the gods (Daiva), that of the Rishis (Arsha), that of Pragapati (Pragapatya), that of the Asuras (Asura), that of the Gandharvas (Gandharva), that of the Rhashasas (Rakshasa), and that of the Pisakas (Paisaka).
यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ । तद्वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ ३.२२॥
यः यस्य धर्म्यः वर्णस्य गुण-दोषौ च यस्य यौ । तत् वः सर्वम् प्रवक्ष्यामि प्रसवे च गुण-अगुणान् ॥ ३।२२॥
yaḥ yasya dharmyaḥ varṇasya guṇa-doṣau ca yasya yau . tat vaḥ sarvam pravakṣyāmi prasave ca guṇa-aguṇān .. 3.22..
3.22. Which is lawful for each caste (varna) and which are the virtues or faults of each (rite), all this I will declare to you, as well as their good and evil results with respect to the offspring.
षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् । विश्। शूद्रयोस्तु तानेव विद्याद् धर्म्यान्न राक्षसान् ॥ ३.२३॥
षट् आनुपूर्व्या विप्रस्य क्षत्रस्य चतुरः अवरान् । विश्। शूद्रयोः तु तान् एव विद्यात् धर्म्यान् न राक्षसान् ॥ ३।२३॥
ṣaṭ ānupūrvyā viprasya kṣatrasya caturaḥ avarān . viś. śūdrayoḥ tu tān eva vidyāt dharmyān na rākṣasān .. 3.23..
3.23. One may know that the first six according to the order (followed above) are lawful for a Brahmana, the four last for a Kshatriya, and the same four, excepting the Rakshasa rite, for a Vaisya and a Sudra.
चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः । राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ ३.२४॥
चतुरः ब्राह्मणस्य आद्यान् प्रशस्तान् कवयः विदुः । राक्षसम् क्षत्रियस्य एकम् आसुरम् वैश्य-शूद्रयोः ॥ ३।२४॥
caturaḥ brāhmaṇasya ādyān praśastān kavayaḥ viduḥ . rākṣasam kṣatriyasya ekam āsuram vaiśya-śūdrayoḥ .. 3.24..
3.24. The sages state that the first four are approved (in the case) of a Brahmana, one, the Rakshasa (rite in the case) of a Kshatriya, and the Asura (marriage in that) of a Vaisya and of a Sudra.
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह । पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन ॥ ३.२५॥
पञ्चानाम् तु त्रयः धर्म्याः द्वौ अधर्म्यौ स्मृतौ इह । पैशाचः च आसुरः च एव न कर्तव्यौ कदा चन ॥ ३।२५॥
pañcānām tu trayaḥ dharmyāḥ dvau adharmyau smṛtau iha . paiśācaḥ ca āsuraḥ ca eva na kartavyau kadā cana .. 3.25..
3.25. But in these (Institutes of the sacred law) three of the five (last) are declared to be lawful and two unlawful; the Paisaka and the Asura (rites) must never be used.
पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ । गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ ३.२६॥
पृथक् पृथक् वा मिश्रौ वा विवाहौ पूर्व-चोदितौ । गान्धर्वः राक्षसः च एव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ ३।२६॥
pṛthak pṛthak vā miśrau vā vivāhau pūrva-coditau . gāndharvaḥ rākṣasaḥ ca eva dharmyau kṣatrasya tau smṛtau .. 3.26..
3.26. For Kshatriyas those before-mentioned two rites, the Gandharva and the Rakshasa, whether separate or mixed, are permitted by the sacred tradition.
आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् । आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ ३.२७॥
आच्छाद्य च अर्चयित्वा च श्रुत-शीलवते स्वयम् । आहूय दानम् कन्यायाः ब्राह्मः धर्मः प्रकीर्तितः ॥ ३।२७॥
ācchādya ca arcayitvā ca śruta-śīlavate svayam . āhūya dānam kanyāyāḥ brāhmaḥ dharmaḥ prakīrtitaḥ .. 3.27..
3.27. The gift of a daughter, after decking her (with costly garments) and honouring (her by presents of jewels), to a man learned in the Veda and of good conduct, whom (the father) himself invites, is called the Brahma rite.
यज्ञे तु वितते सम्यगृत्विजे कर्म कुर्वते । अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ ३.२८॥
यज्ञे तु वितते सम्यक् ऋत्विजे कर्म कुर्वते । अलङ्कृत्य सुता-दानम् दैवम् धर्मम् प्रचक्षते ॥ ३।२८॥
yajñe tu vitate samyak ṛtvije karma kurvate . alaṅkṛtya sutā-dānam daivam dharmam pracakṣate .. 3.28..
3.28. The gift of a daughter who has been decked with ornaments, to a priest who duly officiates at a sacrifice, during the course of its performance, they call the Daiva rite.
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः । कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥ ३.२९॥
एकम् गो-मिथुनम् द्वे वा वरात् आदाय धर्मतः । कन्या-प्रदानम् विधिवत् आर्षः धर्मः सः उच्यते ॥ ३।२९॥
ekam go-mithunam dve vā varāt ādāya dharmataḥ . kanyā-pradānam vidhivat ārṣaḥ dharmaḥ saḥ ucyate .. 3.29..
3.29. When (the father) gives away his daughter according to the rule, after receiving from the bridegroom, for (the fulfilment of) the sacred law, a cow and a bull or two pairs, that is named the Arsha rite.
सहौभौ चरतां धर्ममिति वाचाऽनुभाष्य च । कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ ३.३०॥
सह ओभौ चरताम् धर्मम् इति वाचा अनुभाष्य च । कन्या-प्रदानम् अभ्यर्च्य प्राजापत्यः विधिः स्मृतः ॥ ३।३०॥
saha obhau caratām dharmam iti vācā anubhāṣya ca . kanyā-pradānam abhyarcya prājāpatyaḥ vidhiḥ smṛtaḥ .. 3.30..
3.30. The gift of a daughter (by her father) after he has addressed (the couple) with the text, ’May both of you perform together your duties,’ and has shown honour (to the bridegroom), is called in the Smriti the Pragapatya rite.
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ ३.३१॥
ज्ञातिभ्यः द्रविणम् दत्त्वा कन्यायै च एव शक्तितः । कन्या-प्रदानम् स्वाच्छन्द्यात् आसुरः धर्मः उच्यते ॥ ३।३१॥
jñātibhyaḥ draviṇam dattvā kanyāyai ca eva śaktitaḥ . kanyā-pradānam svācchandyāt āsuraḥ dharmaḥ ucyate .. 3.31..
3.31. When (the bridegroom) receives a maiden, after having given as much wealth as he can afford, to the kinsmen and to the bride herself, according to his own will, that is called the Asura rite.
इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ॥ ३.३२॥
इच्छया अन्योन्य-संयोगः कन्यायाः च वरस्य च । गान्धर्वः स तु विज्ञेयः मैथुन्यः काम-सम्भवः ॥ ३।३२॥
icchayā anyonya-saṃyogaḥ kanyāyāḥ ca varasya ca . gāndharvaḥ sa tu vijñeyaḥ maithunyaḥ kāma-sambhavaḥ .. 3.32..
3.32. The voluntary union of a maiden and her lover one must know (to be) the Gandharva rite, which springs from desire and has sexual intercourse for its purpose.
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् । प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ ३.३३॥
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीम् रुदतीम् गृहात् । प्रसह्य कन्या-हरणम् राक्षसः विधिः उच्यते ॥ ३।३३॥
hatvā chittvā ca bhittvā ca krośantīm rudatīm gṛhāt . prasahya kanyā-haraṇam rākṣasaḥ vidhiḥ ucyate .. 3.33..
3.33. The forcible abduction of a maiden from her home, while she cries out and weeps, after (her kinsmen) have been slain or wounded and (their houses) broken open, is called the Rakshasa rite.
सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति । स पापिष्ठो विवाहानां पैशाचः प्रथितोऽधमः ॥ ३.३४॥
सुप्ताम् मत्ताम् प्रमत्ताम् वा रहः यत्र उपगच्छति । स पापिष्ठः विवाहानाम् पैशाचः प्रथितः अधमः ॥ ३।३४॥
suptām mattām pramattām vā rahaḥ yatra upagacchati . sa pāpiṣṭhaḥ vivāhānām paiśācaḥ prathitaḥ adhamaḥ .. 3.34..
3.34. When (a man) by stealth seduces a girl who is sleeping, intoxicated, or disordered in intellect, that is the eighth, the most base and sinful rite of the Pisakas.
अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते । इतरेषां तु वर्णानामितरेतरकाम्यया ॥ ३.३५॥
अद्भिः एव द्विजाग्र्याणाम् कन्या-दानम् विशिष्यते । इतरेषाम् तु वर्णानाम् इतरेतर-काम्यया ॥ ३।३५॥
adbhiḥ eva dvijāgryāṇām kanyā-dānam viśiṣyate . itareṣām tu varṇānām itaretara-kāmyayā .. 3.35..
3.35. ”The gift of daughters among Brahmanas is most approved, (if it is preceded) by (a libation of) water; but in the case of other castes (it may be performed) by (the expression of) mutual consent.
यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः । सर्वं शृणुत तं विप्राः सम्यक्कीर्तयतो ॥ ३.३६॥
यः यस्य एषाम् विवाहानाम् मनुना कीर्तितः गुणः । सर्वम् शृणुत तम् विप्राः सम्यक् कीर्तयतः ॥ ३।३६॥
yaḥ yasya eṣām vivāhānām manunā kīrtitaḥ guṇaḥ . sarvam śṛṇuta tam viprāḥ samyak kīrtayataḥ .. 3.36..
3.36. Listen now to me, ye Brahmanas, while I fully declare what quality has been ascribed by Manu to each of these marriage-rites.
दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् । ब्राह्मीपुत्रः सुकृतकृत्मोचयत्येनसः पितॄन् ॥ ३.३७॥
दश पूर्वान् परान् वंश्यान् आत्मानम् च एकविंशकम् । ब्राह्मी-पुत्रः सुकृत-कृत् मोचयति एनसः पितॄन् ॥ ३।३७॥
daśa pūrvān parān vaṃśyān ātmānam ca ekaviṃśakam . brāhmī-putraḥ sukṛta-kṛt mocayati enasaḥ pitṝn .. 3.37..
3.37. The son of a wife wedded according to the Brahma rite, if he performs meritorious acts, liberates from sin ten ancestors, ten descendants and himself as the twenty-first.
दैवौढाजः सुतश्चैव सप्त सप्त परावरान् । आर्षौढाजः सुतस्त्रींस्त्रीन् षट्षट्कायौढजः सुतः ॥ ३.३८॥
दैवौढ-जः सुतः च एव सप्त सप्त पर-अवरान् । आर्ष-ओढा-जः सुतः त्रीन् त्रीन् षष्-षष्-काय-ओढ-जः सुतः ॥ ३।३८॥
daivauḍha-jaḥ sutaḥ ca eva sapta sapta para-avarān . ārṣa-oḍhā-jaḥ sutaḥ trīn trīn ṣaṣ-ṣaṣ-kāya-oḍha-jaḥ sutaḥ .. 3.38..
3.38. The son born of a wife, wedded according to the Daiva rite, likewise (saves) seven ancestors and seven descendants, the son of a wife married by the Arsha rite three (in the ascending and descending lines), and the son of a wife married by the rite of Ka (Pragapati) six (in either line).
ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः । ब्रह्मवर्चसिनः पुत्रा जायन्ते शिष्टसम्मताः ॥ ३.३९॥
ब्राह्म-आदिषु विवाहेषु चतुर्षु एव अनुपूर्वशस् । ब्रह्मवर्चसिनः पुत्राः जायन्ते शिष्ट-सम्मताः ॥ ३।३९॥
brāhma-ādiṣu vivāheṣu caturṣu eva anupūrvaśas . brahmavarcasinaḥ putrāḥ jāyante śiṣṭa-sammatāḥ .. 3.39..
3.39. From the four marriages, (enumerated) successively, which begin with the Brahma rite spring sons, radiant with knowledge of the Veda and honoured by the Sishtas (good men).
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः । पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ ३.४०॥
रूप-सत्त्व-गुण-उपेताः धनवन्तः यशस्विनः । पर्याप्त-भोगाः धर्मिष्ठाः जीवन्ति च शतम् समाः ॥ ३।४०॥
rūpa-sattva-guṇa-upetāḥ dhanavantaḥ yaśasvinaḥ . paryāpta-bhogāḥ dharmiṣṭhāḥ jīvanti ca śatam samāḥ .. 3.40..
3.40. Endowded with the qualities of beauty and goodness, possessing wealth and fame, obtaining as many enjoyments as they desire and being most righteous, they will live a hundred years.
इतरेषु तु शिष्टेषु नृशंसाऽनृतवादिनः । जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ ३.४१॥
इतरेषु तु शिष्टेषु नृशंस-अ नृत-वादिनः । जायन्ते दुर्विवाहेषु ब्रह्म-धर्म-द्विषः सुताः ॥ ३।४१॥
itareṣu tu śiṣṭeṣu nṛśaṃsa-a nṛta-vādinaḥ . jāyante durvivāheṣu brahma-dharma-dviṣaḥ sutāḥ .. 3.41..
3.41. But from the remaining (four) blamable marriages spring sons who are cruel and speakers of untruth, who hate the Veda and the sacred law.
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा । निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् ॥ ३.४२॥
अनिन्दितैः स्त्री-विवाहैः अनिन्द्या भवति प्रजा । निन्दितैः निन्दिता नॄणाम् तस्मात् निन्द्यान् विवर्जयेत् ॥ ३।४२॥
aninditaiḥ strī-vivāhaiḥ anindyā bhavati prajā . ninditaiḥ ninditā nṝṇām tasmāt nindyān vivarjayet .. 3.42..
3.42. In the blameless marriages blameless children are born to men, in blamable (marriages) blamable (offspring); one should therefore avoid the blamable (forms of marriage).
पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते । असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥ ३.४३॥
पाणिग्रहण-संस्कारः सवर्णासु उपदिश्यते । असवर्णासु अयम् ज्ञेयः विधिः उद्वाह-कर्मणि ॥ ३।४३॥
pāṇigrahaṇa-saṃskāraḥ savarṇāsu upadiśyate . asavarṇāsu ayam jñeyaḥ vidhiḥ udvāha-karmaṇi .. 3.43..
3.43. The ceremony of joining the hands is prescribed for (marriages with) women of equal caste (varna); know that the following rule (applies) to weddings with females of a different caste (varna).
शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया । वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ ३.४४॥
शरः क्षत्रियया ग्राह्यः प्रतोदः वैश्य-कन्यया । वसनस्य दशा ग्राह्या शूद्रया उत्कृष्ट-वेदने ॥ ३।४४॥
śaraḥ kṣatriyayā grāhyaḥ pratodaḥ vaiśya-kanyayā . vasanasya daśā grāhyā śūdrayā utkṛṣṭa-vedane .. 3.44..
3.44. On marrying a man of a higher caste a Kshatriya bride must take hold of an arrow, a Vaisya bride of a goad, and a Sudra female of the hem of the (bridegroom’s) garment.
ऋतुकालाभिगामी स्यात्स्वदारनिरतः सदा । पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥ ३.४५॥
ऋतु-काल-अभिगामी स्यात् स्व-दार-निरतः सदा । पर्व-वर्जम् व्रजेत् च एनाम् तद्-व्रतः रति-काम्यया ॥ ३।४५॥
ṛtu-kāla-abhigāmī syāt sva-dāra-nirataḥ sadā . parva-varjam vrajet ca enām tad-vrataḥ rati-kāmyayā .. 3.45..
3.45. Let (the husband) approach his wife in due season, being constantly satisfied with her (alone); he may also, being intent on pleasing her, approach her with a desire for conjugal union (on any day) excepting the Parvans.
ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः । चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥ ३.४६॥
ऋतुः स्वाभाविकः स्त्रीणाम् रात्रयः षोडश स्मृताः । चतुर्भिः इतरैः सार्धम् अहोभिः सत्-विगर्हितैः ॥ ३।४६॥
ṛtuḥ svābhāvikaḥ strīṇām rātrayaḥ ṣoḍaśa smṛtāḥ . caturbhiḥ itaraiḥ sārdham ahobhiḥ sat-vigarhitaiḥ .. 3.46..
3.46. Sixteen (days and) nights (in each month), including four days which differ from the rest and are censured by the virtuous, (are called) the natural season of women.
तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या । त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ ३.४७॥
तासाम् आद्याः चतस्रः तु निन्दिता एकादशी च या । त्रयोदशी च शेषाः तु प्रशस्ताः दश-रात्रयः ॥ ३।४७॥
tāsām ādyāḥ catasraḥ tu ninditā ekādaśī ca yā . trayodaśī ca śeṣāḥ tu praśastāḥ daśa-rātrayaḥ .. 3.47..
3.47. But among these the first four, the eleventh and the thirteenth are (declared to be) forbidden; the remaining nights are recommended.
युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्माद्युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥ ३.४८॥
युग्मासु पुत्राः जायन्ते स्त्रियः अयुग्मासु रात्रिषु । तस्मात् युग्मासु पुत्र-अर्थी संविशेत् आर्तवे स्त्रियम् ॥ ३।४८॥
yugmāsu putrāḥ jāyante striyaḥ ayugmāsu rātriṣu . tasmāt yugmāsu putra-arthī saṃviśet ārtave striyam .. 3.48..
3.48. On the even nights sons are conceived and daughters on the uneven ones; hence a man who desires to have sons should approach his wife in due season on the even (nights).
पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । समेऽपुमान् पुं। स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः ॥ ३.४९॥
पुमान् पुंसः अधिके शुक्रे स्त्री भवति अधिके स्त्रियाः । समे अ पुमान् पुमान्। स्त्रियौ वा क्षीणे अल्पे च विपर्ययः ॥ ३।४९॥
pumān puṃsaḥ adhike śukre strī bhavati adhike striyāḥ . same a pumān pumān. striyau vā kṣīṇe alpe ca viparyayaḥ .. 3.49..
3.49. A male child is produced by a greater quantity of male seed, a female child by the prevalence of the female; if (both are) equal, a hermaphrodite or a boy and a girl; if (both are) weak or deficient in quantity, a failure of conception (results).
निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् । ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ ३.५०॥
निन्द्यासु अष्टासु च अन्यासु स्त्रियः रात्रिषु वर्जयन् । ब्रह्मचारी एव भवति यत्र तत्र आश्रमे वसन् ॥ ३।५०॥
nindyāsu aṣṭāsu ca anyāsu striyaḥ rātriṣu varjayan . brahmacārī eva bhavati yatra tatra āśrame vasan .. 3.50..
3.50. He who avoids women on the six forbidden nights and on eight others, is (equal in chastity to) a student, in whichever order he may live.
न कन्यायाः पिता विद्वान् गृह्णीयात्शुल्कमण्वपि । गृह्णंश्छुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ॥ ३.५१॥
न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कम् अणु अपि । गृह्णन् छुल्कम् हि लोभेन स्यात् नरः अपत्य-विक्रयी ॥ ३।५१॥
na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇu api . gṛhṇan chulkam hi lobhena syāt naraḥ apatya-vikrayī .. 3.51..
3.51. No father who knows (the law) must take even the smallest gratuity for his daughter; for a man who, through avarice, takes a gratuity, is a seller of his offspring.
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः । नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ ३.५२॥
स्त्रीधनानि तु ये मोहात् उपजीवन्ति बान्धवाः । नारी-यानानि वस्त्रम् वा ते पापाः यान्ति अधोगतिम् ॥ ३।५२॥
strīdhanāni tu ye mohāt upajīvanti bāndhavāḥ . nārī-yānāni vastram vā te pāpāḥ yānti adhogatim .. 3.52..
3.52. But those (male) relations who, in their folly, live on the separate property of women, (e.g. appropriate) the beasts of burden, carriages, and clothes of women, commit sin and will sink into hell.
आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् । तावानेव स विक्रयः स्तावदेव सः ॥ ३.५३॥
आर्षे गो-मिथुनम् शुल्कम् के चित् आहुः मृषा एव तत् । तावान् एव स विक्रयः स्तावत् एव सः ॥ ३।५३॥
ārṣe go-mithunam śulkam ke cit āhuḥ mṛṣā eva tat . tāvān eva sa vikrayaḥ stāvat eva saḥ .. 3.53..
3.53. Some call the cow and the bull (given) at an Arsha wedding ’a gratuity;’ (but) that is wrong, since (the acceptance of) a fee, be it small or great, is a sale (of the daughter).
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः । अर्हणं तत्कुमारीणामानृशंस्यं न केवलम् ॥ ३.५४॥
यासाम् न आददते शुल्कम् ज्ञातयः न स विक्रयः । अर्हणम् तत् कुमारीणाम् आनृशंस्यम् न केवलम् ॥ ३।५४॥
yāsām na ādadate śulkam jñātayaḥ na sa vikrayaḥ . arhaṇam tat kumārīṇām ānṛśaṃsyam na kevalam .. 3.54..
3.54. When the relatives do not appropriate (for their use) the gratuity (given), it is not a sale; (in that case) the (gift) is only a token of respect and of kindness towards the maidens.
पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा । पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥ ३.५५॥
पितृभिः भ्रातृभिः च एताः पतिभिः देवरैः तथा । पूज्याः भूषयितव्याः च बहु-कल्याणम् ईप्सुभिः ॥ ३।५५॥
pitṛbhiḥ bhrātṛbhiḥ ca etāḥ patibhiḥ devaraiḥ tathā . pūjyāḥ bhūṣayitavyāḥ ca bahu-kalyāṇam īpsubhiḥ .. 3.55..
3.55. Women must be honoured and adorned by their fathers, brothers, husbands, and brothers-in-law, who desire (their own) welfare.
यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः । यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥ ३.५६॥
यत्र नार्यः तु पूज्यन्ते रमन्ते तत्र देवताः । यत्र एताः तु न पूज्यन्ते सर्वाः तत्र अफलाः क्रियाः ॥ ३।५६॥
yatra nāryaḥ tu pūjyante ramante tatra devatāḥ . yatra etāḥ tu na pūjyante sarvāḥ tatra aphalāḥ kriyāḥ .. 3.56..
3.56. Where women are honoured, there the gods are pleased; but where they are not honoured, no sacred rite yields rewards.
शोचन्ति जामयो यत्र विनश्यत्याशु तत्कुलम् । न शोचन्ति तु यत्रैता वर्धते तधि सर्वदा ॥ ३.५७॥
शोचन्ति जामयः यत्र विनश्यति आशु तत् कुलम् । न शोचन्ति तु यत्र एताः वर्धते सर्वदा ॥ ३।५७॥
śocanti jāmayaḥ yatra vinaśyati āśu tat kulam . na śocanti tu yatra etāḥ vardhate sarvadā .. 3.57..
3.57. Where the female relations live in grief, the family soon wholly perishes; but that family where they are not unhappy ever prospers.
जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ ३.५८॥
जामयः यानि गेहानि शपन्ति अप्रतिपूजिताः ॥तानि कृत्या-आहतानि इव विनश्यन्ति समन्ततः ॥ ३।५८॥
jāmayaḥ yāni gehāni śapanti apratipūjitāḥ ..tāni kṛtyā-āhatāni iva vinaśyanti samantataḥ .. 3.58..
3.58. The houses on which female relations, not being duly honoured, pronounce a curse, perish completely, as if destroyed by magic.
तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च ॥ ३.५९॥
तस्मात् एताः सदा पूज्याः भूषण-आच्छादन-अशनैः । भूति-कामैः नरैः नित्यम् सत्कारेषु उत्सवेषु च ॥ ३।५९॥
tasmāt etāḥ sadā pūjyāḥ bhūṣaṇa-ācchādana-aśanaiḥ . bhūti-kāmaiḥ naraiḥ nityam satkāreṣu utsaveṣu ca .. 3.59..
3.59. Hence men who seek (their own) welfare, should always honour women on holidays and festivals with (gifts of) ornaments, clothes, and (dainty) food.
संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ३.६०॥
संतुष्टः भार्यया भर्ता भर्त्रा भार्या तथा एव च । यस्मिन् एव कुले नित्यम् कल्याणम् तत्र वै ध्रुवम् ॥ ३।६०॥
saṃtuṣṭaḥ bhāryayā bhartā bhartrā bhāryā tathā eva ca . yasmin eva kule nityam kalyāṇam tatra vai dhruvam .. 3.60..
3.60. In that family, where the husband is pleased with his wife and the wife with her husband, happiness will assuredly be lasting.
यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । अप्रमोदात्पुनः पुंसः प्रजनं न प्रवर्तते ॥ ३.६१॥
यदि हि स्त्री न रोचेत पुमांसम् न प्रमोदयेत् । अप्रमोदात् पुनर् पुंसः प्रजनम् न प्रवर्तते ॥ ३।६१॥
yadi hi strī na roceta pumāṃsam na pramodayet . apramodāt punar puṃsaḥ prajanam na pravartate .. 3.61..
3.61. For if the wife is not radiant with beauty, she will not attract her husband; but if she has no attractions for him, no children will be born.
स्त्रियां तु रोचमानायां सर्वं तद्रोचते कुलम् । तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ ३.६२॥
स्त्रियाम् तु रोचमानायाम् सर्वम् तत् रोचते कुलम् । तस्याम् तु अ रोचमानायाम् सर्वम् एव न रोचते ॥ ३।६२॥
striyām tu rocamānāyām sarvam tat rocate kulam . tasyām tu a rocamānāyām sarvam eva na rocate .. 3.62..
3.62. If the wife is radiant with beauty, the whole house is bright; but if she is destitute of beauty, all will appear dismal.
कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ ३.६३॥
कुविवाहैः क्रिया-लोपैः वेद-अनध्ययनेन च । कुलानि अकुल-ताम् यान्ति ब्राह्मण-अतिक्रमेण च ॥ ३।६३॥
kuvivāhaiḥ kriyā-lopaiḥ veda-anadhyayanena ca . kulāni akula-tām yānti brāhmaṇa-atikrameṇa ca .. 3.63..
3.63. By low marriages, by omitting (the performance of) sacred rites, by neglecting the study of the Veda, and by irreverence towards Brahmanas, (great) families sink low.
शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ ३.६४॥
शिल्पेन व्यवहारेण शूद्र-अपत्यैः च केवलैः । गोभिः अश्वैः च यानैः च कृष्या राज-उपसेवया ॥ ३।६४॥
śilpena vyavahāreṇa śūdra-apatyaiḥ ca kevalaiḥ . gobhiḥ aśvaiḥ ca yānaiḥ ca kṛṣyā rāja-upasevayā .. 3.64..
3.64. By (practising) handicrafts, by pecuniary transactions, by (begetting) children on Sudra females only, by (trading in) cows, horses, and carriages, by (the pursuit of) agriculture and by taking service under a king,
अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ ३.६५॥
अ याज्य-याजनैः च एव नास्तिक्येन च कर्मणाम् । कुलानि आशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ ३।६५॥
a yājya-yājanaiḥ ca eva nāstikyena ca karmaṇām . kulāni āśu vinaśyanti yāni hīnāni mantrataḥ .. 3.65..
3.65. By sacrificing for men unworthy to offer sacrifices and by denying (the future rewards for good) works, families, deficient in the (knowledge of the) Veda, quickly perish.
मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद्यशः ॥ ३.६६॥
मन्त्रतः तु समृद्धानि कुलानि अल्प-धनानि अपि । कुल-सङ्ख्याम् च गच्छन्ति कर्षन्ति च महत् यशः ॥ ३।६६॥
mantrataḥ tu samṛddhāni kulāni alpa-dhanāni api . kula-saṅkhyām ca gacchanti karṣanti ca mahat yaśaḥ .. 3.66..
3.66. But families that are rich in the knowledge of the Veda, though possessing little wealth, are numbered among the great, and acquire great fame.
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि । पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ ३.६७॥
वैवाहिके अग्नौ कुर्वीत गृह्यम् कर्म यथाविधि । पञ्चयज्ञ-विधानम् च पक्तिम् च आन्वाहिकीम् गृही ॥ ३।६७॥
vaivāhike agnau kurvīta gṛhyam karma yathāvidhi . pañcayajña-vidhānam ca paktim ca ānvāhikīm gṛhī .. 3.67..
3.67. With the sacred fire, kindled at the wedding, a householder shall perform according to the law the domestic ceremonies and the five (great) sacrifices, and (with that) he shall daily cook his food.
पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चौदकुम्भश्च वध्यते यास्तु वाहयन् ॥ ३.६८॥
पञ्च सूनाः गृहस्थस्य चुल्ली पेषणी उपस्करः । कण्डनी च औद-कुम्भः च वध्यते याः तु वाहयन् ॥ ३।६८॥
pañca sūnāḥ gṛhasthasya cullī peṣaṇī upaskaraḥ . kaṇḍanī ca auda-kumbhaḥ ca vadhyate yāḥ tu vāhayan .. 3.68..
3.68. A householder has five slaughter-houses (as it were, viz.) the hearth, the grinding-stone, the broom, the pestle and mortar, the water-vessel, by using which he is bound (with the fetters of sin).
तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः । पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ ३.६९॥
तासाम् क्रमेण सर्वासाम् निष्कृति-अर्थम् महा-ऋषिभिः । पञ्च कॢप्ताः महा-यज्ञाः प्रत्यहम् गृहमेधिनाम् ॥ ३।६९॥
tāsām krameṇa sarvāsām niṣkṛti-artham mahā-ṛṣibhiḥ . pañca kḷptāḥ mahā-yajñāḥ pratyaham gṛhamedhinām .. 3.69..
3.69. In order to successively expiate (the offences committed by means) of all these (five) the great sages have prescribed for householders the daily (performance of the five) great sacrifices.
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् । होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ ३.७०॥
अध्यापनम् ब्रह्मयज्ञः पितृ-यज्ञः तु तर्पणम् । होमः दैवः बलिः भौतः नृयज्ञः अतिथि-पूजनम् ॥ ३।७०॥
adhyāpanam brahmayajñaḥ pitṛ-yajñaḥ tu tarpaṇam . homaḥ daivaḥ baliḥ bhautaḥ nṛyajñaḥ atithi-pūjanam .. 3.70..
3.70. Teaching (and studying) is the sacrifice (offered) to Brahman, the (offerings of water and food called) Tarpana the sacrifice to the manes, the burnt oblation the sacrifice offered to the gods, the Bali offering that offered to the Bhutas, and the hospitable reception of guests the offering to men.
पञ्चैतान् यो महाऽयज्ञान्न हापयति शक्तितः । स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥ ३.७१॥
पञ्च एतान् यः महा-यज्ञान् न हापयति शक्तितस् । स गृहे अपि वसन् नित्यम् सूना-दोषैः न लिप्यते ॥ ३।७१॥
pañca etān yaḥ mahā-yajñān na hāpayati śaktitas . sa gṛhe api vasan nityam sūnā-doṣaiḥ na lipyate .. 3.71..
3.71. He who neglects not these five great sacrifices, while he is able (to perform them), is not tainted by the sins (committed) in the five places of slaughter, though he constantly lives in the (order of) house (-holders).
देवताऽतिथिभृत्यानां पितॄणामात्मनश्च यः । न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ ३.७२॥
देवता-अतिथि-भृत्यानाम् पितॄणाम् आत्मनः च यः । न निर्वपति पञ्चानाम् उच्छ्वसन् न स जीवति ॥ ३।७२॥
devatā-atithi-bhṛtyānām pitṝṇām ātmanaḥ ca yaḥ . na nirvapati pañcānām ucchvasan na sa jīvati .. 3.72..
3.72. But he who does not feed these five, the gods, his guests, those whom he is bound to maintain, the manes, and himself, lives not, though he breathes.
अहुतं च हुतं चैव तथा प्रहुतमेव च । ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ॥ ३.७३॥
अहुतम् च हुतम् च एव तथा प्रहुतम् एव च । ब्राह्म्यम् हुतम् प्राशितम् च पञ्चयज्ञान् प्रचक्षते ॥ ३।७३॥
ahutam ca hutam ca eva tathā prahutam eva ca . brāhmyam hutam prāśitam ca pañcayajñān pracakṣate .. 3.73..
3.73. They call (these) five sacrifices also, Ahuta, Huta, Prahuta, Brahmya-huta, and Prasita.
जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः । ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ॥ ३.७४॥
जपः अहुतः हुतः होमः प्रहुतः भौतिकः बलिः । ब्राह्म्यम् हुतम् द्विजाग्र्य-अर्चा प्राशितम् पितृ-तर्पणम् ॥ ३।७४॥
japaḥ ahutaḥ hutaḥ homaḥ prahutaḥ bhautikaḥ baliḥ . brāhmyam hutam dvijāgrya-arcā prāśitam pitṛ-tarpaṇam .. 3.74..
3.74. Ahuta (not offered in the fire) is the muttering (of Vedic texts), Huta the burnt oblation (offered to the gods), Prahuta (offered by scattering it on the ground) the Bali offering given to the Bhutas, Brahmya-huta (offered in the digestive fire of Brahmanas), the respectful reception of Brahmana (guests), and Prasita (eaten) the (daily oblation to the manes, called) Tarpana.
स्वाध्याये नित्ययुक्तः स्याद्दैवे चैवैह कर्मणि । दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ ३.७५॥
स्वाध्याये नित्य-युक्तः स्यात् दैवे च एव एह कर्मणि । दैव-कर्मणि युक्तः हि बिभर्ति इदम् चराचरम् ॥ ३।७५॥
svādhyāye nitya-yuktaḥ syāt daive ca eva eha karmaṇi . daiva-karmaṇi yuktaḥ hi bibharti idam carācaram .. 3.75..
3.75. Let (every man) in this (second order, at least) daily apply himself to the private recitation of the Veda, and also to the performance of the offering to the gods; for he who is diligent in the performance of sacrifices, supports both the movable and the immovable creation.
अग्नौ प्रास्ताऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याज्जायते वृष्तिर्वृष्टेरन्नं ततः प्रजाः ॥ ३.७६॥
अग्नौ प्रास्ता आहुतिः सम्यक् आदित्यम् उपतिष्ठते । आदित्यात् जायते वृष्तिः वृष्टेः अन्नम् ततस् प्रजाः ॥ ३।७६॥
agnau prāstā āhutiḥ samyak ādityam upatiṣṭhate . ādityāt jāyate vṛṣtiḥ vṛṣṭeḥ annam tatas prajāḥ .. 3.76..
3.76. An oblation duly thrown into the fire, reaches the sun; from the sun comes rain, from rain food, therefrom the living creatures (derive their subsistence).
यथा वायुं समाश्रित्य वर्तन्ते सर्वे जीवन्ति जन्तवः । तथा गृहस्थमाश्रित्य वर्तन्त इतराश्रमः ॥ ३.७७॥
यथा वायुम् समाश्रित्य वर्तन्ते सर्वे जीवन्ति जन्तवः । तथा गृहस्थम् आश्रित्य वर्तन्ते इतर-आश्रमः ॥ ३।७७॥
yathā vāyum samāśritya vartante sarve jīvanti jantavaḥ . tathā gṛhastham āśritya vartante itara-āśramaḥ .. 3.77..
3.77. As all living creatures subsist by receiving support from air, even so (the members of) all orders subsist by receiving support from the householder.
यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् । गृहस्थेनैव धार्यन्ते तस्माज्ज्येष्ठाश्रमो गृहं ॥ ३.७८॥
यस्मात् त्रयः अपि आश्रमिणः ज्ञानेन अन्नेन च अन्वहम् । गृहस्थेन एव धार्यन्ते तस्मात् ज्येष्ठ-आश्रमः गृहम् ॥ ३।७८॥
yasmāt trayaḥ api āśramiṇaḥ jñānena annena ca anvaham . gṛhasthena eva dhāryante tasmāt jyeṣṭha-āśramaḥ gṛham .. 3.78..
3.78. Because men of the three (other) orders are daily supported by the householder with (gifts of) sacred knowledge and food, therefore (the order of) householders is the most excellent order.
स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता । सुखं चेहेच्छताऽत्यन्तं योऽधार्यो दुर्बलेन्द्रियैः ॥ ३.७९॥
स संधार्यः प्रयत्नेन स्वर्गम् अक्षयम् इच्छता । सुखम् च इह इच्छता अत्यन्तम् यः अधार्यः दुर्बल-इन्द्रियैः ॥ ३।७९॥
sa saṃdhāryaḥ prayatnena svargam akṣayam icchatā . sukham ca iha icchatā atyantam yaḥ adhāryaḥ durbala-indriyaiḥ .. 3.79..
3.79. (The duties of) this order, which cannot be practised by men with weak organs, must be carefully observed by him who desires imperishable (bliss in) heaven, and constant happiness in this (life).
ऋषयः पितरो देवा भूतान्यतिथयस्तथा । आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ ३.८०॥
ऋषयः पितरः देवाः भूतानि अतिथयः तथा । आशासते कुटुम्बिभ्यः तेभ्यः कार्यम् विजानता ॥ ३।८०॥
ṛṣayaḥ pitaraḥ devāḥ bhūtāni atithayaḥ tathā . āśāsate kuṭumbibhyaḥ tebhyaḥ kāryam vijānatā .. 3.80..
3.80. The sages, the manes, the gods, the Bhutas, and guests ask the householders (for offerings and gifts); hence he who knows (the law), must give to them (what is due to each).
स्वाध्यायेनार्चयेतऋषीन् होमैर्देवान् यथाविधि । पितॄंश्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा ॥ ३.८१॥
स्वाध्यायेन अर्चयेत ऋषीन् होमैः देवान् यथाविधि । पितॄन् श्राद्धैः च नॄन् अन्नैः भूतानि बलि-कर्मणा ॥ ३।८१॥
svādhyāyena arcayeta ṛṣīn homaiḥ devān yathāvidhi . pitṝn śrāddhaiḥ ca nṝn annaiḥ bhūtāni bali-karmaṇā .. 3.81..
3.81. Let him worship, according to the rule, the sages by the private recitation of the Veda, the gods by burnt oblations, the manes by funeral offerings (Sraddha), men by (gifts of) food, and the Bhutas by the Bali offering.
दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥ ३.८२॥
दद्यात् अहरहर् श्राद्धम् अन्नाद्येन उदकेन वा । पयः-मूल-फलैः वा अपि पितृभ्यः प्रीतिम् आवहन् ॥ ३।८२॥
dadyāt aharahar śrāddham annādyena udakena vā . payaḥ-mūla-phalaiḥ vā api pitṛbhyaḥ prītim āvahan .. 3.82..
3.82. Let him daily perform a funeral sacrifice with food, or with water, or also with milk, roots, and fruits, and (thus) please the manes.
एकमप्याशयेद्विप्रं पित्र्यर्थे पाञ्चयज्ञिके । पित्र्यर्थंन चैवात्राशयेत्किं चिद्वैश्वदेवं प्रति द्विजम् ॥ ३.८३॥
एकम् अपि आशयेत् विप्रम् पित्र्यर्थे पाञ्चयज्ञिके । पित्री-अर्थम् न च एव अत्र आशयेत् किम् चित् वैश्वदेवम् प्रति द्विजम् ॥ ३।८३॥
ekam api āśayet vipram pitryarthe pāñcayajñike . pitrī-artham na ca eva atra āśayet kim cit vaiśvadevam prati dvijam .. 3.83..
3.83. Let him feed even one Brahmana in honour of the manes at (the Sraddha), which belongs to the five great sacrifices; but let him not feed on that (occasion) any Brahmana on account of the Vaisvadeva offering.
वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् । आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होममन्वहम् ॥ ३.८४॥
वैश्वदेवस्य सिद्धस्य गृह्ये अग्नौ विधि-पूर्वकम् । आभ्यः कुर्यात् देवताभ्यः ब्राह्मणः होमम् अन्वहम् ॥ ३।८४॥
vaiśvadevasya siddhasya gṛhye agnau vidhi-pūrvakam . ābhyaḥ kuryāt devatābhyaḥ brāhmaṇaḥ homam anvaham .. 3.84..
3.84. A Brahmana shall offer according to the rule (of his Grihya-sutra a portion) of the cooked food destined for the Vaisvadeva in the sacred domestic fire to the following deities:
अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः । विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ॥ ३.८५॥
अग्नेः सोमस्य च एव आदौ तयोः च एव समस्तयोः । विश्वेभ्यः च एव देवेभ्यः धन्वन्तरये एव च ॥ ३।८५॥
agneḥ somasya ca eva ādau tayoḥ ca eva samastayoḥ . viśvebhyaḥ ca eva devebhyaḥ dhanvantaraye eva ca .. 3.85..
3.85. First to Agni, and (next) to Soma, then to both these gods conjointly, further to all the gods (Visve Devah), and (then) to Dhanvantari,
कुह्वै चैवानुमत्यै च प्रजापतय एव च । सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥ ३.८६॥
कुह्वै च एव अनुमत्यै च प्रजापतये एव च । सह द्यावापृथिव्योः च तथा स्विष्टकृते अन्ततस् ॥ ३।८६॥
kuhvai ca eva anumatyai ca prajāpataye eva ca . saha dyāvāpṛthivyoḥ ca tathā sviṣṭakṛte antatas .. 3.86..
3.86. Further to Kuhu (the goddess of the new-moon day), to Anumati (the goddess of the full-moon day), to Pragapati (the lord of creatures), to heaven and earth conjointly, and finally to Agni Svishtakrit (the fire which performs the sacrifice well).
एवं सम्यघविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् । इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ॥ ३.८७॥
एवम् सम्यक् हविः हुत्वा सर्व-दिक्षु प्रदक्षिणम् । इन्द्र-अन्तक-अप्पति-इन्दुभ्यः स अनुगेभ्यः बलिम् हरेत् ॥ ३।८७॥
evam samyak haviḥ hutvā sarva-dikṣu pradakṣiṇam . indra-antaka-appati-indubhyaḥ sa anugebhyaḥ balim haret .. 3.87..
3.87. After having thus duly offered the sacrificial food, let him throw Bali offerings in all directions of the compass, proceeding (from the east) to the south, to Indra, Yama, Varuna, and Soma, as well as to the servants (of these deities).
मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि । वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ ३.८८॥
मरुद्भ्यः इति तु द्वारि क्षिपेत् अप्स्वद्भ्यः इति अपि । वनस्पतिभ्यः इति एवम् मुसल-उलूखले हरेत् ॥ ३।८८॥
marudbhyaḥ iti tu dvāri kṣipet apsvadbhyaḥ iti api . vanaspatibhyaḥ iti evam musala-ulūkhale haret .. 3.88..
3.88. Saying, ’(Adoration) to the Maruts,’ he shall scatter (some food) near the door, and (some) in water, saying, ’(Adoration to the waters;’ he shall throw (some) on the pestle and the mortar, speaking thus, ’(Adoration) to the trees.’
उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः । ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ ३.८९॥
उच्छीर्षके श्रियै कुर्यात् भद्रकाल्यै च पादतः । ब्रह्म-वास्तोष्पतिभ्याम् तु वास्तु-मध्ये बलिम् हरेत् ॥ ३।८९॥
ucchīrṣake śriyai kuryāt bhadrakālyai ca pādataḥ . brahma-vāstoṣpatibhyām tu vāstu-madhye balim haret .. 3.89..
3.89. Near the head (of the bed) he shall make an offering to Sri (fortune), and near the foot (of his bed) to Bhadrakali; in the centre of the house let him place a Bali for Brahman and for Vastoshpati (the lord of the dwelling) conjointly.
विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् । दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एव च ॥ ३.९०॥
विश्वेभ्यः च एव देवेभ्यः बलिम् आकाशे उत्क्षिपेत् । दिवाचरेभ्यः भूतेभ्यः नक्तञ्चारिभ्यः एव च ॥ ३।९०॥
viśvebhyaḥ ca eva devebhyaḥ balim ākāśe utkṣipet . divācarebhyaḥ bhūtebhyaḥ naktañcāribhyaḥ eva ca .. 3.90..
3.90. Let him throw up into the air a Bali for all the gods, and (in the day-time one) for the goblins roaming about by day, (and in the evening one) for the goblins that walk at night.
पृष्ठवास्तुनि कुर्वीत बलिं सर्वान्नभूतये । पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ ३.९१॥
पृष्ठवास्तुनि कुर्वीत बलिम् सर्व-अन्न-भूतये । पितृभ्यः बलि-शेषम् तु सर्वम् दक्षिणतस् हरेत् ॥ ३।९१॥
pṛṣṭhavāstuni kurvīta balim sarva-anna-bhūtaye . pitṛbhyaḥ bali-śeṣam tu sarvam dakṣiṇatas haret .. 3.91..
3.91. In the upper story let him offer a Bali to Sarvatmabhuti; but let him throw what remains (from these offerings) in a southerly direction for the manes.
शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसां च कृमीणां च शनकैर्निर्वपेद्भुवि ॥ ३.९२॥
शूनाम् च पतितानाम् च श्वपचाम् पाप-रोगिणाम् । वयसाम् च कृमीणाम् च शनकैस् निर्वपेत् भुवि ॥ ३।९२॥
śūnām ca patitānām ca śvapacām pāpa-rogiṇām . vayasām ca kṛmīṇām ca śanakais nirvapet bhuvi .. 3.92..
3.92. Let him gently place on the ground (some food) for dogs, outcasts, Kandalas (Svapak), those afflicted with diseases that are punishments of former sins, crows, and insects.
एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति । स गच्छति परं स्थानं तेजोमूर्तिः पथार्जुना ॥ ३.९३॥
एवम् यः सर्व-भूतानि ब्राह्मणः नित्यम् अर्चति । स गच्छति परम् स्थानम् तेजः-मूर्तिः पथा अर्जुना ॥ ३।९३॥
evam yaḥ sarva-bhūtāni brāhmaṇaḥ nityam arcati . sa gacchati param sthānam tejaḥ-mūrtiḥ pathā arjunā .. 3.93..
3.93. That Brahmana who thus daily honours all beings, goes, endowed with a resplendent body, by a straight road to the highest dwelling-place (i.e. Brahman).
कृत्वैतद्बलिकर्मैवमतिथिं पूर्वमाशयेत् । भिक्षां च भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे ॥ ३.९४॥
कृत्वा एतत् बलि-कर्म एवम् अतिथिम् पूर्वम् आशयेत् । भिक्षाम् च भिक्षवे दद्यात् विधिवत् ब्रह्मचारिणे ॥ ३।९४॥
kṛtvā etat bali-karma evam atithim pūrvam āśayet . bhikṣām ca bhikṣave dadyāt vidhivat brahmacāriṇe .. 3.94..
3.94. Having performed this Bali offering, he shall first feed his guest and, according to the rule, give alms to an ascetic (and) to a student.
यत्पुण्यफलमाप्नोति गां दत्त्वा विधिवद्गुरोः । तत्पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ ३.९५॥
यत् पुण्य-फलम् आप्नोति गाम् दत्त्वा विधिवत् गुरोः । तत् पुण्य-फलम् आप्नोति भिक्षाम् दत्त्वा द्विजः गृही ॥ ३।९५॥
yat puṇya-phalam āpnoti gām dattvā vidhivat guroḥ . tat puṇya-phalam āpnoti bhikṣām dattvā dvijaḥ gṛhī .. 3.95..
3.95. A twice-born householder gains, by giving alms, the same reward for his meritorious act which (a student) obtains for presenting, in accordance with the rule, a cow to his teacher.
भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् । वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ३.९६॥
भिक्षाम् अपि उद-पात्रम् वा सत्कृत्य विधि-पूर्वकम् । वेद-तत्त्व-अर्थ-विदुषे ब्राह्मणाय उपपादयेत् ॥ ३।९६॥
bhikṣām api uda-pātram vā satkṛtya vidhi-pūrvakam . veda-tattva-artha-viduṣe brāhmaṇāya upapādayet .. 3.96..
3.96. Let him give, in accordance with the rule, to a Brahmana who knows the true meaning of the Veda, even (a small portion of food as) alms, or a pot full of water, having garnished (the food with seasoning, or the pot with flowers and fruit).
नश्यन्ति हव्यकव्यानि नराणामविजानताम् । भस्मभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः ॥ ३.९७॥
नश्यन्ति हव्य-कव्यानि नराणाम् अ विजानताम् । भस्म-भूतेषु विप्रेषु मोहात् दत्तानि दातृभिः ॥ ३।९७॥
naśyanti havya-kavyāni narāṇām a vijānatām . bhasma-bhūteṣu vipreṣu mohāt dattāni dātṛbhiḥ .. 3.97..
3.97. The oblations to gods and manes, made by men ignorant (of the law of gifts), are lost, if the givers in their folly present (shares of them) to Brahmanas who are mere ashes.
विद्यातपस्समृद्धेषु हुतं विप्रमुखाग्निषु । निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ ३.९८॥
विद्या-तपः-समृद्धेषु हुतम् विप्र-मुख-अग्निषु । निस्तारयति दुर्गात् च महतः च एव किल्बिषात् ॥ ३।९८॥
vidyā-tapaḥ-samṛddheṣu hutam vipra-mukha-agniṣu . nistārayati durgāt ca mahataḥ ca eva kilbiṣāt .. 3.98..
3.98. An offering made in the mouth-fire of Brahmanas rich in sacred learning and austerities, saves from misfortune and from great guilt.
सम्प्राप्ताय त्वतिथये प्रदद्यादासनौदके । अन्नं चैव यथाशक्ति संस्कृत्य विधिपूर्वकम् ॥ ३.९९॥
सम्प्राप्ताय तु अतिथये प्रदद्यात् आसन-औदके । अन्नम् च एव यथाशक्ति संस्कृत्य विधि-पूर्वकम् ॥ ३।९९॥
samprāptāya tu atithaye pradadyāt āsana-audake . annam ca eva yathāśakti saṃskṛtya vidhi-pūrvakam .. 3.99..
3.99. But let him offer, in accordance with the rule, to a guest who has come (of his own accord) a seat and water, as well as food, garnished (with seasoning), according to his ability.
शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः । सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ ३.१००॥
शिलान् अपि उञ्छतः नित्यम् पञ्च अग्नीन् अपि जुह्वतः । सर्वम् सुकृतम् आदत्ते ब्राह्मणः अनर्चितः वसन् ॥ ३।१००॥
śilān api uñchataḥ nityam pañca agnīn api juhvataḥ . sarvam sukṛtam ādatte brāhmaṇaḥ anarcitaḥ vasan .. 3.100..
3.100. A Brahmana who stays unhonoured (in the house), takes away (with him) all the spiritual merit even of a man who subsists by gleaning ears of corn, or offers oblations in five fires.
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता । एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन ॥ ३.१०१॥
तृणानि भूमिः उदकम् वाच् चतुर्थी च सूनृता । एतानि अपि सताम् गेहे ना उच्छिद्यन्ते कदा चन ॥ ३।१०१॥
tṛṇāni bhūmiḥ udakam vāc caturthī ca sūnṛtā . etāni api satām gehe nā ucchidyante kadā cana .. 3.101..
3.101. Grass, room (for resting), water, and fourthly a kind word; these (things) never fail in the houses of good men.
एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ ३.१०२॥
एक-रात्रम् तु निवसन् अतिथिः ब्राह्मणः स्मृतः । अनित्यम् हि स्थितः यस्मात् तस्मात् अतिथिः उच्यते ॥ ३।१०२॥
eka-rātram tu nivasan atithiḥ brāhmaṇaḥ smṛtaḥ . anityam hi sthitaḥ yasmāt tasmāt atithiḥ ucyate .. 3.102..
3.102. But a Brahmana who stays one night only is declared to be a guest (atithi); for because he stays (sthita) not long (anityam), he is called atithi (a guest).
नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा । उपस्थितं गृहे विद्याद्भार्या यत्राग्नयोऽपि वा ॥ ३.१०३॥
न एक-ग्रामीणम् अतिथिम् विप्रम् साङ्गतिकम् तथा । उपस्थितम् गृहे विद्यात् भार्या यत्र अग्नयः अपि वा ॥ ३।१०३॥
na eka-grāmīṇam atithim vipram sāṅgatikam tathā . upasthitam gṛhe vidyāt bhāryā yatra agnayaḥ api vā .. 3.103..
3.103. One must not consider as a guest a Brahmana who dwells in the same village, nor one who seeks his livelihood by social intercourse, even though he has come to a house where (there is) a wife, and where sacred fires (are kept).
उपासते ये गृहस्थाः परपाकमबुद्धयः । तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः ॥ ३.१०४॥
उपासते ये गृहस्थाः पर-पाकम् अबुद्धयः । तेन ते प्रेत्य पशु-ताम् व्रजन्ति अन्न-आदि-दायिनः ॥ ३।१०४॥
upāsate ye gṛhasthāḥ para-pākam abuddhayaḥ . tena te pretya paśu-tām vrajanti anna-ādi-dāyinaḥ .. 3.104..
3.104. Those foolish householders who constantly seek (to live on) the food of others, become, in consequence of that (baseness), after death the cattle of those who give them food
अप्रणोद्योऽतिथिः सायं सूर्यौढो गृहमेधिना । काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ ३.१०५॥
अप्रणोद्यः अतिथिः सायम् सूर्य-ओढः गृहमेधिना । काले प्राप्तः तु अकाले वा न अस्य अन् अश्नन् गृहे वसेत् ॥ ३।१०५॥
apraṇodyaḥ atithiḥ sāyam sūrya-oḍhaḥ gṛhamedhinā . kāle prāptaḥ tu akāle vā na asya an aśnan gṛhe vaset .. 3.105..
3.105. A guest who is sent by the (setting) sun in the evening, must not be driven away by a householder; whether he have come at (supper-) time or at an inopportune moment, he must not stay in the house without entertainment.
न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् । धन्यं यशस्यमायुष्यं स्वर्ग्यं वाऽतिथिपूजनम् ॥ ३.१०६॥
न वै स्वयम् तत् अश्नीयात् अतिथिम् यत् न भोजयेत् । धन्यम् यशस्यम् आयुष्यम् स्वर्ग्यम् वा अतिथि-पूजनम् ॥ ३।१०६॥
na vai svayam tat aśnīyāt atithim yat na bhojayet . dhanyam yaśasyam āyuṣyam svargyam vā atithi-pūjanam .. 3.106..
3.106. Let him not eat any (dainty) food which he does not offer to his guest; the hospitable reception of guests procures wealth, fame, long life, and heavenly bliss.
आसनावसथौ शय्यामनुव्रज्यामुपासनाम् । उत्तमेषूत्तमं कुर्याधीने हीनं समे समम् ॥ ३.१०७॥
आसन-आवसथौ शय्याम् अनुव्रज्याम् उपासनाम् । उत्तमेषु उत्तमम् कुर्यात् अधीने हीनम् समे समम् ॥ ३।१०७॥
āsana-āvasathau śayyām anuvrajyām upāsanām . uttameṣu uttamam kuryāt adhīne hīnam same samam .. 3.107..
3.107. Let him offer (to his guests) seats, rooms, beds, attendance on departure and honour (while they stay), to the most distinguished in the best form, to the lower ones in a lower form, to equals in an equal manner.
वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् । तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ ३.१०८॥
वैश्वदेवे तु निर्वृत्ते यदि अन्यः अतिथिः आव्रजेत् । तस्य अपि अन्नम् यथाशक्ति प्रदद्यात् न बलिम् हरेत् ॥ ३।१०८॥
vaiśvadeve tu nirvṛtte yadi anyaḥ atithiḥ āvrajet . tasya api annam yathāśakti pradadyāt na balim haret .. 3.108..
3.108. But if another guest comes after the Vaisvadeva offering has been finished, (the householder) must give him food according to his ability, (but) not repeat the Bali offering.
न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ॥ ३.१०९॥
न भोजन-अर्थम् स्वे विप्रः कुल-गोत्रे निवेदयेत् । भोजन-अर्थम् हि ते शंसन् वान्ताशी इति उच्यते बुधैः ॥ ३।१०९॥
na bhojana-artham sve vipraḥ kula-gotre nivedayet . bhojana-artham hi te śaṃsan vāntāśī iti ucyate budhaiḥ .. 3.109..
3.109. A Brahmana shall not name his family and (Vedic) gotra in order to obtain a meal; for he who boasts of them for the sake of a meal, is called by the wise a foul feeder (vantasin).
न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते । वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ ३.११०॥
न ब्राह्मणस्य तु अतिथिः गृहे राजन्यः उच्यते । वैश्य-शूद्रौ सखा च एव ज्ञातयः गुरुः एव च ॥ ३।११०॥
na brāhmaṇasya tu atithiḥ gṛhe rājanyaḥ ucyate . vaiśya-śūdrau sakhā ca eva jñātayaḥ guruḥ eva ca .. 3.110..
3.110. But a Kshatriya (who comes) to the house of a Brahmana is not called a guest (atithi), nor a Vaisya, nor a Sudra, nor a personal friend, nor a relative, nor the teacher.
यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् । भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ ३.१११॥
यदि तु अतिथि-धर्मेण क्षत्रियः गृहम् आव्रजेत् । भुक्तवत्सु च विप्रेषु कामम् तम् अपि भोजयेत् ॥ ३।१११॥
yadi tu atithi-dharmeṇa kṣatriyaḥ gṛham āvrajet . bhuktavatsu ca vipreṣu kāmam tam api bhojayet .. 3.111..
3.111. But if a Kshatriya comes to the house of a Brahmana in the manner of a guest, (the house-holder) may feed him according to his desire, after the above-mentioned Brahmanas have eaten.
वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ । भोजयेत्सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ ३.११२॥
वैश्य-शूद्रौ अपि प्राप्तौ कुटुम्बे अतिथि-धर्मिणौ । भोजयेत् सह भृत्यैः तावत् आनृशंस्यम् प्रयोजयन् ॥ ३।११२॥
vaiśya-śūdrau api prāptau kuṭumbe atithi-dharmiṇau . bhojayet saha bhṛtyaiḥ tāvat ānṛśaṃsyam prayojayan .. 3.112..
3.112. Even a Vaisya and a Sudra who have approached his house in the manner of guests, he may allow to eat with his servants, showing (thereby) his compassionate disposition.
इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान् । प्रकृत्यान्नं यथाशक्ति भोजयेत्सह भार्यया ॥ ३.११३॥
इतरान् अपि सखि-आदीन् सम्प्रीत्या गृहम् आगतान् । प्रकृत्या अन्नम् यथाशक्ति भोजयेत् सह भार्यया ॥ ३।११३॥
itarān api sakhi-ādīn samprītyā gṛham āgatān . prakṛtyā annam yathāśakti bhojayet saha bhāryayā .. 3.113..
3.113. Even to others, personal friends and so forth, who have come to his house out of affection, he may give food, garnished (with seasoning) according to his ability, (at the same time) with his wife.
सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः । अतिथिभ्योऽन्वगेवैतान् भोजयेदविचारयन् ॥ ३.११४॥
सुवासिनीः कुमारीः च रोगिणः गर्भिणीः स्त्रियः । अतिथिभ्यः अन्वक् एव एतान् भोजयेत् अ विचारयन् ॥ ३।११४॥
suvāsinīḥ kumārīḥ ca rogiṇaḥ garbhiṇīḥ striyaḥ . atithibhyaḥ anvak eva etān bhojayet a vicārayan .. 3.114..
3.114. Without hesitation he may give food, even before his guests, to the following persons, (viz.) to newly- married women, to infants, to the sick, and to pregnant women.
अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः । स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ ३.११५॥
अ दत्त्वा तु यः एतेभ्यः पूर्वम् भुङ्क्ते अविचक्षणः । स भुञ्जानः न जानाति श्व-गृध्रैः जग्धिम् आत्मनः ॥ ३।११५॥
a dattvā tu yaḥ etebhyaḥ pūrvam bhuṅkte avicakṣaṇaḥ . sa bhuñjānaḥ na jānāti śva-gṛdhraiḥ jagdhim ātmanaḥ .. 3.115..
3.115. But the foolish man who eats first without having given food to these (persons) does, while he crams, not know that (after death) he himself will be devoured by dogs and vultures.
भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ ३.११६॥
भुक्तवत्सु अथ विप्रेषु स्वेषु भृत्येषु च एव हि । भुञ्जीयाताम् ततस् पश्चात् अवशिष्टम् तु दम्पती ॥ ३।११६॥
bhuktavatsu atha vipreṣu sveṣu bhṛtyeṣu ca eva hi . bhuñjīyātām tatas paścāt avaśiṣṭam tu dampatī .. 3.116..
3.116. After the Brahmanas, the kinsmen, and the servants have dined, the householder and his wife may afterwards eat what remains.
देवान् ऋषीन् मनुष्यांश्च पितॄन् गृह्याश्च देवताः । पूजयित्वा ततः पश्चाद्गृहस्थः शेषभुग्भवेत् ॥ ३.११७॥
देवान् ऋषीन् मनुष्यान् च पितॄन् गृह्याः च देवताः । पूजयित्वा ततस् पश्चात् गृहस्थः शेष-भुज् भवेत् ॥ ३।११७॥
devān ṛṣīn manuṣyān ca pitṝn gṛhyāḥ ca devatāḥ . pūjayitvā tatas paścāt gṛhasthaḥ śeṣa-bhuj bhavet .. 3.117..
3.117. Having honoured the gods, the sages, men, the manes, and the guardian deities of the house, the householder shall eat afterwards what remains.
अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञशिष्टाशनं ह्येतत्सतामन्नं विधीयते ॥ ३.११८॥
अघम् स केवलम् भुङ्क्ते यः पचति आत्म-कारणात् । यज्ञ-शिष्ट-अशनम् हि एतत् सताम् अन्नम् विधीयते ॥ ३।११८॥
agham sa kevalam bhuṅkte yaḥ pacati ātma-kāraṇāt . yajña-śiṣṭa-aśanam hi etat satām annam vidhīyate .. 3.118..
3.118. He who prepares food for himself (alone), eats nothing but sin; for it is ordained that the food which remains after (the performance of) the sacrifices shall be the meal of virtuous men.
राजर्त्विग्स्नातकगुरून् प्रियश्वशुरमातुलान् । अर्हयेन् मधुपर्केण परिसंवत्सरात्पुनः ॥ ३.११९॥
राज-ऋत्विज्-स्नातक-गुरून् प्रिय-श्वशुर-मातुलान् । अर्हयेत् मधुपर्केण परिसंवत्सरात् पुनर् ॥ ३।११९॥
rāja-ṛtvij-snātaka-gurūn priya-śvaśura-mātulān . arhayet madhuparkeṇa parisaṃvatsarāt punar .. 3.119..
3.119. Let him honour with the honey-mixture a king, an officiating priest, a Snataka, the teacher, a son-in-law, a father-in-law, and a maternal uncle, (if they come) again after a full year (has elapsed since their last visit).
राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थिते । मधुपर्केण सम्पूज्यौ न त्वयज्ञ इति स्थितिः ॥ ३.१२०॥
राजा च श्रोत्रियः च एव यज्ञ-कर्मणि उपस्थिते । मधुपर्केण सम्पूज्यौ न तु अयज्ञे इति स्थितिः ॥ ३।१२०॥
rājā ca śrotriyaḥ ca eva yajña-karmaṇi upasthite . madhuparkeṇa sampūjyau na tu ayajñe iti sthitiḥ .. 3.120..
3.120. A king and a Srotriya, who come on the performance of a sacrifice, must be honoured with the honey- mixture, but not if no sacrifice is being performed; that is a settled rule.
सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । वैश्वदेवं हि नामैतत्सायं प्रातर्विधीयते ॥ ३.१२१॥
सायम् तु अन्नस्य सिद्धस्य पत्नी अमन्त्रम् बलिम् हरेत् । वैश्वदेवम् हि नाम एतत् सायम् प्रातर् विधीयते ॥ ३।१२१॥
sāyam tu annasya siddhasya patnī amantram balim haret . vaiśvadevam hi nāma etat sāyam prātar vidhīyate .. 3.121..
3.121. But the wife shall offer in the evening (a portion) of the dressed food as a Bali-oblation, without (the recitation of) sacred formulas; for that (rite which is called the) Vaisvadeva is prescribed both for the morning and the evening.
पितृयज्ञं तु निर्वर्त्य विप्रश् चैन्दुक्षयेऽग्निमान् । पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ ३.१२२॥
पितृ-यज्ञम् तु निर्वर्त्य विप्रः च ऐन्दु-क्षये अग्निमान् । पिण्डान्वाहार्यकम् श्राद्धम् कुर्यात् मासानुमासिकम् ॥ ३।१२२॥
pitṛ-yajñam tu nirvartya vipraḥ ca aindu-kṣaye agnimān . piṇḍānvāhāryakam śrāddham kuryāt māsānumāsikam .. 3.122..
3.122. After performing the Pitriyagna, a Brahmana who keeps a sacred fire shall offer, month by month, on the new-moon day, the funeral sacrifice (Sraddha, called) Pindanvaharyaka.
पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः । तच्चामिषेणा कर्तव्यं प्रशस्तेन समन्तत ॥ ३.१२३॥
पितॄणाम् मासिकम् श्राद्धम् अन्वाहार्यम् विदुः बुधाः । तत् च आमिषेण कर्तव्यम् प्रशस्तेन समन्तत ॥ ३।१२३॥
pitṝṇām māsikam śrāddham anvāhāryam viduḥ budhāḥ . tat ca āmiṣeṇa kartavyam praśastena samantata .. 3.123..
3.123. The wise call the monthly funeral offering to the manes Anvaharya (to be offered after the cakes), and that must be carefully performed with the approved (sorts of) flesh (mentioned below).
तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः । यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्याम्यशेषतः ॥ ३.१२४॥
तत्र ये भोजनीयाः स्युः ये च वर्ज्याः द्विजोत्तमाः । यावन्तः च एव यैः च अन्नैः तान् प्रवक्ष्यामि अशेषतस् ॥ ३।१२४॥
tatra ye bhojanīyāḥ syuḥ ye ca varjyāḥ dvijottamāḥ . yāvantaḥ ca eva yaiḥ ca annaiḥ tān pravakṣyāmi aśeṣatas .. 3.124..
3.124. I will fully declare what and how many (Brahmanas) must be fed on that (occasion), who must be avoided, and on what kinds of food (they shall dine).
द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । पितृकृत्येभोजयेत्सुसमृद्धोऽपि न प्रवर्तेत विस्तरे ॥ ३.१२५॥
द्वौ दैवे पितृ-कार्ये त्रीन् एकैकम् उभयत्र वा । पितृ-कृत्ये भोजयेत् सु समृद्धः अपि न प्रवर्तेत विस्तरे ॥ ३।१२५॥
dvau daive pitṛ-kārye trīn ekaikam ubhayatra vā . pitṛ-kṛtye bhojayet su samṛddhaḥ api na pravarteta vistare .. 3.125..
3.125. One must feed two (Brahmanas) at the offering to the gods, and three at the offering to the manes, or one only on either occasion; even a very wealthy man shall not be anxious (to entertain) a large company.
सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः । पञ्चैतान् विस्तरो हन्ति तस्मान्नैहेत विस्तरम् ॥ ३.१२६॥
सत्क्रियाम् देश-कालौ च शौचम् ब्राह्मण-सम्पदः । पञ्च एतान् विस्तरः हन्ति तस्मात् न एहेत विस्तरम् ॥ ३।१२६॥
satkriyām deśa-kālau ca śaucam brāhmaṇa-sampadaḥ . pañca etān vistaraḥ hanti tasmāt na eheta vistaram .. 3.126..
3.126. A large company destroys these five (advantages) the respectful treatment (of the invited, the propriety of) place and time, purity and (the selection of) virtuous Brahmana (guests); he therefore shall not seek (to entertain) a large company.
प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये । तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ ३.१२७॥
प्रथिता प्रेत-कृत्या एषा पित्र्यम् नाम विधु-क्षये । तस्मिन् युक्तस्य एति नित्यम् प्रेत-कृत्या एव लौकिकी ॥ ३।१२७॥
prathitā preta-kṛtyā eṣā pitryam nāma vidhu-kṣaye . tasmin yuktasya eti nityam preta-kṛtyā eva laukikī .. 3.127..
3.127. Famed is this rite for the dead, called (the sacrifice sacred to the manes (and performed) on the new- moon day; if a man is diligent in (performing) that, (the reward of) the rite for the dead, which is performed according to Smarta rules, reaches him constantly.
श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ ३.१२८॥
श्रोत्रियाय एव देयानि हव्य-कव्यानि दातृभिः । अर्हत्तमाय विप्राय तस्मै दत्तम् महा-फलम् ॥ ३।१२८॥
śrotriyāya eva deyāni havya-kavyāni dātṛbhiḥ . arhattamāya viprāya tasmai dattam mahā-phalam .. 3.128..
3.128. Oblations to the gods and manes must be presented by the givers to a Srotriya alone; what is given to such a most worthy Brahmana yields great reward.
एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् । भोजयन्पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि ॥ ३.१२९॥
एकैकम् अपि विद्वांसम् दैवे पित्र्ये च भोजयेत् । भोजयन् पुष्कलम् फलम् आप्नोति न अमन्त्र-ज्ञान् बहून् अपि ॥ ३।१२९॥
ekaikam api vidvāṃsam daive pitrye ca bhojayet . bhojayan puṣkalam phalam āpnoti na amantra-jñān bahūn api .. 3.129..
3.129. Let him feed even one learned man at (the sacrifice) to the gods, and one at (the sacrifice) to the manes; (thus) he will gain a rich reward, not (if he entertains) many who are unacquainted with the Veda.
दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् । तीर्थं तधव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ ३.१३०॥
दूरात् एव परीक्षेत ब्राह्मणम् वेदपारगम् । तीर्थम् तत् हव्य-कव्यानाम् प्रदाने सः अतिथिः स्मृतः ॥ ३।१३०॥
dūrāt eva parīkṣeta brāhmaṇam vedapāragam . tīrtham tat havya-kavyānām pradāne saḥ atithiḥ smṛtaḥ .. 3.130..
3.130. Let him make inquiries even regarding the remote (ancestors of) a Brahmana who has studied an entire (recension of the) Veda; (if descended from a virtuous race) such a man is a worthy recipient of gifts (consisting) of food offered to the gods or to the manes, he is declared (to procure as great rewards as) a guest (atithi).
सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते । एकस्तान् मन्त्रवित्प्रीतः सर्वानर्हति धर्मतः ॥ ३.१३१॥
सहस्रम् हि सहस्राणाम् अन् ऋचाम् यत्र भुञ्जते । एकः तान् मन्त्र-विद् प्रीतः सर्वान् अर्हति धर्मतः ॥ ३।१३१॥
sahasram hi sahasrāṇām an ṛcām yatra bhuñjate . ekaḥ tān mantra-vid prītaḥ sarvān arhati dharmataḥ .. 3.131..
3.131. Though a million of men, unaquainted with the Rikas, were to dine at a (funeral sacrifice), yet a single man, learned in the Veda, who is satisfied (with his entertainment), is worth them all as far as the (production of) spiritual merit (is concerned).
ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च । न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ ३.१३२॥
ज्ञान-उत्कृष्टाय देयानि कव्यानि च हवींषि च । न हि हस्तौ असृज्-दिग्धौ रुधिरेण एव शुध्यतः ॥ ३।१३२॥
jñāna-utkṛṣṭāya deyāni kavyāni ca havīṃṣi ca . na hi hastau asṛj-digdhau rudhireṇa eva śudhyataḥ .. 3.132..
3.132. Food sacred to the manes or to the gods must be given to a man distinguished by sacred knowledge; for hands, smeared with blood, cannot be cleansed with blood.
यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ॥ ३.१३३॥
यावतः ग्रसते ग्रासान् हव्य-कव्येषु अ मन्त्र-विद् । तावतः ग्रसते प्रेतः दीप्त-शूल-ऋष्टि-अयः-गुडान् ॥ ३।१३३॥
yāvataḥ grasate grāsān havya-kavyeṣu a mantra-vid . tāvataḥ grasate pretaḥ dīpta-śūla-ṛṣṭi-ayaḥ-guḍān .. 3.133..
3.133. As many mouthfuls as an ignorant man swallows at a sacrifice to the gods or to the manes, so many red- hot spikes, spears, and iron balls must (the giver of the repast) swallow after death.
ज्ञाननिष्ठा द्विजाः के चित्तपोनिष्ठास्तथाऽपरे । तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथाऽपरे ॥ ३.१३४॥
ज्ञान-निष्ठाः द्विजाः के चित् तपः-निष्ठाः तथा अपरे । तपः-स्वाध्याय-निष्ठाः च कर्म-निष्ठाः तथा अपरे ॥ ३।१३४॥
jñāna-niṣṭhāḥ dvijāḥ ke cit tapaḥ-niṣṭhāḥ tathā apare . tapaḥ-svādhyāya-niṣṭhāḥ ca karma-niṣṭhāḥ tathā apare .. 3.134..
3.134. Some Brahmanas are devoted to (the pursuit of) knowledge, and others to (the performance of) austerities; some to austerities and to the recitation of the Veda, and others to (the performance of) sacred rites.
ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि ॥ ३.१३५॥
ज्ञान-निष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः । हव्यानि तु यथान्यायम् सर्वेषु एव चतुर्षु अपि ॥ ३।१३५॥
jñāna-niṣṭheṣu kavyāni pratiṣṭhāpyāni yatnataḥ . havyāni tu yathānyāyam sarveṣu eva caturṣu api .. 3.135..
3.135. Oblations to the manes ought to be carefully presented to those devoted to knowledge, but offerings to the gods, in accordance with the reason (of the sacred law), to (men of) all the four (above-mentioned classes).
अश्रोत्रियः पिता यस्य पुत्रः स्याद्वेदपारगः । अश्रोत्रियो वा पुत्रः स्यात्पिता स्याद्वेदपारगः ॥ ३.१३६॥
अश्रोत्रियः पिता यस्य पुत्रः स्यात् वेदपारगः । अश्रोत्रियः वा पुत्रः स्यात् पिता स्यात् वेदपारगः ॥ ३।१३६॥
aśrotriyaḥ pitā yasya putraḥ syāt vedapāragaḥ . aśrotriyaḥ vā putraḥ syāt pitā syāt vedapāragaḥ .. 3.136..
3.136. If there is a father ignorant of the sacred texts whose son has learned one whole recension of the Veda and the Angas, and a son ignorant of the sacred texts whose father knows an entire recension of the Veda and the Angas,
ज्यायांसमनयोर्विद्याद्यस्य स्यात्श्रोत्रियः पिता । मन्त्रसम्पूजनार्थं तु सत्कारमितरोऽर्हति ॥ ३.१३७॥
ज्यायांसम् अनयोः विद्यात् यस्य स्यात् श्रोत्रियः पिता । मन्त्र-सम्पूजन-अर्थम् तु सत्कारम् इतरः अर्हति ॥ ३।१३७॥
jyāyāṃsam anayoḥ vidyāt yasya syāt śrotriyaḥ pitā . mantra-sampūjana-artham tu satkāram itaraḥ arhati .. 3.137..
3.137. Know that he whose father knows the Veda, is the more venerable one (of the two); yet the other one is worthy of honour, because respect is due to the Veda (which he has learned).
न श्राद्धे भोजयेन् मित्रं धनैः कार्योऽस्य सङ्ग्रहः । नारिं न मित्रं यं विद्यात्तं श्राद्धे भोजयेद्द्विजम् ॥ ३.१३८॥
न श्राद्धे भोजयेत् मित्रम् धनैः कार्यः अस्य सङ्ग्रहः । न अरिम् न मित्रम् यम् विद्यात् तम् श्राद्धे भोजयेत् द्विजम् ॥ ३।१३८॥
na śrāddhe bhojayet mitram dhanaiḥ kāryaḥ asya saṅgrahaḥ . na arim na mitram yam vidyāt tam śrāddhe bhojayet dvijam .. 3.138..
3.138. Let him not entertain a personal friend at a funeral sacrifice; he may gain his affection by (other) valuable gifts; let him feed at a Sraddha a Brahmana whom he considers neither as a foe nor as a friend.
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ ३.१३९॥
यस्य मित्र-प्रधानानि श्राद्धानि च हवींषि च । तस्य प्रेत्य फलम् न अस्ति श्राद्धेषु च हविःषु च ॥ ३।१३९॥
yasya mitra-pradhānāni śrāddhāni ca havīṃṣi ca . tasya pretya phalam na asti śrāddheṣu ca haviḥṣu ca .. 3.139..
3.139. He who performs funeral sacrifices and offerings to the gods chiefly for the sake of (gaining) friends, reaps after death no reward for Sraddhas and sacrifices.
यः सङ्गतानि कुरुते मोहात्श्राद्धेन मानवः । स स्वर्गाच्च्यवते लोकात्श्राद्धमित्रो द्विजाधमः ॥ ३.१४०॥
यः सङ्गतानि कुरुते मोहात् श्राद्धेन मानवः । स स्वर्गात् च्यवते लोकात् श्राद्ध-मित्रः द्विज-अधमः ॥ ३।१४०॥
yaḥ saṅgatāni kurute mohāt śrāddhena mānavaḥ . sa svargāt cyavate lokāt śrāddha-mitraḥ dvija-adhamaḥ .. 3.140..
3.140. That meanest among twice-born men who in his folly contracts friendships through a funeral sacrifice, loses heaven, because he performed a Sraddha for the sake of friendship.
सम्भोजानि साऽभिहिता पैशाची दक्षिणा द्विजैः । इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ ३.१४१॥
सम्भोजानि सा अभिहिता पैशाची दक्षिणा द्विजैः । इह एव आस्ते तु सा लोके गौः अन्धा इव एक-वेश्मनि ॥ ३।१४१॥
sambhojāni sā abhihitā paiśācī dakṣiṇā dvijaiḥ . iha eva āste tu sā loke gauḥ andhā iva eka-veśmani .. 3.141..
3.141. A gift (of food) by twice-born men, consumed with (friends and relatives), is said to be offered to the Pisakas; it remains in this (world) alone like a blind cow in one stable.
यथैरिणे बीजमुप्त्वा न वप्ता लभते फलम् । तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ ३.१४२॥
यथा एरिणे बीजम् उप्त्वा न वप्ता लभते फलम् । तथा अनृचे हविः दत्त्वा न दाता लभते फलम् ॥ ३।१४२॥
yathā eriṇe bījam uptvā na vaptā labhate phalam . tathā anṛce haviḥ dattvā na dātā labhate phalam .. 3.142..
3.142. As a husbandman reaps no harvest when he has sown the seed in barren soil, even so the giver of sacrificial food gains no reward if he presented it to a man unacquainted with the Rikas.
दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः । विदुषे दक्षिणां दत्त्वा विधिवत्प्रेत्य चैह च ॥ ३.१४३॥
दातॄन् प्रतिग्रहीतॄन् च कुरुते फल-भागिनः । विदुषे दक्षिणाम् दत्त्वा विधिवत् प्रेत्य च इह च ॥ ३।१४३॥
dātṝn pratigrahītṝn ca kurute phala-bhāginaḥ . viduṣe dakṣiṇām dattvā vidhivat pretya ca iha ca .. 3.143..
3.143. But a present made in accordance with the rules to a learned man, makes the giver and the recipient partakers of rewards both in this (life) and after death.
कामं श्राद्धेऽर्चयेन् मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ ३.१४४॥
कामम् श्राद्धे अर्चयेत् मित्रम् न अभिरूपम् अपि तु अरिम् । द्विषता हि हविः भुक्तम् भवति प्रेत्य निष्फलम् ॥ ३।१४४॥
kāmam śrāddhe arcayet mitram na abhirūpam api tu arim . dviṣatā hi haviḥ bhuktam bhavati pretya niṣphalam .. 3.144..
3.144. (If no learned Brahmana be at hand), he may rather honour a (virtuous) friend than an enemy, though the latter may be qualified (by learning and so forth); for sacrificial food, eaten by a foe, bears no reward after death.
यत्नेन भोजयेत्श्राद्धे बह्वृचं वेदपारगम् । शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ ३.१४५॥
यत्नेन भोजयेत् श्राद्धे बहु-ऋचम् वेदपारगम् । शाखा-अन्तगम् अथ अध्वर्युम् छन्दोगम् तु समाप्तिकम् ॥ ३।१४५॥
yatnena bhojayet śrāddhe bahu-ṛcam vedapāragam . śākhā-antagam atha adhvaryum chandogam tu samāptikam .. 3.145..
3.145. Let him (take) pains (to) feed at a Sraddha an adherent of the Rig-veda who has studied one entire (recension of that) Veda, or a follower of the Yagur-veda who has finished one Sakha, or a singer of Samans who (likewise) has completed (the study of an entire recension).
एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः । पितॄणां तस्य तृप्तिः स्यात्शाश्वती साप्तपौरुषी ॥ ३.१४६॥
एषाम् अन्यतमः यस्य भुञ्जीत श्राद्धम् अर्चितः । पितॄणाम् तस्य तृप्तिः स्यात् शाश्वती साप्तपौरुषी ॥ ३।१४६॥
eṣām anyatamaḥ yasya bhuñjīta śrāddham arcitaḥ . pitṝṇām tasya tṛptiḥ syāt śāśvatī sāptapauruṣī .. 3.146..
3.146. If one of these three dines, duly honoured, at a funeral sacrifice, the ancestors of him (who gives the feast), as far as the seventh person, will be satisfied for a very long time.
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ ३.१४७॥
एष वै प्रथमः कल्पः प्रदाने हव्य-कव्ययोः । अनुकल्पः तु अयम् ज्ञेयः सदा सद्भिः अनुष्ठितः ॥ ३।१४७॥
eṣa vai prathamaḥ kalpaḥ pradāne havya-kavyayoḥ . anukalpaḥ tu ayam jñeyaḥ sadā sadbhiḥ anuṣṭhitaḥ .. 3.147..
3.147. This is the chief rule (to be followed) in offering sacrifices to the gods and manes; know that the virtuous always observe the following subsidiary rule.
मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बन्धुं ऋत्विग्याज्यौ च भोजयेत् ॥ ३.१४८॥
मातामहम् मातुलम् च स्वस्रीयम् श्वशुरम् गुरुम् । दौहित्रम् विट्पतिम् बन्धुम् ऋत्विज्-याज्यौ च भोजयेत् ॥ ३।१४८॥
mātāmaham mātulam ca svasrīyam śvaśuram gurum . dauhitram viṭpatim bandhum ṛtvij-yājyau ca bhojayet .. 3.148..
3.148. One may also entertain (on such occasions) one’s maternal grandfather, a maternal uncle, a sister’s son, a father-in-law, one’s teacher, a daughter’s son, a daughter’s husband, a cognate kinsman, one’s own officiating priest or a man for whom one offers sacrifices.
न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् । पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३.१४९॥
न ब्राह्मणम् परीक्षेत दैवे कर्मणि धर्म-विद् । पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ ३।१४९॥
na brāhmaṇam parīkṣeta daive karmaṇi dharma-vid . pitrye karmaṇi tu prāpte parīkṣeta prayatnataḥ .. 3.149..
3.149. For a rite sacred to the gods, he who knows the law will not make (too close) inquiries regarding an (invited) Brahmana; but when one performs a ceremony in honour of the manes, one must carefully examine (the qualities and parentage of the guest).
ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः । तान् हव्यकव्ययोर्विप्राननर्हान् मनुरब्रवीत् ॥ ३.१५०॥
ये स्तेन-पतित-क्लीबाः ये च नास्तिक-वृत्तयः । तान् हव्य-कव्ययोः विप्रान् अनर्हान् मनुः अब्रवीत् ॥ ३।१५०॥
ye stena-patita-klībāḥ ye ca nāstika-vṛttayaḥ . tān havya-kavyayoḥ viprān anarhān manuḥ abravīt .. 3.150..
3.150. Manu has declared that those Brahmanas who are thieves, outcasts, eunuchs, or atheists are unworthy (to partake) of oblations to the gods and manes.
जटिलं चानधीयानं दुर्बालं कितवं तथा । याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ ३.१५१॥
जटिलम् च अन् अधीयानम् दुर्बालम् कितवम् तथा । याजयन्ति च ये पूगान् तान् च श्राद्धे न भोजयेत् ॥ ३।१५१॥
jaṭilam ca an adhīyānam durbālam kitavam tathā . yājayanti ca ye pūgān tān ca śrāddhe na bhojayet .. 3.151..
3.151. Let him not entertain at a Sraddha one who wears his hair in braids (a student), one who has not studied (the Veda), one afflicted with a skin-disease, a gambler, nor those who sacrifice for a multitude (of sacrificers).
चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥ ३.१५२॥
चिकित्सकान् देवलकान् मांस-विक्रयिणः तथा । विपणेन च जीवन्तः वर्ज्याः स्युः हव्य-कव्ययोः ॥ ३।१५२॥
cikitsakān devalakān māṃsa-vikrayiṇaḥ tathā . vipaṇena ca jīvantaḥ varjyāḥ syuḥ havya-kavyayoḥ .. 3.152..
3.152. Physicians, temple-priests, sellers of meat, and those who subsist by shop-keeping must be avoided at sacrifices offered to the gods and to the manes.
प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः । प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ॥ ३.१५३॥
प्रेष्यः ग्रामस्य राज्ञः च कुनखी श्याव-दन्तकः । प्रतिरोद्धा गुरोः च एव त्यक्ताग्निः वार्धुषिः तथा ॥ ३।१५३॥
preṣyaḥ grāmasya rājñaḥ ca kunakhī śyāva-dantakaḥ . pratiroddhā guroḥ ca eva tyaktāgniḥ vārdhuṣiḥ tathā .. 3.153..
3.153. A paid servant of a village or of a king, man with deformed nails or black teeth, one who opposes his teacher, one who has forsaken the sacred fire, and a usurer;
यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः । ब्रह्मद्विष्परिवित्तिश्च गणाभ्यन्तर एव च ॥ ३.१५४॥
यक्ष्मी च पशुपालः च परिवेत्ता निराकृतिः । ब्रह्म-द्विष्परिवित्तिः च गण-अभ्यन्तरः एव च ॥ ३।१५४॥
yakṣmī ca paśupālaḥ ca parivettā nirākṛtiḥ . brahma-dviṣparivittiḥ ca gaṇa-abhyantaraḥ eva ca .. 3.154..
3.154. One suffering from consumption, one who subsists by tending cattle, a younger brother who marries or kindles the sacred fire before the elder, one who neglects the five great sacrifices, an enemy of the Brahmana race, an elder brother who marries or kindles the sacred fire after the younger, and one who belongs to a company or corporation,
कुशीलवोऽवकीर्णी च वृषलीपतिरेव च । पौनर्भवश्च काणश्च यस्य चौपपतिर्गृहे ॥ ३.१५५॥
कुशीलवः अवकीर्णी च वृषली-पतिः एव च । पौनर्भवः च काणः च यस्य च औप-पतिः गृहे ॥ ३।१५५॥
kuśīlavaḥ avakīrṇī ca vṛṣalī-patiḥ eva ca . paunarbhavaḥ ca kāṇaḥ ca yasya ca aupa-patiḥ gṛhe .. 3.155..
3.155. An actor or singer, one who has broken the vow of studentship, one whose (only or first) wife is a Sudra female, the son of a remarried woman, a one-eyed man, and he in whose house a paramour of his wife (resides);
भृतकाध्यापको यश्च भृतकाध्यापितस्तथा । शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥ ३.१५६॥
भृतक-अध्यापकः यः च भृतक-अध्यापितः तथा । शूद्र-शिष्यः गुरुः च एव वाग्दुष्टः कुण्ड-गोलकौ ॥ ३।१५६॥
bhṛtaka-adhyāpakaḥ yaḥ ca bhṛtaka-adhyāpitaḥ tathā . śūdra-śiṣyaḥ guruḥ ca eva vāgduṣṭaḥ kuṇḍa-golakau .. 3.156..
3.156. He who teaches for a stipulated fee and he who is taught on that condition, he who instructs Sudra pupils and he whose teacher is a Sudra, he who speaks rudely, the son of an adulteress, and the son of a widow,
अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा । ब्राह्मैर्यौनैश्च सम्बन्धैः संयोगं पतितैर्गतः ॥ ३.१५७॥
अकारणे परित्यक्ता माता-पित्रोः गुरोः तथा । ब्राह्मैः यौनैः च सम्बन्धैः संयोगम् पतितैः गतः ॥ ३।१५७॥
akāraṇe parityaktā mātā-pitroḥ guroḥ tathā . brāhmaiḥ yaunaiḥ ca sambandhaiḥ saṃyogam patitaiḥ gataḥ .. 3.157..
3.157. He who forsakes his mother, his father, or a teacher without a (sufficient) reason, he who has contracted an alliance with outcasts either through the Veda or through a marriage,
अगारदाही गरदः कुण्डाशी सोमविक्रयी । समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ ३.१५८॥
अगार-दाही गरदः कुण्डाशी सोम-विक्रयी । समुद्र-यायी बन्दी च तैलिकः कूट-कारकः ॥ ३।१५८॥
agāra-dāhī garadaḥ kuṇḍāśī soma-vikrayī . samudra-yāyī bandī ca tailikaḥ kūṭa-kārakaḥ .. 3.158..
3.158. An incendiary, a prisoner, he who eats the food given by the son of an adulteress, a seller of Soma, he who undertakes voyages by sea, a bard, an oil-man, a suborner to perjury,
पित्रा विवदमानश्च कितवो मद्यपस्तथा । पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ ३.१५९॥
पित्रा विवदमानः च कितवः मद्यपः तथा । पाप-रोगी अभिशस्तः च दाम्भिकः रस-विक्रयी ॥ ३।१५९॥
pitrā vivadamānaḥ ca kitavaḥ madyapaḥ tathā . pāpa-rogī abhiśastaḥ ca dāmbhikaḥ rasa-vikrayī .. 3.159..
3.159. He who wrangles or goes to law with his father, the keeper of a gambling-house, a drunkard, he who is afflicted with a disease (in punishment of former) crimes, he who is accused of a mortal sin, a hypocrite, a seller of substances used for flavouring food,
धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः । मित्रध्रुग्द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ ३.१६०॥
धनुः-शराणाम् कर्ता च यः च अग्रेदिधिषू-पतिः । मित्र-ध्रुक् द्यूत-वृत्तिः च पुत्र-आचार्यः तथा एव च ॥ ३।१६०॥
dhanuḥ-śarāṇām kartā ca yaḥ ca agredidhiṣū-patiḥ . mitra-dhruk dyūta-vṛttiḥ ca putra-ācāryaḥ tathā eva ca .. 3.160..
3.160. A maker of bows and of arrows, he who lasciviously dallies with a brother’s widow, the betrayer of a friend, one who subsists by gambling, he who learns (the Veda) from his son,
भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा । उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥ ३.१६१॥
भ्रामरी गण्डमाली च श्वित्री अथो पिशुनः तथा । उन्मत्तः अन्धः च वर्ज्याः स्युः वेद-निन्दकः एव च ॥ ३।१६१॥
bhrāmarī gaṇḍamālī ca śvitrī atho piśunaḥ tathā . unmattaḥ andhaḥ ca varjyāḥ syuḥ veda-nindakaḥ eva ca .. 3.161..
3.161. An epileptic man, who suffers from scrofulous swellings of the glands, one afflicted with white leprosy, an informer, a madman, a blind man, and he who cavils at the Veda must (all) be avoided.
हस्तिगोऽश्वौष्ट्रदमको नक्षत्रैर्यश्च जीवति । पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ ३.१६२॥
हस्ति-गो-अश्व-औष्ट्र-दमकः नक्षत्रैः यः च जीवति । पक्षिणाम् पोषकः यः च युद्ध-आचार्यः तथा एव च ॥ ३।१६२॥
hasti-go-aśva-auṣṭra-damakaḥ nakṣatraiḥ yaḥ ca jīvati . pakṣiṇām poṣakaḥ yaḥ ca yuddha-ācāryaḥ tathā eva ca .. 3.162..
3.162. A trainer of elephants, oxen, horses, or camels, he who subsists by astrology, a bird-fancier, and he who teaches the use of arms,
स्रोतसां भेदको यश्च तेषां चावरणे रतः । गृहसंवेशको दूतो वृक्षारोपक एव च ॥ ३.१६३॥
स्रोतसाम् भेदकः यः च तेषाम् च आवरणे रतः । गृह-संवेशकः दूतः वृक्ष-आरोपकः एव च ॥ ३।१६३॥
srotasām bhedakaḥ yaḥ ca teṣām ca āvaraṇe rataḥ . gṛha-saṃveśakaḥ dūtaḥ vṛkṣa-āropakaḥ eva ca .. 3.163..
3.163. He who diverts water-courses, and he who delights in obstructing them, an architect, a messenger, and he who plants trees (for money),
श्वक्रीडी श्येनजीवी च कन्यादूषक एव च । हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ ३.१६४॥
श्व-क्रीडी श्येन-जीवी च कन्या-दूषकः एव च । हिंस्रः वृषल-वृत्तिः च गणानाम् च एव याजकः ॥ ३।१६४॥
śva-krīḍī śyena-jīvī ca kanyā-dūṣakaḥ eva ca . hiṃsraḥ vṛṣala-vṛttiḥ ca gaṇānām ca eva yājakaḥ .. 3.164..
3.164. A breeder of sporting-dogs, a falconer, one who defiles maidens, he who delights in injuring living creatures, he who gains his subsistence from Sudras, and he who offers sacrifices to the Ganas,
आचारहीनः क्लीबश्च नित्यं याचनकस्तथा । कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ ३.१६५॥
आचार-हीनः क्लीबः च नित्यम् याचनकः तथा । कृषि-जीवी श्लीपदी च सद्भिः निन्दितः एव च ॥ ३।१६५॥
ācāra-hīnaḥ klībaḥ ca nityam yācanakaḥ tathā . kṛṣi-jīvī ślīpadī ca sadbhiḥ ninditaḥ eva ca .. 3.165..
3.165. He who does not follow the rule of conduct, a (man destitute of energy like a) eunuch, one who constantly asks (for favours), he who lives by agriculture, a club-footed man, and he who is censured by virtuous men,
औरभ्रिको माहिषिकः परपूर्वापतिस्तथा । प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः ॥ ३.१६६॥
औरभ्रिकः माहिषिकः परपूर्वा-पतिः तथा । प्रेत-निर्यापकः च एव वर्जनीयाः प्रयत्नतः ॥ ३।१६६॥
aurabhrikaḥ māhiṣikaḥ parapūrvā-patiḥ tathā . preta-niryāpakaḥ ca eva varjanīyāḥ prayatnataḥ .. 3.166..
3.166. A shepherd, a keeper of buffaloes, the husband of a remarried woman, and a carrier of dead bodies, (all these) must be carefully avoided.
एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान् । द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ ३.१६७॥
एतान् विगर्हित-आचारान् अ पाङ्क्तेयान् द्विज-अधमान् । द्विजाति-प्रवरः विद्वान् उभयत्र विवर्जयेत् ॥ ३।१६७॥
etān vigarhita-ācārān a pāṅkteyān dvija-adhamān . dvijāti-pravaraḥ vidvān ubhayatra vivarjayet .. 3.167..
3.167. A Brahmana who knows (the sacred law) should shun at (sacrifices) both (to the gods and to the manes) these lowest of twice-born men, whose conduct is reprehensible, and who are unworthy (to sit) in the company (at a repast).
ब्राह्मणः ह्यनधीयानः स्तृणाग्निरिव शाम्यति । तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ ३.१६८॥
ब्राह्मणः हि अन् अधीयानः स्तृण-अग्निः इव शाम्यति । तस्मै हव्यम् न दातव्यम् न हि भस्मनि हूयते ॥ ३।१६८॥
brāhmaṇaḥ hi an adhīyānaḥ stṛṇa-agniḥ iva śāmyati . tasmai havyam na dātavyam na hi bhasmani hūyate .. 3.168..
3.168. As a fire of dry grass is (unable to consume the offerings and is quickly) extinguished, even so (is it with) an unlearned Brahmana; sacrificial food must not be given to him, since it (would be) offered in ashes.
अपङ्क्त्यदाने यो दातुर्भवत्यूर्ध्वं फलौदयः । दैवे कर्मणि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ॥ ३.१६९॥
अपङ्क्ति-अदाने यः दातुः भवति ऊर्ध्वम् फल-ओदयः । दैवे कर्मणि पित्र्ये वा तम् प्रवक्ष्यामि अशेषतस् ॥ ३।१६९॥
apaṅkti-adāne yaḥ dātuḥ bhavati ūrdhvam phala-odayaḥ . daive karmaṇi pitrye vā tam pravakṣyāmi aśeṣatas .. 3.169..
3.169. I will fully declare what result the giver obtains after death, if he gives food, destined for the gods or manes, to a man who is unworthy to sit in the company.
अव्रतैर्यद्द्विजैर्भुक्तं परिवेत्र्यादिभिस्तथा । अपाङ्क्तेयैर्यदन्यैश्च तद्वै रक्षांसि भुञ्जते ॥ ३.१७०॥
अव्रतैः यत् द्विजैः भुक्तम् परिवेत्री-आदिभिः तथा । अ पाङ्क्तेयैः यत् अन्यैः च तत् वै रक्षांसि भुञ्जते ॥ ३।१७०॥
avrataiḥ yat dvijaiḥ bhuktam parivetrī-ādibhiḥ tathā . a pāṅkteyaiḥ yat anyaiḥ ca tat vai rakṣāṃsi bhuñjate .. 3.170..
3.170. The Rakshasas, indeed, consume (the food) eaten by Brahmanas who have not fulfilled the vow of studentship, by a Parivettri and so forth, and by other men not admissible into the company.
दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ ३.१७१॥
दार-अग्निहोत्र-संयोगम् कुरुते यः अग्रजे स्थिते । परिवेत्ता स विज्ञेयः परिवित्तिः तु पूर्वजः ॥ ३।१७१॥
dāra-agnihotra-saṃyogam kurute yaḥ agraje sthite . parivettā sa vijñeyaḥ parivittiḥ tu pūrvajaḥ .. 3.171..
3.171. He must be considered as a Parivettri who marries or begins the performance of the Agnihotra before his elder brother, but the latter as a Parivitti.
परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ ३.१७२॥
परिवित्तिः परिवेत्ता यया च परिविद्यते । सर्वे ते नरकम् यान्ति दातृ-याजक-पञ्चमाः ॥ ३।१७२॥
parivittiḥ parivettā yayā ca parividyate . sarve te narakam yānti dātṛ-yājaka-pañcamāḥ .. 3.172..
3.172. The elder brother who marries after the younger, the younger brother who marries before the elder, the female with whom such a marriage is contracted, he who gives her away, and the sacrificing priest, as the fifth, all fall into hell.
भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः । धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ ३.१७३॥
भ्रातुः मृतस्य भार्यायाम् यः अनुरज्येत कामतः । धर्मेण अपि नियुक्तायाम् स ज्ञेयः दिधिषू-पतिः ॥ ३।१७३॥
bhrātuḥ mṛtasya bhāryāyām yaḥ anurajyeta kāmataḥ . dharmeṇa api niyuktāyām sa jñeyaḥ didhiṣū-patiḥ .. 3.173..
3.173. He who lasciviously dallies with the widow of a deceased brother, though she be appointed (to bear a child by him) in accordance with the sacred law, must be known to be a Didhishupati.
परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ । पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ ३.१७४॥
परदारेषु जायेते द्वौ सुतौ कुण्ड-गोलकौ । पत्यौ जीवति कुण्डः स्यात् मृते भर्तरि गोलकः ॥ ३।१७४॥
paradāreṣu jāyete dvau sutau kuṇḍa-golakau . patyau jīvati kuṇḍaḥ syāt mṛte bhartari golakaḥ .. 3.174..
3.174. Two (kinds of) sons, a Kunda and a Golaka, are born by wives of other men; (he who is born) while the husband lives, will be a Kunda, and (he who is begotten) after the husband’s death, a Golaka.
ते तु जाताः परक्षेत्रे प्राणिनः प्रेत्य चैह च । दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ ३.१७५॥
ते तु जाताः पर-क्षेत्रे प्राणिनः प्रेत्य च एह च । दत्तानि हव्य-कव्यानि नाशयन्ति प्रदायिनाम् ॥ ३।१७५॥
te tu jātāḥ para-kṣetre prāṇinaḥ pretya ca eha ca . dattāni havya-kavyāni nāśayanti pradāyinām .. 3.175..
3.175. But those two creatures, who are born of wives of other men, cause to the giver the loss (of the rewards), both in this life and after death, for the food sacred to gods or manes which has been given (to them).
अपङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानाननुपश्यति । तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ ३.१७६॥
अपङ्क्त्यः यावतः पङ्क्त्यान् भुञ्जानान् अनुपश्यति । तावताम् न फलम् तत्र दाता प्राप्नोति बालिशः ॥ ३।१७६॥
apaṅktyaḥ yāvataḥ paṅktyān bhuñjānān anupaśyati . tāvatām na phalam tatra dātā prāpnoti bāliśaḥ .. 3.176..
3.176. The foolish giver (of a funeral repast) does not reap the reward for as many worthy guests as a man, inadmissible into company, can look on while they are feeding.
वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य च । पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ ३.१७७॥
वीक्ष्य अन्धः नवतेः काणः षष्टेः श्वित्री शतस्य च । पाप-रोगी सहस्रस्य दातुः नाशयते फलम् ॥ ३।१७७॥
vīkṣya andhaḥ navateḥ kāṇaḥ ṣaṣṭeḥ śvitrī śatasya ca . pāpa-rogī sahasrasya dātuḥ nāśayate phalam .. 3.177..
3.177. A blind man by his presence causes to the giver (of the feast) the loss of the reward for ninety (guests), a one-eyed man for sixty, one who suffers from white leprosy for a hundred, and one punished by a (terrible) disease for a thousand.
यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः । तावतां न भवेद्दातुः फलं दानस्य पौर्तिकम् ॥ ३.१६८॥
यावतः संस्पृशेत् अङ्गैः ब्राह्मणान् शूद्र-याजकः । तावताम् न भवेत् दातुः फलम् दानस्य पौर्तिकम् ॥ ३।१६८॥
yāvataḥ saṃspṛśet aṅgaiḥ brāhmaṇān śūdra-yājakaḥ . tāvatām na bhavet dātuḥ phalam dānasya paurtikam .. 3.168..
3.178. The giver (of a Sraddha) loses the reward, due for such a non-sacrificial gift, for as many Brahmanas as a (guest) who sacrifices for Sudras may touch (during the meal) with his limbs.
वेदविद्चापि विप्रोऽस्य लोभात्कृत्वा प्रतिग्रहम् । विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ ३.१७९॥
वेद-विद् च अपि विप्रः अस्य लोभात् कृत्वा प्रतिग्रहम् । विनाशम् व्रजति क्षिप्रम् आम-पात्रम् इव अम्भसि ॥ ३।१७९॥
veda-vid ca api vipraḥ asya lobhāt kṛtvā pratigraham . vināśam vrajati kṣipram āma-pātram iva ambhasi .. 3.179..
3.179. And if a Brahmana, though learned in the Veda, accepts through covetousness a gift from such (a man), he will quickly perish, like a vessel of unburnt clay in water.
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् । नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ ॥ ३.१८०॥
सोम-विक्रयिणे विष्ठा भिषजे पूय-शोणितम् । नष्टम् देवलके दत्तम् अप्रतिष्ठम् तु वार्धुषौ ॥ ३।१८०॥
soma-vikrayiṇe viṣṭhā bhiṣaje pūya-śoṇitam . naṣṭam devalake dattam apratiṣṭham tu vārdhuṣau .. 3.180..
3.180 (Food) given to a seller of Soma becomes ordure, (that given) to a physician pus and blood, but (that presented) to a temple-priest is lost, and (that given) to a usurer finds no place (in the world of the gods).
यत्तु वाणिजके दत्तं नैह नामुत्र तद्भवेत् । भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ ३.१८१॥
यत् तु वाणिजके दत्तम् न इह न अमुत्र तत् भवेत् । भस्मनि इव हुतम् द्रव्यम् तथा पौनर्भवे द्विजे ॥ ३।१८१॥
yat tu vāṇijake dattam na iha na amutra tat bhavet . bhasmani iva hutam dravyam tathā paunarbhave dvije .. 3.181..
3.181. What has been given to a Brahmana who lives by trade that is not (useful) in this world and the next, and (a present) to a Brahmana born of a remarried woman (resembles) an oblation thrown into ashes.
इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु । मेदोऽसृङ्मांसमज्जाऽस्थि वदन्त्यन्नं मनीषिणः ॥ ३.१८२॥
इतरेषु तु अपाङ्क्त्येषु यथा उद्दिष्टेषु असाधुषु । मेदः-असृज्-मांस-मज्जा अस्थि वदन्ति अन्नम् मनीषिणः ॥ ३।१८२॥
itareṣu tu apāṅktyeṣu yathā uddiṣṭeṣu asādhuṣu . medaḥ-asṛj-māṃsa-majjā asthi vadanti annam manīṣiṇaḥ .. 3.182..
3.182. But the wise declare that the food which (is offered) to other unholy, inadmissible men, enumerated above, (is turned into) adipose secretions, blood, flesh, marrow, and bone.
अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः । तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ ३.१८३॥
अपाङ्क्त्य-उपहता पङ्क्तिः पाव्यते यैः द्विजोत्तमैः । तान् निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्ति-पावनान् ॥ ३।१८३॥
apāṅktya-upahatā paṅktiḥ pāvyate yaiḥ dvijottamaiḥ . tān nibodhata kārtsnyena dvijāgryān paṅkti-pāvanān .. 3.183..
3.183. Now hear by what chief of twice-born men a company defiled by (the presence of) unworthy (guests) is purified, and the full (description of) the Brahmanas who sanctify a company.
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च । श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥ ३.१८४॥
अग्र्याः सर्वेषु वेदेषु सर्व-प्रवचनेषु च । श्रोत्रिय-अन्वय-जाः च एव विज्ञेयाः पङ्क्ति-पावनाः ॥ ३।१८४॥
agryāḥ sarveṣu vedeṣu sarva-pravacaneṣu ca . śrotriya-anvaya-jāḥ ca eva vijñeyāḥ paṅkti-pāvanāḥ .. 3.184..
3.184. Those men must be considered as the sanctifiers of a company who are most learned in all the Vedas and in all the Angas, and who are the descendants of Srotriyas.
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् । ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ॥ ३.१८५॥
त्रिणाचिकेतः पञ्च-अग्निः त्रिसुपर्णः षडङ्ग-विद् । ब्रह्म-देय-आत्मसन्तानः ज्येष्ठसाम-गः एव च ॥ ३।१८५॥
triṇāciketaḥ pañca-agniḥ trisuparṇaḥ ṣaḍaṅga-vid . brahma-deya-ātmasantānaḥ jyeṣṭhasāma-gaḥ eva ca .. 3.185..
3.185. A Trinakiketa, one who keeps five sacred fires, a Trisuparna, one who is versed in the six Angas, the son of a woman married according to the Brahma rite, one who sings the Gyeshthasaman,
वेदार्थवित्प्रवक्ता च ब्रह्मचारी सहस्रदः । शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ ३.१८६॥
वेद-अर्थ-विद् प्रवक्ता च ब्रह्मचारी सहस्र-दः । शत-आयूः च एव विज्ञेयाः ब्राह्मणाः पङ्क्ति-पावनाः ॥ ३।१८६॥
veda-artha-vid pravaktā ca brahmacārī sahasra-daḥ . śata-āyūḥ ca eva vijñeyāḥ brāhmaṇāḥ paṅkti-pāvanāḥ .. 3.186..
3.186. One who knows the meaning of the Veda, and he who expounds it, a student, one who has given a thousand (cows), and a centenarian must be considered as Brahmanas who sanctify a company.
पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते । निमन्त्रयीत त्र्य्ऽवरान् सम्यग्विप्रान् यथौदितान् ॥ ३.१८७॥
पूर्वेद्युस् अपरेद्युस् वा श्राद्ध-कर्मणि उपस्थिते । निमन्त्रयीत त्रि-अवरान् सम्यक् विप्रान् यथा उदितान् ॥ ३।१८७॥
pūrvedyus aparedyus vā śrāddha-karmaṇi upasthite . nimantrayīta tri-avarān samyak viprān yathā uditān .. 3.187..
3.187. On the day before the Sraddha-rite is performed, or on the day when it takes place, let him invite with due respect at least three Brahmanas, such as have been mentioned above.
निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत्सदा । न च छन्दांस्यधीयीत यस्य श्राद्धं च तद्भवेत् ॥ ३.१८८॥
निमन्त्रितः द्विजः पित्र्ये नियत-आत्मा भवेत् सदा । न च छन्दांसि अधीयीत यस्य श्राद्धम् च तत् भवेत् ॥ ३।१८८॥
nimantritaḥ dvijaḥ pitrye niyata-ātmā bhavet sadā . na ca chandāṃsi adhīyīta yasya śrāddham ca tat bhavet .. 3.188..
3.188. A Brahmana who has been invited to a (rite) in honour of the manes shall always control himself and not recite the Veda, and he who performs the Sraddha (must act in the same manner).
निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् । वायुवत्चानुगच्छन्ति तथाऽसीनानुपासते ॥ ३.१८९॥
निमन्त्रितान् हि पितरः उपतिष्ठन्ति तान् द्विजान् । वायु-वत् च अनुगच्छन्ति तथा आसीनान् उपासते ॥ ३।१८९॥
nimantritān hi pitaraḥ upatiṣṭhanti tān dvijān . vāyu-vat ca anugacchanti tathā āsīnān upāsate .. 3.189..
3.189. For the manes attend the invited Brahmanas, follow them (when they walk) like the wind, and sit near them when they are seated.
केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः । कथं चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ ३.१९०॥
केतितः तु यथान्यायम् हव्ये कव्ये द्विजोत्तमः । कथम् चित् अपि अतिक्रामन् पापः सूकर-ताम् व्रजेत् ॥ ३।१९०॥
ketitaḥ tu yathānyāyam havye kavye dvijottamaḥ . katham cit api atikrāman pāpaḥ sūkara-tām vrajet .. 3.190..
3.190. But a Brahmana who, being duly invited to a rite in honour of the gods or of the manes, in any way breaks (the appointment), becomes guilty (of a crime), and (in his next birth) a hog.
आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते । दातुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते ॥ ३.१९१॥
आमन्त्रितः तु यः श्राद्धे वृषल्या सह मोदते । दातुः यत् दुष्कृतम् किम् चित् तत् सर्वम् प्रतिपद्यते ॥ ३।१९१॥
āmantritaḥ tu yaḥ śrāddhe vṛṣalyā saha modate . dātuḥ yat duṣkṛtam kim cit tat sarvam pratipadyate .. 3.191..
3.191. But he who, being invited to a Sraddha, dallies with a Sudra woman, takes upon himself all the sins which the giver (of the feast) committed.
अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः । न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ ३.१९२॥
अक्रोधनाः शौच-पराः सततम् ब्रह्मचारिणः । न्यस्त-शस्त्राः महाभागाः पितरः पूर्व-देवताः ॥ ३।१९२॥
akrodhanāḥ śauca-parāḥ satatam brahmacāriṇaḥ . nyasta-śastrāḥ mahābhāgāḥ pitaraḥ pūrva-devatāḥ .. 3.192..
3.192. The manes are primeval deities, free from anger, careful of purity, ever chaste, averse from strife, and endowed with great virtues.
यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः । ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ॥ ३.१९३॥
यस्मात् उत्पत्तिः एतेषाम् सर्वेषाम् अपि अशेषतस् । ये च यैः उपचर्याः स्युः नियमैः तान् निबोधत ॥ ३।१९३॥
yasmāt utpattiḥ eteṣām sarveṣām api aśeṣatas . ye ca yaiḥ upacaryāḥ syuḥ niyamaiḥ tān nibodhata .. 3.193..
3.193. Now learn fully from whom all these (manes derive) their origin, and with what ceremonies they ought to be worshipped.
मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः । तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ ३.१९४॥
मनोः हैरण्यगर्भस्य ये मरीचि-आदयः सुताः । तेषाम् ऋषीणाम् सर्वेषाम् पुत्राः पितृ-गणाः स्मृताः ॥ ३।१९४॥
manoḥ hairaṇyagarbhasya ye marīci-ādayaḥ sutāḥ . teṣām ṛṣīṇām sarveṣām putrāḥ pitṛ-gaṇāḥ smṛtāḥ .. 3.194..
3.194. The (various) classes of the manes are declared to be the sons of all those sages, Mariki and the rest, who are children of Manu, the son of Hiranyagarbha.
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः । अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥ ३.१९५॥
विराट्सुताः सोमसदः साध्यानाम् पितरः स्मृताः । अग्निष्वात्ताः च देवानाम् मारीचाः लोक-विश्रुताः ॥ ३।१९५॥
virāṭsutāḥ somasadaḥ sādhyānām pitaraḥ smṛtāḥ . agniṣvāttāḥ ca devānām mārīcāḥ loka-viśrutāḥ .. 3.195..
3.195. The Somasads, the sons of Virag, are stated to be the manes of the Sadhyas, and the Agnishvattas, the children of Mariki, are famous in the world (as the manes) of the gods.
दैत्यदानवयक्षाणां गन्धर्वौरगरक्षसाम् । सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः ॥ ३.१९६॥
दैत्य-दानव-यक्षाणाम् गन्धर्व-औरग-रक्षसाम् । सुपर्ण-किन्नराणाम् च स्मृताः बर्हिषदः अत्रि-जाः ॥ ३।१९६॥
daitya-dānava-yakṣāṇām gandharva-auraga-rakṣasām . suparṇa-kinnarāṇām ca smṛtāḥ barhiṣadaḥ atri-jāḥ .. 3.196..
3.196. The Barhishads, born of Atri, are recorded to be (the manes) of the Daityas, Danavas, Yakshas, Gandharvas, Snake-deities, Rakshasas, Suparnas, and a Kimnaras,
सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः । वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ ३.१९७॥
सोमपाः नाम विप्राणाम् क्षत्रियाणाम् हविर्भुजः । वैश्यानाम् आज्यपाः नाम शूद्राणाम् तु सुकालिनः ॥ ३।१९७॥
somapāḥ nāma viprāṇām kṣatriyāṇām havirbhujaḥ . vaiśyānām ājyapāḥ nāma śūdrāṇām tu sukālinaḥ .. 3.197..
3.197. The Somapas those of the Brahmanas, the Havirbhugs those of the Kshatriyas, the Agyapas those of the Vaisyas, but the Sukalins those of the Sudras.
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः । पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ ३.१९८॥
सोमपाः तु कवेः पुत्राः हविष्मन्तः अङ्गिरः-सुताः । पुलस्त्यस्य आज्यपाः पुत्राः वसिष्ठस्य सुकालिनः ॥ ३।१९८॥
somapāḥ tu kaveḥ putrāḥ haviṣmantaḥ aṅgiraḥ-sutāḥ . pulastyasya ājyapāḥ putrāḥ vasiṣṭhasya sukālinaḥ .. 3.198..
3.198. The Somapas are the sons of Kavi (Bhrigu), the Havishmats the children of Angiras, the Agyapas the offspring of Pulastya, but the Sukalins (the issue) of Vasishtha.
अनग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा । अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ ३.१९९॥
अनग्निदग्ध-अनग्निदग्धान् काव्यान् बर्हिषदः तथा । अग्निष्वात्तान् च सौम्यान् च विप्राणाम् एव निर्दिशेत् ॥ ३।१९९॥
anagnidagdha-anagnidagdhān kāvyān barhiṣadaḥ tathā . agniṣvāttān ca saumyān ca viprāṇām eva nirdiśet .. 3.199..
3.199. One should know that (other classes), the Agnidagdhas, the Anagnidagdhas, the Kavyas, the Barhishads, the Agnishvattas, and the Saumyas, are (the manes) of the Brahmanas alone.
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः । तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ ३.२००॥
ये एते तु गणाः मुख्याः पितॄणाम् परिकीर्तिताः । तेषाम् अपि इह विज्ञेयम् पुत्र-पौत्रम् अनन्तकम् ॥ ३।२००॥
ye ete tu gaṇāḥ mukhyāḥ pitṝṇām parikīrtitāḥ . teṣām api iha vijñeyam putra-pautram anantakam .. 3.200..
3.200. But know also that there exist in this (world) countless sons and grandsons of those chief classes of manes which have been enumerated.
ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः । देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः ॥ ३.२०१॥
ऋषिभ्यः पितरः जाताः पितृभ्यः देव-मानवाः । देवेभ्यः तु जगत् सर्वम् चरम् स्थाणु-अनुपूर्वशस् ॥ ३।२०१॥
ṛṣibhyaḥ pitaraḥ jātāḥ pitṛbhyaḥ deva-mānavāḥ . devebhyaḥ tu jagat sarvam caram sthāṇu-anupūrvaśas .. 3.201..
3.201. From the sages sprang the manes, from the manes the gods and the Danavas, but from the gods the whole world, both the movable and the immovable in due order.
राजतैर्भाजनैरेषामथो वा रजतान्वितैः । वार्यपि श्रद्धया दत्तमक्षयायौपकल्पते ॥ ३.२०२॥
राजतैः भाजनैः एषाम् अथो वा रजत-अन्वितैः । वारि अपि श्रद्धया दत्तम् अक्षयाय उपकल्पते ॥ ३।२०२॥
rājataiḥ bhājanaiḥ eṣām atho vā rajata-anvitaiḥ . vāri api śraddhayā dattam akṣayāya upakalpate .. 3.202..
3.202. Even water offered with faith (to the manes) in vessels made of silver or adorned with silver, produces endless (bliss).
दैवकार्याद्द्विजातीनां पितृकार्यं विशिष्यते । दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥ ३.२०३॥
दैव-कार्यात् द्विजातीनाम् पितृ-कार्यम् विशिष्यते । दैवम् हि पितृ-कार्यस्य पूर्वम् आप्यायनम् स्मृतम् ॥ ३।२०३॥
daiva-kāryāt dvijātīnām pitṛ-kāryam viśiṣyate . daivam hi pitṛ-kāryasya pūrvam āpyāyanam smṛtam .. 3.203..
3.203. For twice-born men the rite in honour of the manes is more important than the rite in honour of the gods; for the offering to the gods which precedes (the Sraddhas), has been declared to be a means of fortifying (the latter).
तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् । रक्षांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥ ३.२०४॥
तेषाम् आरक्ष-भूतम् तु पूर्वम् दैवम् नियोजयेत् । रक्षांसि विप्रलुम्पन्ति श्राद्धम् आरक्ष-वर्जितम् ॥ ३।२०४॥
teṣām ārakṣa-bhūtam tu pūrvam daivam niyojayet . rakṣāṃsi vipralumpanti śrāddham ārakṣa-varjitam .. 3.204..
3.204. Let him first invite a (Brahmana) in honour of the gods as a protection for the (offering to the manes); for the Rakshasas destroy a funeral sacrifice which is left without such a protection.
दैवाद्यन्तं तदीहेत पित्र्याद्यन्तं न तद्भवेत् । पित्र्याद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः ॥ ३.२०५॥
दैव-आदि-अन्तम् तत् ईहेत पित्र्य-आदि-अन्तम् न तत् भवेत् । पित्र्य-आदि-अन्तम् तु ईहमानः क्षिप्रम् नश्यति स अन्वयः ॥ ३।२०५॥
daiva-ādi-antam tat īheta pitrya-ādi-antam na tat bhavet . pitrya-ādi-antam tu īhamānaḥ kṣipram naśyati sa anvayaḥ .. 3.205..
3.205. Let him make (the Sraddha) begin and end with (a rite) in honour of the gods; it shall not begin and end with a (rite) to the manes; for he who makes it begin and end with a (rite) in honour of the manes, soon perishes together with his progeny.
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् । दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ ३.२०६॥
शुचिम् देशम् विविक्तम् च गोमयेन उपलेपयेत् । दक्षिणा-प्रवणम् च एव प्रयत्नेन उपपादयेत् ॥ ३।२०६॥
śucim deśam viviktam ca gomayena upalepayet . dakṣiṇā-pravaṇam ca eva prayatnena upapādayet .. 3.206..
3.206. Let him smear a pure and secluded place with cowdung, and carefully make it sloping towards the south.
अवकाशेषु चोक्षेषु जलतीरेषु चैव हि । विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ३.२०७॥
अवकाशेषु चोक्षेषु जल-तीरेषु च एव हि । विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ ३।२०७॥
avakāśeṣu cokṣeṣu jala-tīreṣu ca eva hi . vivikteṣu ca tuṣyanti dattena pitaraḥ sadā .. 3.207..
3.207. The manes are always pleased with offerings made in open, naturally pure places, on the banks of rivers, and in secluded spots.
आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक् । उपस्पृष्टौदकान् सम्यग्विप्रांस्तानुपवेशयेत् ॥ ३.२०८॥
आसनेषु उपकॢप्तेषु बर्हिष्मत्सु पृथक् पृथक् । उपस्पृष्ट-औदकान् सम्यक् विप्रान् तान् उपवेशयेत् ॥ ३।२०८॥
āsaneṣu upakḷpteṣu barhiṣmatsu pṛthak pṛthak . upaspṛṣṭa-audakān samyak viprān tān upaveśayet .. 3.208..
3.208. The (sacrificer) shall make the (invited) Brahmanas, who have duly performed their ablutions, sit down on separate, prepared seats, on which blades of Kusa grass have been placed.
उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् । गन्धमाल्यैः सुरभिभिरर्चयेद्दैवपूर्वकम् ॥ ३.२०९॥
उपवेश्य तु तान् विप्रान् आसनेषु अ जुगुप्सितान् । गन्ध-माल्यैः सुरभिभिः अर्चयेत् दैव-पूर्वकम् ॥ ३।२०९॥
upaveśya tu tān viprān āsaneṣu a jugupsitān . gandha-mālyaiḥ surabhibhiḥ arcayet daiva-pūrvakam .. 3.209..
3.209. Having placed those blameless Brahmanas on their seats, he shall honour them with fragrant garlands and perfumes, beginning with (those who are invited in honour of) the gods.
तेषामुदकमानीय सपवित्रांस्तिलानपि । अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ ३.२१०॥
तेषाम् उदकम् आनीय स पवित्रान् तिलान् अपि । अग्नौ कुर्यात् अनुज्ञातः ब्राह्मणः ब्राह्मणैः सह ॥ ३।२१०॥
teṣām udakam ānīya sa pavitrān tilān api . agnau kuryāt anujñātaḥ brāhmaṇaḥ brāhmaṇaiḥ saha .. 3.210..
3.210. Having presented to them water, sesamum grains, and blades of Kusa grass, the Brahmana (sacrificer) shall offer (oblations) in the sacred fire, after having received permission (to do so) from (all) the Brahmana (guests) conjointly.
अग्नेः सोमयमाभ्यां च कृत्वाऽप्यायनमादितः । हविर्दानेन विधिवत्पश्चात्संतर्पयेत्पितॄन् ॥ ३.२११॥
अग्नेः सोम-यमाभ्याम् च कृत्वा अप्यायनम् आदितः । हविः-दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ॥ ३।२११॥
agneḥ soma-yamābhyām ca kṛtvā apyāyanam āditaḥ . haviḥ-dānena vidhivat paścāt saṃtarpayet pitṝn .. 3.211..
3.211. Having first, according to the rule, performed, as a means of protecting (the Sraddha), oblations to Agni, to Soma, and to Yama, let him afterwards satisfy the manes by a gift of sacrificial food.
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ ३.२१२॥
अग्नि-अभावे तु विप्रस्य पाणौ एव उपपादयेत् । यः हि अग्निः स द्विजः विप्रैः मन्त्र-दर्शिभिः उच्यते ॥ ३।२१२॥
agni-abhāve tu viprasya pāṇau eva upapādayet . yaḥ hi agniḥ sa dvijaḥ vipraiḥ mantra-darśibhiḥ ucyate .. 3.212..
3.212. But if no (sacred) fire (is available), he shall place (the offerings) into the hand of a Brahmana; for Brahmanas who know the sacred texts declare, ’What fire is, even such is a Brahmana.’
अक्रोधनान् सुप्रसादान् वदन्त्येतान् पुरातनान् । लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ॥ ३.२१३॥
अक्रोधनान् सु प्रसादान् वदन्ति एतान् पुरातनान् । लोकस्य आप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ॥ ३।२१३॥
akrodhanān su prasādān vadanti etān purātanān . lokasya āpyāyane yuktān śrāddhadevān dvijottamān .. 3.213..
3.213. They (also) call those first of twice-born men the ancient deities of the funeral sacrifice, free from anger, easily pleased, employed in making men prosper.
अपसव्यमग्नौ कृत्वा आवृत्परिक्रमं । अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥ ३.२१४॥
अपसव्यम् अग्नौ कृत्वा आवृत्-परिक्रमम् । अपसव्येन हस्तेन निर्वपेत् उदकम् भुवि ॥ ३।२१४॥
apasavyam agnau kṛtvā āvṛt-parikramam . apasavyena hastena nirvapet udakam bhuvi .. 3.214..
3.214. After he has performed (the oblations) in the fire, (and) the whole series of ceremonies in such a manner that they end in the south, let him sprinkle water with his right hand on the spot (where the cakes are to be placed).
त्रींस्तु तस्माधविःशेषात्पिण्डान् कृत्वा समाहितः । औदकेनैव विधिना निर्वपेद्दक्षिणामुखः ॥ ३.२१५॥
त्रीन् तु तस्मात् हविः-शेषात् पिण्डान् कृत्वा समाहितः । औदकेन एव विधिना निर्वपेत् दक्षिणामुखः ॥ ३।२१५॥
trīn tu tasmāt haviḥ-śeṣāt piṇḍān kṛtvā samāhitaḥ . audakena eva vidhinā nirvapet dakṣiṇāmukhaḥ .. 3.215..
3.215. But having made three cakes out of the remainder of that sacrificial food, he must, concentrating his mind and turning towards the south, place them on (Kusa grass) exactly in the same manner in which (he poured out the libations of) water.
न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् । तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ॥ ३.२१६॥
न्युप्य पिण्डान् ततस् तान् तु प्रयतः विधि-पूर्वकम् । तेषु दर्भेषु तम् हस्तम् निर्मृज्यात् लेपभागिनाम् ॥ ३।२१६॥
nyupya piṇḍān tatas tān tu prayataḥ vidhi-pūrvakam . teṣu darbheṣu tam hastam nirmṛjyāt lepabhāginām .. 3.216..
3.216. Having offered those cakes according to the (prescribed) rule, being pure, let him wipe the same hand with (the roots of) those blades of Kusa grass for the sake of the (three ancestors) who partake of the wipings (lepa).
आचम्यौदक्परावृत्य त्रिरायम्य शनैरसून् । षडृतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत् ॥ ३.२१७॥
आचम्य औदक् परावृत्य त्रिस् आयम्य शनैस् असून् । षट् ऋतून् च नमस्कुर्यात् पितॄन् एव च मन्त्रवत् ॥ ३।२१७॥
ācamya audak parāvṛtya tris āyamya śanais asūn . ṣaṭ ṛtūn ca namaskuryāt pitṝn eva ca mantravat .. 3.217..
3.217. Having (next) sipped water, turned round (towards the north), and thrice slowly suppressed his breath, (the sacrificer) who knows the sacred texts shall worship (the guardian deities of) the six seasons and the manes.
उदकं निनयेत्शेषं शनैः पिण्डान्तिके पुनः । अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ३.२१८॥
उदकम् निनयेत् शेषम् शनैस् पिण्ड-अन्तिके पुनर् । अवजिघ्रेत् च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ ३।२१८॥
udakam ninayet śeṣam śanais piṇḍa-antike punar . avajighret ca tān piṇḍān yathānyuptān samāhitaḥ .. 3.218..
3.218. Let him gently pour out the remainder of the water near the cakes, and, with fixed attention, smell those cakes, in the order in which they were placed (on the ground).
पिण्डेभ्यः स्वल्पिकां मात्रां समादायानुपूर्वशः । तानेव विप्रानासीनान् विधिवत्पूर्वमाशयेत् ॥ ३.२१९॥
पिण्डेभ्यः सु अल्पिकाम् मात्राम् समादाय अनुपूर्वशस् । तान् एव विप्रान् आसीनान् विधिवत् पूर्वम् आशयेत् ॥ ३।२१९॥
piṇḍebhyaḥ su alpikām mātrām samādāya anupūrvaśas . tān eva viprān āsīnān vidhivat pūrvam āśayet .. 3.219..
3.219. But taking successively very small portions from the cakes, he shall make those seated Brahmana eat them, in accordance with the rule, before (their dinner).
ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् । विप्रवद्वाऽपि तं श्राद्धं स्वकं पितरमाशयेत् ॥ ३.२२०॥
ध्रियमाणे तु पितरि पूर्वेषाम् एव निर्वपेत् । विप्र-वत् वा अपि तम् श्राद्धम् स्वकम् पितरम् आशयेत् ॥ ३।२२०॥
dhriyamāṇe tu pitari pūrveṣām eva nirvapet . vipra-vat vā api tam śrāddham svakam pitaram āśayet .. 3.220..
3.220. But if the (sacrificer’s) father is living, he must offer (the cakes) to three remoter (ancestors); or he may also feed his father at the funeral sacrifice as (one of the) Brahmana (guests).
पिता यस्य तु वृत्तः स्याज् जीवेच्चापि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥ ३.२२१॥
पिता यस्य तु वृत्तः स्यात् जीवेत् च अपि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् ॥ ३।२२१॥
pitā yasya tu vṛttaḥ syāt jīvet ca api pitāmahaḥ . pituḥ sa nāma saṅkīrtya kīrtayet prapitāmaham .. 3.221..
3.221. But he whose father is dead, while his grandfather lives, shall, after pronouncing his father’s name, mention (that of) his great-grandfather.
पितामहो वा तत्श्राद्धं भुञ्जीतैत्यब्रवीन् मनुः । कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ ३.२२२॥
पितामहः वा तत् श्राद्धम् भुञ्जीत एति अब्रवीत् मनुः । कामम् वा समनुज्ञातः स्वयम् एव समाचरेत् ॥ ३।२२२॥
pitāmahaḥ vā tat śrāddham bhuñjīta eti abravīt manuḥ . kāmam vā samanujñātaḥ svayam eva samācaret .. 3.222..
3.222. Manu has declared that either the grandfather may eat at that Sraddha (as a guest), or (the grandson) having received permission, may perform it, as he desires.
तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलौदकम् । तत्पिण्डाग्रं प्रयच्छेत्तु स्वधैषामस्त्विति ब्रुवन् ॥ ३.२२३॥
तेषाम् दत्त्वा तु हस्तेषु स पवित्रम् तिल-ओदकम् । तत् पिण्ड-अग्रम् प्रयच्छेत् तु स्वधा एषाम् अस्तु इति ब्रुवन् ॥ ३।२२३॥
teṣām dattvā tu hasteṣu sa pavitram tila-odakam . tat piṇḍa-agram prayacchet tu svadhā eṣām astu iti bruvan .. 3.223..
3.223. Having poured water mixed with sesamum, in which a blade of Kusa grass has been placed, into the hands of the (guests), he shall give (to each) that (above-mentioned) portion of the cake, saying, ’To those, Svadha!’
पाणिभ्यां तूपसङ्गृह्य स्वयमन्नस्य वर्धितम् । विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ॥ ३.२२४॥
पाणिभ्याम् तु उपसङ्गृह्य स्वयम् अन्नस्य वर्धितम् । विप्र-अन्तिके पितॄन् ध्यायन् शनकैस् उपनिक्षिपेत् ॥ ३।२२४॥
pāṇibhyām tu upasaṅgṛhya svayam annasya vardhitam . vipra-antike pitṝn dhyāyan śanakais upanikṣipet .. 3.224..
3.224. But carrying (the vessel) filled with food with both hands, the (sacrificer) himself shall gently place it before the Brahmanas, meditating on the manes.
उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते । तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ॥ ३.२२५॥
उभयोः हस्तयोः मुक्तम् यत् अन्नम् उपनीयते । तत् विप्रलुम्पन्ति असुराः सहसा दुष्ट-चेतसः ॥ ३।२२५॥
ubhayoḥ hastayoḥ muktam yat annam upanīyate . tat vipralumpanti asurāḥ sahasā duṣṭa-cetasaḥ .. 3.225..
3.225. The malevolent Asuras forcibly snatch away that food which is brought without being held with both hands.
गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु । विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः ॥ ३.२२६॥
गुणान् च सूप-शाक-आद्यान् पयः दधि घृतम् मधु । विन्यसेत् प्रयतः पूर्वम् भूमौ एव समाहितः ॥ ३।२२६॥
guṇān ca sūpa-śāka-ādyān payaḥ dadhi ghṛtam madhu . vinyaset prayataḥ pūrvam bhūmau eva samāhitaḥ .. 3.226..
3.226. Let him, being pure and attentive, carefully place on the ground the seasoning (for the rice), such as broths and pot herbs, sweet and sour milk, and honey,
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ ३.२२७॥
भक्ष्यम् भोज्यम् च विविधम् मूलानि च फलानि च । हृद्यानि च एव मांसानि पानानि सुरभीणि च ॥ ३।२२७॥
bhakṣyam bhojyam ca vividham mūlāni ca phalāni ca . hṛdyāni ca eva māṃsāni pānāni surabhīṇi ca .. 3.227..
3.227. (As well as) various (kinds of) hard food which require mastication, and of soft food, roots, fruits, savoury meat, and fragrant drinks.
उपनीय तु तत्सर्वं शनकैः सुसमाहितः । परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ ३.२२८॥
उपनीय तु तत् सर्वम् शनकैस् सु समाहितः । परिवेषयेत प्रयतः गुणान् सर्वान् प्रचोदयन् ॥ ३।२२८॥
upanīya tu tat sarvam śanakais su samāhitaḥ . pariveṣayeta prayataḥ guṇān sarvān pracodayan .. 3.228..
3.228. All this he shall present (to his guests), being pure and attentive, successively invite them to partake of each (dish), proclaiming its qualities.
नास्रमापातयेज्जातु न कुप्येन्नानृतं वदेत् । न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ ३.२२९॥
न अस्रम् आपातयेत् जातु न कुप्येत् न अनृतम् वदेत् । न पादेन स्पृशेत् अन्नम् न च एतत् अवधूनयेत् ॥ ३।२२९॥
na asram āpātayet jātu na kupyet na anṛtam vadet . na pādena spṛśet annam na ca etat avadhūnayet .. 3.229..
3.229. Let him on no account drop a tear, become angry or utter an untruth, nor let him touch the food with his foot nor violently shake it.
अस्रं गमयति प्रेतान् कोपोऽरीननृतं शुनः । पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ॥ ३.२३०॥
अस्रम् गमयति प्रेतान् कोपः अरीन् अनृतम् शुनः । पाद-स्पर्शः तु रक्षांसि दुष्कृतीन् अवधूननम् ॥ ३।२३०॥
asram gamayati pretān kopaḥ arīn anṛtam śunaḥ . pāda-sparśaḥ tu rakṣāṃsi duṣkṛtīn avadhūnanam .. 3.230..
3.230. A tear sends the (food) to the Pretas, anger to his enemies, a falsehood to the dogs, contact with his foot to the Rakshasas, a shaking to the sinners.
यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः । ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणामेतदीप्सितम् ॥ ३.२३१॥
यत् यत् रोचेत विप्रेभ्यः तत् तत् दद्यात् अमत्सरः । ब्रह्मोद्याः च कथाः कुर्यात् पितॄणाम् एतत् ईप्सितम् ॥ ३।२३१॥
yat yat roceta viprebhyaḥ tat tat dadyāt amatsaraḥ . brahmodyāḥ ca kathāḥ kuryāt pitṝṇām etat īpsitam .. 3.231..
3.231. Whatever may please the Brahmanas, let him give without grudging it; let him give riddles from the Veda, for that is agreeable to the manes.
स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि । आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ ३.२३२॥
स्वाध्यायम् श्रावयेत् पित्र्ये धर्म-शास्त्राणि च एव हि । आख्यानानि इतिहासान् च पुराणानि खिलानि च ॥ ३।२३२॥
svādhyāyam śrāvayet pitrye dharma-śāstrāṇi ca eva hi . ākhyānāni itihāsān ca purāṇāni khilāni ca .. 3.232..
3.232. At a (sacrifice in honour) of the manes, he must let (his guests) hear the Veda, the Institutes of the sacred law, legends, tales, Puranas, and Khilas.
हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः । अन्नाद्येनासकृच्चैतान् गुणैश्च परिचोदयेत् ॥ ३.२३३॥
हर्षयेत् ब्राह्मणान् तुष्टः भोजयेत् च शनैस् शनैस् । अन्नाद्येन असकृत् च एतान् गुणैः च परिचोदयेत् ॥ ३।२३३॥
harṣayet brāhmaṇān tuṣṭaḥ bhojayet ca śanais śanais . annādyena asakṛt ca etān guṇaiḥ ca paricodayet .. 3.233..
3.233. Himself being delighted, let him give delight to the Brahmanas, cause them to partake gradually and slowly (of each dish), and repeatedly invite (them to eat) by (offering) the food and (praising) its qualities.
व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् । कुतपं चासनं दद्यात्तिलैश्च विकिरेन् महीम् ॥ ३.२३४॥
व्रत-स्थम् अपि दौहित्रम् श्राद्धे यत्नेन भोजयेत् । कुतपम् च आसनम् दद्यात् तिलैः च विकिरेत् महीम् ॥ ३।२३४॥
vrata-stham api dauhitram śrāddhe yatnena bhojayet . kutapam ca āsanam dadyāt tilaiḥ ca vikiret mahīm .. 3.234..
3.234. Let him eagerly entertain at a funeral sacrifice a daughter’s son, though he be a student, and let him place a Nepal blanket on the on the seat (of each guest), scattering sesamum grains on the ground.
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ ३.२३५॥
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपः तिलाः । त्रीणि च अत्र प्रशंसन्ति शौचम् अक्रोधम् अत्वराम् ॥ ३।२३५॥
trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapaḥ tilāḥ . trīṇi ca atra praśaṃsanti śaucam akrodham atvarām .. 3.235..
3.235. There are three means of sanctification, (to be used) at a Sraddha, a daughter’s son, a Nepal blanket, and sesamum grains; and they recommend three (other things) for it, cleanliness, suppression of anger, and absence of haste.
अत्युष्णं सर्वमन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः । न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ॥ ३.२३६॥
अति उष्णम् सर्वम् अन्नम् स्यात् भुञ्जीरन् ते च वाग्यताः । न च द्विजातयः ब्रूयुः दात्रा पृष्टाः हविः-गुणान् ॥ ३।२३६॥
ati uṣṇam sarvam annam syāt bhuñjīran te ca vāgyatāḥ . na ca dvijātayaḥ brūyuḥ dātrā pṛṣṭāḥ haviḥ-guṇān .. 3.236..
3.236. All the food must be very hot, and the (guests) shall eat in silence; (even though) asked by the giver (of the feast), the Brahmanas shall not proclaim the qualities of the sacrificial food.
यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः । पितरस्तावदश्नन्ति यावन्नओक्ता हविर्गुणाः ॥ ३.२३७॥
यावत् उष्मा भवति अन्नम् यावत् अश्नन्ति वाग्यताः । पितरः तावत् अश्नन्ति यावत् न ओक्ताः हविः-गुणाः ॥ ३।२३७॥
yāvat uṣmā bhavati annam yāvat aśnanti vāgyatāḥ . pitaraḥ tāvat aśnanti yāvat na oktāḥ haviḥ-guṇāḥ .. 3.237..
3.237. As long as the food remains warm, as long as they eat in silence, as long as the qualities of the food are not proclaimed, so long the manes partake (of it).
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः । सौपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते ॥ ३.२३८॥
यत् वेष्टित-शिराः भुङ्क्ते यत् भुङ्क्ते दक्षिणा-मुखः । स औपानत्कः च यत् भुङ्क्ते तत् वै रक्षांसि भुञ्जते ॥ ३।२३८॥
yat veṣṭita-śirāḥ bhuṅkte yat bhuṅkte dakṣiṇā-mukhaḥ . sa aupānatkaḥ ca yat bhuṅkte tat vai rakṣāṃsi bhuñjate .. 3.238..
3.238. What (a guest) eats, covering his head, what he eats with his face turned towards the south, what he eats with sandals on (his feet), that the Rakshasas consume.
चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च । रजस्वला च षण्ढश्च नैक्षेरन्नश्नतो द्विजान् ॥ ३.२३९॥
चाण्डालः च वराहः च कुक्कुटः श्वा तथा एव च । रजस्वला च षण्ढः च न एक्षेरन् अश्नतः द्विजान् ॥ ३।२३९॥
cāṇḍālaḥ ca varāhaḥ ca kukkuṭaḥ śvā tathā eva ca . rajasvalā ca ṣaṇḍhaḥ ca na ekṣeran aśnataḥ dvijān .. 3.239..
3.239. A Kandala, a village pig, a cock, a dog, a menstruating woman, and a eunuch must not look at the Brahmanas while they eat.
होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते । दैवे हविषि पित्र्ये वा तद्गच्छत्ययथातथम् ॥ ३.२४०॥
होमे प्रदाने भोज्ये च यत् एभिः अभिवीक्ष्यते । दैवे हविषि पित्र्ये वा तत् गच्छति अयथातथम् ॥ ३।२४०॥
home pradāne bhojye ca yat ebhiḥ abhivīkṣyate . daive haviṣi pitrye vā tat gacchati ayathātatham .. 3.240..
3.240. What (any of) these sees at a burnt-oblation, at a (solemn) gift, at a dinner (given to Brahmanas), or at any rite in honour of the gods and manes, that produces not the intended result.
घ्राणेन शूकरो हन्ति पक्षवातेन कुक्कुटः । श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥ ३.२४१॥
घ्राणेन शूकरः हन्ति पक्ष-वातेन कुक्कुटः । श्वा तु दृष्टि-निपातेन स्पर्शेण अवरवर्णजः ॥ ३।२४१॥
ghrāṇena śūkaraḥ hanti pakṣa-vātena kukkuṭaḥ . śvā tu dṛṣṭi-nipātena sparśeṇa avaravarṇajaḥ .. 3.241..
3.241. A boar makes (the rite) useless by inhaling the smell (of the offerings), a cock by the air of his wings, a dog by throwing his eye (on them), a low-caste man by touching (them).
खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् । हीनातिरिक्तगात्रो वा तमप्यपनयेत्पुनः ॥ ३.२४२॥
खञ्जः वा यदि वा काणः दातुः प्रेष्यः अपि वा भवेत् । हीन-अतिरिक्त-गात्रः वा तम् अपि अपनयेत् पुनर् ॥ ३।२४२॥
khañjaḥ vā yadi vā kāṇaḥ dātuḥ preṣyaḥ api vā bhavet . hīna-atirikta-gātraḥ vā tam api apanayet punar .. 3.242..
3.242. If a lame man, a one-eyed man, one deficient in a limb, or one with a redundant limb, be even the servant of the performer (of the Sraddha), he must be removed from that place (where the Sraddha is held).
ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् । ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३.२४३॥
ब्राह्मणम् भिक्षुकम् वा अपि भोजन-अर्थम् उपस्थितम् । ब्राह्मणैः अभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ ३।२४३॥
brāhmaṇam bhikṣukam vā api bhojana-artham upasthitam . brāhmaṇaiḥ abhyanujñātaḥ śaktitaḥ pratipūjayet .. 3.243..
3.243. To a Brahmana (householder), or to an ascetic who comes for food, he may, with the permission of (his) Brahmana (guests), show honour according to his ability.
सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । समुत्सृजेद्भुक्तवतामग्रतो विकिरन् भुवि ॥ ३.२४४॥
सार्ववर्णिकम् अन्नाद्यम् संनीय आप्लाव्य वारिणा । समुत्सृजेत् भुक्तवताम् अग्रतस् विकिरन् भुवि ॥ ३।२४४॥
sārvavarṇikam annādyam saṃnīya āplāvya vāriṇā . samutsṛjet bhuktavatām agratas vikiran bhuvi .. 3.244..
3.244. Let him mix all the kinds of food together, sprinkle them with water and put them, scattering them (on Kusa grass), down on the ground in front of (his guests), when they have finished their meal.
असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् । उच्छिष्टं भागधेयं स्याद्दर्भेषु विकिरश्च यः ॥ ३.२४५॥
अ संस्कृत-प्रमीतानाम् त्यागिनाम् कुल-योषिताम् । उच्छिष्टम् भागधेयम् स्यात् दर्भेषु विकिरः च यः ॥ ३।२४५॥
a saṃskṛta-pramītānām tyāginām kula-yoṣitām . ucchiṣṭam bhāgadheyam syāt darbheṣu vikiraḥ ca yaḥ .. 3.245..
3.245. The remnant (in the dishes), and the portion scattered on Kusa grass, shall be the share of deceased (children) who received not the sacrament (of cremation) and of those who (unjustly) forsook noble wives.
उच्छेषणां भूमिगतमजिह्मस्याशठस्य च । दासवर्गस्य तत्पित्र्ये भागधेयं प्रचक्षते ॥ ३.२४६॥
उच्छेषणाम् भूमि-गतम् अ जिह्मस्य अ शठस्य च । दास-वर्गस्य तत् पित्र्ये भागधेयम् प्रचक्षते ॥ ३।२४६॥
uccheṣaṇām bhūmi-gatam a jihmasya a śaṭhasya ca . dāsa-vargasya tat pitrye bhāgadheyam pracakṣate .. 3.246..
3.246. They declare the fragments which have fallen on the ground at a (Sraddha) to the manes, to be the share of honest, dutiful servants.
आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु । अदैवं भोजयेत्श्राद्धं पिण्डमेकं च निर्वपेत् ॥ ३.२४७॥
आसपिण्ड-क्रिया-कर्म द्विजातेः संस्थितस्य तु । अ दैवम् भोजयेत् श्राद्धम् पिण्डम् एकम् च निर्वपेत् ॥ ३।२४७॥
āsapiṇḍa-kriyā-karma dvijāteḥ saṃsthitasya tu . a daivam bhojayet śrāddham piṇḍam ekam ca nirvapet .. 3.247..
3.247. But before the performance of the Sapindikarana, one must feed at the funeral sacrifice in honour of a (recently-) deceased Aryan (one Brahmana) without (making an offering) to the gods, and give one cake only.
सहपिण्डक्रियायां तु कृतायामस्य धर्मतः । अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः ॥ ३.२४८॥
सह पिण्ड-क्रियायाम् तु कृतायाम् अस्य धर्मतः । अनया एव आवृता कार्यम् पिण्ड-निर्वपनम् सुतैः ॥ ३।२४८॥
saha piṇḍa-kriyāyām tu kṛtāyām asya dharmataḥ . anayā eva āvṛtā kāryam piṇḍa-nirvapanam sutaiḥ .. 3.248..
3.248. But after the Sapindikarana of the (deceased father) has been performed according to the sacred law, the sons must offer the cakes with those ceremonies, (described above.)
श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति । स मूढो नरकं याति कालसूत्रमवाक्षिराः ॥ ३.२४९॥
श्राद्धम् भुक्त्वा यः उच्छिष्टम् वृषलाय प्रयच्छति । स मूढः नरकम् याति कालसूत्रम् अवाक्षिराः ॥ ३।२४९॥
śrāddham bhuktvā yaḥ ucchiṣṭam vṛṣalāya prayacchati . sa mūḍhaḥ narakam yāti kālasūtram avākṣirāḥ .. 3.249..
3.249. The foolish man who, after having eaten a Sraddha (-dinner), gives the leavings to a Sudra, falls headlong into the Kalasutra hell.
श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति । तस्याः पुरीषे तं मासं पितरस्तस्य शेरते ॥ ३.२५०॥
श्राद्ध-भुज् वृषली-तल्पम् तत् अहर् यः अधिगच्छति । तस्याः पुरीषे तम् मासम् पितरः तस्य शेरते ॥ ३।२५०॥
śrāddha-bhuj vṛṣalī-talpam tat ahar yaḥ adhigacchati . tasyāḥ purīṣe tam māsam pitaraḥ tasya śerate .. 3.250..
3.250. If the partaker of a Sraddha (-dinner) enters on the same day the bed of a Sudra female, the manes of his (ancestors) will lie during that month in her ordure.
पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत्ततः । आचान्तांश्चानुजानीयादभितो रम्यतामिति ॥ ३.२५१॥
पृष्ट्वा स्वदितम् इति एवम् तृप्तान् आचामयेत् ततस् । आचान्तान् च अनुजानीयात् अभितस् रम्यताम् इति ॥ ३।२५१॥
pṛṣṭvā svaditam iti evam tṛptān ācāmayet tatas . ācāntān ca anujānīyāt abhitas ramyatām iti .. 3.251..
3.251. Having addressed the question, ’Have you dined well?’(to his guests), let him give water for sipping to them who are satisfied, and dismiss them, after they have sipped water, (with the words) ’Rest either (here or at home)!’
स्वधाऽस्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् । स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु ॥ ३.२५२॥
स्वधा अस्तु इति एव तम् ब्रूयुः ब्राह्मणाः तद्-अनन्तरम् । स्वधाकारः पराः हि आषीः सर्वेषु पितृ-कर्मसु ॥ ३।२५२॥
svadhā astu iti eva tam brūyuḥ brāhmaṇāḥ tad-anantaram . svadhākāraḥ parāḥ hi āṣīḥ sarveṣu pitṛ-karmasu .. 3.252..
3.252. The Brahmana (guests) shall then answer him, ’Let there be Svadha;’ for at all rites in honour of the manes the word Svadha is the highest benison.
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ ३.२५३॥
ततस् भुक्तवताम् तेषाम् अन्न-शेषम् निवेदयेत् । यथा ब्रूयुः तथा कुर्यात् अनुज्ञातः ततस् द्विजैः ॥ ३।२५३॥
tatas bhuktavatām teṣām anna-śeṣam nivedayet . yathā brūyuḥ tathā kuryāt anujñātaḥ tatas dvijaiḥ .. 3.253..
3.253. Next let him inform (his guests) who have finished their meal, of the food which remains; with the permission of the Brahmanas let him dispose (of that), as they may direct.
पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुशृतम् । सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ ३.२५४॥
पित्र्ये स्वदितम् इति एव वाच्यम् गोष्ठे तु सु शृतम् । सम्पन्नम् इति अभ्युदये दैवे रुचितम् इति अपि ॥ ३।२५४॥
pitrye svaditam iti eva vācyam goṣṭhe tu su śṛtam . sampannam iti abhyudaye daive rucitam iti api .. 3.254..
3.254. At a (Sraddha) in honour of the manes one must use (in asking of the guests if they are satisfied, the word) svaditam; at a Goshthi-sraddha, (the word) susrutam; at a Vriddhi-sraddha, (the word) sampannam; and at (a rite) in honour of the gods, (the word) rukitam.
अपराह्णस्तथा दर्भा वास्तु सम्पादनं तिलाः । सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ ३.२५५॥
अपराह्णः तथा दर्भाः वास्तु सम्पादनम् तिलाः । सृष्टिः मृष्टिः द्विजाः च अग्र्याः श्राद्ध-कर्मसु सम्पदः ॥ ३।२५५॥
aparāhṇaḥ tathā darbhāḥ vāstu sampādanam tilāḥ . sṛṣṭiḥ mṛṣṭiḥ dvijāḥ ca agryāḥ śrāddha-karmasu sampadaḥ .. 3.255..
3.255. The afternoon, Kusa grass, the due preparation of the dwelling, sesamum grains, liberality, the careful preparation of the food, and (the company of) distinguished Brahmanas are true riches at all funeral sacrifices.
दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः । पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥ ३.२५६॥
दर्भाः पवित्रम् पूर्वाह्णः हविष्याणि च सर्वशस् । पवित्रम् यत् च पूर्व-उक्तम् विज्ञेयाः हव्य-सम्पदः ॥ ३।२५६॥
darbhāḥ pavitram pūrvāhṇaḥ haviṣyāṇi ca sarvaśas . pavitram yat ca pūrva-uktam vijñeyāḥ havya-sampadaḥ .. 3.256..
3.256. Know that Kusa grass, purificatory (texts), the morning, sacrificial viands of all kinds, and those means of purification, mentioned above, are blessings at a sacrifice to the gods.
मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् । अक्सारलवणं चैव प्रकृत्या हविरुच्यते ॥ ३.२५७॥
मुनि-अन्नानि पयः सोमः मांसम् यत् च अनुपस्कृतम् । अक्सार-लवणम् च एव प्रकृत्याः हविः उच्यते ॥ ३।२५७॥
muni-annāni payaḥ somaḥ māṃsam yat ca anupaskṛtam . aksāra-lavaṇam ca eva prakṛtyāḥ haviḥ ucyate .. 3.257..
3.257. The food eaten by hermits in the forest, milk, Soma-juice, meat which is not prepared (with spices), and salt unprepared by art, are called, on account of their nature, sacrificial food.
विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । दक्षिणां दिशमाकाङ्क्षन् याचेतैमान् वरान् पितॄन् ॥ ३.२५८॥
विसृज्य ब्राह्मणान् तान् तु नियतः वाग्यतः शुचिः । दक्षिणाम् दिशम् आकाङ्क्षन् याचेत एमान् वरान् पितॄन् ॥ ३।२५८॥
visṛjya brāhmaṇān tān tu niyataḥ vāgyataḥ śuciḥ . dakṣiṇām diśam ākāṅkṣan yāceta emān varān pitṝn .. 3.258..
3.258. Having dismissed the (invited) Brahmanas, let him, with a concentrated mind, silent and pure, look towards the south and ask these blessings of the manes:
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति ॥ ३.२५९॥
दातारः नः अभिवर्धन्ताम् वेदाः संततिः एव च । श्रद्धा च नः मा व्यगमत् बहुदेयम् च नः अस्तु इति ॥ ३।२५९॥
dātāraḥ naḥ abhivardhantām vedāḥ saṃtatiḥ eva ca . śraddhā ca naḥ mā vyagamat bahudeyam ca naḥ astu iti .. 3.259..
3.259. ’May liberal men abound with us! May (our knowledge of) the Vedas and (our) progeny increase! May faith not forsake us! May we have much to give (to the needy)!’
एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् । गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥ ३.२६०॥
एवम् निर्वपणम् कृत्वा पिण्डान् तान् तद्-अनन्तरम् । गाम् विप्रम् अजम् अग्निम् वा प्राशयेत् अप्सु वा क्षिपेत् ॥ ३।२६०॥
evam nirvapaṇam kṛtvā piṇḍān tān tad-anantaram . gām vipram ajam agnim vā prāśayet apsu vā kṣipet .. 3.260..
3.260. Having thus offered (the cakes), let him, after (the prayer), cause a cow, a Brahmana, a goat, or the sacred fire to consume those cakes, or let him throw them into water.
पिण्डनिर्वपणं के चित्परस्तादेव कुर्वते । वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ ३.२६१॥
पिण्ड-निर्वपणम् के चित् परस्तात् एव कुर्वते । वयोभिः खादयन्ति अन्ये प्रक्षिपन्ति अनले अप्सु वा ॥ ३।२६१॥
piṇḍa-nirvapaṇam ke cit parastāt eva kurvate . vayobhiḥ khādayanti anye prakṣipanti anale apsu vā .. 3.261..
3.261. Some make the offering of the cakes after (the dinner); some cause (them) to be eaten by birds or throw them into fire or into water.
पतिव्रता धर्मपत्नी पितृपूजनतत्परा । मध्यमं तु ततः पिण्डमद्यात्सम्यक्सुतार्थिनी ॥ ३.२६२॥
। मध्यमम् तु ततस् पिण्डम् अद्यात् सम्यक् सुत-अर्थिनी ॥ ३।२६२॥
. madhyamam tu tatas piṇḍam adyāt samyak suta-arthinī .. 3.262..
3.262. The (sacrificer’s) first wife, who is faithful and intent on the worship of the manes, may eat the middle- most cake, (if she be) desirous of bearing a son.
आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् । धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥ ३.२६३॥
आयुष्मन्तम् सुतम् सूते यशः-मेधा-समन्वितम् । धनवन्तम् प्रजावन्तम् सात्त्विकम् धार्मिकम् तथा ॥ ३।२६३॥
āyuṣmantam sutam sūte yaśaḥ-medhā-samanvitam . dhanavantam prajāvantam sāttvikam dhārmikam tathā .. 3.263..
3.263. (Thus) she will bring forth a son who will be long-lived, famous, intelligent, rich, the father of numerous offspring, endowed with (the quality of) goodness, and righteous.
प्रक्षाल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् । ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥ ३.२६४॥
प्रक्षाल्य हस्तौ आचाम्य ज्ञाति-प्रायम् प्रकल्पयेत् । ज्ञातिभ्यः सत्कृतम् दत्त्वा बान्धवान् अपि भोजयेत् ॥ ३।२६४॥
prakṣālya hastau ācāmya jñāti-prāyam prakalpayet . jñātibhyaḥ satkṛtam dattvā bāndhavān api bhojayet .. 3.264..
3.264. Having washed his hands and sipped water, let him prepare (food) for his paternal relations and, after giving it to them with due respect, let him feed his maternal relatives also.
उच्छेषणं तु यत्तिष्ठेद्यावद्विप्रा विसर्जिताः । ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ ३.२६५॥
उच्छेषणम् तु यत् तिष्ठेत् यावत् विप्राः विसर्जिताः । ततस् गृहबलिम् कुर्यात् इति धर्मः व्यवस्थितः ॥ ३।२६५॥
uccheṣaṇam tu yat tiṣṭhet yāvat viprāḥ visarjitāḥ . tatas gṛhabalim kuryāt iti dharmaḥ vyavasthitaḥ .. 3.265..
3.265. But the remnants shall be left (where they lie) until the Brahmanas have been dismissed; afterwards he shall perform the (daily) domestic Bali-offering; that is a settled (rule of the) sacred law.
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः ॥ ३.२६६॥
हविः यत् चिररात्राय यत् च आनन्त्याय कल्पते । पितृभ्यः विधिवत् दत्तम् तत् प्रवक्ष्यामि अशेषतस् ॥ ३।२६६॥
haviḥ yat cirarātrāya yat ca ānantyāya kalpate . pitṛbhyaḥ vidhivat dattam tat pravakṣyāmi aśeṣatas .. 3.266..
3.266. I will now fully declare what kind of sacrificial food, given to the manes according to the rule, will serve for a long time or for eternity.
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं तृप्यन्ति विधिवत्पितरो नृणाम् ॥ ३.२६७॥
तिलैः व्रीहि-यवैः माषैः अद्भिः मूल-फलेन वा । दत्तेन मासम् तृप्यन्ति विधिवत् पितरः नृणाम् ॥ ३।२६७॥
tilaiḥ vrīhi-yavaiḥ māṣaiḥ adbhiḥ mūla-phalena vā . dattena māsam tṛpyanti vidhivat pitaraḥ nṛṇām .. 3.267..
3.267. The ancestors of men are satisfied for one month with sesamum grains, rice, barley, masha beans, water, roots, and fruits, which have been given according to the prescribed rule,
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ ३.२६८॥
द्वौ मासौ मत्स्य-मांसेन त्रीन् मासान् हारिणेन तु । औरभ्रेण अथ चतुरः शाकुनेन अथ पञ्च वै ॥ ३।२६८॥
dvau māsau matsya-māṃsena trīn māsān hāriṇena tu . aurabhreṇa atha caturaḥ śākunena atha pañca vai .. 3.268..
3.268. Two months with fish, three months with the meat of gazelles, four with mutton, and five indeed with the flesh of birds,
षण्मासांश्छागमांसेन पार्षतेन च सप्त वै । ऐणेयमांसेन रौरवेण नवैव तु ॥ ३.२६९॥
षष्-मासान् छाग-मांसेन पार्षतेन च सप्त वै । ऐणेय-मांसेन रौरवेण नव एव तु ॥ ३।२६९॥
ṣaṣ-māsān chāga-māṃsena pārṣatena ca sapta vai . aiṇeya-māṃsena rauraveṇa nava eva tu .. 3.269..
3.269. Six months with the flesh of kids, seven with that of spotted deer, eight with that of the black antelope, but nine with that of the (deer called) Ruru,
दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ ३.२७०॥
दश-मासान् तु तृप्यन्ति वराह-महिष-आमिषैः । शश-कूर्मयोः तु मांसेन मासान् एकादश एव तु ॥ ३।२७०॥
daśa-māsān tu tṛpyanti varāha-mahiṣa-āmiṣaiḥ . śaśa-kūrmayoḥ tu māṃsena māsān ekādaśa eva tu .. 3.270..
3.270. Ten months they are satisfied with the meat of boars and buffaloes, but eleven months indeed with that of hares and tortoises,
संवत्सरे तु गव्येन पयसा पायसेन च । वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ ३.२७१॥
संवत्सरे तु गव्येन पयसा पायसेन च । वार्ध्रीणसस्य मांसेन तृप्तिः द्वादश-वार्षिकी ॥ ३।२७१॥
saṃvatsare tu gavyena payasā pāyasena ca . vārdhrīṇasasya māṃsena tṛptiḥ dvādaśa-vārṣikī .. 3.271..
3.271. One year with cow-milk and milk-rice; from the flesh of a long-eared white he-goat their satisfaction endures twelve years.
कालशाकं महाशल्काः खड्गलोहामिषं मधु । आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ ३.२७२॥
कालशाकम् महाशल्काः खड्ग-लोह-आमिषम् मधु । आनन्त्याय एव कल्प्यन्ते मुनि-अन्नानि च सर्वशस् ॥ ३।२७२॥
kālaśākam mahāśalkāḥ khaḍga-loha-āmiṣam madhu . ānantyāya eva kalpyante muni-annāni ca sarvaśas .. 3.272..
3.272. The (vegetable called) Kalasaka, (the fish called) Mahasalka, the flesh of a rhinoceros and that of a red goat, and all kinds of food eaten by hermits in the forest serve for an endless time.
यत्किं चिन् मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् । तदप्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ ३.२७३॥
यत् किम् चित् मधुना मिश्रम् प्रदद्यात् तु त्रयोदशीम् । तत् अपि अक्षयम् एव स्यात् वर्षासु च मघासु च ॥ ३।२७३॥
yat kim cit madhunā miśram pradadyāt tu trayodaśīm . tat api akṣayam eva syāt varṣāsu ca maghāsu ca .. 3.273..
3.273. Whatever (food), mixed with honey, one gives on the thirteenth lunar day in the rainy season under the asterism of Maghah, that also procures endless (satisfaction).
अपि नः स कुले भूयाद्यो नो दद्यात्त्रयोदशीम् । पायसं मधुसर्पिर्भ्यां प्राक्छाये कुञ्जरस्य च ॥ ३.२७४॥
अपि नः स कुले भूयात् यः नः दद्यात् त्रयोदशीम् । पायसम् मधु-सर्पिर्भ्याम् प्राक् छाये कुञ्जरस्य च ॥ ३।२७४॥
api naḥ sa kule bhūyāt yaḥ naḥ dadyāt trayodaśīm . pāyasam madhu-sarpirbhyām prāk chāye kuñjarasya ca .. 3.274..
3.274. ’May such a man (the manes say) be born in our family who will give us milk-rice, with honey and clarified butter, on the thirteenth lunar day (of the month of Bhadrapada) and (in the afternoon) when the shadow of an elephant falls towards the east.’
यद्यद्ददाति विधिवत्सम्यक्श्रद्धासमन्वितः । तत्तत्पितॄणां भवति परत्रानन्तमक्षयम् ॥ ३.२७५॥
यत् यत् ददाति विधिवत् सम्यक् श्रद्धा-समन्वितः । तत् तत् पितॄणाम् भवति परत्र अनन्तम् अक्षयम् ॥ ३।२७५॥
yat yat dadāti vidhivat samyak śraddhā-samanvitaḥ . tat tat pitṝṇām bhavati paratra anantam akṣayam .. 3.275..
3.275. Whatever (a man), full of faith, duly gives according to the prescribed rule, that becomes in the other world a perpetual and imperishable (gratification) for the manes.
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्तास्तिथयो यथैता न तथैतराः ॥ ३.२७६॥
कृष्ण-पक्षे दशमी-आदौ वर्जयित्वा चतुर्दशीम् । श्राद्धे प्रशस्ताः तिथयः यथा एताः न तथा एतराः ॥ ३।२७६॥
kṛṣṇa-pakṣe daśamī-ādau varjayitvā caturdaśīm . śrāddhe praśastāḥ tithayaḥ yathā etāḥ na tathā etarāḥ .. 3.276..
3.276. The days of the dark half of the month, beginning with the tenth, but excepting the fourteenth, are recommended for a funeral sacrifice; (it is) not thus (with) the others.
युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते । अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ ३.२७७॥
कुर्वन् दिन-ऋक्षेषु सर्वान् कामान् समश्नुते । तु पितॄन् सर्वान् प्रजाम् प्राप्नोति पुष्कलाम् ॥ ३।२७७॥
kurvan dina-ṛkṣeṣu sarvān kāmān samaśnute . tu pitṝn sarvān prajām prāpnoti puṣkalām .. 3.277..
3.277. He who performs it on the even (lunar) days and under the even constellations, gains (the fulfilment of) all his wishes; he who honours the manes on odd (lunar days) and under odd (constellations), obtains distinguished offspring.
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते । तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ ३.२७८॥
यथा च एव अपरः पक्षः पूर्व-पक्षात् विशिष्यते । तथा श्राद्धस्य पूर्वाह्णात् अपराह्णः विशिष्यते ॥ ३।२७८॥
yathā ca eva aparaḥ pakṣaḥ pūrva-pakṣāt viśiṣyate . tathā śrāddhasya pūrvāhṇāt aparāhṇaḥ viśiṣyate .. 3.278..
3.278. As the second half of the month is preferable to the first half, even so the afternoon is better for (the performance of) a funeral sacrifice than the forenoon.
प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्र्यमानिधनात्कार्यं विधिवद्दर्भपाणिना ॥ ३.२७९॥
प्राचीनावीतिना सम्यक् अपसव्यम् अतन्द्रिणा । पित्र्यम् आ निधनात् कार्यम् विधिवत् दर्भ-पाणिना ॥ ३।२७९॥
prācīnāvītinā samyak apasavyam atandriṇā . pitryam ā nidhanāt kāryam vidhivat darbha-pāṇinā .. 3.279..
3.279. Let him, untired, duly perform the (rites) in honour of the manes in accordance with the prescribed rule, passing the sacred thread over the right shoulder, proceeding from the left to the right (and) holding Kusa grass in his hands, up to the end (of the ceremony).
रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा । संध्ययोरुभयोश्चैव सूर्ये चैवाचिरौदिते ॥ ३.२८०॥
रात्रौ श्राद्धम् न कुर्वीत राक्षसी कीर्तिता हि सा । संध्ययोः उभयोः च एव सूर्ये च एव अचिर-उदिते ॥ ३।२८०॥
rātrau śrāddham na kurvīta rākṣasī kīrtitā hi sā . saṃdhyayoḥ ubhayoḥ ca eva sūrye ca eva acira-udite .. 3.280..
3.280. Let him not perform a funeral sacrifice at night, because the (night) is declared to belong to the Rakshasas, nor in the twilight, nor when the sun has just risen.
अनेन विधिना श्राद्धं त्रिरब्दस्यैह निर्वपेत् । हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ॥ ३.२८१॥
अनेन विधिना श्राद्धम् त्रिस् अब्दस्य एह निर्वपेत् । हेमन्त-ग्रीष्म-वर्षासु पाञ्चयज्ञिकम् अन्वहम् ॥ ३।२८१॥
anena vidhinā śrāddham tris abdasya eha nirvapet . hemanta-grīṣma-varṣāsu pāñcayajñikam anvaham .. 3.281..
3.281. Let him offer here below a funeral sacrifice, according to the rule given above, (at least) thrice a year, in winter, in summer, and in the rainy season, but that which is included among the five great sacrifices, every day.
न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते । न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥ ३.२८२॥
न पैतृयज्ञियः होमः लौकिके अग्नौ विधीयते । न दर्शेन विना श्राद्धम् आहिताग्नेः द्विजन्मनः ॥ ३।२८२॥
na paitṛyajñiyaḥ homaḥ laukike agnau vidhīyate . na darśena vinā śrāddham āhitāgneḥ dvijanmanaḥ .. 3.282..
3.282. The burnt-oblation, offered at a sacrifice to the manes, must not be made in a common fire; a Brahmana who keeps a sacred fire (shall) not (perform) a funeral sacrifice except on the new-moon day.
यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजोत्तमः । तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ॥ ३.२८३॥
यत् एव तर्पयति अद्भिः पितॄन् स्नात्वा द्विजोत्तमः । तेन एव कृत्स्नम् आप्नोति पितृ-यज्ञ-क्रिया-फलम् ॥ ३।२८३॥
yat eva tarpayati adbhiḥ pitṝn snātvā dvijottamaḥ . tena eva kṛtsnam āpnoti pitṛ-yajña-kriyā-phalam .. 3.283..
3.283. Even when a Brahmana, after bathing, satisfies the manes with water, he obtains thereby the whole reward for the performance of the (daily) Sraddha.
वसून् वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान् । प्रपितामहांस्तथाऽदित्यान् श्रुतिरेषा सनातनी ॥ ३.२८४॥
वसून् वदन्ति तु पितॄन् रुद्रान् च एव पितामहान् । प्रपितामहान् तथा आदित्यान् श्रुतिः एषा सनातनी ॥ ३।२८४॥
vasūn vadanti tu pitṝn rudrān ca eva pitāmahān . prapitāmahān tathā ādityān śrutiḥ eṣā sanātanī .. 3.284..
3.284. They call (the manes of) fathers Vasus, (those of) grandfathers Rudras, and (those of) great-grandfathers Adityas; thus (speaks) the eternal Veda.
विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः । विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥ ३.२८५॥
विघस-आशी भवेत् नित्यम् नित्यम् वा अमृत-भोजनः । विघसः भुक्त-शेषम् तु यज्ञ-शेषम् तथा अमृतम् ॥ ३।२८५॥
vighasa-āśī bhavet nityam nityam vā amṛta-bhojanaḥ . vighasaḥ bhukta-śeṣam tu yajña-śeṣam tathā amṛtam .. 3.285..
3.285. Let him daily partake of the vighasa and daily eat amrita (ambrosia); but vighasa is what remains from the meal (of Brahmana guests) and the remainder of a sacrifice (is called) amrita.
एतद्वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् । द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ ३.२८६॥
एतत् वः अभिहितम् सर्वम् विधानम् पाञ्चयज्ञिकम् । द्विजाति-मुख्य-वृत्तीनाम् विधानम् श्रूयताम् इति ॥ ३।२८६॥
etat vaḥ abhihitam sarvam vidhānam pāñcayajñikam . dvijāti-mukhya-vṛttīnām vidhānam śrūyatām iti .. 3.286..
3.286. Thus all the ordinances relating to the five (daily great) sacrifices have been declared to you; hear now the law for the manner of living fit for Brahmanas.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In