| |
|

This overlay will guide you through the buttons:

राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः । सम्भवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ ७.१॥
राज-धर्मान् प्रवक्ष्यामि यथावृत्तः भवेत् नृपः । सम्भवः च यथा तस्य सिद्धिः च परमा यथा ॥ ७।१॥
rāja-dharmān pravakṣyāmi yathāvṛttaḥ bhavet nṛpaḥ . sambhavaḥ ca yathā tasya siddhiḥ ca paramā yathā .. 7.1..
7.1. I will declare the duties of kings, (and) show how a king should conduct himself, how he was created, and how (he can obtain) highest success.
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ ७.२॥
ब्राह्मम् प्राप्तेन संस्कारम् क्षत्रियेण यथाविधि । सर्वस्य अस्य यथान्यायम् कर्तव्यम् परिरक्षणम् ॥ ७।२॥
brāhmam prāptena saṃskāram kṣatriyeṇa yathāvidhi . sarvasya asya yathānyāyam kartavyam parirakṣaṇam .. 7.2..
7.2. A Kshatriya, who has received according to the rule the sacrament prescribed by the Veda, must duly protect this whole (world).
अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् । रक्षार्थमस्य सर्वस्य राजानमसृजत्प्रभुः ॥ ७.३॥
अराजके हि लोके अस्मिन् सर्वतस् विद्रुतः भयात् । रक्षा-अर्थम् अस्य सर्वस्य राजानम् असृजत् प्रभुः ॥ ७।३॥
arājake hi loke asmin sarvatas vidrutaḥ bhayāt . rakṣā-artham asya sarvasya rājānam asṛjat prabhuḥ .. 7.3..
7.3. For, when these creatures, being without a king, through fear dispersed in all directions, the Lord created a king for the protection of this whole (creation),
इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ ७.४॥
इन्द्र-अनिल-यम-अर्काणाम् अग्नेः च वरुणस्य च । चन्द्र-वित्तेशयोः च एव मात्राः निर्हृत्य शाश्वतीः ॥ ७।४॥
indra-anila-yama-arkāṇām agneḥ ca varuṇasya ca . candra-vitteśayoḥ ca eva mātrāḥ nirhṛtya śāśvatīḥ .. 7.4..
7.4. Taking (for that purpose) eternal particles of Indra, of the Wind, of Yama, of the Sun, of Fire, of Varuna, of the Moon, and of the Lord of wealth (Kubera).
यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः । तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ ७.५॥
यस्मात् एषाम् सुर-इन्द्राणाम् मात्राभ्यः निर्मितः नृपः । तस्मात् अभिभवति एष सर्व-भूतानि तेजसा ॥ ७।५॥
yasmāt eṣām sura-indrāṇām mātrābhyaḥ nirmitaḥ nṛpaḥ . tasmāt abhibhavati eṣa sarva-bhūtāni tejasā .. 7.5..
7.5. Because a king has been formed of particles of those lords of the gods, he therefore surpasses all created beings in lustre;
तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च । न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ ७.६॥
तपति आदित्य-वत् च एष चक्षूंषि च मनांसि च । न च एनम् भुवि शक्नोति कश्चिद् अपि अभिवीक्षितुम् ॥ ७।६॥
tapati āditya-vat ca eṣa cakṣūṃṣi ca manāṃsi ca . na ca enam bhuvi śaknoti kaścid api abhivīkṣitum .. 7.6..
7.6. And, like the sun, he burns eyes and hearts; nor can anybody on earth even gaze on him.
सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् । स कुबेरः स वरुणः स चैन्द्रः स्वप्रभावतः ॥ ७.७॥
सः अग्निः भवति वायुः च सः अर्कः सोमः स धर्मराज् । स कुबेरः स वरुणः स च ऐन्द्रः स्व-प्रभावतः ॥ ७।७॥
saḥ agniḥ bhavati vāyuḥ ca saḥ arkaḥ somaḥ sa dharmarāj . sa kuberaḥ sa varuṇaḥ sa ca aindraḥ sva-prabhāvataḥ .. 7.7..
7.7. Through his (supernatural) power he is Fire and Wind, he Sun and Moon, he the Lord of justice (Yama), he Kubera, he Varuna, he great Indra.
बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः । महती देवता ह्येषा नररूपेण तिष्ठति ॥ ७.८॥
बालः अपि न अवमान्तव्यः मनुष्यः इति भूमिपः । महती देवता हि एषा नर-रूपेण तिष्ठति ॥ ७।८॥
bālaḥ api na avamāntavyaḥ manuṣyaḥ iti bhūmipaḥ . mahatī devatā hi eṣā nara-rūpeṇa tiṣṭhati .. 7.8..
7.8. Even an infant king must not be despised, (from an idea) that he is a (mere) mortal; for he is a great deity in human form.
एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् । कुलं दहति राजाऽग्निः सपशुद्रव्यसञ्चयम् ॥ ७.९॥
एकम् एव दहति अग्निः नरम् दुरुपसर्पिणम् । कुलम् दहति राजा अग्निः स पशु-द्रव्य-सञ्चयम् ॥ ७।९॥
ekam eva dahati agniḥ naram durupasarpiṇam . kulam dahati rājā agniḥ sa paśu-dravya-sañcayam .. 7.9..
7.9. Fire burns one man only, if he carelessly approaches it, the fire of a king’s (anger) consumes the (whole) family, together with its cattle and its hoard of property.
कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः । कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ ७.१०॥
कार्यम् सः अवेक्ष्य शक्तिम् च देश-कालौ च तत्त्वतः । कुरुते धर्म-सिद्धि-अर्थम् विश्वरूपम् पुनर् पुनर् ॥ ७।१०॥
kāryam saḥ avekṣya śaktim ca deśa-kālau ca tattvataḥ . kurute dharma-siddhi-artham viśvarūpam punar punar .. 7.10..
7.10. Having fully considered the purpose, (his) power, and the place and the time, he assumes by turns many (different) shapes for the complete attainment of justice.
यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे । मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ ७.११॥
यस्य प्रसादे पद्मा श्रीः विजयः च पराक्रमे । मृत्युः च वसति क्रोधे सर्व-तेजः-मयः हि सः ॥ ७।११॥
yasya prasāde padmā śrīḥ vijayaḥ ca parākrame . mṛtyuḥ ca vasati krodhe sarva-tejaḥ-mayaḥ hi saḥ .. 7.11..
7.11. He, in whose favour resides Padma, the goddess of fortune, in whose valour dwells victory, in whose anger abides death, is formed of the lustre of all (gods).
तं यस्तु द्वेष्टि संमोहात्स विनश्यत्यसंशयम् । तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ ७.१२॥
तम् यः तु द्वेष्टि संमोहात् स विनश्यति असंशयम् । तस्य हि आशु विनाशाय राजा प्रकुरुते मनः ॥ ७।१२॥
tam yaḥ tu dveṣṭi saṃmohāt sa vinaśyati asaṃśayam . tasya hi āśu vināśāya rājā prakurute manaḥ .. 7.12..
7.12. The (man), who in his exceeding folly hates him, will doubtlessly perish; for the king quickly makes up his mind to destroy such (a man).
तस्माद्धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः । अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ ७.१३॥
तस्मात् धर्मम् यम् इष्टेषु स व्यवस्येत् नराधिपः । अनिष्टम् च अपि अनिष्टेषु तम् धर्मम् न विचालयेत् ॥ ७।१३॥
tasmāt dharmam yam iṣṭeṣu sa vyavasyet narādhipaḥ . aniṣṭam ca api aniṣṭeṣu tam dharmam na vicālayet .. 7.13..
7.13. Let no (man), therefore, transgress that law which favourites, nor (his orders) which inflict pain on those in disfavour.
तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । तदर्थंब्रह्मतेजोमयं दण्डमसृजत्पूर्वमीश्वरः ॥ ७.१४॥
तस्य अर्थे सर्व-भूतानाम् गोप्तारम् धर्मम् आत्मजम् । तद्-अर्थम् ब्रह्म-तेजः-मयम् दण्डम् असृजत् पूर्वम् ईश्वरः ॥ ७।१४॥
tasya arthe sarva-bhūtānām goptāram dharmam ātmajam . tad-artham brahma-tejaḥ-mayam daṇḍam asṛjat pūrvam īśvaraḥ .. 7.14..
7.14. For the (king’s) sake the Lord formerly created his own son, Punishment, the protector of all creatures, (an incarnation of) the law, formed of Brahman’s glory.
तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मात्न चलन्ति च ॥ ७.१५॥
तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयात् भोगाय कल्पन्ते स्वधर्मात् न चलन्ति च ॥ ७।१५॥
tasya sarvāṇi bhūtāni sthāvarāṇi carāṇi ca . bhayāt bhogāya kalpante svadharmāt na calanti ca .. 7.15..
7.15. Through fear of him all created beings, both the immovable and the movable, allow themselves to be enjoyed and swerve not from their duties.
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु ॥ ७.१६॥
तम् देश-कालौ शक्तिम् च विद्याम् च अवेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेत् नरेषु अन्याय-वर्तिषु ॥ ७।१६॥
tam deśa-kālau śaktim ca vidyām ca avekṣya tattvataḥ . yathārhataḥ sampraṇayet nareṣu anyāya-vartiṣu .. 7.16..
7.16. Having fully considered the time and the place (of the offence), the strength and the knowledge (of the offender), let him justly inflict that (punishment) on men who act unjustly.
स राजा पुरुषो दण्डः स नेता शासिता च सः । चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ ७.१७॥
स राजा पुरुषः दण्डः स नेता शासिता च सः । चतुर्णाम् आश्रमाणाम् च धर्मस्य प्रतिभूः स्मृतः ॥ ७।१७॥
sa rājā puruṣaḥ daṇḍaḥ sa netā śāsitā ca saḥ . caturṇām āśramāṇām ca dharmasya pratibhūḥ smṛtaḥ .. 7.17..
7.17. Punishment is (in reality) the king (and) the male, that the manager of affairs, that the ruler, and that is called the surety for the four orders’ obedience to the law.
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ ७.१८॥
दण्डः शास्ति प्रजाः सर्वाः दण्डः एव अभिरक्षति । दण्डः सुप्तेषु जागर्ति दण्डम् धर्मम् विदुः बुधाः ॥ ७।१८॥
daṇḍaḥ śāsti prajāḥ sarvāḥ daṇḍaḥ eva abhirakṣati . daṇḍaḥ supteṣu jāgarti daṇḍam dharmam viduḥ budhāḥ .. 7.18..
7.18. Punishment alone governs all created beings, punishment alone protects them, punishment watches over them while they sleep; the wise declare punishment (to be identical with) the law.
समीक्ष्य स धृतः सम्यक्सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ ७.१९॥
समीक्ष्य स धृतः सम्यक् सर्वाः रञ्जयति प्रजाः । अ समीक्ष्य प्रणीतः तु विनाशयति सर्वतस् ॥ ७।१९॥
samīkṣya sa dhṛtaḥ samyak sarvāḥ rañjayati prajāḥ . a samīkṣya praṇītaḥ tu vināśayati sarvatas .. 7.19..
7.19. If (punishment) is properly inflicted after (due) consideration, it makes all people happy; but inflicted without consideration, it destroys everything.
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ ७.२०॥
यदि न प्रणयेत् राजा दण्डम् दण्ड्येषु अतन्द्रितः । शूले मत्स्यान् इव अपक्ष्यन् दुर्बलान् बलवत्तराः ॥ ७।२०॥
yadi na praṇayet rājā daṇḍam daṇḍyeṣu atandritaḥ . śūle matsyān iva apakṣyan durbalān balavattarāḥ .. 7.20..
7.20. If the king did not, without tiring, inflict punishment on those worthy to be punished, the stronger would roast the weaker, like fish on a spit;
अद्यात्काकः पुरोडाशं श्वा च लिह्याद्धविस्तथा । स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् ॥ ७.२१॥
अद्यात् काकः पुरोडाशम् श्वा च लिह्यात् हविः तथा । स्वाम्यम् च न स्यात् कस्मिंश्चिद् प्रवर्तेत अधरोत्तरम् ॥ ७।२१॥
adyāt kākaḥ puroḍāśam śvā ca lihyāt haviḥ tathā . svāmyam ca na syāt kasmiṃścid pravarteta adharottaram .. 7.21..
7.21. The crow would eat the sacrificial cake and the dog would lick the sacrificial viands, and ownership would not remain with any one, the lower ones would (usurp the place of) the higher ones.
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः । दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ ७.२२॥
सर्वः दण्ड-जितः लोकः दुर्लभः हि शुचिः नरः । दण्डस्य हि भयात् सर्वम् जगत् भोगाय कल्पते ॥ ७।२२॥
sarvaḥ daṇḍa-jitaḥ lokaḥ durlabhaḥ hi śuciḥ naraḥ . daṇḍasya hi bhayāt sarvam jagat bhogāya kalpate .. 7.22..
7.22. The whole world is kept in order by punishment, for a guiltless man is hard to find; through fear of punishment the whole world yields the enjoyments (which it owes).
देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ ७.२३॥
देव-दानव-गन्धर्वाः रक्षांसि पतग-उरगाः । ते अपि भोगाय कल्पन्ते दण्डेन एव निपीडिताः ॥ ७।२३॥
deva-dānava-gandharvāḥ rakṣāṃsi pataga-uragāḥ . te api bhogāya kalpante daṇḍena eva nipīḍitāḥ .. 7.23..
7.23. The gods, the Danavas, the Gandharvas, the Rakshasas, the bird and snake deities even give the enjoyments (due from them) only, if they are tormented by (the fear of) punishment.
दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः । सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ ७.२४॥
दुष्येयुः सर्व-वर्णाः च भिद्येरन् सर्व-सेतवः । सर्व-लोक-प्रकोपः च भवेत् दण्डस्य विभ्रमात् ॥ ७।२४॥
duṣyeyuḥ sarva-varṇāḥ ca bhidyeran sarva-setavaḥ . sarva-loka-prakopaḥ ca bhavet daṇḍasya vibhramāt .. 7.24..
7.24. All castes (varna) would be corrupted (by intermixture), all barriers would be broken through, and all men would rage (against each other) in consequence of mistakes with respect to punishment.
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा । प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ ७.२५॥
यत्र श्यामः लोहित-अक्षः दण्डः चरति पाप-हा । प्रजाः तत्र न मुह्यन्ति नेता चेद् साधु पश्यति ॥ ७।२५॥
yatra śyāmaḥ lohita-akṣaḥ daṇḍaḥ carati pāpa-hā . prajāḥ tatra na muhyanti netā ced sādhu paśyati .. 7.25..
7.25. But where Punishment with a black hue and red eyes stalks about, destroying sinners, there the subjects are not disturbed, provided that he who inflicts it discerns well.
तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् । समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ ७.२६॥
तस्य आहुः सम्प्रणेतारम् राजानम् सत्य-वादिनम् । समीक्ष्यकारिणम् प्राज्ञम् धर्म-काम-अर्थ-कोविदम् ॥ ७।२६॥
tasya āhuḥ sampraṇetāram rājānam satya-vādinam . samīkṣyakāriṇam prājñam dharma-kāma-artha-kovidam .. 7.26..
7.26. They declare that king to be a just inflicter of punishment, who is truthful, who acts after due consideration, who is wise, and who knows (the respective value of) virtue, pleasure, and wealth.
तं राजा प्रणयन् सम्यक्त्रिवर्गेणाभिवर्धते । कामान्धो विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ ७.२७॥
तम् राजा प्रणयन् सम्यक् त्रिवर्गेण अभिवर्धते । काम-अन्धः विषमः क्षुद्रः दण्डेन एव निहन्यते ॥ ७।२७॥
tam rājā praṇayan samyak trivargeṇa abhivardhate . kāma-andhaḥ viṣamaḥ kṣudraḥ daṇḍena eva nihanyate .. 7.27..
7.27. A king who properly inflicts (punishment), prospers with respect to (those) three (means of happiness); but he who is voluptuous, partial, and deceitful will be destroyed, even through the (unjust) punishment (which he inflicts).
दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः । धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् ॥ ७.२८॥
दण्डः हि सु महत् तेजः दुर्धरः च अकृतात्मभिः । धर्मात् विचलितम् हन्ति नृपम् एव स बान्धवम् ॥ ७।२८॥
daṇḍaḥ hi su mahat tejaḥ durdharaḥ ca akṛtātmabhiḥ . dharmāt vicalitam hanti nṛpam eva sa bāndhavam .. 7.28..
7.28. Punishment (possesses) a very bright lustre, and is hard to be administered by men with unimproved minds; it strikes down the king who swerves from his duty, together with his relatives.
ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् । अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥ ७.२९॥
ततस् दुर्गम् च राष्ट्रम् च लोकम् च सचराचरम् । अन्तरिक्ष-गतान् च एव मुनीन् देवान् च पीडयेत् ॥ ७।२९॥
tatas durgam ca rāṣṭram ca lokam ca sacarācaram . antarikṣa-gatān ca eva munīn devān ca pīḍayet .. 7.29..
7.29. Next it will afflict his castles, his territories, the whole world together with the movable and immovable (creation), likewise the sages and the gods, who (on the failure of offerings) ascend to the sky.
सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना । न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ ७.३०॥
सः असहायेन मूढेन लुब्धेन अकृतबुद्धिना । न शक्यः न्यायतः नेतुम् सक्तेन विषयेषु च ॥ ७।३०॥
saḥ asahāyena mūḍhena lubdhena akṛtabuddhinā . na śakyaḥ nyāyataḥ netum saktena viṣayeṣu ca .. 7.30..
7.30. (Punishment) cannot be inflicted justly by one who has no assistant, (nor) by a fool, (nor) by a covetous man, (nor) by one whose mind is unimproved, (nor) by one addicted to sensual pleasures.
शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा । प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ ७.३१॥
शुचिना सत्य-संधेन यथा शास्त्र-अनुसारिणा । प्रणेतुम् शक्यते दण्डः सु सहायेन धीमता ॥ ७।३१॥
śucinā satya-saṃdhena yathā śāstra-anusāriṇā . praṇetum śakyate daṇḍaḥ su sahāyena dhīmatā .. 7.31..
7.31. By him who is pure (and) faithful to his promise, who acts according to the Institutes (of the sacred law), who has good assistants and is wise, punishment can be (justly) inflicted.
स्वराष्ट्रे न्यायवृत्तः स्याद्भृशदण्डश्च शत्रुषु । सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ ७.३२॥
स्व-राष्ट्रे न्याय-वृत्तः स्यात् भृश-दण्डः च शत्रुषु । सुहृत्सु अ जिह्मः स्निग्धेषु ब्राह्मणेषु क्षमा-अन्वितः ॥ ७।३२॥
sva-rāṣṭre nyāya-vṛttaḥ syāt bhṛśa-daṇḍaḥ ca śatruṣu . suhṛtsu a jihmaḥ snigdheṣu brāhmaṇeṣu kṣamā-anvitaḥ .. 7.32..
7.32. Let him act with justice in his own domain, with rigour chastise his enemies, behave without duplicity towards his friends, and be lenient towards Brahmanas.
एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः । विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ ७.३३॥
एवंवृत्तस्य नृपतेः शिल-उञ्छेन अपि जीवतः । विस्तीर्यते यशः लोके तैल-बिन्दुः इव अम्भसि ॥ ७।३३॥
evaṃvṛttasya nṛpateḥ śila-uñchena api jīvataḥ . vistīryate yaśaḥ loke taila-binduḥ iva ambhasi .. 7.33..
7.33. The fame of a king who behaves thus, even though he subsist by gleaning, is spread in the world, like a drop of oil on water.
अतस्तु विपरीतस्य नृपतेरजितात्मनः । सङ्क्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ७.३४॥
अतस् तु विपरीतस्य नृपतेः अजित-आत्मनः । सङ्क्षिप्यते यशः लोके घृत-बिन्दुः इव अम्भसि ॥ ७।३४॥
atas tu viparītasya nṛpateḥ ajita-ātmanaḥ . saṅkṣipyate yaśaḥ loke ghṛta-binduḥ iva ambhasi .. 7.34..
7.34. But the fame of a king who acts in a contrary manner and who does not subdue himself, diminishes in extent among men like a drop of clarified butter in water.
स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः । वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ ७.३५॥
स्वे स्वे धर्मे निविष्टानाम् सर्वेषाम् अनुपूर्वशस् । वर्णानाम् आश्रमाणाम् च राजा सृष्टः अभिरक्षिता ॥ ७।३५॥
sve sve dharme niviṣṭānām sarveṣām anupūrvaśas . varṇānām āśramāṇām ca rājā sṛṣṭaḥ abhirakṣitā .. 7.35..
7.35. The king has been created (to be) the protector of the castes (varna) and orders, who, all according to their rank, discharge their several duties.
तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः । तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ ७.३६॥
तेन यत् यत् स भृत्येन कर्तव्यम् रक्षता प्रजाः । तत् तत् वः अहम् प्रवक्ष्यामि यथावत् अनुपूर्वशस् ॥ ७।३६॥
tena yat yat sa bhṛtyena kartavyam rakṣatā prajāḥ . tat tat vaḥ aham pravakṣyāmi yathāvat anupūrvaśas .. 7.36..
7.36. Whatever must be done by him and by his servants for the protection of his people, that I will fully declare to you in due order.
ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः । त्रैविद्यवृद्धान् विदुषस्तिष्ठेत्तेषां च शासने ॥ ७.३७॥
ब्राह्मणान् पर्युपासीत प्रातर् उत्थाय पार्थिवः । त्रैविद्य-वृद्धान् विदुषः तिष्ठेत् तेषाम् च शासने ॥ ७।३७॥
brāhmaṇān paryupāsīta prātar utthāya pārthivaḥ . traividya-vṛddhān viduṣaḥ tiṣṭhet teṣām ca śāsane .. 7.37..
7.37. Let the king, after rising early in the morning, worship Brahmanas who are well versed in the threefold sacred science and learned (in polity), and follow their advice.
वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् । वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ ७.३८॥
वृद्धान् च नित्यम् सेवेत विप्रान् वेद-विदः शुचीन् । वृद्ध-सेवी हि सततम् रक्षोभिः अपि पूज्यते ॥ ७।३८॥
vṛddhān ca nityam seveta viprān veda-vidaḥ śucīn . vṛddha-sevī hi satatam rakṣobhiḥ api pūjyate .. 7.38..
7.38. Let him daily worship aged Brahmanas who know the Veda and are pure; for he who always worships aged men, is honoured even by Rakshasas.
तेभ्योऽधिगच्छेद्विनयं विनीतात्माऽपि नित्यशः । विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥ ७.३९॥
तेभ्यः अधिगच्छेत् विनयम् विनीत-आत्मा अपि नित्यशस् । विनीत-आत्मा हि नृपतिः न विनश्यति कर्हि चित् ॥ ७।३९॥
tebhyaḥ adhigacchet vinayam vinīta-ātmā api nityaśas . vinīta-ātmā hi nṛpatiḥ na vinaśyati karhi cit .. 7.39..
7.39. Let him, though he may already be modest, constantly learn modesty from them; for a king who is modest never perishes.
बहवोऽविनयात्नष्टा राजानः सपरिग्रहाः । वनस्था अपि राज्यानि विनयात्प्रतिपेदिरे ॥ ७.४०॥
बहवः अविनयात् नष्टाः राजानः स परिग्रहाः । वनस्थाः अपि राज्यानि विनयात् प्रतिपेदिरे ॥ ७।४०॥
bahavaḥ avinayāt naṣṭāḥ rājānaḥ sa parigrahāḥ . vanasthāḥ api rājyāni vinayāt pratipedire .. 7.40..
7.40. Through a want of modesty many kings have perished, together with their belongings; through modesty even hermits in the forest have gained kingdoms.
वेनो विनष्टोऽविनयात्नहुषश्चैव पार्थिवः । सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥ ७.४१॥
वेनः विनष्टः अविनयात् नहुषः च एव पार्थिवः । सुदास् पैजवनः च एव सुमुखः निमिः एव च ॥ ७।४१॥
venaḥ vinaṣṭaḥ avinayāt nahuṣaḥ ca eva pārthivaḥ . sudās paijavanaḥ ca eva sumukhaḥ nimiḥ eva ca .. 7.41..
7.41. Through a want of humility Vena perished, likewise king Nahusha, Sudas, the son of Pigavana, Sumukha, and Nemi.
पृथुस्तु विनयाद्राज्यं प्राप्तवान् मनुरेव च । कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ ७.४२॥
पृथुः तु विनयात् राज्यम् प्राप्तवान् मनुः एव च । कुबेरः च धन-ऐश्वर्यम् ब्राह्मण्यम् च एव गाधिजः ॥ ७।४२॥
pṛthuḥ tu vinayāt rājyam prāptavān manuḥ eva ca . kuberaḥ ca dhana-aiśvaryam brāhmaṇyam ca eva gādhijaḥ .. 7.42..
7.42. But by humility Prithu and Manu gained sovereignty, Kubera the position of the Lord of wealth, and the son of Gadhi the rank of a Brahmana.
त्रैत्रयीं विद्यात् दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ ७.४३॥
त्रैत्रयीम् विद्यात् दण्डनीतिम् च शाश्वतीम् । आन्वीक्षिकीम् च आत्म-विद्याम् वार्त्ता-आरम्भान् च लोकतः ॥ ७।४३॥
traitrayīm vidyāt daṇḍanītim ca śāśvatīm . ānvīkṣikīm ca ātma-vidyām vārttā-ārambhān ca lokataḥ .. 7.43..
7.43. From those versed in the three Vedas let him learn the threefold (sacred science), the primeval science of government, the science of dialectics, and the knowledge of the (supreme) Soul; from the people (the theory of) the (various) trades and professions.
इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् । जितैन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ७.४४॥
इन्द्रियाणाम् जये योगम् समातिष्ठेत् दिवानिशम् । जित-ऐन्द्रियः हि शक्नोति वशे स्थापयितुम् प्रजाः ॥ ७।४४॥
indriyāṇām jaye yogam samātiṣṭhet divāniśam . jita-aindriyaḥ hi śaknoti vaśe sthāpayitum prajāḥ .. 7.44..
7.44. Day and night he must strenuously exert himself to conquer his senses; for he (alone) who has conquered his own senses, can keep his subjects in obedience.
दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च । व्यसनानि दुर्ऽन्तानि प्रयत्नेन विवर्जयेत् ॥ ७.४५॥
दश काम-समुत्थानि तथा अष्टौ क्रोध-जानि च । व्यसनानि दुर्ऽन्तानि प्रयत्नेन विवर्जयेत् ॥ ७।४५॥
daśa kāma-samutthāni tathā aṣṭau krodha-jāni ca . vyasanāni dur'ntāni prayatnena vivarjayet .. 7.45..
7.45. Let him carefully shun the ten vices, springing from love of pleasure, and the eight, proceeding from wrath, which (all) end in misery.
कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः । वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ ७.४६॥
काम-जेषु प्रसक्तः हि व्यसनेषु महीपतिः । वियुज्यते अर्थ-धर्माभ्याम् क्रोध-जेषु आत्मना एव तु ॥ ७।४६॥
kāma-jeṣu prasaktaḥ hi vyasaneṣu mahīpatiḥ . viyujyate artha-dharmābhyām krodha-jeṣu ātmanā eva tu .. 7.46..
7.46. For a king who is attached to the vices springing from love of pleasure, loses his wealth and his virtue, but (he who is given) to those arising from anger, (loses) even his life.
मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ७.४७॥
मृगया अक्षः दिवास्वप्नः परिवादः स्त्रियः मदः । तौर्यत्रिकम् वृथाट्या च काम-जः दशकः गणः ॥ ७।४७॥
mṛgayā akṣaḥ divāsvapnaḥ parivādaḥ striyaḥ madaḥ . tauryatrikam vṛthāṭyā ca kāma-jaḥ daśakaḥ gaṇaḥ .. 7.47..
7.47. Hunting, gambling, sleeping by day, censoriousness, (excess with) women, drunkenness, (an inordinate love for) dancing, singing, and music, and useless travel are the tenfold set (of vices) springing from love of pleasure.
पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् । वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ ७.४८॥
पैशुन्यम् साहसम् द्रोहः ईर्ष्या असूया अर्थ-दूषणम् । वाग्दण्ड-जम् च पारुष्यम् क्रोध-जः अपि गणः अष्टकः ॥ ७।४८॥
paiśunyam sāhasam drohaḥ īrṣyā asūyā artha-dūṣaṇam . vāgdaṇḍa-jam ca pāruṣyam krodha-jaḥ api gaṇaḥ aṣṭakaḥ .. 7.48..
7.48. Tale-bearing, violence, treachery, envy, slandering, (unjust) seizure of property, reviling, and assault are the eightfold set (of vices) produced by wrath.
द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः । तं यत्नेन जयेत्लोभं तज्जावेतावुभौ गणौ ॥ ७.४९॥
द्वयोः अपि एतयोः मूलम् यम् सर्वे कवयः विदुः । तम् यत्नेन जयेत् लोभम् तद्-जौ एतौ उभौ गणौ ॥ ७।४९॥
dvayoḥ api etayoḥ mūlam yam sarve kavayaḥ viduḥ . tam yatnena jayet lobham tad-jau etau ubhau gaṇau .. 7.49..
7.49. That greediness which all wise men declare to be the root even of both these (sets), let him carefully conquer; both sets (of vices) are produced by that.
पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् । एतत्कष्टतमं विद्यात्चतुष्कं कामजे गणे ॥ ७.५०॥
पानम् अक्षाः स्त्रियः च एव मृगया च यथाक्रमम् । एतत् कष्टतमम् विद्यात् चतुष्कम् काम-जे गणे ॥ ७।५०॥
pānam akṣāḥ striyaḥ ca eva mṛgayā ca yathākramam . etat kaṣṭatamam vidyāt catuṣkam kāma-je gaṇe .. 7.50..
7.50. Drinking, dice, women, and hunting, these four (which have been enumerated) in succession, he must know to be the most pernicious in the set that springs from love of pleasure.
दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं सदा ॥ ७.५१॥
दण्डस्य पातनम् च एव वाच्-पारुष्य-अर्थ-दूषणे । क्रोध-जे अपि गणे विद्यात् कष्टम् एतत् त्रिकम् सदा ॥ ७।५१॥
daṇḍasya pātanam ca eva vāc-pāruṣya-artha-dūṣaṇe . krodha-je api gaṇe vidyāt kaṣṭam etat trikam sadā .. 7.51..
7.51. Doing bodily injury, reviling, and the seizure of property, these three he must know to be the most pernicious in the set produced by wrath.
सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्वं पूर्वं गुरुतरं विद्याद्व्यसनमात्मवान् ॥ ७.५२॥
सप्तकस्य अस्य वर्गस्य सर्वत्र एव अनुषङ्गिणः । पूर्वम् पूर्वम् गुरुतरम् विद्यात् व्यसनम् आत्मवान् ॥ ७।५२॥
saptakasya asya vargasya sarvatra eva anuṣaṅgiṇaḥ . pūrvam pūrvam gurutaram vidyāt vyasanam ātmavān .. 7.52..
7.52. A self-controlled (king) should know that in this set of seven, which prevails everywhere, each earlier- named vice is more abominable (than those named later).
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ ७.५३॥
व्यसनस्य च मृत्योः च व्यसनम् कष्टम् उच्यते । व्यसनी अधस् अधस् व्रजति स्वर् याति अव्यसनी मृतः ॥ ७।५३॥
vyasanasya ca mṛtyoḥ ca vyasanam kaṣṭam ucyate . vyasanī adhas adhas vrajati svar yāti avyasanī mṛtaḥ .. 7.53..
7.53. (On a comparison) between vice and death, vice is declared to be more pernicious; a vicious man sinks to the nethermost (hell), he who dies, free from vice, ascends to heaven.
मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् । सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ७.५४॥
मौलान् शास्त्र-विदः शूरान् लब्धलक्षान् कुल-उद्भवान् । सचिवान् सप्त च अष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ७।५४॥
maulān śāstra-vidaḥ śūrān labdhalakṣān kula-udbhavān . sacivān sapta ca aṣṭau vā prakurvīta parīkṣitān .. 7.54..
7.54. Let him appoint seven or eight ministers whose ancestors have been royal servants, who are versed in the sciences, heroes skilled in the use of weapons and descended from (noble) families and who have been tried.
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेषतोऽसहायेन किं नु राज्यं महोदयम् ॥ ७.५५॥
अपि यत् सुकरम् कर्म तत् अपि एकेन दुष्करम् । विशेषतः असहायेन किम् नु राज्यम् महा-उदयम् ॥ ७।५५॥
api yat sukaram karma tat api ekena duṣkaram . viśeṣataḥ asahāyena kim nu rājyam mahā-udayam .. 7.55..
7.55. Even an undertaking easy (in itself) is (sometimes) hard to be accomplished by a single man; how much (harder is it for a king), especially (if he has) no assistant, (to govern) a kingdom which yields great revenues.
तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ७.५६॥
तैः सार्धम् चिन्तयेत् नित्यम् सामान्यम् संधि-विग्रहम् । स्थानम् समुदयम् गुप्तिम् लब्ध-प्रशमनानि च ॥ ७।५६॥
taiḥ sārdham cintayet nityam sāmānyam saṃdhi-vigraham . sthānam samudayam guptim labdha-praśamanāni ca .. 7.56..
7.56. Let him daily consider with them the ordinary (business, referring to) peace and war, (the four subjects called) sthana, the revenue, the (manner of) protecting (himself and his kingdom), and the sanctification of his gains (by pious gifts).
तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक्पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ७.५७॥
तेषाम् स्वम् स्वम् अभिप्रायम् उपलभ्य पृथक् पृथक् । समस्तानाम् च कार्येषु विदध्यात् हितम् आत्मनः ॥ ७।५७॥
teṣām svam svam abhiprāyam upalabhya pṛthak pṛthak . samastānām ca kāryeṣu vidadhyāt hitam ātmanaḥ .. 7.57..
7.57. Having (first) ascertained the opinion of each (minister) separately and (then the views) of all together, let him do what is (most) beneficial for him in his affairs.
सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत्परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ ७.५८॥
सर्वेषाम् तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत् परमम् मन्त्रम् राजा षाड्गुण्य-संयुतम् ॥ ७।५८॥
sarveṣām tu viśiṣṭena brāhmaṇena vipaścitā . mantrayet paramam mantram rājā ṣāḍguṇya-saṃyutam .. 7.58..
7.58. But with the most distinguished among them all, a learned Brahmana, let the king deliberate on the most important affairs which relate to the six measures of royal policy.
नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निक्षिपेत् । तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ ७.५९॥
नित्यम् तस्मिन् समाश्वस्तः सर्व-कार्याणि निक्षिपेत् । तेन सार्धम् विनिश्चित्य ततस् कर्म समारभेत् ॥ ७।५९॥
nityam tasmin samāśvastaḥ sarva-kāryāṇi nikṣipet . tena sārdham viniścitya tatas karma samārabhet .. 7.59..
7.59. Let him, full of confidence, always entrust to that (official) all business; having taken his final resolution with him, let him afterwards begin to act.
अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् । सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥ ७.६०॥
अन्यान् अपि प्रकुर्वीत शुचीन् प्राज्ञान् अवस्थितान् । सम्यक् अर्थ-समाहर्तॄन् अमात्यान् सु परीक्षितान् ॥ ७।६०॥
anyān api prakurvīta śucīn prājñān avasthitān . samyak artha-samāhartṝn amātyān su parīkṣitān .. 7.60..
7.60. He must also appoint other officials, (men) of integrity, (who are) wise, firm, well able to collect money, and well tried.
निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः । तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७.६१॥
निर्वर्तेत अस्य यावद्भिः इतिकर्तव्य-ता नृभिः । तावतः अतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ ७।६१॥
nirvarteta asya yāvadbhiḥ itikartavya-tā nṛbhiḥ . tāvataḥ atandritān dakṣān prakurvīta vicakṣaṇān .. 7.61..
7.61. As many persons as the due performance of his business requires, so many skilful and clever (men), free from sloth, let him appoint.
तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् । शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥ ७.६२॥
तेषाम् अर्थे नियुञ्जीत शूरान् दक्षान् कुल-उद्गतान् । शुचीन् आकर-कर्मान्ते भीरून् अन्तर् निवेशने ॥ ७।६२॥
teṣām arthe niyuñjīta śūrān dakṣān kula-udgatān . śucīn ākara-karmānte bhīrūn antar niveśane .. 7.62..
7.62. Among them let him employ the brave, the skilful, the high-born, and the honest in (offices for the collection of) revenue, (e.g.) in mines, manufactures, and storehouses, (but) the timid in the interior of his palace.
दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् । इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ ७.६३॥
दूतम् च एव प्रकुर्वीत सर्व-शास्त्र-विशारदम् । इङ्गित-आकार-चेष्ट-ज्ञम् शुचिम् दक्षम् कुल-उद्गतम् ॥ ७।६३॥
dūtam ca eva prakurvīta sarva-śāstra-viśāradam . iṅgita-ākāra-ceṣṭa-jñam śucim dakṣam kula-udgatam .. 7.63..
7.63. Let him also appoint an ambassador who is versed in all sciences, who understands hints, expressions of the face and gestures, who is honest, skilful, and of (noble) family.
अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् । वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ ७.६४॥
अनुरक्तः शुचिः दक्षः स्मृतिमान् देश-काल-विद् । वपुष्मान् वीत-भीः वाग्मी दूतः राज्ञः प्रशस्यते ॥ ७।६४॥
anuraktaḥ śuciḥ dakṣaḥ smṛtimān deśa-kāla-vid . vapuṣmān vīta-bhīḥ vāgmī dūtaḥ rājñaḥ praśasyate .. 7.64..
7.64. (Such) an ambassador is commended to a king (who is) loyal, honest, skilful, possessing a good memory, who knows the (proper) place and time (for action, who is) handsome, fearless, and eloquent.
अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया । नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ ७.६५॥
अमात्ये दण्डः आयत्तः दण्डे वैनयिकी क्रिया । नृपतौ कोश-राष्ट्रे च दूते संधि-विपर्ययौ ॥ ७।६५॥
amātye daṇḍaḥ āyattaḥ daṇḍe vainayikī kriyā . nṛpatau kośa-rāṣṭre ca dūte saṃdhi-viparyayau .. 7.65..
7.65. The army depends on the official (placed in charge of it), the due control (of the subjects) on the army, the treasury and the (government of) the realm on the king, peace and its opposite (war) on the ambassador.
दूत एव हि संधत्ते भिनत्त्येव च संहतान् । दूतस्तत्कुरुते कर्म भिद्यन्ते येन मानवः ॥ ७.६६॥
दूतः एव हि संधत्ते भिनत्ति एव च संहतान् । दूतः तत् कुरुते कर्म भिद्यन्ते येन मानवः ॥ ७।६६॥
dūtaḥ eva hi saṃdhatte bhinatti eva ca saṃhatān . dūtaḥ tat kurute karma bhidyante yena mānavaḥ .. 7.66..
7.66. For the ambassador alone makes (kings’) allies and separates allies; the ambassador transacts that business by which (kings) are disunited or not.
स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः । आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ७.६७॥
स विद्यात् अस्य कृत्येषु निर्गूढ-इङ्गित-चेष्टितैः । आकारम् इङ्गितम् चेष्टाम् भृत्येषु च चिकीर्षितम् ॥ ७।६७॥
sa vidyāt asya kṛtyeṣu nirgūḍha-iṅgita-ceṣṭitaiḥ . ākāram iṅgitam ceṣṭām bhṛtyeṣu ca cikīrṣitam .. 7.67..
7.67. With respect to the affairs let the (ambassador) explore the expression of the countenance, the gestures and actions of the (foreign king) through the gestures and actions of his confidential (advisers), and (discover) his designs among his servants.
बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् । तथा प्रयत्नमातिष्ठेद्यथाऽत्मानं न पीडयेत् ॥ ७.६८॥
बुद्ध्वा च सर्वम् तत्त्वेन पर-राज-चिकीर्षितम् । तथा प्रयत्नम् आतिष्ठेत् यथा आत्मानम् न पीडयेत् ॥ ७।६८॥
buddhvā ca sarvam tattvena para-rāja-cikīrṣitam . tathā prayatnam ātiṣṭhet yathā ātmānam na pīḍayet .. 7.68..
7.68. Having learnt exactly (from his ambassador) the designs of the foreign king, let (the king) take such measures that he does not bring evil on himself.
जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् । रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ७.६९॥
जाङ्गलम् सस्य-सम्पन्नम् आर्य-प्रायम् अनाविलम् । सु आजीव्यम् देशम् आवसेत् ॥ ७।६९॥
jāṅgalam sasya-sampannam ārya-prāyam anāvilam . su ājīvyam deśam āvaset .. 7.69..
7.69. Let him settle in a country which is open and has a dry climate, where grain is abundant, which is chiefly (inhabited) by Aryans, not subject to epidemic diseases (or similar troubles), and pleasant, where the vassals are obedient and his own (people easily) find their livelihood.
धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा । नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत्पुरम् ॥ ७.७०॥
धन्व-दुर्गम् मही-दुर्गम् अप्-दुर्गम् वार्क्षम् एव वा । नृ-दुर्गम् गिरि-दुर्गम् वा समाश्रित्य वसेत् पुरम् ॥ ७।७०॥
dhanva-durgam mahī-durgam ap-durgam vārkṣam eva vā . nṛ-durgam giri-durgam vā samāśritya vaset puram .. 7.70..
7.70. Let him build (there) a town, making for his safety a fortress, protected by a desert, or a fortress built of (stone and) earth, or one protected by water or trees, or one (formed by an encampment of armed) men or a hill- fort.
सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् । एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ ७.७१॥
सर्वेण तु प्रयत्नेन गिरि-दुर्गम् समाश्रयेत् । एषाम् हि बाहुगुण्येन गिरि-दुर्गम् विशिष्यते ॥ ७।७१॥
sarveṇa tu prayatnena giri-durgam samāśrayet . eṣām hi bāhuguṇyena giri-durgam viśiṣyate .. 7.71..
7.71. Let him make every effort to secure a hill-fort, for amongst all those (fortresses mentioned) a hill-fort is distinguished by many superior qualities.
त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः । त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७.७२॥
त्रीणि आद्यानि आश्रिताः तु एषाम् मृग-गर्ताश्रय-अप्चराः । त्रीणि उत्तराणि क्रमशस् प्लवङ्गम-नर-अमराः ॥ ७।७२॥
trīṇi ādyāni āśritāḥ tu eṣām mṛga-gartāśraya-apcarāḥ . trīṇi uttarāṇi kramaśas plavaṅgama-nara-amarāḥ .. 7.72..
7.72. The first three of those (various kinds of fortresses) are inhabited by wild beasts, animals living in holes and aquatic animals, the last three by monkeys, men, and gods respectively.
यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः । तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७.७३॥
यथा दुर्ग-आश्रितान् एतान् न उपहिंसन्ति शत्रवः । तथा अरयः न हिंसन्ति नृपम् दुर्ग-समाश्रितम् ॥ ७।७३॥
yathā durga-āśritān etān na upahiṃsanti śatravaḥ . tathā arayaḥ na hiṃsanti nṛpam durga-samāśritam .. 7.73..
7.73. As enemies do not hurt these (beings, when they are) sheltered by (their) fortresses, even so foes (can) not injure a king who has taken refuge in his fort.
एकः शतं योधयति प्राकारस्थो धनुर्धरः । शतं दशसहस्राणि तस्माद्दुर्गं विधीयते ॥ ७.७४॥
एकः शतम् योधयति प्राकार-स्थः धनुर्धरः । शतम् दश-सहस्राणि तस्मात् दुर्गम् विधीयते ॥ ७।७४॥
ekaḥ śatam yodhayati prākāra-sthaḥ dhanurdharaḥ . śatam daśa-sahasrāṇi tasmāt durgam vidhīyate .. 7.74..
7.74. One bowman, placed on a rampart, is a match in battle for one hundred (foes), one hundred for ten thousand; hence it is prescribed (in the Sastras that a king will posses) a fortress.
तत्स्यादायुधसम्पन्नं धनधान्येन वाहनैः । ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥ ७.७५॥
तत् स्यात् आयुध-सम्पन्नम् धन-धान्येन वाहनैः । ब्राह्मणैः शिल्पिभिः यन्त्रैः यवसेन उदकेन च ॥ ७।७५॥
tat syāt āyudha-sampannam dhana-dhānyena vāhanaiḥ . brāhmaṇaiḥ śilpibhiḥ yantraiḥ yavasena udakena ca .. 7.75..
7.75. Let that (fort) be well supplied with weapons, money, grain and beasts of burden, with Brahmanas, with artisans, with engines, with fodder, and with water.
तस्य मध्ये सुपर्याप्तं कारयेद्गृहमात्मनः । गुप्तं सर्वऋतुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७.७६॥
तस्य मध्ये सु पर्याप्तम् कारयेत् गृहम् आत्मनः । गुप्तम् सर्व-ऋतुकम् शुभ्रम् जल-वृक्ष-समन्वितम् ॥ ७।७६॥
tasya madhye su paryāptam kārayet gṛham ātmanaḥ . guptam sarva-ṛtukam śubhram jala-vṛkṣa-samanvitam .. 7.76..
7.76. Let him cause to be built for himself, in the centre of it, a spacious palace, (well) protected, habitable in every season, resplendent (with whitewash), supplied with water and trees.
तदध्यास्योद्वहेद्भार्यां सवर्णां लक्षणान्विताम् । कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥ ७.७७॥
तत् अध्यास्य उद्वहेत् भार्याम् सवर्णाम् लक्षण-अन्विताम् । कुले महति सम्भूताम् हृद्याम् रूप-गुण-अन्विताम् ॥ ७।७७॥
tat adhyāsya udvahet bhāryām savarṇām lakṣaṇa-anvitām . kule mahati sambhūtām hṛdyām rūpa-guṇa-anvitām .. 7.77..
7.77. Inhabiting that, let him wed a consort of equal caste (varna), who possesses auspicious marks (on her body), and is born in a great family, who is charming and possesses beauty and excellent qualities.
पुरोहितं च कुर्वीत वृणुयादेव चर्त्विजः । तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥ ७.७८॥
पुरोहितम् च कुर्वीत वृणुयात् एव च ऋत्विजः । ते अस्य गृह्याणि कर्माणि कुर्युः वैतानिकानि च ॥ ७।७८॥
purohitam ca kurvīta vṛṇuyāt eva ca ṛtvijaḥ . te asya gṛhyāṇi karmāṇi kuryuḥ vaitānikāni ca .. 7.78..
7.78. Let him appoint a domestic priest (purohita) and choose officiating priests (ritvig); they shall perform his domestic rites and the (sacrifices) for which three fires are required.
यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः । धर्मार्थं चैव विप्रेभ्यो दद्याद्भोगान् धनानि च ॥ ७.७९॥
यजेत राजा क्रतुभिः विविधैः आप्त-दक्षिणैः । धर्म-अर्थम् च एव विप्रेभ्यः दद्यात् भोगान् धनानि च ॥ ७।७९॥
yajeta rājā kratubhiḥ vividhaiḥ āpta-dakṣiṇaiḥ . dharma-artham ca eva viprebhyaḥ dadyāt bhogān dhanāni ca .. 7.79..
7.79. A king shall offer various (Srauta) sacrifices at which liberal fees (are distributed), and in order to acquire merit, he shall give to Brahmanas enjoyments and wealth.
सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद्बलिम् । स्याच्चाम्नायपरो लोके वर्तेत पितृवत्नृषु ॥ ७.८०॥
सांवत्सरिकम् आप्तैः च राष्ट्रात् आहारयेत् बलिम् । स्यात् च आम्नाय-परः लोके वर्तेत पितृ-वत् नृषु ॥ ७।८०॥
sāṃvatsarikam āptaiḥ ca rāṣṭrāt āhārayet balim . syāt ca āmnāya-paraḥ loke varteta pitṛ-vat nṛṣu .. 7.80..
7.80. Let him cause the annual revenue in his kingdom to be collected by trusty (officials), let him obey the sacred law in (his transactions with) the people, and behave like a father towards all men.
अध्यक्षान् विविधान् कुर्यात्तत्र तत्र विपश्चितः । तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ ७.८१॥
अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः । ते अस्य सर्वाणि अवेक्षेरन् नृणाम् कार्याणि कुर्वताम् ॥ ७।८१॥
adhyakṣān vividhān kuryāt tatra tatra vipaścitaḥ . te asya sarvāṇi avekṣeran nṛṇām kāryāṇi kurvatām .. 7.81..
7.81. For the various (branches of business) let him appoint intelligent supervisors; they shall inspect all (the acts) of those men who transact his business.
आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् । नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ ७.८२॥
आवृत्तानाम् गुरु-कुलात् विप्राणाम् पूजकः भवेत् । नृपाणाम् अक्षयः हि एष निधिः ब्राह्मः अभिधीयते ॥ ७।८२॥
āvṛttānām guru-kulāt viprāṇām pūjakaḥ bhavet . nṛpāṇām akṣayaḥ hi eṣa nidhiḥ brāhmaḥ abhidhīyate .. 7.82..
7.82. Let him honour those Brahmanas who have returned from their teacher’s house (after studying the Veda); for that (money which is given) to Brahmanas is declared to be an imperishable treasure for kings.
न तं स्तेना न चामित्रा हरन्ति न च नश्यति । तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ ७.८३॥
न तम् स्तेनाः न च अमित्राः हरन्ति न च नश्यति । तस्मात् राज्ञा निधातव्यः ब्राह्मणेषु अक्षयः निधिः ॥ ७।८३॥
na tam stenāḥ na ca amitrāḥ haranti na ca naśyati . tasmāt rājñā nidhātavyaḥ brāhmaṇeṣu akṣayaḥ nidhiḥ .. 7.83..
7.83. Neither thieves nor foes can take it, nor can it be lost; hence an imperishable store must be deposited by kings with Brahmanas.
न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ७.८४॥
न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । वरिष्ठम् अग्निहोत्रेभ्यः ब्राह्मणस्य मुखे हुतम् ॥ ७।८४॥
na skandate na vyathate na vinaśyati karhi cit . variṣṭham agnihotrebhyaḥ brāhmaṇasya mukhe hutam .. 7.84..
7.84. The offering made through the mouth of a Brahmana, which is neither spilt, nor falls (on the ground), nor ever perishes, is far more excellent than Agnihotras.
सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे । प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ ७.८५॥
समम् अब्राह्मणे दानम् द्विगुणम् ब्राह्मणब्रुवे । प्राधीते शत-साहस्रम् अनन्तम् वेदपारगे ॥ ७।८५॥
samam abrāhmaṇe dānam dviguṇam brāhmaṇabruve . prādhīte śata-sāhasram anantam vedapārage .. 7.85..
7.85. A gift to one who is not a Brahmana (yields) the ordinary (reward; a gift) to one who calls himself a Brahmana, a double (reward); a gift to a well-read Brahmana, a hundred-thousandfold (reward); (a gift) to one who knows the Veda and the Angas (Vedaparaga, a reward) without end.
पात्रस्य हि विशेषेण श्रद्दधानतयैव च । अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥ ७.८६॥
पात्रस्य हि विशेषेण श्रद्दधान-तया एव च । अल्पम् वा बहु वा प्रेत्य दानस्य फलम् अश्नुते ॥ ७।८६॥
pātrasya hi viśeṣeṇa śraddadhāna-tayā eva ca . alpam vā bahu vā pretya dānasya phalam aśnute .. 7.86..
7.86. For according to the particular qualities of the recipient and according to the faith (of the giver) a small or a great reward will be obtained for a gift in the next world.
देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् । पात्रे प्रदीयते यत्तु तद्धर्मस्य प्रसाधनम् ॥ ७.८७
देश-काल-विधानेन द्रव्यम् श्रद्धा-समन्वितम् । पात्रे प्रदीयते यत् तु तत् धर्मस्य प्रसाधनम् ॥ ७।८७
deśa-kāla-vidhānena dravyam śraddhā-samanvitam . pātre pradīyate yat tu tat dharmasya prasādhanam .. 7.87
7.87. A king who, while he protects his people, is defied by (foes), be they equal in strength, or stronger, or weaker, must not shrink from battle, remembering the duty of Kshatriyas.
समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः । न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ ७.८७॥
सम-उत्तम-अधमैः राजा तु आहूतः पालयन् प्रजाः । न निवर्तेत सङ्ग्रामात् क्षात्रम् धर्मम् अनुस्मरन् ॥ ७।८७॥
sama-uttama-adhamaiḥ rājā tu āhūtaḥ pālayan prajāḥ . na nivarteta saṅgrāmāt kṣātram dharmam anusmaran .. 7.87..
7.88. Not to turn back in battle, to protect the people, to honour the Brahmanas, is the best means for a king to secure happiness.
सङ्ग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ७.८८॥
सङ्ग्रामेषु अनिवर्ति-त्वम् प्रजानाम् च एव पालनम् । शुश्रूषा ब्राह्मणानाम् च राज्ञाम् श्रेयस्करम् परम् ॥ ७।८८॥
saṅgrāmeṣu anivarti-tvam prajānām ca eva pālanam . śuśrūṣā brāhmaṇānām ca rājñām śreyaskaram param .. 7.88..
7.89. Those kings who, seeking to slay each other in battle, fight with the utmost exertion and do not turn back, go to heaven.
आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ ७.८९॥
आहवेषु मिथस् अन्योन्यम् जिघांसन्तः महीक्षितः । युध्यमानाः परम् शक्त्या स्वर्गम् यान्ति अ पराङ्मुखाः ॥ ७।८९॥
āhaveṣu mithas anyonyam jighāṃsantaḥ mahīkṣitaḥ . yudhyamānāḥ param śaktyā svargam yānti a parāṅmukhāḥ .. 7.89..
7.90. When he fights with his foes in battle, let him not strike with weapons concealed (in wood), nor with (such as are) barbed, poisoned, or the points of which are blazing with fire.
न कूटैरायुधैर्हन्याद्युध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ ७.९०॥
न कूटैः आयुधैः हन्यात् युध्यमानः रणे रिपून् । न कर्णिभिः ना अपि दिग्धैः ना अग्नि-ज्वलित-तेजनैः ॥ ७।९०॥
na kūṭaiḥ āyudhaiḥ hanyāt yudhyamānaḥ raṇe ripūn . na karṇibhiḥ nā api digdhaiḥ nā agni-jvalita-tejanaiḥ .. 7.90..
7.91. Let him not strike one who (in flight) has climbed on an eminence, nor a eunuch, nor one who joins the palms of his hands (in supplication), nor one who (flees) with flying hair, nor one who sits down, nor one who says ’I am thine;’
न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ ७.९१॥
न च हन्यात् स्थल-आरूढम् न क्लीबम् न कृताञ्जलिम् । न मुक्त-केशम् न आसीनम् न तव अस्मि इति वादिनम् ॥ ७।९१॥
na ca hanyāt sthala-ārūḍham na klībam na kṛtāñjalim . na mukta-keśam na āsīnam na tava asmi iti vādinam .. 7.91..
7.92. Nor one who sleeps, nor one who has lost his coat of mail, nor one who is naked, nor one who is disarmed, nor one who looks on without taking part in the fight, nor one who is fighting with another (foe);
न सुप्तं न विसंनाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ ७.९२॥
न सुप्तम् न विसंनाहम् न नग्नम् न निरायुधम् । न अयुध्यमानम् पश्यन्तम् न परेण समागतम् ॥ ७।९२॥
na suptam na visaṃnāham na nagnam na nirāyudham . na ayudhyamānam paśyantam na pareṇa samāgatam .. 7.92..
7.93. Nor one whose weapons are broken, nor one afflicted (with sorrow), nor one who has been grievously wounded, nor one who is in fear, nor one who has turned to flight; (but in all these cases let him) remember the duty (of honourable warriors).
नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ ७.९३॥
न आयुध-व्यसन-प्राप्तम् न आर्तम् न अति परिक्षतम् । न भीतम् न परावृत्तम् सताम् धर्मम् अनुस्मरन् ॥ ७।९३॥
na āyudha-vyasana-prāptam na ārtam na ati parikṣatam . na bhītam na parāvṛttam satām dharmam anusmaran .. 7.93..
7.94. But the (Kshatriya) who is slain in battle, while he turns back in fear, takes upon himself all the sin of his master, whatever (it may be);
यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः । भर्तुर्यद्दुष्कृतं किं चित्तत्सर्वं प्रतिपद्यते ॥ ७.९४॥
यः तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः । भर्तुः यत् दुष्कृतम् किम् चित् तत् सर्वम् प्रतिपद्यते ॥ ७।९४॥
yaḥ tu bhītaḥ parāvṛttaḥ saṅgrāme hanyate paraiḥ . bhartuḥ yat duṣkṛtam kim cit tat sarvam pratipadyate .. 7.94..
7.95. And whatever merit (a man) who is slain in flight may have gained for the next (world), all that his master takes.
यत्चास्य सुकृतं किं चिदमुत्रार्थमुपार्जितम् । भर्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ ७.९५॥
यत् च अस्य सु कृतम् किम् चित् अमुत्र अर्थम् उपार्जितम् । भर्ता तत् सर्वम् आदत्ते परावृत्त-हतस्य तु ॥ ७।९५॥
yat ca asya su kṛtam kim cit amutra artham upārjitam . bhartā tat sarvam ādatte parāvṛtta-hatasya tu .. 7.95..
7.96. Chariots and horses, elephants, parasols, money, grain, cattle, women, all sorts of (marketable) goods and valueless metals belong to him who takes them (singly) conquering (the possessor).
रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ ७.९६॥
रथ-अश्वम् हस्तिनम् छत्रम् धनम् धान्यम् पशून् स्त्रियः । सर्व-द्रव्याणि कुप्यम् च यः यत् जयति तस्य तत् ॥ ७।९६॥
ratha-aśvam hastinam chatram dhanam dhānyam paśūn striyaḥ . sarva-dravyāṇi kupyam ca yaḥ yat jayati tasya tat .. 7.96..
7.97. A text of the Veda (declares) that (the soldiers) shall present a choice portion (of the booty) to the king; what has not been taken singly, must be distributed by the king among all the soldiers.
राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ ७.९७॥
राज्ञः च दद्युः उद्धारम् इति एषा वैदिकी श्रुतिः । राज्ञा च सर्व-योधेभ्यः दातव्यम् अपृथक् जितम् ॥ ७।९७॥
rājñaḥ ca dadyuḥ uddhāram iti eṣā vaidikī śrutiḥ . rājñā ca sarva-yodhebhyaḥ dātavyam apṛthak jitam .. 7.97..
7.98. Thus has been declared the blameless, primeval law for warriors; from this law a Kshatriya must not depart, when he strikes his foes in battle.
एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः । अस्माद्धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ ७.९८॥
एषः अनुपस्कृतः प्रोक्तः योध-धर्मः सनातनः । अस्मात् धर्मात् न च्यवेत क्षत्रियः घ्नन् रणे रिपून् ॥ ७।९८॥
eṣaḥ anupaskṛtaḥ proktaḥ yodha-dharmaḥ sanātanaḥ . asmāt dharmāt na cyaveta kṣatriyaḥ ghnan raṇe ripūn .. 7.98..
7.99. Let him strive to gain what he has not yet gained; what he has gained let him carefully preserve; let him augment what he preserves, and what he has augmented let him bestow on worthy men.
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः । रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ ७.९९॥
अलब्धम् च एव लिप्सेत लब्धम् रक्षेत् प्रयत्नतः । रक्षितम् वर्धयेत् च एव वृद्धम् पात्रेषु निक्षिपेत् ॥ ७।९९॥
alabdham ca eva lipseta labdham rakṣet prayatnataḥ . rakṣitam vardhayet ca eva vṛddham pātreṣu nikṣipet .. 7.99..
7.100. Let him know that these are the four means for securing the aims of human (existence); let him, without ever tiring, properly employ them.
एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् । अस्य नित्यमनुष्ठानं सम्यक्कुर्यादतन्द्रितः ॥ ७.१००॥
एतत् चतुर्विधम् विद्यात् पुरुष-अर्थ-प्रयोजनम् । अस्य नित्यम् अनुष्ठानम् सम्यक् कुर्यात् अतन्द्रितः ॥ ७।१००॥
etat caturvidham vidyāt puruṣa-artha-prayojanam . asya nityam anuṣṭhānam samyak kuryāt atandritaḥ .. 7.100..
7.101. What he has not (yet) gained, let him seek (to gain) by (his) army; what he has gained, let him protect by careful attention; what he has protected, let him augment by (various modes of) increasing it; and what he has augmented, let him liberally bestow (on worthy men).
अलब्धमिच्छेद्दण्डेन लब्धं रक्षेदवेक्षया । रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ ७.१०१॥
अलब्धम् इच्छेत् दण्डेन लब्धम् रक्षेत् अवेक्षया । रक्षितम् वर्धयेत् वृद्ध्या वृद्धम् पात्रेषु निक्षिपेत् ॥ ७।१०१॥
alabdham icchet daṇḍena labdham rakṣet avekṣayā . rakṣitam vardhayet vṛddhyā vṛddham pātreṣu nikṣipet .. 7.101..
7.102. Let him be ever ready to strike, his prowess constantly displayed, and his secrets constantly concealed, and let him constantly explore the weaknesses of his foe.
नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः । नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥ ७.१०२॥
नित्यम् उद्यत-दण्डः स्यात् नित्यम् विवृत-पौरुषः । नित्यम् संवृत-संवार्यः नित्यम् छिद्र-अनुसारी अरेः ॥ ७।१०२॥
nityam udyata-daṇḍaḥ syāt nityam vivṛta-pauruṣaḥ . nityam saṃvṛta-saṃvāryaḥ nityam chidra-anusārī areḥ .. 7.102..
7.103. Of him who is always ready to strike, the whole world stands in awe; let him therefore make all creatures subject to himself even by the employment of force.
नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् । तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ ७.१०३॥
नित्यम् उद्यत-दण्डस्य कृत्स्नम् उद्विजते जगत् । तस्मात् सर्वाणि भूतानि दण्डेन एव प्रसाधयेत् ॥ ७।१०३॥
nityam udyata-daṇḍasya kṛtsnam udvijate jagat . tasmāt sarvāṇi bhūtāni daṇḍena eva prasādhayet .. 7.103..
7.104. Let him ever act without guile, and on no account treacherously; carefully guarding himself, let him always fathom the treachery which his foes employ.
अमाययैव वर्तेत न कथं चन मायया । बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ ७.१०४॥
अमायया एव वर्तेत न कथम् चन मायया । बुध्येत अरि-प्रयुक्ताम् च मायाम् नित्यम् सु संवृतः ॥ ७।१०४॥
amāyayā eva varteta na katham cana māyayā . budhyeta ari-prayuktām ca māyām nityam su saṃvṛtaḥ .. 7.104..
7.105. His enemy must not know his weaknesses, but he must know the weaknesses of his enemy; as the tortoise (hides its limbs), even so let him secure the members (of his government against treachery), let him protect his own weak points.
नास्य छिद्रं परो विद्याद्विद्यात्छिद्रं परस्य च । गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ ७.१०५॥
न अस्य छिद्रम् परः विद्यात् विद्यात् छिद्रम् परस्य च । गूहेत् कूर्मः इव अङ्गानि रक्षेत् विवरम् आत्मनः ॥ ७।१०५॥
na asya chidram paraḥ vidyāt vidyāt chidram parasya ca . gūhet kūrmaḥ iva aṅgāni rakṣet vivaram ātmanaḥ .. 7.105..
7.106. Let him plan his undertakings (patiently meditating) like a heron; like a lion, let him put forth his strength; like a wolf, let him snatch (his prey); like a hare, let him double in retreat.
बकवत्चिन्तयेदर्थान् सिंहवत्च पराक्रमे । वृकवत्चावलुम्पेत शशवत्च विनिष्पतेत् ॥ ७.१०६॥
बक-वत् चिन्तयेत् अर्थान् सिंह-वत् च पराक्रमे । वृक-वत् च अवलुम्पेत शश-वत् च विनिष्पतेत् ॥ ७।१०६॥
baka-vat cintayet arthān siṃha-vat ca parākrame . vṛka-vat ca avalumpeta śaśa-vat ca viniṣpatet .. 7.106..
7.107. When he is thus engaged in conquest, let him subdue all the opponents whom he may find, by the (four) expedients, conciliation and the rest.
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥ ७.१०७॥
एवम् विजयमानस्य ये अस्य स्युः परिपन्थिनः । तान् आनयेत् वशम् सर्वान् साम-आदिभिः उपक्रमैः ॥ ७।१०७॥
evam vijayamānasya ye asya syuḥ paripanthinaḥ . tān ānayet vaśam sarvān sāma-ādibhiḥ upakramaiḥ .. 7.107..
7.108. If they cannot be stopped by the three first expedients, then let him, overcoming them by force alone, gradually bring them to subjection.
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनैव प्रसह्यैतांशनकैर्वशमानयेत् ॥ ७.१०८॥
यदि ते तु न तिष्ठेयुः उपायैः प्रथमैः त्रिभिः । दण्डेन एव प्रसह्य एतान् शनकैस् वशम् आनयेत् ॥ ७।१०८॥
yadi te tu na tiṣṭheyuḥ upāyaiḥ prathamaiḥ tribhiḥ . daṇḍena eva prasahya etān śanakais vaśam ānayet .. 7.108..
7.109. Among the four expedients, conciliation and the rest, the learned always recommend conciliation and (the employment of) force for the prosperity of kingdoms.
सामादीनामुपायानां चतुर्णामपि पण्डिताः । सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ ७.१०९॥
साम-आदीनाम् उपायानाम् चतुर्णाम् अपि पण्डिताः । साम-दण्डौ प्रशंसन्ति नित्यम् राष्ट्र-अभिवृद्धये ॥ ७।१०९॥
sāma-ādīnām upāyānām caturṇām api paṇḍitāḥ . sāma-daṇḍau praśaṃsanti nityam rāṣṭra-abhivṛddhaye .. 7.109..
7.110. As the weeder plucks up the weeds and preserves the corn, even so let the king protect his kingdom and destroy his opponents.
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति । तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ ७.११०॥
यथा उद्धरति निर्दाता कक्षम् धान्यम् च रक्षति । तथा रक्षेत् नृपः राष्ट्रम् हन्यात् च परिपन्थिनः ॥ ७।११०॥
yathā uddharati nirdātā kakṣam dhānyam ca rakṣati . tathā rakṣet nṛpaḥ rāṣṭram hanyāt ca paripanthinaḥ .. 7.110..
7.111. That king who through folly rashly oppresses his kingdom, (will), together with his relatives, ere long be deprived of his life and of his kingdom.
मोहाद्राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया । सोऽचिराद्भ्रश्यते राज्यात्जीवितात्च सबान्धवः ॥ ७.१११॥
मोहात् राजा स्व-राष्ट्रम् यः कर्षयति अनवेक्षया । सः अचिरात् भ्रश्यते राज्यात् जीवितात् च स बान्धवः ॥ ७।१११॥
mohāt rājā sva-rāṣṭram yaḥ karṣayati anavekṣayā . saḥ acirāt bhraśyate rājyāt jīvitāt ca sa bāndhavaḥ .. 7.111..
7.112. As the lives of living creatures are destroyed by tormenting their bodies, even so the lives of kings are destroyed by their oppressing their kingdoms.
शरीरकर्षणात्प्राणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ ७.११२॥
शरीर-कर्षणात् प्राणाः क्षीयन्ते प्राणिनाम् यथा । तथा राज्ञाम् अपि प्राणाः क्षीयन्ते राष्ट्र-कर्षणात् ॥ ७।११२॥
śarīra-karṣaṇāt prāṇāḥ kṣīyante prāṇinām yathā . tathā rājñām api prāṇāḥ kṣīyante rāṣṭra-karṣaṇāt .. 7.112..
7.113. In governing his kingdom let him always observe the (following) rules; for a king who governs his kingdom well, easily prospers.
राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत् । सुसङ्गृहीतराष्ट्रे हि पार्थिवः सुखमेधते ॥ ७.११३॥
राष्ट्रस्य सङ्ग्रहे नित्यम् विधानम् इदम् आचरेत् । सु सङ्गृहीत-राष्ट्रे हि पार्थिवः सुखम् एधते ॥ ७।११३॥
rāṣṭrasya saṅgrahe nityam vidhānam idam ācaret . su saṅgṛhīta-rāṣṭre hi pārthivaḥ sukham edhate .. 7.113..
7.114. Let him place a company of soldiers, commanded (by a trusty officer), the midst of two, three, five or hundreds of villages, (to be) a protection of the kingdom.
द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् । तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य सङ्ग्रहम् ॥ ७.११४॥
द्वयोः त्रयाणाम् पञ्चानाम् मध्ये गुल्मम् अधिष्ठितम् । तथा ग्राम-शतानाम् च कुर्यात् राष्ट्रस्य सङ्ग्रहम् ॥ ७।११४॥
dvayoḥ trayāṇām pañcānām madhye gulmam adhiṣṭhitam . tathā grāma-śatānām ca kuryāt rāṣṭrasya saṅgraham .. 7.114..
7.115. Let him appoint a lord over (each) village, as well as lords of ten villages, lords of twenty, lords of a hundred, and lords of a thousand.
ग्रामस्याधिपतिं कुर्याद्दशग्रामपतिं तथा । विंशतीशं शतेशं च सहस्रपतिमेव च ॥ ७.११५॥
ग्रामस्य अधिपतिम् कुर्यात् दश-ग्राम-पतिम् तथा । विंशति-ईशम् शत-ईशम् च सहस्र-पतिम् एव च ॥ ७।११५॥
grāmasya adhipatim kuryāt daśa-grāma-patim tathā . viṃśati-īśam śata-īśam ca sahasra-patim eva ca .. 7.115..
7.116. The lord of one village himself shall inform the lord of ten villages of the crimes committed in his village, and the ruler of ten (shall make his report) to the ruler of twenty.
ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् । शंसेद्ग्रामदशेशाय दशेशो विंशतीशिने ॥ ७.११६॥
ग्राम-दोषान् समुत्पन्नान् ग्रामिकः शनकैस् स्वयम् । शंसेत् ग्राम-दश-ईशाय दश-ईशः विंशति-ईशिने ॥ ७।११६॥
grāma-doṣān samutpannān grāmikaḥ śanakais svayam . śaṃset grāma-daśa-īśāya daśa-īśaḥ viṃśati-īśine .. 7.116..
7.117. But the ruler of twenty shall report all such (matters) to the lord of a hundred, and the lord of a hundred shall himself give information to the lord of a thousand.
विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेद्ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ ७.११७॥
विंशति-ईशः तु तत् सर्वम् शत-ईशाय निवेदयेत् । शंसेत् ग्राम-शत-ईशः तु सहस्र-पतये स्वयम् ॥ ७।११७॥
viṃśati-īśaḥ tu tat sarvam śata-īśāya nivedayet . śaṃset grāma-śata-īśaḥ tu sahasra-pataye svayam .. 7.117..
7.118. Those (articles) which the villagers ought to furnish daily to the king, such as food, drink, and fuel, the lord of one village shall obtain.
यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः । अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ७.११८॥
यानि राज-प्रदेयानि प्रत्यहम् ग्राम-वासिभिः । अन्न-पान-इन्धन-आदीनि ग्रामिकः तानि अवाप्नुयात् ॥ ७।११८॥
yāni rāja-pradeyāni pratyaham grāma-vāsibhiḥ . anna-pāna-indhana-ādīni grāmikaḥ tāni avāpnuyāt .. 7.118..
7.119. The ruler of ten (villages) shall enjoy one kula (as much land as suffices for one family), the ruler of twenty five kulas, the superintendent of a hundred villages (the revenues of) one village, the lord of a thousand (the revenues of) a town.
दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ ७.११९॥
दशी कुलम् तु भुञ्जीत विंशी पञ्च कुलानि च । ग्रामम् ग्राम-शत-अध्यक्षः सहस्र-अधिपतिः पुरम् ॥ ७।११९॥
daśī kulam tu bhuñjīta viṃśī pañca kulāni ca . grāmam grāma-śata-adhyakṣaḥ sahasra-adhipatiḥ puram .. 7.119..
7.120. The affairs of these (officials), which are connected with (their) villages and their separate business, another minister of the king shall inspect, (who must be) loyal and never remiss;
तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि । राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ ७.१२०॥
तेषाम् ग्राम्याणि कार्यानि पृथक्कार्याणि च एव हि । राज्ञः अन्यः सचिवः स्निग्धः तानि पश्येत् अतन्द्रितः ॥ ७।१२०॥
teṣām grāmyāṇi kāryāni pṛthakkāryāṇi ca eva hi . rājñaḥ anyaḥ sacivaḥ snigdhaḥ tāni paśyet atandritaḥ .. 7.120..
7.121. And in each town let him appoint one superintendent of all affairs, elevated in rank, formidable, (resembling) a planet among the stars.
नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् । उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥ ७.१२१॥
नगरे नगरे च एकम् कुर्यात् सर्व-अर्थ-चिन्तकम् । उच्चैस् स्थानम् घोर-रूपम् नक्षत्राणाम् इव ग्रहम् ॥ ७।१२१॥
nagare nagare ca ekam kuryāt sarva-artha-cintakam . uccais sthānam ghora-rūpam nakṣatrāṇām iva graham .. 7.121..
7.122. Let that (man) always personally visit by turns all those (other officials); let him properly explore their behaviour in their districts through spies (appointed to) each.
स ताननुपरिक्रामेत्सर्वानेव सदा स्वयम् । तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तत्चरैः ॥ ७.१२२॥
स तान् अनुपरिक्रामेत् सर्वान् एव सदा स्वयम् । तेषाम् वृत्तम् परिणयेत् सम्यक् राष्ट्रेषु तद्-चरैः ॥ ७।१२२॥
sa tān anuparikrāmet sarvān eva sadā svayam . teṣām vṛttam pariṇayet samyak rāṣṭreṣu tad-caraiḥ .. 7.122..
7.123. For the servants of the king, who are appointed to protect (the people), generally become knaves who seize the property of others; let him protect his subjects against such (men).
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः । भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ ७.१२३॥
राज्ञः हि रक्षा-अधिकृताः पर-स्व-आदायिनः शठाः । भृत्याः भवन्ति प्रायेण तेभ्यः रक्षेत् इमाः प्रजाः ॥ ७।१२३॥
rājñaḥ hi rakṣā-adhikṛtāḥ para-sva-ādāyinaḥ śaṭhāḥ . bhṛtyāḥ bhavanti prāyeṇa tebhyaḥ rakṣet imāḥ prajāḥ .. 7.123..
7.124. Let the king confiscate the whole property of those (officials) who, evil-minded, may take money from suitors, and banish them.
ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः । तेषां सर्वस्वमादाय राजा कुर्यात्प्रवासनम् ॥ ७.१२४॥
ये कार्यिकेभ्यः अर्थम् एव गृह्णीयुः पाप-चेतसः । तेषाम् सर्व-स्वम् आदाय राजा कुर्यात् प्रवासनम् ॥ ७।१२४॥
ye kāryikebhyaḥ artham eva gṛhṇīyuḥ pāpa-cetasaḥ . teṣām sarva-svam ādāya rājā kuryāt pravāsanam .. 7.124..
7.125. For women employed in the royal service and for menial servants, let him fix a daily maintenance, in proportion to their position and to their work.
राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । प्रत्यहं कल्पयेद्वृत्तिं स्थानं कर्मानुरूपतः ॥ ७.१२५॥
राज-कर्मसु युक्तानाम् स्त्रीणाम् प्रेष्य-जनस्य च । प्रत्यहम् कल्पयेत् वृत्तिम् स्थानम् कर्म-अनुरूपतः ॥ ७।१२५॥
rāja-karmasu yuktānām strīṇām preṣya-janasya ca . pratyaham kalpayet vṛttim sthānam karma-anurūpataḥ .. 7.125..
7.126. One pana must be given (daily) as wages to the lowest, six to the highest, likewise clothing every six months and one drona of grain every month.
पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाऽच्छादो धान्यद्रोणस्तु मासिकः ॥ ७.१२६॥
पणः देयः अवकृष्टस्य षष्-उत्कृष्टस्य वेतनम् । षाण्मासिकः तथा अच्छादः धान्य-द्रोणः तु मासिकः ॥ ७।१२६॥
paṇaḥ deyaḥ avakṛṣṭasya ṣaṣ-utkṛṣṭasya vetanam . ṣāṇmāsikaḥ tathā acchādaḥ dhānya-droṇaḥ tu māsikaḥ .. 7.126..
7.127. Having well considered (the rates of) purchase and (of) sale, (the length of) the road, (the expense for) food and condiments, the charges of securing the goods, let the king make the traders pay duty.
क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् । योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत्करान् ॥ ७.१२७॥
क्रय-विक्रयम् अध्वानम् भक्तम् च स परिव्ययम् । योगक्षेमम् च सम्प्रेक्ष्य वणिजः दापयेत् करान् ॥ ७।१२७॥
kraya-vikrayam adhvānam bhaktam ca sa parivyayam . yogakṣemam ca samprekṣya vaṇijaḥ dāpayet karān .. 7.127..
7.128. After (due) consideration the king shall always fix in his realm the duties and taxes in such a manner that both he himself and the man who does the work receive (their due) reward.
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथाऽवेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ॥ ७.१२८॥
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथा अवेक्ष्य नृपः राष्ट्रे कल्पयेत् सततम् करान् ॥ ७।१२८॥
yathā phalena yujyeta rājā kartā ca karmaṇām . tathā avekṣya nṛpaḥ rāṣṭre kalpayet satatam karān .. 7.128..
7.129. As the leech, the calf, and the bee take their food little by little, even so must the king draw from his realm moderate annual taxes.
यथाऽल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः । तथाऽल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः ॥ ७.१२९॥
यथा अल्प-अल्पम् अदन्ति आद्यम् वार्योकः-वत्स-षट्पदाः । तथा अल्प-अल्पः ग्रहीतव्यः राष्ट्रात् राज्ञा आब्दिकः करः ॥ ७।१२९॥
yathā alpa-alpam adanti ādyam vāryokaḥ-vatsa-ṣaṭpadāḥ . tathā alpa-alpaḥ grahītavyaḥ rāṣṭrāt rājñā ābdikaḥ karaḥ .. 7.129..
7.130. A fiftieth part of (the increments on) cattle and gold may be taken by the king, and the eighth, sixth, or twelfth part of the crops.
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ ७.१३०॥
पञ्चाशत्-भागः आदेयः राज्ञा पशु-हिरण्ययोः । धान्यानाम् अष्टमः भागः षष्ठः द्वादशः एव वा ॥ ७।१३०॥
pañcāśat-bhāgaḥ ādeyaḥ rājñā paśu-hiraṇyayoḥ . dhānyānām aṣṭamaḥ bhāgaḥ ṣaṣṭhaḥ dvādaśaḥ eva vā .. 7.130..
7.131. He may also take the sixth part of trees, meat, honey, clarified butter, perfumes, (medical) herbs, substances used for flavouring food, flowers, roots, and fruit;
आददीताथ षड्भागं द्रुमान् समधुसर्पिषाम् । गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ ७.१३१॥
आददीत अथ षड्भागम् द्रुमान् स मधु-सर्पिषाम् । गन्ध-ओषधि-रसानाम् च पुष्प-मूल-फलस्य च ॥ ७।१३१॥
ādadīta atha ṣaḍbhāgam drumān sa madhu-sarpiṣām . gandha-oṣadhi-rasānām ca puṣpa-mūla-phalasya ca .. 7.131..
7.132. Of leaves, pot-herbs, grass, (objects) made of cane, skins, of earthen vessels, and all (articles) made of stone.
पत्रशाकतृणानां च चर्मणां वैदलस्य च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ ७.१३२॥
पत्र-शाक-तृणानाम् च चर्मणाम् वैदलस्य च । मृद्-मयानाम् च भाण्डानाम् सर्वस्य अश्म-मयस्य च ॥ ७।१३२॥
patra-śāka-tṛṇānām ca carmaṇām vaidalasya ca . mṛd-mayānām ca bhāṇḍānām sarvasya aśma-mayasya ca .. 7.132..
7.133. Though dying (with want), a king must not levy a tax on Srotriyas, and no Srotriya, residing in his kingdom, must perish from hunger.
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् । न च क्षुधाऽस्य संसीदेत्श्रोत्रियो विषये वसन् ॥ ७.१३३॥
म्रियमाणः अपि आददीत न राजा श्रोत्रियात् करम् । न च क्षुधा अस्य संसीदेत् श्रोत्रियः विषये वसन् ॥ ७।१३३॥
mriyamāṇaḥ api ādadīta na rājā śrotriyāt karam . na ca kṣudhā asya saṃsīdet śrotriyaḥ viṣaye vasan .. 7.133..
7.134. The kingdom of that king, in whose dominions a Srotriya pines with hunger, will even, ere long, be afflicted by famine.
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा । तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ ७.१३४॥
यस्य राज्ञः तु विषये श्रोत्रियः सीदति क्षुधा । तस्य अपि तत् क्षुधा राष्ट्रम् अचिरेण एव सीदति ॥ ७।१३४॥
yasya rājñaḥ tu viṣaye śrotriyaḥ sīdati kṣudhā . tasya api tat kṣudhā rāṣṭram acireṇa eva sīdati .. 7.134..
7.135. Having ascertained his learning in the Veda and (the purity of) his conduct, the king shall provide for him means of subsistence in accordance with the sacred law, and shall protect him in every way, as a father (protects) the lawful son of his body.
श्रुतवृत्ते विदित्वाऽस्य वृत्तिं धर्म्यां प्रकल्पयेत् । संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ ७.१३५॥
श्रुत-वृत्ते विदित्वा अस्य वृत्तिम् धर्म्याम् प्रकल्पयेत् । संरक्षेत् सर्वतस् च एनम् पिता पुत्रम् इव औरसम् ॥ ७।१३५॥
śruta-vṛtte viditvā asya vṛttim dharmyām prakalpayet . saṃrakṣet sarvatas ca enam pitā putram iva aurasam .. 7.135..
7.136. Whatever meritorious acts (such a Brahmana) performs under the full protection of the king, thereby the king’s length of life, wealth, and kingdom increase.
संरक्ष्यमाणो राज्ञाऽयं कुरुते धर्ममन्वहम् । तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ ७.१३६॥
संरक्ष्यमाणः राज्ञा अयम् कुरुते धर्मम् अन्वहम् । तेन आयुः वर्धते राज्ञः द्रविणम् राष्ट्रम् एव च ॥ ७।१३६॥
saṃrakṣyamāṇaḥ rājñā ayam kurute dharmam anvaham . tena āyuḥ vardhate rājñaḥ draviṇam rāṣṭram eva ca .. 7.136..
7.137. Let the king make the common inhabitants of his realm who live by traffic, pay annually some trifle, which is called a tax.
यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम् । व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ ७.१३७॥
यत् किम् चित् अपि वर्षस्य दापयेत् कर-संज्ञितम् । व्यवहारेण जीवन्तम् राजा राष्ट्रे पृथग्जनम् ॥ ७।१३७॥
yat kim cit api varṣasya dāpayet kara-saṃjñitam . vyavahāreṇa jīvantam rājā rāṣṭre pṛthagjanam .. 7.137..
7.138. Mechanics and artisans, as well as Sudras who subsist by manual labour, he may cause to work (for himself) one (day) in each month.
कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः । एकैकं कारयेत्कर्म मासि मासि महीपतिः ॥ ७.१३८॥
कारुकान् शिल्पिनः च एव शूद्रान् च आत्म-उपजीविनः । एकैकम् कारयेत् कर्म मासि मासि महीपतिः ॥ ७।१३८॥
kārukān śilpinaḥ ca eva śūdrān ca ātma-upajīvinaḥ . ekaikam kārayet karma māsi māsi mahīpatiḥ .. 7.138..
7.139. Let him not cut up his own root (by levying no taxes), nor the root of other (men) by excessive greed; for by cutting up his own root (or theirs), he makes himself or them wretched.
नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥ ७.१३९॥
न उच्छिन्द्यात् आत्मनः मूलम् परेषाम् च अति तृष्णया । उच्छिन्दन् हि आत्मनः मूलम् आत्मानम् तान् च पीडयेत् ॥ ७।१३९॥
na ucchindyāt ātmanaḥ mūlam pareṣām ca ati tṛṣṇayā . ucchindan hi ātmanaḥ mūlam ātmānam tān ca pīḍayet .. 7.139..
7.140. Let the king, having carefully considered (each) affair, be both sharp and gentle; for a king who is both sharp and gentle is highly respected.
तीक्ष्णश्चैव मृदुश्च स्यात्कार्यं वीक्ष्य महीपतिः । तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः ॥ ७.१४०॥
तीक्ष्णः च एव मृदुः च स्यात् कार्यम् वीक्ष्य महीपतिः । तीक्ष्णः च एव मृदुः च एव राज भवति सम्मतः ॥ ७।१४०॥
tīkṣṇaḥ ca eva mṛduḥ ca syāt kāryam vīkṣya mahīpatiḥ . tīkṣṇaḥ ca eva mṛduḥ ca eva rāja bhavati sammataḥ .. 7.140..
7.141. When he is tired with the inspection of the business of men, let him place on that seat (of justice) his chief minister, (who must be) acquainted with the law, wise, self-controlled, and descended from a (noble) family.
अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् । स्थापयेदासने तस्मिन् खिन्नः कार्यैक्षणे नृणाम् ॥ ७.१४१॥
अमात्य-मुख्यम् धर्म-ज्ञम् प्राज्ञम् दान्तम् कुल-उद्गतम् । स्थापयेत् आसने तस्मिन् खिन्नः कार्य-ऐक्षणे नृणाम् ॥ ७।१४१॥
amātya-mukhyam dharma-jñam prājñam dāntam kula-udgatam . sthāpayet āsane tasmin khinnaḥ kārya-aikṣaṇe nṛṇām .. 7.141..
7.142. Having thus arranged all the affairs (of) his (government), he shall zealously and carefully protect his subjects.
एवं सर्वं विधायैदमितिकर्तव्यमात्मनः । युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ ७.१४२॥
एवम् सर्वम् विधाय एदम् इतिकर्तव्यम् आत्मनः । युक्तः च एव अप्रमत्तः च परिरक्षेत् इमाः प्रजाः ॥ ७।१४२॥
evam sarvam vidhāya edam itikartavyam ātmanaḥ . yuktaḥ ca eva apramattaḥ ca parirakṣet imāḥ prajāḥ .. 7.142..
7.143. That (monarch) whose subjects are carried off by robbers (Dasyu) from his kingdom, while they loudly call (for help), and he and his servants are (quietly) looking on, is a dead and not a living (king).
विक्रोशन्त्यो यस्य राष्ट्राध्रियन्ते दस्युभिः प्रजाः । सम्पश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ ७.१४३॥
विक्रोशन्त्यः यस्य राष्ट्रा आध्रियन्ते दस्युभिः प्रजाः । सम्पश्यतः स भृत्यस्य मृतः स न तु जीवति ॥ ७।१४३॥
vikrośantyaḥ yasya rāṣṭrā ādhriyante dasyubhiḥ prajāḥ . sampaśyataḥ sa bhṛtyasya mṛtaḥ sa na tu jīvati .. 7.143..
7.144. The highest duty of a Kshatriya is to protect his subjects, for the king who enjoys the rewards, just mentioned, is bound to (discharge that) duty.
क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् । निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ ७.१४४॥
क्षत्रियस्य परः धर्मः प्रजानाम् एव पालनम् । निर्दिष्ट-फल-भोक्ता हि राजा धर्मेण युज्यते ॥ ७।१४४॥
kṣatriyasya paraḥ dharmaḥ prajānām eva pālanam . nirdiṣṭa-phala-bhoktā hi rājā dharmeṇa yujyate .. 7.144..
7.145. Having risen in the last watch of the night, having performed (the rite of) personal purification, having, with a collected mind, offered oblations in the fire, and having worshipped Brahmanas, he shall enter the hall of audience which must possess the marks (considered) auspicious (for a dwelling).
उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत्स शुभां सभाम् ॥ ७.१४५॥
उत्थाय पश्चिमे यामे कृत-शौचः समाहितः । हुत-अग्निः ब्राह्मणान् च अर्च्य प्रविशेत् स शुभाम् सभाम् ॥ ७।१४५॥
utthāya paścime yāme kṛta-śaucaḥ samāhitaḥ . huta-agniḥ brāhmaṇān ca arcya praviśet sa śubhām sabhām .. 7.145..
7.146. Tarrying there, he shall gratify all subjects (who come to see him by a kind reception) and afterwards dismiss them; having dismissed his subjects, he shall take counsel with his ministers.
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वा मन्त्रयेत्सह मन्त्रिभिः ॥ ७.१४६॥
तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् । विसृज्य च प्रजाः सर्वाः मन्त्रयेत् सह मन्त्रिभिः ॥ ७।१४६॥
tatra sthitaḥ prajāḥ sarvāḥ pratinandya visarjayet . visṛjya ca prajāḥ sarvāḥ mantrayet saha mantribhiḥ .. 7.146..
7.147. Ascending the back of a hill or a terrace, (and) retiring (there) in a lonely place, or in a solitary forest, let him consult with them unobserved.
गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः । अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ ७.१४७॥
गिरि-पृष्ठम् समारुह्य प्रासादम् वा रहः-गतः । अरण्ये निःशलाके वा मन्त्रयेत् अविभावितः ॥ ७।१४७॥
giri-pṛṣṭham samāruhya prāsādam vā rahaḥ-gataḥ . araṇye niḥśalāke vā mantrayet avibhāvitaḥ .. 7.147..
7.148. That king whose secret plans other people, (though) assembled (for the purpose), do not discover, (will) enjoy the whole earth, though he be poor in treasure.
यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः । स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ ७.१४८॥
यस्य मन्त्रम् न जानन्ति समागम्य पृथग्जनाः । स कृत्स्नाम् पृथिवीम् भुङ्क्ते कोश-हीनः अपि पार्थिवः ॥ ७।१४८॥
yasya mantram na jānanti samāgamya pṛthagjanāḥ . sa kṛtsnām pṛthivīm bhuṅkte kośa-hīnaḥ api pārthivaḥ .. 7.148..
7.149. At the time of consultation let him cause to be removed idiots, the dumb, the blind, and the deaf, animals, very aged men, women, barbarians, the sick, and those deficient in limbs.
जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् । स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ॥ ७.१४९॥
जड-मूक-अन्ध-बधिरान् तैर्यग्योनान् वयः-अतिगान् । स्त्री-म्लेच्छ-व्याधित-व्यङ्गान् मन्त्र-काले अपसारयेत् ॥ ७।१४९॥
jaḍa-mūka-andha-badhirān tairyagyonān vayaḥ-atigān . strī-mleccha-vyādhita-vyaṅgān mantra-kāle apasārayet .. 7.149..
7.150. (Such) despicable (persons), likewise animals, and particularly women betray secret council; for that reason he must be careful with respect to them.
भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च । स्त्रियश्चैव विशेषेण तस्मात्तत्रादृतो भवेत् ॥ ७.१५०॥
भिन्दन्ति अवमताः मन्त्रम् तैर्यग्योनाः तथा एव च । स्त्रियः च एव विशेषेण तस्मात् तत्र आदृतः भवेत् ॥ ७।१५०॥
bhindanti avamatāḥ mantram tairyagyonāḥ tathā eva ca . striyaḥ ca eva viśeṣeṇa tasmāt tatra ādṛtaḥ bhavet .. 7.150..
7.151. At midday or at midnight, when his mental and bodily fatigues are over, let him deliberate, either with himself alone or with his (ministers), on virtue, pleasure, and wealth,
मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः । चिन्तयेद्धर्मकामार्थान् सार्थं तैरेक एव वा ॥ ७.१५१॥
मध्यंदिने अर्धरात्रे वा विश्रान्तः विगत-क्लमः । चिन्तयेत् धर्म-काम-अर्थान् सार्थम् तैः एकः एव वा ॥ ७।१५१॥
madhyaṃdine ardharātre vā viśrāntaḥ vigata-klamaḥ . cintayet dharma-kāma-arthān sārtham taiḥ ekaḥ eva vā .. 7.151..
7.152. On (reconciling) the attainment of these (aims) which are opposed to each other, on bestowing his daughters in marriage, and on keeping his sons (from harm),
परस्परविरुद्धानां तेषां च समुपार्जनम् । कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ ७.१५२॥
परस्पर-विरुद्धानाम् तेषाम् च समुपार्जनम् । कन्यानाम् सम्प्रदानम् च कुमाराणाम् च रक्षणम् ॥ ७।१५२॥
paraspara-viruddhānām teṣām ca samupārjanam . kanyānām sampradānam ca kumārāṇām ca rakṣaṇam .. 7.152..
7.153. On sending ambassadors, on the completion of undertakings (already begun), on the behaviour of (the women in) his harem, and on the doings of his spies.
दूतसम्प्रेषणं चैव कार्यशेषं तथैव च । अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ ७.१५३॥
दूत-सम्प्रेषणम् च एव कार्य-शेषम् तथा एव च । अन्तःपुर-प्रचारम् च प्रणिधीनाम् च चेष्टितम् ॥ ७।१५३॥
dūta-sampreṣaṇam ca eva kārya-śeṣam tathā eva ca . antaḥpura-pracāram ca praṇidhīnām ca ceṣṭitam .. 7.153..
7.154. On the whole eightfold business and the five classes (of spies), on the goodwill or enmity and the conduct of the circle (of neighbours he must) carefully (reflect).
कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः । अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ ७.१५४॥
कृत्स्नम् च अष्टविधम् कर्म पञ्चवर्गम् च तत्त्वतः । अनुराग-अपरागौ च प्रचारम् मण्डलस्य च ॥ ७।१५४॥
kṛtsnam ca aṣṭavidham karma pañcavargam ca tattvataḥ . anurāga-aparāgau ca pracāram maṇḍalasya ca .. 7.154..
7.155. On the conduct of the middlemost (prince), on the doings of him who seeks conquest, on the behaviour of the neutral (king), and (on that) of the foe (let him) sedulously (meditate).
मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् । उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ ७.१५५॥
मध्यमस्य प्रचारम् च विजिगीषोः च चेष्टितम् । उदासीन-प्रचारम् च शत्रोः च एव प्रयत्नतः ॥ ७।१५५॥
madhyamasya pracāram ca vijigīṣoḥ ca ceṣṭitam . udāsīna-pracāram ca śatroḥ ca eva prayatnataḥ .. 7.155..
7.156. These (four) constituents (prakriti, form), briefly (speaking), the foundation of the circle (of neighbours); besides, eight others are enumerated (in the Institutes of Polity) and (thus) the (total) is declared to be twelve.
एताः प्रकृतयो मूलं मण्डलस्य समासतः । अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ ७.१५६॥
एताः प्रकृतयः मूलम् मण्डलस्य समासतस् । अष्टौ च अन्याः समाख्याताः द्वादशा एव तु ताः स्मृताः ॥ ७।१५६॥
etāḥ prakṛtayaḥ mūlam maṇḍalasya samāsatas . aṣṭau ca anyāḥ samākhyātāḥ dvādaśā eva tu tāḥ smṛtāḥ .. 7.156..
7.157. The minister, the kingdom, the fortress, the treasury, and the army are five other (constituent elements of the circle); for, these are mentioned in connexion with each (of the first twelve; thus the whole circle consists), briefly (speaking, of) seventy-two (constituent parts).
अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः । प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः ॥ ७.१५७॥
अमात्य-राष्ट्र-दुर्ग-अर्थ-दण्ड-आख्याः पञ्च च अपराः । प्रत्येकम् कथिताः हि एताः सङ्क्षेपेण द्विसप्ततिः ॥ ७।१५७॥
amātya-rāṣṭra-durga-artha-daṇḍa-ākhyāḥ pañca ca aparāḥ . pratyekam kathitāḥ hi etāḥ saṅkṣepeṇa dvisaptatiḥ .. 7.157..
7.158. Let (the king) consider as hostile his immediate neighbour and the partisan of (such a) foe, as friendly the immediate neighbour of his foe, and as neutral (the king) beyond those two.
अनन्तरमरिं विद्यादरिसेविनमेव च । अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ ७.१५८॥
अनन्तरम् अरिम् विद्यात् अरि-सेविनम् एव च । अरेः अनन्तरम् मित्रम् उदासीनम् तयोः परम् ॥ ७।१५८॥
anantaram arim vidyāt ari-sevinam eva ca . areḥ anantaram mitram udāsīnam tayoḥ param .. 7.158..
7.159. Let him overcome all of them by means of the (four) expedients, conciliation and the rest, (employed) either singly or conjointly, (or) by bravery and policy (alone).
तान् सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः । व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ ७.१५९॥
तान् सर्वान् अभिसंदध्यात् साम-आदिभिः उपक्रमैः । व्यस्तैः च एव समस्तैः च पौरुषेण नयेन च ॥ ७।१५९॥
tān sarvān abhisaṃdadhyāt sāma-ādibhiḥ upakramaiḥ . vyastaiḥ ca eva samastaiḥ ca pauruṣeṇa nayena ca .. 7.159..
7.160. Let him constantly think of the six measures of royal policy (guna, viz.) alliance, war, marching, halting, dividing the army, and seeking protection.
संधिं च विग्रहं चैव यानमासनमेव च । द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ ७.१६०॥
संधिम् च विग्रहम् च एव यानम् आसनम् एव च । द्वैधीभावम् संश्रयम् च षड्गुणान् चिन्तयेत् सदा ॥ ७।१६०॥
saṃdhim ca vigraham ca eva yānam āsanam eva ca . dvaidhībhāvam saṃśrayam ca ṣaḍguṇān cintayet sadā .. 7.160..
7.161. Having carefully considered the business (in hand), let him resort to sitting quiet or marching, alliance or war, dividing his forces or seeking protection (as the case may require).
आसनं चैव यानं च संधिं विग्रहमेव च । कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ ७.१६१॥
आसनम् च एव यानम् च संधिम् विग्रहम् एव च । कार्यम् वीक्ष्य प्रयुञ्जीत द्वैधम् संश्रयम् एव च ॥ ७।१६१॥
āsanam ca eva yānam ca saṃdhim vigraham eva ca . kāryam vīkṣya prayuñjīta dvaidham saṃśrayam eva ca .. 7.161..
7.162. But the king must know that there are two kinds of alliances and of wars, (likewise two) of both marching and sitting quiet, and two (occasions for) seeking protection.)
संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च । उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ ७.१६२॥
संधिम् तु द्विविधम् विद्यात् राजा विग्रहम् एव च । उभे यान-आसने च एव द्विविधः संश्रयः स्मृतः ॥ ७।१६२॥
saṃdhim tu dvividham vidyāt rājā vigraham eva ca . ubhe yāna-āsane ca eva dvividhaḥ saṃśrayaḥ smṛtaḥ .. 7.162..
7.163. An alliance which yields present and future advantages, one must know to be of two descriptions, (viz.) that when one marches together (with an ally) and the contrary (when the allies act separately).
समानयानकर्मा च विपरीतस्तथैव च । तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः ॥ ७.१६३॥
समान-यान-कर्मा च विपरीतः तथा एव च । तदा तु आयति-संयुक्तः संधिः ज्ञेयः द्वि-लक्षणः ॥ ७।१६३॥
samāna-yāna-karmā ca viparītaḥ tathā eva ca . tadā tu āyati-saṃyuktaḥ saṃdhiḥ jñeyaḥ dvi-lakṣaṇaḥ .. 7.163..
7.164. War is declared to be of two kinds, (viz.) that which is undertaken in season or out of season, by oneself and for one’s own purposes, and (that waged to avenge) an injury done to a friend.
स्वयङ्कृतश्च कार्यार्थमकाले काल एव वा । मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ ७.१६४॥
स्वयङ्कृतः च कार्य-अर्थम् अकाले काले एव वा । मित्रस्य च एव अपकृते द्विविधः विग्रहः स्मृतः ॥ ७।१६४॥
svayaṅkṛtaḥ ca kārya-artham akāle kāle eva vā . mitrasya ca eva apakṛte dvividhaḥ vigrahaḥ smṛtaḥ .. 7.164..
7.165. Marching (to attack) is said to be twofold, (viz. that undertaken) by one alone when an urgent matter has suddenly arisen, and (that undertaken) by one allied with a friend.
एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ ७.१६५॥
एकाकिनः च आत्ययिके कार्ये प्राप्ते यदृच्छया । संहतस्य च मित्रेण द्विविधम् यानम् उच्यते ॥ ७।१६५॥
ekākinaḥ ca ātyayike kārye prāpte yadṛcchayā . saṃhatasya ca mitreṇa dvividham yānam ucyate .. 7.165..
7.166. Sitting quiet is stated to be of two kinds, (viz. that incumbent) on one who has gradually been weakened by fate or in consequence of former acts, and (that) in favour of a friend.
क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा । मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ ७.१६६॥
क्षीणस्य च एव क्रमशस् दैवात् पूर्व-कृतेन वा । मित्रस्य च अनुरोधेन द्विविधम् स्मृतम् आसनम् ॥ ७।१६६॥
kṣīṇasya ca eva kramaśas daivāt pūrva-kṛtena vā . mitrasya ca anurodhena dvividham smṛtam āsanam .. 7.166..
7.167. If the army stops (in one place) and its master (in another) in order to effect some purpose, that is called by those acquainted with the virtues of the measures of royal policy, the twofold division of the forces.
बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये । द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ ७.१६७॥
बलस्य स्वामिनः च एव स्थितिः कार्य-अर्थ-सिद्धये । द्विविधम् कीर्त्यते द्वैधम् षाड्गुण्य-गुण-वेदिभिः ॥ ७।१६७॥
balasya svāminaḥ ca eva sthitiḥ kārya-artha-siddhaye . dvividham kīrtyate dvaidham ṣāḍguṇya-guṇa-vedibhiḥ .. 7.167..
7.168. Seeking refuge is declared to be of two kinds, (first) for the purpose of attaining an advantage when one is harassed by enemies, (secondly) in order to become known among the virtuous (as the protege of a powerful king).
अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः ॥ ७.१६८॥
अर्थ-सम्पादन-अर्थम् च पीड्यमानस्य शत्रुभिः । साधुषु व्यपदेशः च द्विविधः संश्रयः स्मृतः ॥ ७।१६८॥
artha-sampādana-artham ca pīḍyamānasya śatrubhiḥ . sādhuṣu vyapadeśaḥ ca dvividhaḥ saṃśrayaḥ smṛtaḥ .. 7.168..
7.169. When (the king) knows (that) at some future time his superiority (is) certain, and (that) at the time present (he will suffer) little injury, then let him have recourse to peaceful measures.
यदाऽवगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः । तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ ७.१६९॥
यदा अवगच्छेत् आयत्याम् आधिक्यम् ध्रुवम् आत्मनः । तदात्वे च अल्पिकाम् पीडाम् तदा संधिम् समाश्रयेत् ॥ ७।१६९॥
yadā avagacchet āyatyām ādhikyam dhruvam ātmanaḥ . tadātve ca alpikām pīḍām tadā saṃdhim samāśrayet .. 7.169..
7.170. But when he thinks all his subjects to be exceedingly contented, and (that he) himself (is) most exalted (in power), then let him make war.
यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् । अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ ७.१७०॥
यदा प्रहृष्टाः मन्येत सर्वाः तु प्रकृतीः भृशम् । अति उच्छ्रितम् तथा आत्मानम् तदा कुर्वीत विग्रहम् ॥ ७।१७०॥
yadā prahṛṣṭāḥ manyeta sarvāḥ tu prakṛtīḥ bhṛśam . ati ucchritam tathā ātmānam tadā kurvīta vigraham .. 7.170..
7.171. When he knows his own army to be cheerful in disposition and strong, and (that) of his enemy the reverse, then let him march against his foe.
यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् । परस्य विपरीतं च तदा यायाद्रिपुं प्रति ॥ ७.१७१॥
यदा मन्येत भावेन हृष्टम् पुष्टम् बलम् स्वकम् । परस्य विपरीतम् च तदा यायात् रिपुम् प्रति ॥ ७।१७१॥
yadā manyeta bhāvena hṛṣṭam puṣṭam balam svakam . parasya viparītam ca tadā yāyāt ripum prati .. 7.171..
7.172. But if he is very weak in chariots and beasts of burden and in troops, then let him carefully sit quiet, gradually conciliating his foes.
यदा तु स्यात्परिक्षीणो वाहनेन बलेन च । तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥ ७.१७२॥
यदा तु स्यात् परिक्षीणः वाहनेन बलेन च । तत् आसीत प्रयत्नेन शनकैस् सान्त्वयन् अरीन् ॥ ७।१७२॥
yadā tu syāt parikṣīṇaḥ vāhanena balena ca . tat āsīta prayatnena śanakais sāntvayan arīn .. 7.172..
7.173. When the king knows the enemy to be stronger in every respect, then let him divide his army and thus achieve his purpose.
मन्येतारिं यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥ ७.१७३॥
मन्येत अरिम् यदा राजा सर्वथा बलवत्तरम् । तदा द्विधा बलम् कृत्वा साधयेत् कार्यम् आत्मनः ॥ ७।१७३॥
manyeta arim yadā rājā sarvathā balavattaram . tadā dvidhā balam kṛtvā sādhayet kāryam ātmanaḥ .. 7.173..
7.174. But when he is very easily assailable by the forces of the enemy, then let him quickly seek refuge with a righteous, powerful king.
यदा परबलानां तु गमनीयतमो भवेत् । तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥ ७.१७४॥
यदा पर-बलानाम् तु गमनीयतमः भवेत् । तदा तु संश्रयेत् क्षिप्रम् धार्मिकम् बलिनम् नृपम् ॥ ७।१७४॥
yadā para-balānām tu gamanīyatamaḥ bhavet . tadā tu saṃśrayet kṣipram dhārmikam balinam nṛpam .. 7.174..
7.175. That (prince) who will coerce both his (disloyal) subjects and the army of the foe, let him ever serve with every effort like a Guru.
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च । उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ ७.१७५॥
निग्रहम् प्रकृतीनाम् च कुर्यात् यः अरि-बलस्य च । उपसेवेत तम् नित्यम् सर्व-यत्नैः गुरुम् यथा ॥ ७।१७५॥
nigraham prakṛtīnām ca kuryāt yaḥ ari-balasya ca . upaseveta tam nityam sarva-yatnaiḥ gurum yathā .. 7.175..
7.176. When, even in that (condition), he sees (that) evil is caused by (such) protection, let him without hesitation have recourse to war.
यदि तत्रापि सम्पश्येद्दोषं संश्रयकारितम् । सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ ७.१७६॥
यदि तत्र अपि सम्पश्येत् दोषम् संश्रय-कारितम् । सु युद्धम् एव तत्र अपि निर्विशङ्कः समाचरेत् ॥ ७।१७६॥
yadi tatra api sampaśyet doṣam saṃśraya-kāritam . su yuddham eva tatra api nirviśaṅkaḥ samācaret .. 7.176..
7.177. By all (the four) expedients a politic prince must arrange (matters so) that neither friends, nor neutrals, nor foes are superior to himself.
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः । यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ ७.१७७॥
सर्व-उपायैः तथा कुर्यात् नीति-ज्ञः पृथिवीपतिः । यथा अस्य अभ्यधिकाः न स्युः मित्र-उदासीन-शत्रवः ॥ ७।१७७॥
sarva-upāyaiḥ tathā kuryāt nīti-jñaḥ pṛthivīpatiḥ . yathā asya abhyadhikāḥ na syuḥ mitra-udāsīna-śatravaḥ .. 7.177..
7.178. Let him fully consider the future and the immediate results of all undertakings, and the good and bad sides of all past (actions).
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् । अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ ७.१७८॥
आयतिम् सर्व-कार्याणाम् तदात्वम् च विचारयेत् । अतीतानाम् च सर्वेषाम् गुण-दोषौ च तत्त्वतः ॥ ७।१७८॥
āyatim sarva-kāryāṇām tadātvam ca vicārayet . atītānām ca sarveṣām guṇa-doṣau ca tattvataḥ .. 7.178..
7.179. He who knows the good and the evil (which will result from his acts) in the future, is quick in forming resolutions for the present, and understands the consequences of past (actions), will not be conquered.
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः । अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ ७.१७९॥
आयत्याम् गुण-दोष-ज्ञः तदात्वे क्षिप्र-निश्चयः । अतीते कार्य-शेष-ज्ञः शत्रुभिः न अभिभूयते ॥ ७।१७९॥
āyatyām guṇa-doṣa-jñaḥ tadātve kṣipra-niścayaḥ . atīte kārya-śeṣa-jñaḥ śatrubhiḥ na abhibhūyate .. 7.179..
7.180. Let him arrange everything in such a manner that no ally, no neutral or foe may injure him; that is the sum of political wisdom.
यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः । तथा सर्वं संविदध्यादेष सामासिको नयः ॥ ७.१८०॥
यथा एनम् न अभिसंदध्युः मित्र-उदासीन-शत्रवः । तथा सर्वम् संविदध्यात् एष सामासिकः नयः ॥ ७।१८०॥
yathā enam na abhisaṃdadhyuḥ mitra-udāsīna-śatravaḥ . tathā sarvam saṃvidadhyāt eṣa sāmāsikaḥ nayaḥ .. 7.180..
7.181. But if the king undertakes an expedition against a hostile kingdom, then let him gradually advance, in the following manner, against his foe’s capital.
तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः । तदानेन विधानेन यायादरिपुरं शनैः ॥ ७.१८१॥
तदा तु यानम् आतिष्ठेत् अरि-राष्ट्रम् प्रति प्रभुः । तदा अनेन विधानेन यायात् अरि-पुरम् शनैस् ॥ ७।१८१॥
tadā tu yānam ātiṣṭhet ari-rāṣṭram prati prabhuḥ . tadā anena vidhānena yāyāt ari-puram śanais .. 7.181..
7.182. Let the king undertake his march in the fine month Margasirsha, or towards the months of Phalguna and Kaitra, according to the (condition of his) army.
मार्गशीर्षे शुभे मासि यायाद्यात्रां महीपतिः । फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ ७.१८२॥
मार्गशीर्षे शुभे मासि यायात् यात्राम् महीपतिः । फाल्गुनम् वा अथ चैत्रम् वा मासौ प्रति यथाबलम् ॥ ७।१८२॥
mārgaśīrṣe śubhe māsi yāyāt yātrām mahīpatiḥ . phālgunam vā atha caitram vā māsau prati yathābalam .. 7.182..
7.183. Even at other times, when he has a certain prospect of victory, or when a disaster has befallen his foe, he may advance to attack him.
अन्येष्वपि तु कालेषु यदा पश्येद्ध्रुवं जयम् । तदा यायाद्विगृह्यैव व्यसने चोत्थिते रिपोः ॥ ७.१८३॥
अन्येषु अपि तु कालेषु यदा पश्येत् ध्रुवम् जयम् । तदा यायात् विगृह्य एव व्यसने च उत्थिते रिपोः ॥ ७।१८३॥
anyeṣu api tu kāleṣu yadā paśyet dhruvam jayam . tadā yāyāt vigṛhya eva vyasane ca utthite ripoḥ .. 7.183..
7.184. But having duly arranged (all affairs) in his original (kingdom) and what relates to the expedition, having secured a basis (for his operations) and having duly dispatched his spies
कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च ॥ ७.१८४॥
कृत्वा विधानम् मूले तु यात्रिकम् च यथाविधि । उपगृह्य आस्पदम् च एव चारान् सम्यक् विधाय च ॥ ७।१८४॥
kṛtvā vidhānam mūle tu yātrikam ca yathāvidhi . upagṛhya āspadam ca eva cārān samyak vidhāya ca .. 7.184..
7.185. Having cleared the three kinds of roads, and (having made) his sixfold army (efficient), let him leisurely proceed in the manner prescribed for warfare against the enemy’s capital.
संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् । साम्परायिककल्पेन यायादरिपुरं प्रति ॥ ७.१८५॥
संशोध्य त्रिविधम् मार्गम् षड्विधम् च बलम् स्वकम् । साम्परायिक-कल्पेन यायात् अरि-पुरम् प्रति ॥ ७।१८५॥
saṃśodhya trividham mārgam ṣaḍvidham ca balam svakam . sāmparāyika-kalpena yāyāt ari-puram prati .. 7.185..
7.186. Let him be very much on his guard against a friend who secretly serves the enemy and against (deserters) who return (from the enemy’s camp); for such (men are) the most dangerous foes.
शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ ७.१८६॥
शत्रु-सेविनि मित्रे च गूढे युक्ततरः भवेत् । गत-प्रत्यागते च एव स हि कष्टतरः रिपुः ॥ ७।१८६॥
śatru-sevini mitre ca gūḍhe yuktataraḥ bhavet . gata-pratyāgate ca eva sa hi kaṣṭataraḥ ripuḥ .. 7.186..
7.187. Let him march on his road, arraying (his troops) like a staff (i.e. in an oblong), or like a waggon (i.e. in a wedge), or like a boar (i.e. in a rhombus), or like a Makara (i.e. in two triangles, with the apices joined), or like a pin (i.e. in a long line), or like a Garuda (i.e. in a rhomboid with far-extended wings).
दण्डव्यूहेन तन् मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ ७.१८७॥
दण्ड-व्यूहेन तत् मार्गम् यायात् तु शकटेन वा । वराह-मकराभ्याम् वा सूच्या वा गरुडेन वा ॥ ७।१८७॥
daṇḍa-vyūhena tat mārgam yāyāt tu śakaṭena vā . varāha-makarābhyām vā sūcyā vā garuḍena vā .. 7.187..
7.188. From whatever (side) he apprehends danger, in that (direction) let him extend his troops, and let him always himself encamp in an array, shaped like a lotus.
यतश्च भयमाशङ्केत्ततो विस्तारयेद्बलम् । पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ ७.१८८॥
यतस् च भयम् आशङ्केत् ततस् विस्तारयेत् बलम् । पद्मेन च एव व्यूहेन निविशेत सदा स्वयम् ॥ ७।१८८॥
yatas ca bhayam āśaṅket tatas vistārayet balam . padmena ca eva vyūhena niviśeta sadā svayam .. 7.188..
7.189. Let him allot to the commander-in-chief, to the (subordinate) general, (and to the superior officers) places in all directions, and let him turn his front in that direction whence he fears danger.
सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । यतश्च भयमाशङ्केत्प्राचीं तां कल्पयेद्दिशम् ॥ ७.१८९॥
सेनापति-बलाध्यक्षौ सर्व-दिक्षु निवेशयेत् । यतस् च भयम् आशङ्केत् प्राचीम् ताम् कल्पयेत् दिशम् ॥ ७।१८९॥
senāpati-balādhyakṣau sarva-dikṣu niveśayet . yatas ca bhayam āśaṅket prācīm tām kalpayet diśam .. 7.189..
7.190. On all sides let him place troops of soldiers, on whom he can rely, with whom signals have been arranged, who are expert both in sustaining a charge and in charging, fearless and loyal.
गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः । स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ ७.१९०॥
गुल्मान् च स्थापयेत् आप्तान् कृत-संज्ञान् समन्ततः । स्थाने युद्धे च कुशलान् अभीरून् अविकारिणः ॥ ७।१९०॥
gulmān ca sthāpayet āptān kṛta-saṃjñān samantataḥ . sthāne yuddhe ca kuśalān abhīrūn avikāriṇaḥ .. 7.190..
7.191. Let him make a small number of soldiers fight in close order, at his pleasure let him extend a large number in loose ranks; or let him make them fight, arranging (a small number) in the needle-array, (and a large number) in the thunderbolt-array.
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ ७.१९१॥
संहतान् योधयेत् अल्पान् कामम् विस्तारयेत् बहून् । सूच्या वज्रेण च एव एतान् व्यूहेन व्यूह्य योधयेत् ॥ ७।१९१॥
saṃhatān yodhayet alpān kāmam vistārayet bahūn . sūcyā vajreṇa ca eva etān vyūhena vyūhya yodhayet .. 7.191..
7.192. On even ground let him fight with chariots and horses, in water-bound places with boats and elephants, on (ground) covered with trees and shrubs with bows, on hilly ground with swords, targets, (and other) weapons.
स्यन्दनाश्वैः समे युध्येदनूपेनोद्विपैस्तथा । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ ७.१९२॥
स्यन्दन-अश्वैः समे युध्येत् अनूपेन उद्विपैः तथा । वृक्ष-गुल्म-आवृते चापैः असि-चर्म-आयुधैः स्थले ॥ ७।१९२॥
syandana-aśvaiḥ same yudhyet anūpena udvipaiḥ tathā . vṛkṣa-gulma-āvṛte cāpaiḥ asi-carma-āyudhaiḥ sthale .. 7.192..
7.193. (Men born in) Kurukshetra, Matsyas, Pankalas, and those born in Surasena, let him cause to fight in the van of the battle, as well as (others who are) tall and light.
कौरक्षेत्रांश्च मत्स्यांश्च पञ्चालांशूरसेनजान् । दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ ७.१९३॥
कौरक्षेत्रान् च मत्स्यान् च पञ्चालान् शूरसेन-जान् । दीर्घान् लघून् च एव नरान् अग्र-अनीकेषु योजयेत् ॥ ७।१९३॥
kaurakṣetrān ca matsyān ca pañcālān śūrasena-jān . dīrghān laghūn ca eva narān agra-anīkeṣu yojayet .. 7.193..
7.194. After arranging his troops, he should encourage them (by an address) and carefully inspect them; he should also mark the behaviour (of the soldiers) when they engage the enemy.
प्रहर्षयेद्बलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥ ७.१९४॥
प्रहर्षयेत् बलम् व्यूह्य तान् च सम्यक् परीक्षयेत् । चेष्टाः च एव विजानीयात् अरीन् योधयताम् अपि ॥ ७।१९४॥
praharṣayet balam vyūhya tān ca samyak parīkṣayet . ceṣṭāḥ ca eva vijānīyāt arīn yodhayatām api .. 7.194..
7.195. When he has shut up his foe (in a town), let him sit encamped, harass his kingdom, and continually spoil his grass, food, fuel, and water.
उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकैन्धनम् ॥ ७.१९५॥
उपरुध्य अरिम् आसीत राष्ट्रम् च अस्य उपपीडयेत् । दूषयेत् च अस्य सततम् यवस-अन्न-उदक-एन्धनम् ॥ ७।१९५॥
uparudhya arim āsīta rāṣṭram ca asya upapīḍayet . dūṣayet ca asya satatam yavasa-anna-udaka-endhanam .. 7.195..
7.196. Likewise let him destroy the tanks, ramparts, and ditches, and let him assail the (foe unawares) and alarm him at night.
भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा । समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ ७.१९६॥
भिन्द्यात् च एव तडागानि प्राकार-परिखाः तथा । समवस्कन्दयेत् च एनम् रात्रौ वित्रासयेत् तथा ॥ ७।१९६॥
bhindyāt ca eva taḍāgāni prākāra-parikhāḥ tathā . samavaskandayet ca enam rātrau vitrāsayet tathā .. 7.196..
7.197. Let him instigate to rebellion those who are open to such instigations, let him be informed of his (foe’s) doings, and, when fate is propitious, let him fight without fear, trying to conquer.
उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ ७.१९७॥
उपजप्य अन् उपजपेत् बुध्येत एव च तत् कृतम् । युक्ते च दैवे युध्येत जय-प्रेप्सुः अपेत-भीः ॥ ७।१९७॥
upajapya an upajapet budhyeta eva ca tat kṛtam . yukte ca daive yudhyeta jaya-prepsuḥ apeta-bhīḥ .. 7.197..
7.198. He should (however) try to conquer his foes by conciliation, by (well-applied) gifts, and by creating dissension, used either separately or conjointly, never by fighting, (if it can be avoided.)
साम्ना दानेन भेदेन समस्तैरथ वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ॥ ७.१९८॥
साम्ना दानेन भेदेन समस्तैः अथ वा पृथक् । विजेतुम् प्रयतेत अरीन् न युद्धेन कदा चन ॥ ७।१९८॥
sāmnā dānena bhedena samastaiḥ atha vā pṛthak . vijetum prayateta arīn na yuddhena kadā cana .. 7.198..
7.199. For when two (princes) fight, victory and defeat in the battle are, as experience teaches, uncertain; let him therefore avoid an engagement.
अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥ ७.१९९॥
अनित्यः विजयः यस्मात् दृश्यते युध्यमानयोः । पराजयः च सङ्ग्रामे तस्मात् युद्धम् विवर्जयेत् ॥ ७।१९९॥
anityaḥ vijayaḥ yasmāt dṛśyate yudhyamānayoḥ . parājayaḥ ca saṅgrāme tasmāt yuddham vivarjayet .. 7.199..
7.200. (But) if even those three before-mentioned expedients fail, then let him, duly exerting himself, fight in such a manner that he may completely conquer his enemies.
त्रयाणामप्युपायानां पूर्वोक्तानामसम्भवे । तथा युध्येत सम्पन्नो विजयेत रिपून् यथा ॥ ७.२००॥
त्रयाणाम् अपि उपायानाम् पूर्व-उक्तानाम् असम्भवे । तथा युध्येत सम्पन्नः विजयेत रिपून् यथा ॥ ७।२००॥
trayāṇām api upāyānām pūrva-uktānām asambhave . tathā yudhyeta sampannaḥ vijayeta ripūn yathā .. 7.200..
7.201. When he has gained victory, let him duly worship the gods and honour righteous Brahmanas, let him grant exemptions, and let him cause promises of safety to be proclaimed.
जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यात्परिहारार्थं ख्यापयेदभयानि च ॥ ७.२०१॥
जित्वा सम्पूजयेत् देवान् ब्राह्मणान् च एव धार्मिकान् । प्रदद्यात् परिहार-अर्थम् ख्यापयेत् अभयानि च ॥ ७।२०१॥
jitvā sampūjayet devān brāhmaṇān ca eva dhārmikān . pradadyāt parihāra-artham khyāpayet abhayāni ca .. 7.201..
7.202. But having fully ascertained the wishes of all the (conquered), let him place there a relative of the (vanquished ruler on the throne), and let him impose his conditions.
सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ ७.२०२॥
सर्वेषाम् तु विदित्वा एषाम् समासेन चिकीर्षितम् । स्थापयेत् तत्र तद्-वंश्यम् कुर्यात् च समय-क्रियाम् ॥ ७।२०२॥
sarveṣām tu viditvā eṣām samāsena cikīrṣitam . sthāpayet tatra tad-vaṃśyam kuryāt ca samaya-kriyām .. 7.202..
7.203. Let him make authoritative the lawful (customs) of the (inhabitants), just as they are stated (to be), and let him honour the (new king) and his chief servants with precious gifts.
प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ ७.२०३॥
प्रमाणानि च कुर्वीत तेषाम् धर्मान् यथा उदितान् । रत्नैः च पूजयेत् एनम् प्रधान-पुरुषैः सह ॥ ७।२०३॥
pramāṇāni ca kurvīta teṣām dharmān yathā uditān . ratnaiḥ ca pūjayet enam pradhāna-puruṣaiḥ saha .. 7.203..
7.204. The seizure of desirable property which causes displeasure, and its distribution which causes pleasure, are both recommendable, (if they are) resorted to at the proper time.
आदानमप्रियकरं दानं च प्रियकारकम् । अभीप्सितानामर्थानां कालयुक्तं प्रशस्यते ॥ ७.२०४॥
आदानम् अप्रिय-करम् दानम् च प्रिय-कारकम् । अभीप्सितानाम् अर्थानाम् काल-युक्तम् प्रशस्यते ॥ ७।२०४॥
ādānam apriya-karam dānam ca priya-kārakam . abhīpsitānām arthānām kāla-yuktam praśasyate .. 7.204..
7.205. All undertakings (in) this (world) depend both on the ordering of fate and on human exertion; but among these two (the ways of) fate are unfathomable; in the case of man’s work action is possible.
सर्वं कर्मैदमायत्तं विधाने दैवमानुषे । तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ ७.२०५॥
सर्वम् कर्म एदम् आयत्तम् विधाने दैव-मानुषे । तयोः दैवम् अचिन्त्यम् तु मानुषे विद्यते क्रिया ॥ ७।२०५॥
sarvam karma edam āyattam vidhāne daiva-mānuṣe . tayoḥ daivam acintyam tu mānuṣe vidyate kriyā .. 7.205..
7.206. Or (the king, bent on conquest), considering a friend, gold, and land (to be) the triple result (of an expedition), may, using diligent care, make peace with (his foe) and return (to his realm).
पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाक्रन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ ७.२०७॥
पार्ष्णिग्राहम् च सम्प्रेक्ष्य तथा आक्रन्दम् च मण्डले । मित्रात् अथ अपि अमित्रात् वा यात्रा-फलम् अवाप्नुयात् ॥ ७।२०७॥
pārṣṇigrāham ca samprekṣya tathā ākrandam ca maṇḍale . mitrāt atha api amitrāt vā yātrā-phalam avāpnuyāt .. 7.207..
7.207. Having paid due attention to any king in the circle (of neighbouring states) who might attack him in the rear, and to his supporter who opposes the latter, let (the conqueror) secure the fruit of the expedition from (the prince whom he attacks), whether (he may have become) friendly or (remained) hostile.
हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते । यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ ७.२०८॥
हिरण्य-भूमि-सम्प्राप्त्या पार्थिवः न तथा एधते । यथा मित्रम् ध्रुवम् लब्ध्वा कृशम् अपि आयति-क्षमम् ॥ ७।२०८॥
hiraṇya-bhūmi-samprāptyā pārthivaḥ na tathā edhate . yathā mitram dhruvam labdhvā kṛśam api āyati-kṣamam .. 7.208..
7.208. By gaining gold and land a king grows not so much in strength as by obtaining a firm friend, (who), though weak, (may become) powerful in the future.
धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च । अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ ७.२०९॥
धर्म-ज्ञम् च कृतज्ञम् च तुष्ट-प्रकृतिम् एव च । अनुरक्तम् स्थिर-आरम्भम् लघु-मित्रम् प्रशस्यते ॥ ७।२०९॥
dharma-jñam ca kṛtajñam ca tuṣṭa-prakṛtim eva ca . anuraktam sthira-ārambham laghu-mitram praśasyate .. 7.209..
7.209. A weak friend (even) is greatly commended, who is righteous (and) grateful, whose people are contented, who is attached and persevering in his undertakings.
प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च । कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ॥ ७.२१०॥
प्राज्ञम् कुलीनम् शूरम् च दक्षम् दातारम् एव च । कृतज्ञम् धृतिमन्तम् च कष्टम् आहुः अरिम् बुधाः ॥ ७।२१०॥
prājñam kulīnam śūram ca dakṣam dātāram eva ca . kṛtajñam dhṛtimantam ca kaṣṭam āhuḥ arim budhāḥ .. 7.210..
7.210. The wise declare him (to be) a most dangerous foe, who is wise, of noble race, brave, clever, liberal, grateful, and firm.
आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता । स्थौललक्ष्यं च सततमुदासीनगुणौदयः ॥ ७.२११॥
आर्य-ता पुरुष-ज्ञानम् शौर्यम् करुण-वेदि-ता । स्थौललक्ष्यम् च सततम् उदासीन-गुण-ओदयः ॥ ७।२११॥
ārya-tā puruṣa-jñānam śauryam karuṇa-vedi-tā . sthaulalakṣyam ca satatam udāsīna-guṇa-odayaḥ .. 7.211..
7.211. Behaviour worthy of an Aryan, knowledge of men, bravery, a compassionate disposition, and great liberality are the virtues of a neutral (who may be courted).
क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ ७.२१२॥
क्षेम्याम् सस्य-प्रदाम् नित्यम् पशु-वृद्धि-करीम् अपि । परित्यजेत् नृपः भूमिम् आत्म-अर्थम् अविचारयन् ॥ ७।२१२॥
kṣemyām sasya-pradām nityam paśu-vṛddhi-karīm api . parityajet nṛpaḥ bhūmim ātma-artham avicārayan .. 7.212..
7.212. Let the king, without hesitation, quit for his own sake even a country (which is) salubrious, fertile, and causing an increase of cattle.
आपदर्थं धनं रक्षेद्दारान् रक्षेद्धनैरपि । आपदर्थेआत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥ ७.२१३॥
आपद्-अर्थम् धनम् रक्षेत् दारान् रक्षेत् धनैः अपि । आपद्-अर्थे आत्मानम् सततम् रक्षेत् दारैः अपि धनैः अपि ॥ ७।२१३॥
āpad-artham dhanam rakṣet dārān rakṣet dhanaiḥ api . āpad-arthe ātmānam satatam rakṣet dāraiḥ api dhanaiḥ api .. 7.213..
7.213. For times of need let him preserve his wealth; at the expense of his wealth let him preserve his wife; let him at all events preserve himself even by (giving up) his wife and his wealth.
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् । संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद्बुधः ॥ ७.२१४॥
सह सर्वाः समुत्पन्नाः प्रसमीक्ष्य आपदः भृशम् । संयुक्तान् च वियुक्तान् च सर्व-उपायान् सृजेत् बुधः ॥ ७।२१४॥
saha sarvāḥ samutpannāḥ prasamīkṣya āpadaḥ bhṛśam . saṃyuktān ca viyuktān ca sarva-upāyān sṛjet budhaḥ .. 7.214..
7.214. A wise (king), seeing that all kinds of misfortunes violently assail him at the same time, should try all (the four) expedients, be it together or separately, (in order to save himself.)
उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः । एतत्त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ ७.२१५॥
उपेतारम् उपेयम् च सर्व-उपायान् च कृत्स्नशस् । एतत् त्रयम् समाश्रित्य प्रयतेत अर्थ-सिद्धये ॥ ७।२१५॥
upetāram upeyam ca sarva-upāyān ca kṛtsnaśas . etat trayam samāśritya prayateta artha-siddhaye .. 7.215..
7.215. On the person who employs the expedients, on the business to be accomplished, and on all the expedients collectively, on these three let him ponder and strive to accomplish his ends.
एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः । व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ ७.२१६॥
एवम् सर्वम् इदम् राजा सह सम्मन्त्र्य मन्त्रिभिः । व्यायम्य आप्लुत्य मध्याह्ने भोक्तुम् अन्तःपुरम् विशेत् ॥ ७।२१६॥
evam sarvam idam rājā saha sammantrya mantribhiḥ . vyāyamya āplutya madhyāhne bhoktum antaḥpuram viśet .. 7.216..
7.216. Having thus consulted with his ministers on all these (matters), having taken exercise, and having bathed afterwards, the king may enter the harem at midday in order to dine.
तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान् मन्त्रैर्विषापहैः ॥ ७.२१७॥
तत्र आत्मभूतैः काल-ज्ञैः अहार्यैः परिचारकैः । सु परीक्षितम् अन्नाद्य-मद्यात् मन्त्रैः विष-अपहैः ॥ ७।२१७॥
tatra ātmabhūtaiḥ kāla-jñaiḥ ahāryaiḥ paricārakaiḥ . su parīkṣitam annādya-madyāt mantraiḥ viṣa-apahaiḥ .. 7.217..
7.217. There he may eat food, (which has been prepared) by faithful, incorruptible (servants) who know the (proper) time (for dining), which has been well examined (and hallowed) by sacred texts that destroy poison.
विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ ७.२१८॥
विष-घ्नैः अगदैः च अस्य सर्व-द्रव्याणि योजयेत् । विष-घ्नानि च रत्नानि नियतः धारयेत् सदा ॥ ७।२१८॥
viṣa-ghnaiḥ agadaiḥ ca asya sarva-dravyāṇi yojayet . viṣa-ghnāni ca ratnāni niyataḥ dhārayet sadā .. 7.218..
7.218. Let him mix all his food with medicines (that are) antidotes against poison, and let him always be careful to wear gems which destroy poison.
परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः । वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ ७.२१९॥
परीक्षिताः स्त्रियः च एनम् व्यजन-उदक-धूपनैः । वेष-आभरण-संशुद्धाः स्पृशेयुः सु समाहिताः ॥ ७।२१९॥
parīkṣitāḥ striyaḥ ca enam vyajana-udaka-dhūpanaiḥ . veṣa-ābharaṇa-saṃśuddhāḥ spṛśeyuḥ su samāhitāḥ .. 7.219..
7.219. Well-tried females whose toilet and ornaments have been examined, shall attentively serve him with fans, water, and perfumes.
एवं प्रयत्नं कुर्वीत यानशय्याऽऽसनाशने । स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ ७.२२०॥
एवम् प्रयत्नम् कुर्वीत यान-शय्या-आसन-अशने । स्नाने प्रसाधने च एव सर्व-अलङ्कारकेषु च ॥ ७।२२०॥
evam prayatnam kurvīta yāna-śayyā-āsana-aśane . snāne prasādhane ca eva sarva-alaṅkārakeṣu ca .. 7.220..
7.220. In like manner let him be careful about his carriages, bed, seat, bath, toilet, and all his ornaments.
भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ ७.२२१॥
भुक्तवान् विहरेत् च एव स्त्रीभिः अन्तःपुरे सह । विहृत्य तु यथाकालम् पुनर् कार्याणि चिन्तयेत् ॥ ७।२२१॥
bhuktavān viharet ca eva strībhiḥ antaḥpure saha . vihṛtya tu yathākālam punar kāryāṇi cintayet .. 7.221..
7.221. When he has dined, he may divert himself with his wives in the harem; but when he has diverted himself, he must, in due time, again think of the affairs of state.
अलङ्कृतश्च सम्पश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ ७.२२२॥
अलङ्कृतः च सम्पश्येत् आयुधीयम् पुनर् जनम् । वाहनानि च सर्वाणि शस्त्राणि आभरणानि च ॥ ७।२२२॥
alaṅkṛtaḥ ca sampaśyet āyudhīyam punar janam . vāhanāni ca sarvāṇi śastrāṇi ābharaṇāni ca .. 7.222..
7.222. Adorned (with his robes of state), let him again inspect his fighting men, all his chariots and beasts of burden, the weapons and accoutrements.
संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ ७.२२३॥
संध्याम् च उपास्य शृणुयात् अन्तर्वेश्मनि शस्त्रभृत् । रहस्य-आख्यायिनाम् च एव प्रणिधीनाम् च चेष्टितम् ॥ ७।२२३॥
saṃdhyām ca upāsya śṛṇuyāt antarveśmani śastrabhṛt . rahasya-ākhyāyinām ca eva praṇidhīnām ca ceṣṭitam .. 7.223..
7.223. Having performed his twilight-devotions, let him, well armed, hear in an inner apartment the doings of those who make secret reports and of his spies.
गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥ ७.२२४॥
गत्वा कक्षान्तरम् तु अन्यत् समनुज्ञाप्य तम् जनम् । प्रविशेत् भोजन-अर्थम् च स्त्री-वृतः अन्तःपुरम् पुनर् ॥ ७।२२४॥
gatvā kakṣāntaram tu anyat samanujñāpya tam janam . praviśet bhojana-artham ca strī-vṛtaḥ antaḥpuram punar .. 7.224..
7.224. But going to another secret apartment and dismissing those people, he may enter the harem, surrounded by female (servants), in order to dine again.
तत्र भुक्त्वा पुनः किं चित्तूर्यघोषैः प्रहर्षितः । संविशेत्तं यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ ७.२५५॥
तत्र भुक्त्वा पुनर् किम् चित् तूर्य-घोषैः प्रहर्षितः । संविशेत् तम् यथाकालम् उत्तिष्ठेत् च गत-क्लमः ॥ ७।२५५॥
tatra bhuktvā punar kim cit tūrya-ghoṣaiḥ praharṣitaḥ . saṃviśet tam yathākālam uttiṣṭhet ca gata-klamaḥ .. 7.255..
7.225. Having eaten there something for the second time, and having been recreated by the sound of music, let him go to rest and rise at the proper time free from fatigue.
एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः । अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ ७.२२६॥
एतत् विधानम् आतिष्ठेत् अरोगः पृथिवीपतिः । अस्वस्थः सर्वम् एतत् तु भृत्येषु विनियोजयेत् ॥ ७।२२६॥
etat vidhānam ātiṣṭhet arogaḥ pṛthivīpatiḥ . asvasthaḥ sarvam etat tu bhṛtyeṣu viniyojayet .. 7.226..
7.226. A king who is in good health must observe these rules; but, if he is indisposed, he may entrust all this (business) to his servants.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In