| |
|

This overlay will guide you through the buttons:

व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ ८.१॥
व्यवहारान् दिदृक्षुः तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैः मन्त्रिभिः च एव विनीतः प्रविशेत् सभाम् ॥ ८।१॥
vyavahārān didṛkṣuḥ tu brāhmaṇaiḥ saha pārthivaḥ . mantrajñaiḥ mantribhiḥ ca eva vinītaḥ praviśet sabhām .. 8.1..
8.1. A king, desirous of investigating law cases, must enter his court of justice, preserving a dignified demeanour, together with Brahmanas and with experienced councillors.
तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् ॥ ८.२॥
तत्र आसीनः स्थितः वा अपि पाणिम् उद्यम्य दक्षिणम् । विनीत-वेष-आभरणः पश्येत् कार्याणि कार्यिणाम् ॥ ८।२॥
tatra āsīnaḥ sthitaḥ vā api pāṇim udyamya dakṣiṇam . vinīta-veṣa-ābharaṇaḥ paśyet kāryāṇi kāryiṇām .. 8.2..
8.2. There, either seated or standing, raising his right arm, without ostentation in his dress and ornaments, let him examine the business of suitors,
प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् ॥ ८.३॥
प्रत्यहम् देश-दृष्टैः च शास्त्र-दृष्टैः च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ ८।३॥
pratyaham deśa-dṛṣṭaiḥ ca śāstra-dṛṣṭaiḥ ca hetubhiḥ . aṣṭādaśasu mārgeṣu nibaddhāni pṛthak pṛthak .. 8.3..
8.3. Daily (deciding) one after another (all cases) which fall under the eighteen titles (of the law) according to principles drawn from local usages. and from the Institutes of the sacred law.
तेषामाद्यं ऋणादानं निक्षेपोऽस्वामिविक्रयः । सम्भूय च समुत्थानं दत्तस्यानपकर्म च ॥ ८.४॥
तेषाम् आद्यम् ऋण-अदानम् निक्षेपः अस्वामि-विक्रयः । सम्भूय च समुत्थानम् दत्तस्य अनपकर्म च ॥ ८।४॥
teṣām ādyam ṛṇa-adānam nikṣepaḥ asvāmi-vikrayaḥ . sambhūya ca samutthānam dattasya anapakarma ca .. 8.4..
8.4. Of those (titles) the first is the non-payment of debts, (then follow), (2) deposit and pledge, (3) sale without ownership, (4) concerns among partners, and (5) resumption of gifts,
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ ८.५॥
वेतनस्य एव च अदानम् संविदः च व्यतिक्रमः । क्रय-विक्रय-अनुशयः विवादः स्वामि-पालयोः ॥ ८।५॥
vetanasya eva ca adānam saṃvidaḥ ca vyatikramaḥ . kraya-vikraya-anuśayaḥ vivādaḥ svāmi-pālayoḥ .. 8.5..
8.5. (6) Non-payment of wages, (7) non-performance of agreements, (8) rescission of sale and purchase, (9) disputes between the owner (of cattle) and his servants,
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च ॥ ८.६॥
सीमा-विवाद-धर्मः च पारुष्ये दण्ड-वाचिके । स्तेयम् च साहसम् च एव स्त्री-सङ्ग्रहणम् एव च ॥ ८।६॥
sīmā-vivāda-dharmaḥ ca pāruṣye daṇḍa-vācike . steyam ca sāhasam ca eva strī-saṅgrahaṇam eva ca .. 8.6..
8.6. (10) Disputes regarding boundaries, (11) assault and (12) defamation, (13) theft, (14) robbery and violence,(15) adultery,
स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ ८.७॥
स्त्री-पुम् धर्मः विभागः च द्यूतम् आह्वयः एव च । पदानि अष्टादश एतानि व्यवहार-स्थितौ इह ॥ ८।७॥
strī-pum dharmaḥ vibhāgaḥ ca dyūtam āhvayaḥ eva ca . padāni aṣṭādaśa etāni vyavahāra-sthitau iha .. 8.7..
8.7. (16) Duties of man and wife, (17) partition (of inheritance), (18) gambling and betting; these are in this world the eighteen topics which give rise to lawsuits.
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्मं शाश्वतमाश्रित्य कुर्यात्कार्यविनिर्णयम् ॥ ८.८॥
एषु स्थानेषु भूयिष्ठम् विवादम् चरताम् नृणाम् । धर्मम् शाश्वतम् आश्रित्य कुर्यात् कार्य-विनिर्णयम् ॥ ८।८॥
eṣu sthāneṣu bhūyiṣṭham vivādam caratām nṛṇām . dharmam śāśvatam āśritya kuryāt kārya-vinirṇayam .. 8.8..
8.8. Depending on the eternal law, let him decide the suits of men who mostly contend on the titles just mentioned.
यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने ॥ ८.९॥
यदा स्वयम् न कुर्यात् तु नृपतिः कार्य-दर्शनम् । तदा नियुञ्ज्यात् विद्वांसम् ब्राह्मणम् कार्य-दर्शने ॥ ८।९॥
yadā svayam na kuryāt tu nṛpatiḥ kārya-darśanam . tadā niyuñjyāt vidvāṃsam brāhmaṇam kārya-darśane .. 8.9..
8.9. But if the king does not personally investigate the suits, then let him appoint a learned Brahmana to try them.
सोऽस्य कार्याणि सम्पश्येत्सभ्यैरेव त्रिभिर्वृतः । सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥ ८.१०॥
सः अस्य कार्याणि सम्पश्येत् सभ्यैः एव त्रिभिः वृतः । सभाम् एव प्रविश्य अग्र्याम् आसीनः स्थितः एव वा ॥ ८।१०॥
saḥ asya kāryāṇi sampaśyet sabhyaiḥ eva tribhiḥ vṛtaḥ . sabhām eva praviśya agryām āsīnaḥ sthitaḥ eva vā .. 8.10..
8.10. That (man) shall enter that most excellent court, accompanied by three assessors, and fully consider (all) causes (brought) before the (king), either sitting down or standing.
यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः ॥ ८.११॥
यस्मिन् देशे निषीदन्ति विप्राः वेद-विदः त्रयः । राज्ञः च अधिकृतः विद्वान् ब्रह्मणः ताम् सभाम् विदुः ॥ ८।११॥
yasmin deśe niṣīdanti viprāḥ veda-vidaḥ trayaḥ . rājñaḥ ca adhikṛtaḥ vidvān brahmaṇaḥ tām sabhām viduḥ .. 8.11..
8.11. Where three Brahmanas versed in the Vedas and the learned (judge) appointed by the king sit down, they call that the court of (four-faced) Brahman.
धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ ८.१२॥
धर्मः विद्धः तु अधर्मेण सभाम् यत्र उपतिष्ठते । शल्यम् च अस्य न कृन्तन्ति विद्धाः तत्र सभासदः ॥ ८।१२॥
dharmaḥ viddhaḥ tu adharmeṇa sabhām yatra upatiṣṭhate . śalyam ca asya na kṛntanti viddhāḥ tatra sabhāsadaḥ .. 8.12..
8.12. But where justice, wounded by injustice, approaches and the judges do not extract the dart, there (they also) are wounded (by that dart of injustice).
सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । अब्रुवन् विब्रुवन् वाऽपि नरो भवति किल्बिषी ॥ ८.१३॥
सभाम् वा न प्रवेष्टव्यम् वक्तव्यम् वा समञ्जसम् । अब्रुवन् विब्रुवन् वा अपि नरः भवति किल्बिषी ॥ ८।१३॥
sabhām vā na praveṣṭavyam vaktavyam vā samañjasam . abruvan vibruvan vā api naraḥ bhavati kilbiṣī .. 8.13..
8.13. Either the court must not be entered, or the truth must be spoken; a man who either says nothing or speaks falsely, becomes sinful.
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ ८.१४॥
यत्र धर्मः हि अधर्मेण सत्यम् यत्र अनृतेन च । हन्यते प्रेक्षमाणानाम् हताः तत्र सभासदः ॥ ८।१४॥
yatra dharmaḥ hi adharmeṇa satyam yatra anṛtena ca . hanyate prekṣamāṇānām hatāḥ tatra sabhāsadaḥ .. 8.14..
8.14. Where justice is destroyed by injustice, or truth by falsehood, while the judges look on, there they shall also be destroyed.
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ ८.१५॥
धर्मः एव हतः हन्ति धर्मः रक्षति रक्षितः । तस्मात् धर्मः न हन्तव्यः मा नः धर्मः हतः अवधीत् ॥ ८।१५॥
dharmaḥ eva hataḥ hanti dharmaḥ rakṣati rakṣitaḥ . tasmāt dharmaḥ na hantavyaḥ mā naḥ dharmaḥ hataḥ avadhīt .. 8.15..
8.15. ’Justice, being violated, destroys; justice, being preserved, preserves: therefore justice must not be violated, lest violated justice destroy us.’
वृषो हि भगवान् धर्मस्तस्य यः कुरुते त्वलम् । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ ८.१६॥
वृषः हि भगवान् धर्मः तस्य यः कुरुते तु अलम् । वृषलम् तम् विदुः देवाः तस्मात् धर्मम् न लोपयेत् ॥ ८।१६॥
vṛṣaḥ hi bhagavān dharmaḥ tasya yaḥ kurute tu alam . vṛṣalam tam viduḥ devāḥ tasmāt dharmam na lopayet .. 8.16..
8.16. For divine justice (is said to be) a bull (vrisha); that (man) who violates it (kurute ’lam) the gods consider to be (a man despicable like) a Sudra (vrishala); let him, therefore, beware of violating justice.
एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यधि गच्छति ॥ ८.१७॥
एकः एव सुहृद् धर्मः निधाने अपि अनुयाति यः । शरीरेण समम् नाशम् गच्छति ॥ ८।१७॥
ekaḥ eva suhṛd dharmaḥ nidhāne api anuyāti yaḥ . śarīreṇa samam nāśam gacchati .. 8.17..
8.17. The only friend who follows men even after death is justice; for everything else is lost at the same time when the body (perishes).
पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति । पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ ८.१८॥
पादः अधर्मस्य कर्तारम् पादः साक्षिणम् ऋच्छति । पादः सभासदः सर्वान् पादः राजानम् ऋच्छति ॥ ८।१८॥
pādaḥ adharmasya kartāram pādaḥ sākṣiṇam ṛcchati . pādaḥ sabhāsadaḥ sarvān pādaḥ rājānam ṛcchati .. 8.18..
8.18. One quarter of (the guilt of) an unjust (decision) falls on him who committed (the crime), one quarter on the (false) witness, one quarter on all the judges, one quarter on the king.
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दाऽर्हो यत्र निन्द्यते ॥ ८.१९॥
राजा भवति अनेन अस्तु मुच्यन्ते च सभासदः । एनः गच्छति कर्तारम् निन्दा-अर्हः यत्र निन्द्यते ॥ ८।१९॥
rājā bhavati anena astu mucyante ca sabhāsadaḥ . enaḥ gacchati kartāram nindā-arhaḥ yatra nindyate .. 8.19..
8.19. But where he who is worthy of condemnation is condemned, the king is free from guilt, and the judges are saved (from sin); the guilt falls on the perpetrator (of the crime alone).
जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेर्न शूद्रः कथंचन ॥ ८.२०॥
जाति-मात्र-उपजीवी वा कामम् स्यात् ब्राह्मणब्रुवः । धर्म-प्रवक्ता नृपतेः न शूद्रः कथंचन ॥ ८।२०॥
jāti-mātra-upajīvī vā kāmam syāt brāhmaṇabruvaḥ . dharma-pravaktā nṛpateḥ na śūdraḥ kathaṃcana .. 8.20..
8.20. A Brahmana who subsists only by the name of his caste (gati), or one who merely calls himself a Brahmana (though his origin be uncertain), may, at the king’s pleasure, interpret the law to him, but never a Sudra.
यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः ॥ ८.२१॥
यस्य शूद्रः तु कुरुते राज्ञः धर्म-विवेचनम् । तस्य सीदति तत् राष्ट्रम् पङ्के गौः इव पश्यतः ॥ ८।२१॥
yasya śūdraḥ tu kurute rājñaḥ dharma-vivecanam . tasya sīdati tat rāṣṭram paṅke gauḥ iva paśyataḥ .. 8.21..
8.21. The kingdom of that monarch, who looks on while a Sudra settles the law, will sink (low), like a cow in a morass.
यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ ८.२२॥
यत् राष्ट्रम् शूद्र-भूयिष्ठम् नास्तिक-आक्रान्तम् अद्विजम् । विनश्यति आशु तत् कृत्स्नम् दुर्भिक्ष-व्याधि-पीडितम् ॥ ८।२२॥
yat rāṣṭram śūdra-bhūyiṣṭham nāstika-ākrāntam advijam . vinaśyati āśu tat kṛtsnam durbhikṣa-vyādhi-pīḍitam .. 8.22..
8.22. That kingdom where Sudras are very numerous, which is infested by atheists and destitute of twice-born (inhabitants), soon entirely perishes, afflicted by famine and disease.
धर्मासनमधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ ८.२३॥
धर्म-आसनम् अधिष्ठाय संवीत-अङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्य-दर्शनम् आरभेत् ॥ ८।२३॥
dharma-āsanam adhiṣṭhāya saṃvīta-aṅgaḥ samāhitaḥ . praṇamya lokapālebhyaḥ kārya-darśanam ārabhet .. 8.23..
8.23. Having occupied the seat of justice, having covered his body, and having worshipped the guardian deities of the world, let him, with a collected mind, begin the trial of causes.
अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् ॥ ८.२४॥
अर्थ-अनर्थौ उभौ बुद्ध्वा धर्म-अधर्मौ च केवलौ । वर्ण-क्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ ८।२४॥
artha-anarthau ubhau buddhvā dharma-adharmau ca kevalau . varṇa-krameṇa sarvāṇi paśyet kāryāṇi kāryiṇām .. 8.24..
8.24. Knowing what is expedient or inexpedient, what is pure justice or injustice, let him examine the causes of suitors according to the order of the castes (varna).
बाह्यैर्विभावयेत्लिङ्गैर्भावमन्तर्गतं नृणाम् । स्वरवर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ ८.२५॥
बाह्यैः विभावयेत् लिङ्गैः भावम् अन्तर्गतम् नृणाम् । स्वर-वर्ण-ऐङ्गित-आकारैः चक्षुषा चेष्टितेन च ॥ ८।२५॥
bāhyaiḥ vibhāvayet liṅgaiḥ bhāvam antargatam nṛṇām . svara-varṇa-aiṅgita-ākāraiḥ cakṣuṣā ceṣṭitena ca .. 8.25..
8.25. By external signs let him discover the internal disposition of men, by their voice, their colour, their motions, their aspect, their eyes, and their gestures.
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ ८.२६॥
आकारैः इङ्गितैः गत्या चेष्टया भाषितेन च । नेत्र-वक्त्र-विकारैः च गृह्यते अन्तर्गतम् मनः ॥ ८।२६॥
ākāraiḥ iṅgitaiḥ gatyā ceṣṭayā bhāṣitena ca . netra-vaktra-vikāraiḥ ca gṛhyate antargatam manaḥ .. 8.26..
8.26. The internal (working of the) mind is perceived through the aspect, the motions, the gait, the gestures, the speech, and the changes in the eye and of the face.
बालदायादिकं रिक्थं तावद्राजाऽनुपालयेत् । यावत्स स्यात्समावृत्तो यावत्चातीतशैशवः ॥ ८.२७॥
बाल-दाय-आदिकम् रिक्थम् तावत् राजा अनुपालयेत् । यावत् स स्यात् समावृत्तः यावत् च अतीत-शैशवः ॥ ८।२७॥
bāla-dāya-ādikam riktham tāvat rājā anupālayet . yāvat sa syāt samāvṛttaḥ yāvat ca atīta-śaiśavaḥ .. 8.27..
8.27. The king shall protect the inherited (and other) property of a minor, until he has returned (from his teacher’s house) or until he has passed his minority.
वशाऽपुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ ८.२८॥
वशा अपुत्रासु च एवम् स्यात् रक्षणम् निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवासु आतुरासु च ॥ ८।२८॥
vaśā aputrāsu ca evam syāt rakṣaṇam niṣkulāsu ca . pativratāsu ca strīṣu vidhavāsu āturāsu ca .. 8.28..
8.28. In like manner care must be taken of barren women, of those who have no sons, of those whose family is extinct, of wives and widows faithful to their lords, and of women afflicted with diseases.
जीवन्तीनां तु तासां ये तधरेयुः स्वबान्धवाः । तांशिष्यात्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ ८.२९॥
जीवन्तीनाम् तु तासाम् ये स्व-बान्धवाः । तान् शिष्यात् चौर-दण्डेन धार्मिकः पृथिवीपतिः ॥ ८।२९॥
jīvantīnām tu tāsām ye sva-bāndhavāḥ . tān śiṣyāt caura-daṇḍena dhārmikaḥ pṛthivīpatiḥ .. 8.29..
8.29. A righteous king must punish like thieves those relatives who appropriate the property of such females during their lifetime.
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् ॥ ८.३०॥
प्रणष्ट-स्वामिकम् रिक्थम् राजा त्रि-अब्दम् निधापयेत् । अर्वाक् त्रि-अब्दात् हरेत् स्वामी परेण नृपतिः हरेत् ॥ ८।३०॥
praṇaṣṭa-svāmikam riktham rājā tri-abdam nidhāpayet . arvāk tri-abdāt haret svāmī pareṇa nṛpatiḥ haret .. 8.30..
8.30. Property, the owner of which has disappeared, the king shall cause to be kept as a deposit during three years; within the period of three years the owner may claim it, after (that term) the king may take it.
ममैदमिति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । संवाद्य रूपसङ्ख्यादीन् स्वामी तद्द्रव्यमर्हति ॥ ८.३१॥
मम एदम् इति यः ब्रूयात् सः अनुयोज्यः यथाविधि । संवाद्य रूप-सङ्ख्या-आदीन् स्वामी तत् द्रव्यम् अर्हति ॥ ८।३१॥
mama edam iti yaḥ brūyāt saḥ anuyojyaḥ yathāvidhi . saṃvādya rūpa-saṅkhyā-ādīn svāmī tat dravyam arhati .. 8.31..
8.31. He who says, ’This belongs to me,’ must be examined according to the rule; if he accurately describes the shape, and the number (of the articles found) and so forth, (he is) the owner, (and) ought (to receive) that property.
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ ८.३२॥
अ वेदयानः नष्टस्य देशम् कालम् च तत्त्वतः । वर्णम् रूपम् प्रमाणम् च तत्समम् दण्डम् अर्हति ॥ ८।३२॥
a vedayānaḥ naṣṭasya deśam kālam ca tattvataḥ . varṇam rūpam pramāṇam ca tatsamam daṇḍam arhati .. 8.32..
8.32. But if he does not really know the time and the place (where it was) lost, its colour, shape, and size, he is worthy of a fine equal (in value) to the (object claimed)
आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ॥ ८.३३॥
आददीत अथ षड्भागम् प्रनष्ट-अधिगतात् नृपः । दशमम् द्वादशम् वा अपि सताम् धर्मम् अनुस्मरन् ॥ ८।३३॥
ādadīta atha ṣaḍbhāgam pranaṣṭa-adhigatāt nṛpaḥ . daśamam dvādaśam vā api satām dharmam anusmaran .. 8.33..
8.33. Now the king, remembering the duty of good men, may take one-sixth part of property lost and afterwards found, or one-tenth, or at least one-twelfth.
प्रणष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम् । यांस्तत्र चौरान् गृह्णीयात्तान् राजैभेन घातयेत् ॥ ८.३४॥
प्रणष्ट-अधिगतम् द्रव्यम् तिष्ठेत् युक्तैः अधिष्ठितम् । यान् तत्र चौरान् गृह्णीयात् तान् राजा एभेन घातयेत् ॥ ८।३४॥
praṇaṣṭa-adhigatam dravyam tiṣṭhet yuktaiḥ adhiṣṭhitam . yān tatra caurān gṛhṇīyāt tān rājā ebhena ghātayet .. 8.34..
8.34. Property lost and afterwards found (by the king’s servants) shall remain in the keeping of (special) officials; those whom the king may convict of stealing it, he shall cause to be slain by an elephant.
ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ ८.३५॥
मम अयम् इति यः ब्रूयात् निधिम् सत्येन मानवः । तस्य आददीत षड्भागम् राजा द्वादशम् एव वा ॥ ८।३५॥
mama ayam iti yaḥ brūyāt nidhim satyena mānavaḥ . tasya ādadīta ṣaḍbhāgam rājā dvādaśam eva vā .. 8.35..
8.35. From that man who shall truly say with respect to treasure-trove, ’This belongs to me,’ the king may take one-sixth or one-twelfth part.
अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य सङ्ख्ययाऽल्पीयसीं कलाम् ॥ ८.३६॥
अनृतम् तु वदन् दण्ड्यः स्व-वित्तस्य अंशम् अष्टमम् । तस्य एव वा निधानस्य सङ्ख्यया अल्पीयसीम् कलाम् ॥ ८।३६॥
anṛtam tu vadan daṇḍyaḥ sva-vittasya aṃśam aṣṭamam . tasya eva vā nidhānasya saṅkhyayā alpīyasīm kalām .. 8.36..
8.36. But he who falsely says (so), shall be fined in one-eighth of his property, or, a calculation of (the value of) the treasure having been made, in some smaller portion (of that).
विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥ ८.३८॥
विद्वान् तु ब्राह्मणः दृष्ट्वा पूर्व-उपनिहितम् निधिम् । अशेषतस् अपि आददीत सर्वस्य अधिपतिः हि सः ॥ ८।३८॥
vidvān tu brāhmaṇaḥ dṛṣṭvā pūrva-upanihitam nidhim . aśeṣatas api ādadīta sarvasya adhipatiḥ hi saḥ .. 8.38..
8.37. When a learned Brahmana has found treasure, deposited in former (times), he may take even the whole (of it); for he is master of everything.
यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्द्विजेभ्यो दत्त्वाऽर्धमर्धं कोशे प्रवेशयेत् ॥ ८.३८॥
यम् तु पश्येत् निधिम् राजा पुराणम् निहितम् क्षितौ । तस्मात् द्विजेभ्यः दत्त्वा अर्धम् अर्धम् कोशे प्रवेशयेत् ॥ ८।३८॥
yam tu paśyet nidhim rājā purāṇam nihitam kṣitau . tasmāt dvijebhyaḥ dattvā ardham ardham kośe praveśayet .. 8.38..
8.38. When the king finds treasure of old concealed in the ground let him give one half to Brahmanas and place the (other) half in his treasury.
निधीनां तु पुराणानां धातूनामेव च क्षितौ । अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः ॥ ८.३९॥
निधीनाम् तु पुराणानाम् धातूनाम् एव च क्षितौ । अर्ध-भाज्-रक्षणात् राजा भूमेः अधिपतिः हि सः ॥ ८।३९॥
nidhīnām tu purāṇānām dhātūnām eva ca kṣitau . ardha-bhāj-rakṣaṇāt rājā bhūmeḥ adhipatiḥ hi saḥ .. 8.39..
8.39. The king obtains one half of ancient hoards and metals (found) in the ground, by reason of (his giving) protection, (and) because he is the lord of the soil.
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥ ८.४०॥
दातव्यम् सर्व-वर्णेभ्यः राज्ञा चौरैः हृतम् धनम् । राजा तत् उपयुञ्जानः चौरस्य आप्नोति किल्बिषम् ॥ ८।४०॥
dātavyam sarva-varṇebhyaḥ rājñā cauraiḥ hṛtam dhanam . rājā tat upayuñjānaḥ caurasya āpnoti kilbiṣam .. 8.40..
8.40. Property stolen by thieves must be restored by the king to (men of) all castes (varna); a king who uses such (property) for himself incurs the guilt of a thief.
जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ ८.४१॥
जातिजानपदान् धर्मान् श्रेणी-धर्मान् च धर्म-विद् । समीक्ष्य कुल-धर्मान् च स्वधर्मम् प्रतिपादयेत् ॥ ८।४१॥
jātijānapadān dharmān śreṇī-dharmān ca dharma-vid . samīkṣya kula-dharmān ca svadharmam pratipādayet .. 8.41..
8.41. (A king) who knows the sacred law, must inquire into the laws of castes (gati), of districts, of guilds, and of families, and (thus) settle the peculiar law of each.
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥ ८.४२॥
स्वानि कर्माणि कुर्वाणाः दूरे सन्तः अपि मानवाः । प्रियाः भवन्ति लोकस्य स्वे स्वे कर्मणि अवस्थिताः ॥ ८।४२॥
svāni karmāṇi kurvāṇāḥ dūre santaḥ api mānavāḥ . priyāḥ bhavanti lokasya sve sve karmaṇi avasthitāḥ .. 8.42..
8.42. For men who follow their particular occupations and abide by their particular duty, become dear to people, though they may live at a distance.
नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पूरुषः । न च प्रापितमन्येन ग्रसेतार्थं कथं चन ॥ ८.४३॥
न उत्पादयेत् स्वयम् कार्यम् राजा ना अपि अस्य पूरुषः । न च प्रापितम् अन्येन ग्रसेत अर्थम् कथम् चन ॥ ८।४३॥
na utpādayet svayam kāryam rājā nā api asya pūruṣaḥ . na ca prāpitam anyena graseta artham katham cana .. 8.43..
8.43. Neither the king nor any servant of his shall themselves cause a lawsuit to be begun, or hush up one that has been brought (before them) by (some) other (man).
यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् । नयेत्तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥ ८.४४॥
यथा नयति असृज्-पातैः मृगस्य मृगयुः पदम् । नयेत् तथा अनुमानेन धर्मस्य नृपतिः पदम् ॥ ८।४४॥
yathā nayati asṛj-pātaiḥ mṛgasya mṛgayuḥ padam . nayet tathā anumānena dharmasya nṛpatiḥ padam .. 8.44..
8.44. As a hunter traces the lair of a (wounded) deer by the drops of blood, even so the king shall discover on which side the right lies, by inferences (from the facts).
सत्यमर्थं च सम्पश्येदात्मानमथ साक्षिणम् । देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ ८.४५॥
सत्यम् अर्थम् च सम्पश्येत् आत्मानम् अथ साक्षिणम् । देशम् रूपम् च कालम् च व्यवहार-विधौ स्थितः ॥ ८।४५॥
satyam artham ca sampaśyet ātmānam atha sākṣiṇam . deśam rūpam ca kālam ca vyavahāra-vidhau sthitaḥ .. 8.45..
8.45. When engaged in judicial proceedings he must pay full attention to the truth, to the object (of the dispute), (and) to himself, next to the witnesses, to the place, to the time, and to the aspect.
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । तद्देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ ८.४६॥
सद्भिः आचरितम् यत् स्यात् धार्मिकैः च द्विजातिभिः । तद्-देश-कुल-जातीनाम् अविरुद्धम् प्रकल्पयेत् ॥ ८।४६॥
sadbhiḥ ācaritam yat syāt dhārmikaiḥ ca dvijātibhiḥ . tad-deśa-kula-jātīnām aviruddham prakalpayet .. 8.46..
8.46. What may have been practised by the virtuous, by such twice-born men as are devoted to the law, that he shall establish as law, if it be not opposed to the (customs of) countries, families, and castes (gati).
अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थमधमर्णाद्विभावितम् ॥ ८.४७॥
अधमर्ण-अर्थ-सिद्धि-अर्थम् उत्तमर्णेन चोदितः । दापयेत् धनिकस्य अर्थम् अधमर्णात् विभावितम् ॥ ८।४७॥
adhamarṇa-artha-siddhi-artham uttamarṇena coditaḥ . dāpayet dhanikasya artham adhamarṇāt vibhāvitam .. 8.47..
8.47. When a creditor sues (before the king) for the recovery of money from a debtor, let him make the debtor pay the sum which the creditor proves (to be due).
यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । तैर्तैरुपायैः सङ्गृह्य दापयेदधमर्णिकम् ॥ ८.४८॥
यैः यैः उपायैः अर्थम् स्वम् प्राप्नुयात् उत्तमर्णिकः । तैः तैः उपायैः सङ्गृह्य दापयेत् अधमर्णिकम् ॥ ८।४८॥
yaiḥ yaiḥ upāyaiḥ artham svam prāpnuyāt uttamarṇikaḥ . taiḥ taiḥ upāyaiḥ saṅgṛhya dāpayet adhamarṇikam .. 8.48..
8.48. By whatever means a creditor may be able to obtain possession of his property, even by those means may he force the debtor and make him pay.
धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥ ८.४९॥
धर्मेण व्यवहारेण छलेन आचरितेन च । प्रयुक्तम् साधयेत् अर्थम् पञ्चमेन बलेन च ॥ ८।४९॥
dharmeṇa vyavahāreṇa chalena ācaritena ca . prayuktam sādhayet artham pañcamena balena ca .. 8.49..
8.49. By moral suasion, by suit of law, by artful management, or by the customary proceeding, a creditor may recover property lent; and fifthly, by force.
यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् । न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन् धनम् ॥ ८.५०॥
यः स्वयम् साधयेत् अर्थम् उत्तमर्णः अधमर्णिकात् । न स राज्ञा अभियोक्तव्यः स्वकम् संसाधयन् धनम् ॥ ८।५०॥
yaḥ svayam sādhayet artham uttamarṇaḥ adhamarṇikāt . na sa rājñā abhiyoktavyaḥ svakam saṃsādhayan dhanam .. 8.50..
8.50. A creditor who himself recovers his property from his debtor, must not be blamed by the king for retaking what is his own.
अर्थेऽपव्ययमानं तु करणेन विभावितम् । दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ ८.५१॥
अर्थे अपव्यय-मानम् तु करणेन विभावितम् । दापयेत् धनिकस्य अर्थम् दण्ड-लेशम् च शक्तितः ॥ ८।५१॥
arthe apavyaya-mānam tu karaṇena vibhāvitam . dāpayet dhanikasya artham daṇḍa-leśam ca śaktitaḥ .. 8.51..
8.51. But him who denies a debt which is proved by good evidence, he shall order to pay that debt to the creditor and a small fine according to his circumstances.
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद्देश्यं करणं वाऽन्यदुद्दिशेत् ॥ ८.५२॥
अपह्नवे अधमर्णस्य देहि इति उक्तस्य संसदि । अभियोक्ता दिशेत् देश्यम् करणम् वा अन्यत् उद्दिशेत् ॥ ८।५२॥
apahnave adhamarṇasya dehi iti uktasya saṃsadi . abhiyoktā diśet deśyam karaṇam vā anyat uddiśet .. 8.52..
8.52. On the denial (of a debt) by a debtor who has been required in court to pay it, the complainant must call (a witness) who was present (when the loan was made), or adduce other evidence.
अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः । यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते ॥ ८.५३॥
अदेश्यम् यः च दिशति निर्दिश्य अपह्नुते च यः । यः च अधर-उत्तरान् अर्थान् विगीतान् न अवबुध्यते ॥ ८।५३॥
adeśyam yaḥ ca diśati nirdiśya apahnute ca yaḥ . yaḥ ca adhara-uttarān arthān vigītān na avabudhyate .. 8.53..
8.53. (The plaintiff) who calls a witness not present at the transaction, who retracts his statements, or does not perceive that his statements (are) confused or contradictory;
अपदिश्यापदेशं च पुनर्यस्त्वपधावति । सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति ॥ ८.५४॥
अपदिश्य अपदेशम् च पुनर् यः तु अपधावति । सम्यक् प्रणिहितम् च अर्थम् पृष्टः सन् न अभिनन्दति ॥ ८।५४॥
apadiśya apadeśam ca punar yaḥ tu apadhāvati . samyak praṇihitam ca artham pṛṣṭaḥ san na abhinandati .. 8.54..
8.54. Or who having stated what he means to prove afterwards varies (his case), or who being questioned on a fact duly stated by himself does not abide by it;
असम्भाष्ये साक्षिभिश्च देशे सम्भाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् ॥ ८.५५॥
अ सम्भाष्ये साक्षिभिः च देशे सम्भाषते मिथस् । निरुच्यमानम् प्रश्नम् च ना इच्छेत् यः च अपि निष्पतेत् ॥ ८।५५॥
a sambhāṣye sākṣibhiḥ ca deśe sambhāṣate mithas . nirucyamānam praśnam ca nā icchet yaḥ ca api niṣpatet .. 8.55..
8.55. Or who converses with the witnesses in a place improper for such conversation; or who declines to answer a question, properly put, or leaves (the court);
ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते ॥ ८.५६॥
ब्रूहि इति उक्तः च न ब्रूयात् उक्तम् च न विभावयेत् । न च पूर्व-अपरम् विद्यात् तस्मात् अर्थात् स हीयते ॥ ८।५६॥
brūhi iti uktaḥ ca na brūyāt uktam ca na vibhāvayet . na ca pūrva-aparam vidyāt tasmāt arthāt sa hīyate .. 8.56..
8.56. Or who, being ordered to speak, does not answer, or does not prove what he has alleged; or who does not know what is the first (point), and what the second, fails in his suit.
साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ ८.५७॥
साक्षिणः सन्ति मा इति उक्त्वा दिश इति उक्तः दिशेत् न यः । धर्मस्थः कारणैः एतैः हीनम् तम् अपि निर्दिशेत् ॥ ८।५७॥
sākṣiṇaḥ santi mā iti uktvā diśa iti uktaḥ diśet na yaḥ . dharmasthaḥ kāraṇaiḥ etaiḥ hīnam tam api nirdiśet .. 8.57..
8.57. Him also who says ’I have witnesses,’ and, being ordered to produce them, produces them not, the judge must on these (same) grounds declare to be non-suited.
अभियोक्ता न चेद्ब्रूयाद् बन्ध्यो दण्ड्यश्च धर्मतः । न चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः ॥ ८.५८॥
अभियोक्ता न चेद् ब्रूयात् बन्ध्यः दण्ड्यः च धर्मतः । न चेद् त्रि-पक्षात् प्रब्रूयात् धर्मम् प्रति पराजितः ॥ ८।५८॥
abhiyoktā na ced brūyāt bandhyaḥ daṇḍyaḥ ca dharmataḥ . na ced tri-pakṣāt prabrūyāt dharmam prati parājitaḥ .. 8.58..
8.58. If a plaintiff does not speak, he may be punished corporally or fined according to the law; if (a defendant) does not plead within three fortnights, he has lost his cause.
यो यावद्निह्नुवीतार्थं मिथ्या यावति वा वदेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ॥ ८.५९॥
यः यावत् निह्नुवीत अर्थम् मिथ्या यावति वा वदेत् । तौ नृपेण हि अधर्म-ज्ञौ दाप्यौ तद्-द्विगुणम् दमम् ॥ ८।५९॥
yaḥ yāvat nihnuvīta artham mithyā yāvati vā vadet . tau nṛpeṇa hi adharma-jñau dāpyau tad-dviguṇam damam .. 8.59..
8.59. In the double of that sum which (a defendant) falsely denies or on which (the plaintiff) falsely declares, shall those two (men) offending against justice be fined by the king.
पृष्टोऽपव्ययमानस्तु कृतावस्थो धनेषिणा । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥ ८.६०॥
पृष्टः अपव्ययमानः तु कृत-अवस्थः धन-इषिणा । त्र्यवरैः साक्षिभिः भाव्यः नृप-ब्राह्मण-संनिधौ ॥ ८।६०॥
pṛṣṭaḥ apavyayamānaḥ tu kṛta-avasthaḥ dhana-iṣiṇā . tryavaraiḥ sākṣibhiḥ bhāvyaḥ nṛpa-brāhmaṇa-saṃnidhau .. 8.60..
8.60. (A defendant) who, being brought (into court) by the creditor, (and) being questioned, denies (the debt), shall be convicted (of his falsehood) by at least three witnesses (who must depose) in the presence of the Brahmana (appointed by) the king.
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान् सम्प्रवक्ष्यामि यथा वाच्यं ऋतं च तैः ॥ ८.६१॥
यादृशाः धनिभिः कार्याः व्यवहारेषु साक्षिणः । तादृशान् सम्प्रवक्ष्यामि यथा वाच्यम् ऋतम् च तैः ॥ ८।६१॥
yādṛśāḥ dhanibhiḥ kāryāḥ vyavahāreṣu sākṣiṇaḥ . tādṛśān sampravakṣyāmi yathā vācyam ṛtam ca taiḥ .. 8.61..
8.61. I will fully declare what kind of men may be made witnesses in suits by creditors, and in what manner those (witnesses) must give true (evidence).
गृहिणः पुत्रिणो मौलाः क्षत्रविद्शूद्रयोनयः । अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि ॥ ८.६२॥
गृहिणः पुत्रिणः मौलाः क्षत्र-विद्-शूद्र-योनयः । अर्थि-उक्ताः साक्ष्यम् अर्हन्ति न ये के चित् अनापदि ॥ ८।६२॥
gṛhiṇaḥ putriṇaḥ maulāḥ kṣatra-vid-śūdra-yonayaḥ . arthi-uktāḥ sākṣyam arhanti na ye ke cit anāpadi .. 8.62..
8.62. Householders, men with male issue, and indigenous (inhabitants of the country, be they) Kshatriyas, Vaisyas, or Sudras, are competent, when called by a suitor, to give evidence, not any persons whatever (their condition may be) except in cases of urgency.
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ ८.६३॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्व-धर्म-विदः अलुब्धाः विपरीतान् तु वर्जयेत् ॥ ८।६३॥
āptāḥ sarveṣu varṇeṣu kāryāḥ kāryeṣu sākṣiṇaḥ . sarva-dharma-vidaḥ alubdhāḥ viparītān tu varjayet .. 8.63..
8.63. Trustworthy men of all the (four) castes (varna) may be made witnesses in lawsuits, (men) who know (their) whole duty, and are free from covetousness; but let him reject those (of an) opposite (character).
नार्थसम्बन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ ८.६४॥
न अर्थसम्बन्धिनः न आप्ताः न सहायाः न वैरिणः । न दृष्ट-दोषाः कर्तव्याः न व्याधि-आर्ताः न दूषिताः ॥ ८।६४॥
na arthasambandhinaḥ na āptāḥ na sahāyāḥ na vairiṇaḥ . na dṛṣṭa-doṣāḥ kartavyāḥ na vyādhi-ārtāḥ na dūṣitāḥ .. 8.64..
8.64. Those must not be made (witnesses) who have an interest in the suit, nor familiar (friends), companions, and enemies (of the parties), nor (men) formerly convicted (of perjury), nor (persons) suffering under (severe) illness, nor (those) tainted (by mortal sin).
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ ८.६५॥
न साक्षी नृपतिः कार्यः न कारुका-कुशीलवौ । न श्रोत्रियः न लिङ्गस्थः न सङ्गेभ्यः विनिर्गतः ॥ ८।६५॥
na sākṣī nṛpatiḥ kāryaḥ na kārukā-kuśīlavau . na śrotriyaḥ na liṅgasthaḥ na saṅgebhyaḥ vinirgataḥ .. 8.65..
8.65. The king cannot be made a witness, nor mechanics and actors, nor a: Srotriya, nor a student of the Veda, nor (an ascetic) who has given up (all) connexion (with the world),
नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥ ८.६६॥
न अध्यधीनः न वक्तव्यः न दस्युः न विकर्म-कृत् । न वृद्धः न शिशुः न एकः न अन्त्यः न विकल-इन्द्रियः ॥ ८।६६॥
na adhyadhīnaḥ na vaktavyaḥ na dasyuḥ na vikarma-kṛt . na vṛddhaḥ na śiśuḥ na ekaḥ na antyaḥ na vikala-indriyaḥ .. 8.66..
8.66. Nor one wholly dependent, nor one of bad fame, nor a Dasyu, nor one who follows forbidden occupations, nor an aged (man), nor an infant, nor one (man alone), nor a man of the lowest castes, nor one deficient in organs of sense,
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः । न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ ८.६७॥
न आर्तः न मत्तः न उन्मत्तः न क्षुध्-तृष्णा-उपपीडितः । न श्रम-आर्तः न काम-आर्तः न क्रुद्धः न अपि तस्करः ॥ ८।६७॥
na ārtaḥ na mattaḥ na unmattaḥ na kṣudh-tṛṣṇā-upapīḍitaḥ . na śrama-ārtaḥ na kāma-ārtaḥ na kruddhaḥ na api taskaraḥ .. 8.67..
8.67. Nor one extremely grieved, nor one intoxicated, nor a madman, nor one tormented by hunger or thirst, nor one oppressed by fatigue, nor one tormented by desire, nor a wrathful man, nor a thief.
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणां अन्त्यानामन्त्ययोनयः ॥ ८.६८॥
स्त्रीणाम् साक्ष्यम् स्त्रियः कुर्युः द्विजानाम् सदृशाः द्विजाः । शूद्राः च सन्तः शूद्राणाम् अन्त्यानाम् अन्त्य-योनयः ॥ ८।६८॥
strīṇām sākṣyam striyaḥ kuryuḥ dvijānām sadṛśāḥ dvijāḥ . śūdrāḥ ca santaḥ śūdrāṇām antyānām antya-yonayaḥ .. 8.68..
8.68. Women should give evidence for women, and for twice-born men twice-born men (of the) same (kind), virtuous Sudras for Sudras, and men of the lowest castes for the lowest.
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥ ८.६९॥
अनुभावी तु यः कश्चिद् कुर्यात् साक्ष्यम् विवादिनाम् । अन्तर्वेश्मनि अरण्ये वा शरीरस्य अपि च अत्यये ॥ ८।६९॥
anubhāvī tu yaḥ kaścid kuryāt sākṣyam vivādinām . antarveśmani araṇye vā śarīrasya api ca atyaye .. 8.69..
8.69. But any person whatsoever, who has personal knowledge (of an act committed) in the interior apartments (of a house), or in a forest, or of (a crime causing) loss of life, may give evidence between the parties.
स्त्रियाऽप्यसम्भावे कार्यं बालेन स्थविरेण वा । शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ ८.७०॥
स्त्रिया अपि असम्भावे कार्यम् बालेन स्थविरेण वा । शिष्येण बन्धुना वा अपि दासेन भृतकेन वा ॥ ८।७०॥
striyā api asambhāve kāryam bālena sthavireṇa vā . śiṣyeṇa bandhunā vā api dāsena bhṛtakena vā .. 8.70..
8.70. On failure (of qualified witnesses, evidence) may given (in such cases) by a woman, by an infant, by an aged man, by a pupil, by a relative, by a slave, or by a hired servant.
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥ ८.७१॥
बाल-वृद्ध-आतुराणाम् च साक्ष्येषु वदताम् मृषा । जानीयात् अस्थिराम् वाचम् उत्सिक्त-मनसाम् तथा ॥ ८।७१॥
bāla-vṛddha-āturāṇām ca sākṣyeṣu vadatām mṛṣā . jānīyāt asthirām vācam utsikta-manasām tathā .. 8.71..
8.71. But the (judge) should consider the evidence of infants, aged and diseased men, who (are apt to) speak untruly, as untrustworthy, likewise that of men with disordered minds.
साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च । वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ ८.७२॥
साहसेषु च सर्वेषु स्तेय-सङ्ग्रहणेषु च । वाग्दण्डयोः च पारुष्ये न परीक्षेत साक्षिणः ॥ ८।७२॥
sāhaseṣu ca sarveṣu steya-saṅgrahaṇeṣu ca . vāgdaṇḍayoḥ ca pāruṣye na parīkṣeta sākṣiṇaḥ .. 8.72..
8.72. In all cases of violence, of theft and adultery, of defamation and assault, he must not examine the (competence of) witnesses (too strictly).
बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ ८.७३॥
बहु-त्वम् परिगृह्णीयात् साक्षि-द्वैधे नराधिपः । समेषु तु गुण-उत्कृष्टान् गुणि-द्वैधे द्विजोत्तमान् ॥ ८।७३॥
bahu-tvam parigṛhṇīyāt sākṣi-dvaidhe narādhipaḥ . sameṣu tu guṇa-utkṛṣṭān guṇi-dvaidhe dvijottamān .. 8.73..
8.73. On a conflict of the witnesses the king shall accept (as true) the evidence of the) majority; if (the conflicting parties are) equal in number, (that of) those distinguished by good qualities; on a difference between (equally) distinguished (witnesses, that of) the best among the twice-born.
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति । तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ ८.७४॥
समक्ष-दर्शनात् साक्ष्यम् श्रवणात् च एव सिध्यति । तत्र सत्यम् ब्रुवन् साक्षी धर्म-अर्थाभ्याम् न हीयते ॥ ८।७४॥
samakṣa-darśanāt sākṣyam śravaṇāt ca eva sidhyati . tatra satyam bruvan sākṣī dharma-arthābhyām na hīyate .. 8.74..
8.74. Evidence in accordance with what has actually been seen or heard, is admissible; a witness who speaks truth in those (cases), neither loses spiritual merit nor wealth.
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि । अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ॥ ८.७५॥
साक्षी दृष्ट-श्रुतात् अन्यत् विब्रुवन् आर्य-संसदि । अवाक् नरकम् अभ्येति प्रेत्य स्वर्गात् च हीयते ॥ ८।७५॥
sākṣī dṛṣṭa-śrutāt anyat vibruvan ārya-saṃsadi . avāk narakam abhyeti pretya svargāt ca hīyate .. 8.75..
8.75. A witness who deposes in an assembly of honourable men (Arya) anything else but what he has seen or heard, falls after death headlong into hell and loses heaven.
यत्रानिबद्धोऽपीक्षेत शृणुयाद्वाऽपि किं चन । पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम् ॥ ८.७६॥
यत्र अनिबद्धः अपि ईक्षेत शृणुयात् वा अपि किम् चन । पृष्टः तत्र अपि तत् ब्रूयात् यथादृष्टम् यथाश्रुतम् ॥ ८।७६॥
yatra anibaddhaḥ api īkṣeta śṛṇuyāt vā api kim cana . pṛṣṭaḥ tatra api tat brūyāt yathādṛṣṭam yathāśrutam .. 8.76..
8.76. When a man (originally) not appointed to be a witness sees or hears anything and is (afterwards) examined regarding it, he must declare it (exactly) as he saw or heard it.
एकोऽलुब्धस्तु त्वसाक्षी स्याद्बह्व्यः शुच्योऽपि न स्त्रियः । स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः ॥ ८.७७॥
एकः अलुब्धः तु तु असाक्षी स्यात् बह्व्यः शुच्यः अपि न स्त्रियः । स्त्री-बुद्धेः अस्थिर-त्वात् तु दोषैः च अन्ये अपि ये वृताः ॥ ८।७७॥
ekaḥ alubdhaḥ tu tu asākṣī syāt bahvyaḥ śucyaḥ api na striyaḥ . strī-buddheḥ asthira-tvāt tu doṣaiḥ ca anye api ye vṛtāḥ .. 8.77..
8.77. One man who is free from covetousness may be (accepted as) witness; but not even many pure women, because the understanding of females is apt to waver, nor even many other men, who are tainted with sin.
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् । अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् ॥ ८.७८॥
स्वभावेन एव यत् ब्रूयुः तत् ग्राह्यम् व्यावहारिकम् । अतस् यत् अन्यत् विब्रूयुः धर्म-अर्थम् तत् अपार्थकम् ॥ ८।७८॥
svabhāvena eva yat brūyuḥ tat grāhyam vyāvahārikam . atas yat anyat vibrūyuḥ dharma-artham tat apārthakam .. 8.78..
8.78. What witnesses declare quite naturally, that must be received on trials; (depositions) differing from that, which they make improperly, are worthless for (the purposes of) justice.
सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ । प्राड्विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ॥ ८.७९॥
सभा-अन्तर् साक्षिणः प्राप्त-अनर्थि-प्रत्यर्थि-संनिधौ । प्राड्विवाकः अनुयुञ्जीत विधिना अनेन सान्त्वयन् ॥ ८।७९॥
sabhā-antar sākṣiṇaḥ prāpta-anarthi-pratyarthi-saṃnidhau . prāḍvivākaḥ anuyuñjīta vidhinā anena sāntvayan .. 8.79..
8.79. The witnesses being assembled in the court in the presence of the plaintiff and of the defendant, let the judge examine them, kindly exhorting them in the following manner:
यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥ ८.८०॥
यत् द्वयोः अनयोः वेत्थ कार्ये अस्मिन् चेष्टितम् मिथस् । तत् ब्रूत सर्वम् सत्येन युष्माकम् हि अत्र साक्षिता ॥ ८।८०॥
yat dvayoḥ anayoḥ vettha kārye asmin ceṣṭitam mithas . tat brūta sarvam satyena yuṣmākam hi atra sākṣitā .. 8.80..
8.80. ’What ye know to have been mutually transacted in this matter between the two men before us, declare all that in accordance with the truth; for ye are witnesses in this (cause).
सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्यपुष्कलान् । इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ॥ ८.८१॥
सत्यम् साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोति अपुष्कलान् । इह च अनुत्तमाम् कीर्तिम् वाच् एषा ब्रह्म-पूजिता ॥ ८।८१॥
satyam sākṣye bruvan sākṣī lokān āpnoti apuṣkalān . iha ca anuttamām kīrtim vāc eṣā brahma-pūjitā .. 8.81..
8.81. ’A witness who speaks the truth in his evidence, gains (after death) the most excellent regions (of bliss) and here (below) unsurpassable fame; such testimony is revered by Brahman (himself).
साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् । विवशः शतमाजातीस्तस्मात्साक्ष्यं वदेदृतम् ॥ ८.८२॥
साक्ष्ये अनृतम् वदन् पाशैः बध्यते वारुणैः भृशम् । विवशः शतम् आजातीः तस्मात् साक्ष्यम् वदेत् ऋतम् ॥ ८।८२॥
sākṣye anṛtam vadan pāśaiḥ badhyate vāruṇaiḥ bhṛśam . vivaśaḥ śatam ājātīḥ tasmāt sākṣyam vadet ṛtam .. 8.82..
8.82. ’He who gives false evidence is firmly bound by Varuna’s fetters, helpless during one hundred existences; let (men therefore) give true evidence.
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ ८.८३॥
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । तस्मात् सत्यम् हि वक्तव्यम् सर्व-वर्णेषु साक्षिभिः ॥ ८।८३॥
satyena pūyate sākṣī dharmaḥ satyena vardhate . tasmāt satyam hi vaktavyam sarva-varṇeṣu sākṣibhiḥ .. 8.83..
8.83. ’By truthfulness a witness is purified, through truthfulness his merit grows, truth must, therefore, be spoken by witnesses of all castes (varna).
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽत्मनः । माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ ८.८४॥
आत्मा एव हि आत्मनः साक्षी गतिः आत्मा तथा आत्मनः । मा अवमंस्थाः स्वम् आत्मानम् नृणाम् साक्षिणम् उत्तमम् ॥ ८।८४॥
ātmā eva hi ātmanaḥ sākṣī gatiḥ ātmā tathā ātmanaḥ . mā avamaṃsthāḥ svam ātmānam nṛṇām sākṣiṇam uttamam .. 8.84..
8.84. ’The Soul itself is the witness of the Soul, and the Soul is the refuge of the Soul; despise not thy own Soul, the supreme witness of men.
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ ८.८५॥
मन्यन्ते वै पाप-कृतः न कश्चिद् पश्यति इति नः । तान् तु देवाः प्रपश्यन्ति स्वस्य एव अन्तरपूरुषः ॥ ८।८५॥
manyante vai pāpa-kṛtaḥ na kaścid paśyati iti naḥ . tān tu devāḥ prapaśyanti svasya eva antarapūruṣaḥ .. 8.85..
8.85. ’The wicked, indeed, say in their hearts, "Nobody sees us;" but the gods distinctly see them and the male within their own breasts.
द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः । रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥ ८.८६॥
द्यौः भूमिः आपः हृदयम् चन्द्र-अर्क-अग्नि-यम-अनिलाः । रात्रिः संध्ये च धर्मः च वृत्त-ज्ञाः सर्व-देहिनाम् ॥ ८।८६॥
dyauḥ bhūmiḥ āpaḥ hṛdayam candra-arka-agni-yama-anilāḥ . rātriḥ saṃdhye ca dharmaḥ ca vṛtta-jñāḥ sarva-dehinām .. 8.86..
8.86. ’The sky, the earth, the waters, (the male in) the heart, the moon, the sun, the fire, Yama and the wind, the night, the two twilights, and justice know the conduct of all corporeal beings.’
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८.८७॥
देव-ब्राह्मण-सांनिध्ये साक्ष्यम् पृच्छेत् ऋतम् द्विजान् । उदक्-मुखान् प्राच्-मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ ८।८७॥
deva-brāhmaṇa-sāṃnidhye sākṣyam pṛcchet ṛtam dvijān . udak-mukhān prāc-mukhān vā pūrvāhṇe vai śuciḥ śucīn .. 8.87..
8.87. The (judge), being purified, shall ask in the forenoon the twice-born (witnesses) who (also have been) purified, (and stand) facing the north or the east, to give true evidence in the presence of (images of) the gods and of Brahmanas.
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ८.८८॥
ब्रूहि इति ब्राह्मणम् पृच्छेत् सत्यम् ब्रूहि इति पार्थिवम् । गो-बीज-काञ्चनैः वैश्यम् शूद्रम् सर्वैः तु पातकैः ॥ ८।८८॥
brūhi iti brāhmaṇam pṛcchet satyam brūhi iti pārthivam . go-bīja-kāñcanaiḥ vaiśyam śūdram sarvaiḥ tu pātakaiḥ .. 8.88..
8.88. Let him examine a Brahmana (beginning with) ’Speak,’ a Kshatriya (beginning with) ’Speak the truth,’ a Vaisya (admonishing him) by (mentioning) his kine, grain, and gold, a Sudra (threatening him) with (the guilt of) every crime that causes loss of caste;
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा ॥ ८.८९॥
ब्रह्म-घ्नः ये स्मृताः लोकाः ये च स्त्री-बाल-घातिनः । मित्र-द्रुहः कृतघ्नस्य ते ते स्युः ब्रुवतः मृषा ॥ ८।८९॥
brahma-ghnaḥ ye smṛtāḥ lokāḥ ye ca strī-bāla-ghātinaḥ . mitra-druhaḥ kṛtaghnasya te te syuḥ bruvataḥ mṛṣā .. 8.89..
8.89. (Saying), ’Whatever places (of torment) are assigned (by the sages) to the slayer of a Brahmana, to the murderer of women and children, to him who betrays a friend, and to an ungrateful man, those shall be thy (portion), if thou speakest falsely.
जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम् । तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वमन्यथा ॥ ८.९०॥
जन्म-प्रभृति यत् किम् चित् पुण्यम् भद्र त्वया कृतम् । तत् ते सर्वम् शुनः गच्छेत् यदि ब्रूयाः त्वम् अन्यथा ॥ ८।९०॥
janma-prabhṛti yat kim cit puṇyam bhadra tvayā kṛtam . tat te sarvam śunaḥ gacchet yadi brūyāḥ tvam anyathā .. 8.90..
8.90. ’(The reward) of all meritorious deeds which thou, good man, hast done since thy birth, shall become the share of the dogs, if in thy speech thou departest from the truth.
एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । नित्यं स्थितस्ते हृद्येष पुण्यपापैक्षिता मुनिः ॥ ८.९१॥
एकः अहम् अस्मि इति आत्मानम् यः त्वम् कल्याण मन्यसे । नित्यम् स्थितः ते हृदि एष पुण्य-पाप-ऐक्षिता मुनिः ॥ ८।९१॥
ekaḥ aham asmi iti ātmānam yaḥ tvam kalyāṇa manyase . nityam sthitaḥ te hṛdi eṣa puṇya-pāpa-aikṣitā muniḥ .. 8.91..
8.91. ’If thou thinkest, O friend of virtue, with respect to thyself, "I am alone," (know that) that sage who witnesses all virtuous acts and all crimes, ever resides in thy heart.
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ ८.९२॥
यमः वैवस्वतः देवः यः तव एष हृदि स्थितः । तेन चेद् अविवादः ते मा गङ्गाम् मा कुरून् गमः ॥ ८।९२॥
yamaḥ vaivasvataḥ devaḥ yaḥ tava eṣa hṛdi sthitaḥ . tena ced avivādaḥ te mā gaṅgām mā kurūn gamaḥ .. 8.92..
8.92. ’If thou art not at variance with that divine Yama, the son of Vivasvat, who dwells in thy heart, thou needest neither visit the Ganges nor the (land of the) Kurus.
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यमनृतं वदेत् ॥ ८.९३॥
नग्नः मुण्डः कपाली च भिक्षा-अर्थी क्षुध्-पिपासितः । अन्धः शत्रु-कुलम् गच्छेत् यः साक्ष्यम् अनृतम् वदेत् ॥ ८।९३॥
nagnaḥ muṇḍaḥ kapālī ca bhikṣā-arthī kṣudh-pipāsitaḥ . andhaḥ śatru-kulam gacchet yaḥ sākṣyam anṛtam vadet .. 8.93..
8.93. ’Naked and shorn, tormented with hunger and thirst, and deprived of sight, shall the man who gives false evidence, go with a potsherd to beg food at the door of his enemy.
अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन् धर्मनिश्चये ॥ ८.९४॥
किल्बिषी नरकम् व्रजेत् । यः प्रश्नम् वितथम् ब्रूयात् पृष्टः सन् धर्म-निश्चये ॥ ८।९४॥
kilbiṣī narakam vrajet . yaḥ praśnam vitatham brūyāt pṛṣṭaḥ san dharma-niścaye .. 8.94..
8.94. ’Headlong, in utter darkness shall the sinful man tumble into hell, who being interrogated in a judicial inquiry answers one question falsely.
अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ ८.९५॥
अन्धः मत्स्यान् इव अश्नाति स नरः कण्टकैः सह । यः भाषते अर्थ-वैकल्यम् अप्रत्यक्षम् सभाम् गतः ॥ ८।९५॥
andhaḥ matsyān iva aśnāti sa naraḥ kaṇṭakaiḥ saha . yaḥ bhāṣate artha-vaikalyam apratyakṣam sabhām gataḥ .. 8.95..
8.95. ’That man who in a court (of justice) gives an untrue account of a transaction (or asserts a fact) of which he was not an eye-witness, resembles a blind man who swallows fish with the bones.
यस्य विद्वान् हि वदतः क्षेत्रज्ञो नातिशङ्कते । तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ ८.९६॥
यस्य विद्वान् हि वदतः क्षेत्रज्ञः न अतिशङ्कते । तस्मात् न देवाः श्रेयांसम् लोके अन्यम् पुरुषम् विदुः ॥ ८।९६॥
yasya vidvān hi vadataḥ kṣetrajñaḥ na atiśaṅkate . tasmāt na devāḥ śreyāṃsam loke anyam puruṣam viduḥ .. 8.96..
8.96. ’The gods are acquainted with no better man in this world than him, of whom his conscious Soul has no distrust, when he gives evidence.
यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् । तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ ८.९७॥
यावतः बान्धवान् यस्मिन् हन्ति साक्ष्ये अनृतम् वदन् । तावतः सङ्ख्यया तस्मिन् शृणु सौम्य अनुपूर्वशस् ॥ ८।९७॥
yāvataḥ bāndhavān yasmin hanti sākṣye anṛtam vadan . tāvataḥ saṅkhyayā tasmin śṛṇu saumya anupūrvaśas .. 8.97..
8.97. ’Learn now, O friend, from an enumeration in due order, how many relatives he destroys who gives false evidence in several particular cases.
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ८.९८॥
पञ्च पशु-अनृते हन्ति दश हन्ति गव-अनृते । शतम् अश्व-अनृते हन्ति सहस्रम् पुरुष-अनृते ॥ ८।९८॥
pañca paśu-anṛte hanti daśa hanti gava-anṛte . śatam aśva-anṛte hanti sahasram puruṣa-anṛte .. 8.98..
8.98. ’He kills five by false Testimony regarding (small) cattle, he kills ten by false testimony regarding kine, he kills a hundred by false evidence concerning horses, and a thousand by false evidence concerning men.
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्वं भूमिअनृते हन्ति मा स्म भूमिअनृतं वदीः ॥ ८.९९॥
हन्ति जातान् अजातान् च हिरण्य-अर्थे अनृतम् वदन् । सर्वम् भूमि-अनृते हन्ति मा स्म भूमि-अनृतम् वदीः ॥ ८।९९॥
hanti jātān ajātān ca hiraṇya-arthe anṛtam vadan . sarvam bhūmi-anṛte hanti mā sma bhūmi-anṛtam vadīḥ .. 8.99..
8.99. ’By speaking falsely in a cause regarding gold, he kills the born and the unborn; by false evidence concerning land, he kills everything; beware, therefore, of false evidence concerning land.
अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ ८.१००॥
अप्सु भूमि-वत् इति आहुः स्त्रीणाम् भोगे च मैथुने । अब्जेषु च एव रत्नेषु सर्वेषु अश्म-मयेषु च ॥ ८।१००॥
apsu bhūmi-vat iti āhuḥ strīṇām bhoge ca maithune . abjeṣu ca eva ratneṣu sarveṣu aśma-mayeṣu ca .. 8.100..
8.100. ’They declare (false evidence) concerning water, concerning the carnal enjoyment of women, and concerning all gems, produced in water, or consisting of stones (to be) equally (wicked) as a lie concerning land.
एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥ ८.१०१॥
एतान् दोषान् अवेक्ष्य त्वम् सर्वान् अनृत-भाषणे । यथाश्रुतम् यथादृष्टम् सर्वम् एव अञ्जसा वद ॥ ८।१०१॥
etān doṣān avekṣya tvam sarvān anṛta-bhāṣaṇe . yathāśrutam yathādṛṣṭam sarvam eva añjasā vada .. 8.101..
8.101. ’Marking well all the evils (which are produced) by perjury, declare thou openly everything as (thou hast) heard or seen (it).’
गोरक्षकान् वाणिजकांस्तथा कारुकुशीलवान् । प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ ८.१०२॥
गोरक्षकान् वाणिजकान् तथा कारु-कुशीलवान् । प्रेष्यान् वार्धुषिकान् च एव विप्रान् शूद्र-वत् आचरेत् ॥ ८।१०२॥
gorakṣakān vāṇijakān tathā kāru-kuśīlavān . preṣyān vārdhuṣikān ca eva viprān śūdra-vat ācaret .. 8.102..
8.102. Brahmanas who tend cattle, who trade, who are mechanics, actors (or singers), menial servants or usurers, the (judge) shall treat like Sudras.
तद्वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः । न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम् ॥ ८.१०३॥
तत् वदन् धर्मतः अर्थेषु जानन् अपि अन्य्था नरः । न स्वर्गात् च्यवते लोकात् दैवीम् वाचम् वदन्ति ताम् ॥ ८।१०३॥
tat vadan dharmataḥ artheṣu jānan api anythā naraḥ . na svargāt cyavate lokāt daivīm vācam vadanti tām .. 8.103..
8.103. In (some) cases a man who, though knowing (the facts to be) different, gives such (false evidence) from a pious motive, does not lose heaven; such (evidence) they call the speech of the gods.
शूद्रविट्क्षत्रविप्राणां यत्रऋतोक्तौ भवेद्वधः । तत्र वक्तव्यमनृतं तधि सत्याद्विशिष्यते ॥ ८.१०४॥
शूद्र-विश्-क्षत्र-विप्राणाम् यत्र ऋत-उक्तौ भवेत् वधः । तत्र वक्तव्यम् अनृतम् सत्यात् विशिष्यते ॥ ८।१०४॥
śūdra-viś-kṣatra-viprāṇām yatra ṛta-uktau bhavet vadhaḥ . tatra vaktavyam anṛtam satyāt viśiṣyate .. 8.104..
8.104. Whenever the death of a Sudra, of a Vaisya, of a Kshatriya, or of a Brahmana would be (caused) by a declaration of the truth, a falsehood may be spoken; for such (falsehood) is preferable to the truth.
वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ ८.१०५॥
वाग्दैवत्यैः च चरुभिः यजेरन् ते सरस्वतीम् । अनृतस्य एनसः तस्य कुर्वाणाः निष्कृतिम् पराम् ॥ ८।१०५॥
vāgdaivatyaiḥ ca carubhiḥ yajeran te sarasvatīm . anṛtasya enasaḥ tasya kurvāṇāḥ niṣkṛtim parām .. 8.105..
8.105. Such (witnesses) must offer to Sarasvati oblations of boiled rice (karu) which are sacred to the goddess of speech, (thus) performing the best penance in order to expiate the guilt of that falsehood.
कूष्माण्डैर्वाऽपि जुहुयाद्घृतमग्नौ यथाविधि । उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ ८.१०६॥
कूष्माण्डैः वा अपि जुहुयात् घृतम् अग्नौ यथाविधि । उदिति-ऋचा वा वारुण्या तृचेन अप्-दैवतेन वा ॥ ८।१०६॥
kūṣmāṇḍaiḥ vā api juhuyāt ghṛtam agnau yathāvidhi . uditi-ṛcā vā vāruṇyā tṛcena ap-daivatena vā .. 8.106..
8.106. Or such (a witness) may offer according to the rule, clarified butter in the fire, reciting the Kushmanda texts, or the Rik, sacred to Varuna, ’Untie, O Varuna, the uppermost fetter,’ or the three verses addressed to the Waters.
त्रिपक्षादब्रुवन् साक्ष्यं ऋणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः ॥ ८.१०७॥
त्रि-पक्षात् अब्रुवन् साक्ष्यम् ऋण-आदिषु नरः अगदः । तत् ऋणम् प्राप्नुयात् सर्वम् दश-बन्धम् च सर्वतस् ॥ ८।१०७॥
tri-pakṣāt abruvan sākṣyam ṛṇa-ādiṣu naraḥ agadaḥ . tat ṛṇam prāpnuyāt sarvam daśa-bandham ca sarvatas .. 8.107..
8.107. A man who, without being ill, does not give evidence in (cases of) loans and the like within three fortnights (after the summons), shall become responsible for the whole debt and (pay) a tenth part of the whole (as a fine to the king).
यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥ ८.१०८॥
यस्य दृश्येत सप्त-अहात् उक्त-वाक्यस्य साक्षिणः । रोगः अग्निः ज्ञाति-मरणम् ऋणम् दाप्यः दमम् च सः ॥ ८।१०८॥
yasya dṛśyeta sapta-ahāt ukta-vākyasya sākṣiṇaḥ . rogaḥ agniḥ jñāti-maraṇam ṛṇam dāpyaḥ damam ca saḥ .. 8.108..
8.108. The witness to whom, within seven days after he has given evidence, happens (a misfortune through) sickness, a fire, or the death of a relative, shall be made to pay the debt and a fine.
असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः । अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ ८.१०९॥
अ साक्षिकेषु तु अर्थेषु मिथस् विवदमानयोः । अ विन्दन् तत्त्वतः सत्यम् शपथेन अपि लम्भयेत् ॥ ८।१०९॥
a sākṣikeṣu tu artheṣu mithas vivadamānayoḥ . a vindan tattvataḥ satyam śapathena api lambhayet .. 8.109..
8.109. If two (parties) dispute about matters for which no witnesses are available, and the (judge) is unable to really ascertain the truth, he may cause it to be discovered even by an oath.
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः । वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ ८.११०॥
महा-ऋषिभिः च देवैः च कार्य-अर्थम् शपथाः कृताः । वसिष्ठः च अपि शपथम् शेपे पैजवने नृपे ॥ ८।११०॥
mahā-ṛṣibhiḥ ca devaiḥ ca kārya-artham śapathāḥ kṛtāḥ . vasiṣṭhaḥ ca api śapatham śepe paijavane nṛpe .. 8.110..
8.110. Both by the great sages and the gods oaths have been taken for the purpose of (deciding doubtful) matters; and Vasishtha even swore an oath before king (Sudas), the son of Pigavana.
न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्वन् प्रेत्य चैह च नश्यति ॥ ८.१११॥
न वृथा शपथम् कुर्यात् सु अल्पे अपि अर्थे नरः बुधः । वृथा हि शपथम् कुर्वन् प्रेत्य च एह च नश्यति ॥ ८।१११॥
na vṛthā śapatham kuryāt su alpe api arthe naraḥ budhaḥ . vṛthā hi śapatham kurvan pretya ca eha ca naśyati .. 8.111..
8.111. Let no wise man swear an oath falsely, even in a trifling matter; for he who swears an oath falsely is lost in this (world) and after death.
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ ८.११२॥
कामिनीषु विवाहेषु गवाम् भक्ष्ये तथा इन्धने । ब्राह्मण-अभ्युपपत्तौ च शपथे न अस्ति पातकम् ॥ ८।११२॥
kāminīṣu vivāheṣu gavām bhakṣye tathā indhane . brāhmaṇa-abhyupapattau ca śapathe na asti pātakam .. 8.112..
8.112. No crime, causing loss of caste, is committed by swearing (falsely) to women, the objects of one’s desire, at marriages, for the sake of fodder for a cow, or of fuel, and in (order to show) favour to a Brahmana.
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ ८.११३॥
सत्येन शापयेत् विप्रम् क्षत्रियम् वाहन-आयुधैः । गो-बीज-काञ्चनैः वैश्यम् शूद्रम् सर्वैः तु पातकैः ॥ ८।११३॥
satyena śāpayet vipram kṣatriyam vāhana-āyudhaiḥ . go-bīja-kāñcanaiḥ vaiśyam śūdram sarvaiḥ tu pātakaiḥ .. 8.113..
8.113. Let the (judge) cause a Brahmana to swear by his veracity, a Kshatriya by his chariot or the animal he rides on and by his weapons, a Vaisya by his kine, grain, and gold, and a Sudra by (imprecating on his own head the guilt) of all grievous offences (pataka).
अग्निं वाऽहारयेदेनमप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् ॥ ८.११४॥
अग्निम् वा आहारयेत् एनम् अप्सु च एनम् निमज्जयेत् । पुत्र-दारस्य वा अपि एनम् शिरांसि स्पर्शयेत् पृथक् ॥ ८।११४॥
agnim vā āhārayet enam apsu ca enam nimajjayet . putra-dārasya vā api enam śirāṃsi sparśayet pṛthak .. 8.114..
8.114. Or the (judge) may cause the (party) to carry fire or to dive under water, or severally to touch the heads of his wives and children.
यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च । न चार्तिं ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ ८.११५॥
यम् इद्धः न दहति अग्निः आपः ना उन्मज्जयन्ति च । न च आर्तिम् ऋच्छति क्षिप्रम् स ज्ञेयः शपथे शुचिः ॥ ८।११५॥
yam iddhaḥ na dahati agniḥ āpaḥ nā unmajjayanti ca . na ca ārtim ṛcchati kṣipram sa jñeyaḥ śapathe śuciḥ .. 8.115..
8.115. He whom the blazing fire burns not, whom the water forces not to come (quickly) up, who meets with no speedy misfortune, must be held innocent on (the strength of) his oath.
वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥ ८.११६॥
वत्सस्य हि अभिशस्तस्य पुरा भ्रात्रा यवीयसा । न अग्निः ददाह रोम अपि सत्येन जगतः स्पशः ॥ ८।११६॥
vatsasya hi abhiśastasya purā bhrātrā yavīyasā . na agniḥ dadāha roma api satyena jagataḥ spaśaḥ .. 8.116..
8.116. For formerly when Vatsa was accused by his younger brother, the fire, the spy of the world, burned not even a hair (of his) by reason of his veracity.
यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ ८.११७॥
यस्मिन् यस्मिन् विवादे तु कौट-साक्ष्यम् कृतम् भवेत् । तत् तत् कार्यम् निवर्तेत कृतम् च अपि अकृतम् भवेत् ॥ ८।११७॥
yasmin yasmin vivāde tu kauṭa-sākṣyam kṛtam bhavet . tat tat kāryam nivarteta kṛtam ca api akṛtam bhavet .. 8.117..
8.117. Whenever false evidence has been given in any suit, let the (judge) reverse the judgment, and whatever has been done must be (considered as) undone.
लोभान्मोहाद्भयात्मैत्रात्कामात्क्रोधात्तथैव च । अज्ञानाद्बालभावात्च साक्ष्यं वितथमुच्यते ॥ ८.११८॥
लोभात् मोहात् भयात् मैत्रात् कामात् क्रोधात् तथा एव च । अज्ञानात् बाल-भावात् च साक्ष्यम् वितथम् उच्यते ॥ ८।११८॥
lobhāt mohāt bhayāt maitrāt kāmāt krodhāt tathā eva ca . ajñānāt bāla-bhāvāt ca sākṣyam vitatham ucyate .. 8.118..
8.118. Evidence (given) from covetousness, distraction, terror, friendship, lust, wrath, ignorance, and childishness is declared (to be) invalid.
एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ ८.११९॥
एषाम् अन्यतमे स्थाने यः साक्ष्यम् अनृतम् वदेत् । तस्य दण्ड-विशेषान् तु प्रवक्ष्यामि अनुपूर्वशस् ॥ ८।११९॥
eṣām anyatame sthāne yaḥ sākṣyam anṛtam vadet . tasya daṇḍa-viśeṣān tu pravakṣyāmi anupūrvaśas .. 8.119..
8.119. I will propound in (due) order the particular punishments for him who gives false evidence from any one of these motives.
लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम् । भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम् ॥ ८.१२०॥
लोभात् सहस्रम् दण्ड्यः तु मोहात् पूर्वम् तु साहसम् । भयात् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वम् चतुर्गुणम् ॥ ८।१२०॥
lobhāt sahasram daṇḍyaḥ tu mohāt pūrvam tu sāhasam . bhayāt dvau madhyamau daṇḍau maitrāt pūrvam caturguṇam .. 8.120..
8.120. (He who commits perjury) through covetousness shall be fined one thousand (panas), (he who does it) through distraction, in the lowest amercement; (if a man does it) through fear, two middling amercements shall be paid as a fine, (if he does it) through friendship, four times the amount of the lowest (amercement).
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् । अज्ञानाद्द्वे शते पूर्णे बालिश्यात्शतमेव तु ॥ ८.१२१॥
कामात् दशगुणम् पूर्वम् क्रोधात् तु त्रिगुणम् परम् । अज्ञानात् द्वे शते पूर्णे बालिश्यात् शतम् एव तु ॥ ८।१२१॥
kāmāt daśaguṇam pūrvam krodhāt tu triguṇam param . ajñānāt dve śate pūrṇe bāliśyāt śatam eva tu .. 8.121..
8.121. (He who does it) through lust, (shall pay) ten times the lowest amercement, but (he who does it) through wrath, three times the next (or second amercement); (he who does it) through ignorance, two full hundreds, but (he who does it) through childishness, one hundred (panas).
एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः । धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ ८.१२२॥
एतान् आहुः कौट-साक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः । धर्मस्य अव्यभिचार-अर्थम् अधर्म-नियमाय च ॥ ८।१२२॥
etān āhuḥ kauṭa-sākṣye proktān daṇḍān manīṣibhiḥ . dharmasya avyabhicāra-artham adharma-niyamāya ca .. 8.122..
8.122. They declare that the wise have prescribed these fines for perjury, in order to prevent a failure of justice, and in order to restrain injustice.
कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ ८.१२३॥
कौट-साक्ष्यम् तु कुर्वाणान् त्रीन् वर्णान् धार्मिकः नृपः । प्रवासयेत् दण्डयित्वा ब्राह्मणम् तु विवासयेत् ॥ ८।१२३॥
kauṭa-sākṣyam tu kurvāṇān trīn varṇān dhārmikaḥ nṛpaḥ . pravāsayet daṇḍayitvā brāhmaṇam tu vivāsayet .. 8.123..
8.123. But a just king shall fine and banish (men of) the three (lower) castes (varna) who have given false evidence, but a Brahmana he shall (only) banish.
दश स्थानानि दण्डस्य मनुः स्वयम्भुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ ८.१२४॥
दश स्थानानि दण्डस्य मनुः स्वयम्भुवः अब्रवीत् । त्रिषु वर्णेषु यानि स्युः अक्षतः ब्राह्मणः व्रजेत् ॥ ८।१२४॥
daśa sthānāni daṇḍasya manuḥ svayambhuvaḥ abravīt . triṣu varṇeṣu yāni syuḥ akṣataḥ brāhmaṇaḥ vrajet .. 8.124..
8.124. Manu, the son of the Self-existent (Svayambhu), has named ten places on which punishment may be (made to fall) in the cases of the three (lower) castes (varna); but a Brahmana shall depart unhurt (from the country).
उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ ८.१२५॥
उपस्थम् उदरम् जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुः नासा च कर्णौ च धनम् देहः तथा एव च ॥ ८।१२५॥
upastham udaram jihvā hastau pādau ca pañcamam . cakṣuḥ nāsā ca karṇau ca dhanam dehaḥ tathā eva ca .. 8.125..
8.125. (These are) the organ, the belly, the tongue, the two hands, and fifthly the two feet, the eye, the nose, the two ears, likewise the (whole) body.
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ ८.१२६॥
अनुबन्धम् परिज्ञाय देश-कालौ च तत्त्वतः । च आलोक्य दण्डम् दण्ड्येषु पातयेत् ॥ ८।१२६॥
anubandham parijñāya deśa-kālau ca tattvataḥ . ca ālokya daṇḍam daṇḍyeṣu pātayet .. 8.126..
8.126. Let the (king), having fully ascertained the motive, the time and place (of the offence), and having considered the ability (of the criminal to suffer) and the (nature of the) crime, cause punishment to fall on those who deserve it.
अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् ॥ ८.१२७॥
अधर्म-दण्डनम् लोके यशः-घ्नम् कीर्ति-नाशनम् । अस्वर्ग्यम् च परत्र अपि तस्मात् तत् परिवर्जयेत् ॥ ८।१२७॥
adharma-daṇḍanam loke yaśaḥ-ghnam kīrti-nāśanam . asvargyam ca paratra api tasmāt tat parivarjayet .. 8.127..
8.127. Unjust punishment destroys reputation among men, and fame (after death), and causes even in the next world the loss of heaven; let him, therefore, beware of (inflicting) it.
अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति ॥ ८.१२८॥
अ दण्ड्यान् दण्डयन् राजा दण्ड्यान् च एव अपि अ दण्डयन् । अयशः महत् आप्नोति नरकम् च एव गच्छति ॥ ८।१२८॥
a daṇḍyān daṇḍayan rājā daṇḍyān ca eva api a daṇḍayan . ayaśaḥ mahat āpnoti narakam ca eva gacchati .. 8.128..
8.128. A king who punishes those who do not deserve it, and punishes not those who deserve it, brings great infamy on himself and (after death) sinks into hell.
वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ ८.१२९॥
वाग्दण्डम् प्रथमम् कुर्यात् धिग्दण्डम् तद्-अनन्तरम् । तृतीयम् धनदण्डम् तु वध-दण्डम् अतस् परम् ॥ ८।१२९॥
vāgdaṇḍam prathamam kuryāt dhigdaṇḍam tad-anantaram . tṛtīyam dhanadaṇḍam tu vadha-daṇḍam atas param .. 8.129..
8.129. Let him punish first by (gentle) admonition, afterwards by (harsh) reproof, thirdly by a fine, after that by corporal chastisement.
वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । तदेषु सर्वमप्येतत्प्रयुञ्जीत चतुष्टयम् ॥ ८.१३०॥
वधेन अपि यदा तु एतान् निग्रहीतुम् न शक्नुयात् । तत् एषु सर्वम् अपि एतत् प्रयुञ्जीत चतुष्टयम् ॥ ८।१३०॥
vadhena api yadā tu etān nigrahītum na śaknuyāt . tat eṣu sarvam api etat prayuñjīta catuṣṭayam .. 8.130..
8.130. But when he cannot restrain such (offenders) even by corporal punishment, then let him apply to them even all the four (modes cojointly).
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ ८.१३१॥
लोक-संव्यवहार-अर्थम् याः संज्ञाः प्रथिताः भुवि । ताम्र-रूप्य-सुवर्णानाम् ताः प्रवक्ष्यामि अशेषतस् ॥ ८।१३१॥
loka-saṃvyavahāra-artham yāḥ saṃjñāḥ prathitāḥ bhuvi . tāmra-rūpya-suvarṇānām tāḥ pravakṣyāmi aśeṣatas .. 8.131..
8.131. Those technical names of (certain quantities of) copper, silver, and gold, which are generally used on earth for the purpose of business transactions among men, I will fully declare.
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते ॥ ८.१३२॥
जाल-अन्तर-गते भानौ यत् सूक्ष्मम् दृश्यते रजः । प्रथमम् तद्-प्रमाणानाम् त्रसरेणुम् प्रचक्षते ॥ ८।१३२॥
jāla-antara-gate bhānau yat sūkṣmam dṛśyate rajaḥ . prathamam tad-pramāṇānām trasareṇum pracakṣate .. 8.132..
8.132. The very small mote which is seen when the sun shines through a lattice, they declare (to be) the least of (all) quantities and (to be called) a trasarenu (a floating particle of dust).
त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ ८.१३३॥
त्रसरेणवः अष्टौ विज्ञेयाः लिक्षा एका परिमाणतः । ताः राजसर्षपः तिस्रः ते त्रयः गौरसर्षपः ॥ ८।१३३॥
trasareṇavaḥ aṣṭau vijñeyāḥ likṣā ekā parimāṇataḥ . tāḥ rājasarṣapaḥ tisraḥ te trayaḥ gaurasarṣapaḥ .. 8.133..
8.133. Know (that) eight trasarenus (are equal) in bulk (to) a liksha (the egg of a louse), three of those to one grain of black mustard (ragasarshapa), and three of the latter to a white mustard-seed.
सर्षपाः षट् यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ ८.१३४॥
सर्षपाः षट् यवः मध्यः त्रि-यवम् तु एक-कृष्णलम् । पञ्च-कृष्णलकः माषः ते सुवर्णः तु षोडश ॥ ८।१३४॥
sarṣapāḥ ṣaṭ yavaḥ madhyaḥ tri-yavam tu eka-kṛṣṇalam . pañca-kṛṣṇalakaḥ māṣaḥ te suvarṇaḥ tu ṣoḍaśa .. 8.134..
8.134. Six grains of white mustard are one middle-sized barley-corn, and three barley-corns one krishnala (raktika, or gunga-berry); five krishnalas are one masha (bean), and sixteen of those one suvarna.
पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः ॥ ८.१३५॥
पलम् सुवर्णाः चत्वारः पलानि धरणम् दश । द्वे कृष्णले समधृते विज्ञेयः रूप्यमाषकः ॥ ८।१३५॥
palam suvarṇāḥ catvāraḥ palāni dharaṇam daśa . dve kṛṣṇale samadhṛte vijñeyaḥ rūpyamāṣakaḥ .. 8.135..
8.135. Four suvarnas are one pala, and ten palas one dharana; two krishnalas (of silver), weighed together, must be considered one mashaka of silver.
ते षोडश स्याद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ ८.१३६॥
ते षोडश स्यात् हरणम् पुराणः च एव राजतः । कार्षापणः तु विज्ञेयः ताम्रिकः कार्षिकः पणः ॥ ८।१३६॥
te ṣoḍaśa syāt haraṇam purāṇaḥ ca eva rājataḥ . kārṣāpaṇaḥ tu vijñeyaḥ tāmrikaḥ kārṣikaḥ paṇaḥ .. 8.136..
8.136. Sixteen of those make a silver dharana, or purana; but know (that) a karsha of copper is a karshapana, or pana.
धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ ८.१३७॥
धरणानि दश ज्ञेयः शतमानः तु राजतः । चतुर्-सौवर्णिकः निष्कः विज्ञेयः तु प्रमाणतः ॥ ८।१३७॥
dharaṇāni daśa jñeyaḥ śatamānaḥ tu rājataḥ . catur-sauvarṇikaḥ niṣkaḥ vijñeyaḥ tu pramāṇataḥ .. 8.137..
8.137. Know (that) ten dharanas of silver make one satamana; four suvarnas must be considered (equal) in weight to a nishka.
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ ८.१३८॥
पणानाम् द्वे शते स अर्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रम् तु एव च उत्तमः ॥ ८।१३८॥
paṇānām dve śate sa ardhe prathamaḥ sāhasaḥ smṛtaḥ . madhyamaḥ pañca vijñeyaḥ sahasram tu eva ca uttamaḥ .. 8.138..
8.138. Two hundred and fifty panas are declared (to be) the first (or lowest) amercement, five (hundred) are considered as the mean (or middlemost), but one thousand as the highest.
ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति । अपह्नवे तद्द्विगुणं तन् मनोरनुशासनम् ॥ ८.१३९॥
ऋणे देये प्रतिज्ञाते पञ्चकम् शतम् अर्हति । अपह्नवे तद्-द्विगुणम् तत् मनोः अनुशासनम् ॥ ८।१३९॥
ṛṇe deye pratijñāte pañcakam śatam arhati . apahnave tad-dviguṇam tat manoḥ anuśāsanam .. 8.139..
8.139. A debt being admitted as due, (the defendant) shall pay five in the hundred (as a fine), if it be denied (and proved) twice as much; that is the teaching of Manu.
वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान् मासाद्वार्धुषिकः शते ॥ ८.१४०॥
वसिष्ठ-विहिताम् वृद्धिम् सृजेत् वित्त-विवर्धिनीम् । अशीति-भागम् गृह्णीयात् मासात् वार्धुषिकः शते ॥ ८।१४०॥
vasiṣṭha-vihitām vṛddhim sṛjet vitta-vivardhinīm . aśīti-bhāgam gṛhṇīyāt māsāt vārdhuṣikaḥ śate .. 8.140..
8.140. A money-lender may stipulate as an increase of his capital, for the interest, allowed by Vasishtha, and take monthly the eightieth part of a hundred.
द्विकं शतं वा गृह्णीयात्सतां धर्ममनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥ ८.१४१॥
द्विकम् शतम् वा गृह्णीयात् सताम् धर्मम् अनुस्मरन् । द्विकम् शतम् हि गृह्णानः न भवति अर्थ-किल्बिषी ॥ ८।१४१॥
dvikam śatam vā gṛhṇīyāt satām dharmam anusmaran . dvikam śatam hi gṛhṇānaḥ na bhavati artha-kilbiṣī .. 8.141..
8.141. Or, remembering the duty of good men, he may take two in the hundred (by the month), for he who takes two in the hundred becomes not a sinner for gain.
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद्वर्णानामनुपूर्वशः ॥ ८.१४२॥
द्विकम् त्रिकम् चतुष्कम् च पञ्चकम् च शतम् समम् । मासस्य वृद्धिम् गृह्णीयात् वर्णानाम् अनुपूर्वशस् ॥ ८।१४२॥
dvikam trikam catuṣkam ca pañcakam ca śatam samam . māsasya vṛddhim gṛhṇīyāt varṇānām anupūrvaśas .. 8.142..
8.142. Just two in the hundred, three, four, and five (and not more), he may take as monthly interest according to the order of the castes (varna).
न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् । न चाधेः कालसंरोधात्निसर्गोऽस्ति न विक्रयः ॥ ८.१४३॥
न तु एव आधौ सोपकारे कौसीदीम् वृद्धिम् आप्नुयात् । न च आधेः काल-संरोधात् निसर्गः अस्ति न विक्रयः ॥ ८।१४३॥
na tu eva ādhau sopakāre kausīdīm vṛddhim āpnuyāt . na ca ādheḥ kāla-saṃrodhāt nisargaḥ asti na vikrayaḥ .. 8.143..
8.143. But if a beneficial pledge (i.e. one from which profit accrues, has been given), he shall receive no interest on the loan; nor can he, after keeping (such) a pledge for a very long time, give or sell it.
न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् । मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ ८.१४४॥
न भोक्तव्यः बलात् आधिः भुञ्जानः वृद्धिम् उत्सृजेत् । मूल्येन तोषयेत् च एनम् आधि-स्तेनः अन्यथा भवेत् ॥ ८।१४४॥
na bhoktavyaḥ balāt ādhiḥ bhuñjānaḥ vṛddhim utsṛjet . mūlyena toṣayet ca enam ādhi-stenaḥ anyathā bhavet .. 8.144..
8.144. A pledge (to be kept only) must not be used by force, (the creditor), so using it, shall give up his (whole) interest, or, (if it has been spoilt by use) he shall satisfy the (owner) by (paying its) original price; else he
आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः । अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥ ८.१४५॥
आधिः च उपनिधिः च उभौ न काल-अत्ययम् अर्हतः । अवहार्यौ भवेताम् तौ दीर्घ-कालम् अवस्थितौ ॥ ८।१४५॥
ādhiḥ ca upanidhiḥ ca ubhau na kāla-atyayam arhataḥ . avahāryau bhavetām tau dīrgha-kālam avasthitau .. 8.145..
commits a theft of the pledge.
सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदा चन । धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ ८.१४६॥
सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदा चन । धेनुः उष्ट्रः वहन् अश्वः यः च दम्यः प्रयुज्यते ॥ ८।१४६॥
samprītyā bhujyamānāni na naśyanti kadā cana . dhenuḥ uṣṭraḥ vahan aśvaḥ yaḥ ca damyaḥ prayujyate .. 8.146..
8.145. Neither a pledge nor a deposit can be lost by lapse of time; they are both recoverable, though they have remained long (with the bailee).
यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तत्लब्धुमर्हति ॥ ८.१४७॥
यत् किम् चित् दश-वर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानम् परैः तूष्णीम् न स तत् लब्धुम् अर्हति ॥ ८।१४७॥
yat kim cit daśa-varṣāṇi saṃnidhau prekṣate dhanī . bhujyamānam paraiḥ tūṣṇīm na sa tat labdhum arhati .. 8.147..
8.146. Things used with friendly assent, a cow, a camel, a riding-horse, and (a beast) made over for breaking in, are never lost (to the owner).
अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्धनमर्हति॥ ८.१४८॥
अजडः चेद् अपोगण्डः विषये च अस्य भुज्यते । भग्नम् तद्-व्यवहारेण भोक्ता तत् धनम् अर्हति॥ ८।१४८॥
ajaḍaḥ ced apogaṇḍaḥ viṣaye ca asya bhujyate . bhagnam tad-vyavahāreṇa bhoktā tat dhanam arhati.. 8.148..
8.147. (But in general) whatever (chattel) an owner sees enjoyed by others during ten years, while, though present, he says nothing, that (chattel) he shall not recover.
आधिः सीमा बालधनं निक्षेपौपनिधी स्त्रियः । राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ ८.१४९॥
आधिः सीमा बाल-धनम् निक्षेप-औपनिधी स्त्रियः । राज-स्वम् श्रोत्रिय-स्वम् च न भोगेन प्रणश्यति ॥ ८।१४९॥
ādhiḥ sīmā bāla-dhanam nikṣepa-aupanidhī striyaḥ . rāja-svam śrotriya-svam ca na bhogena praṇaśyati .. 8.149..
8.148. If (the owner is) neither an idiot nor a minor and if (his chattel) is enjoyed (by another) before his eyes, it is lost to him by law; the adverse possessor shall retain that property.
यः स्वामिनाऽननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः । तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ ८.१५०॥
यः स्वामिना अननुज्ञातम् आधिम् भूङ्क्ते अविचक्षणः । तेन अर्ध-वृद्धिः मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ ८।१५०॥
yaḥ svāminā ananujñātam ādhim bhūṅkte avicakṣaṇaḥ . tena ardha-vṛddhiḥ moktavyā tasya bhogasya niṣkṛtiḥ .. 8.150..
8.149. A pledge, a boundary, the property of infants, an (open) deposit, a sealed deposit, women, the property of the king and the wealth of a Srotriya are not lost in consequence of (adverse) enjoyment.
कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ ८.१५१॥
कुसीद-वृद्धिः द्वैगुण्यम् न अत्येति सकृत् आहृता । धान्ये सदे लवे वाह्ये न अतिक्रामति पञ्चताम् ॥ ८।१५१॥
kusīda-vṛddhiḥ dvaiguṇyam na atyeti sakṛt āhṛtā . dhānye sade lave vāhye na atikrāmati pañcatām .. 8.151..
8.150. The fool who uses a pledge without the permission of the owner, shall remit half of his interest, as a
कृतानुसारादधिका व्यतिरिक्ता न सिध्यति । कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥ ८.१५२॥
कृतानुसारात् अधिका व्यतिरिक्ता न सिध्यति । कुसीद-पथम् आहुः तम् पञ्चकम् शतम् अर्हति ॥ ८।१५२॥
kṛtānusārāt adhikā vyatiriktā na sidhyati . kusīda-patham āhuḥ tam pañcakam śatam arhati .. 8.152..
compensation for (such) use.
नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ ८.१५३॥
न अतिसांवत्सरीम् वृद्धिम् न च अदृष्टाम् पुनर् हरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ ८।१५३॥
na atisāṃvatsarīm vṛddhim na ca adṛṣṭām punar haret . cakravṛddhiḥ kālavṛddhiḥ kāritā kāyikā ca yā .. 8.153..
8.151. In money transactions interest paid at one time (not by instalments) shall never exceed the double (of the principal); on grain, fruit, wool or hair, (and) beasts of burden it must not be more than five times (the original amount).
ऋणं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ ८.१५४॥
ऋणम् दातुम् अशक्तः यः कर्तुम् इच्छेत् पुनर् क्रियाम् । स दत्त्वा निर्जिताम् वृद्धिम् करणम् परिवर्तयेत् ॥ ८।१५४॥
ṛṇam dātum aśaktaḥ yaḥ kartum icchet punar kriyām . sa dattvā nirjitām vṛddhim karaṇam parivartayet .. 8.154..
8.152. Stipulated interest beyond the legal rate, being against (the law), cannot be recovered; they call that a usurious way (of lending); (the lender) is (in no case) entitled to (more than) five in the hundred.
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती सम्भवेद्वृद्धिस्तावतीं दातुमर्हति ॥ ८.१५५॥
अ दर्शयित्वा तत्र एव हिरण्यम् परिवर्तयेत् । यावती सम्भवेत् वृद्धिः तावतीम् दातुम् अर्हति ॥ ८।१५५॥
a darśayitvā tatra eva hiraṇyam parivartayet . yāvatī sambhavet vṛddhiḥ tāvatīm dātum arhati .. 8.155..
8.153. Let him not take interest beyond the year, nor such as is unapproved, nor compound interest, periodical interest, stipulated interest, and corporal interest.8.154. He who, unable to pay a debt (at the fixed time), wishes to make a new contract, may renew the agreement, after paying the interest which is due.
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः । अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥ ८.१५६॥
चक्रवृद्धिम् समारूढः देश-काल-व्यवस्थितः । अतिक्रामन् देश-कालौ न तद्-फलम् अवाप्नुयात् ॥ ८।१५६॥
cakravṛddhim samārūḍhaḥ deśa-kāla-vyavasthitaḥ . atikrāman deśa-kālau na tad-phalam avāpnuyāt .. 8.156..
8.155. If he cannot pay the money (due as interest), he may insert it in the renewed (agreement); he must pay as much interest as may be due.
समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ ८.१५७॥
समुद्र-यान-कुशलाः देश-काल-अर्थ-दर्शिनः । स्थापयन्ति तु याम् वृद्धिम् सा तत्र अधिगमम् प्रति ॥ ८।१५७॥
samudra-yāna-kuśalāḥ deśa-kāla-artha-darśinaḥ . sthāpayanti tu yām vṛddhim sā tatra adhigamam prati .. 8.157..
8.156. He who has made a contract to carry goods by a wheeled carriage for money and has agreed to a certain place or time, shall not reap that reward, if he does not keep to the place and the time (stipulated).8.157. Whatever rate men fix, who are expert in sea-voyages and able to calculate (the profit) according to the place, the time, and the objects (carried), that (has legal force) in such cases with respect to the payment (to be made).
यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायैह मानवः । अदर्शयन् स तं तस्य प्रयच्छेत्स्वधनादृणम् ॥ ८.१५८॥
यः यस्य प्रतिभूः तिष्ठेत् दर्शनाय एह मानवः । अदर्शयन् स तम् तस्य प्रयच्छेत् स्व-धनात् ऋणम् ॥ ८।१५८॥
yaḥ yasya pratibhūḥ tiṣṭhet darśanāya eha mānavaḥ . adarśayan sa tam tasya prayacchet sva-dhanāt ṛṇam .. 8.158..
8.158. The man who becomes a surety in this (world) for the appearance of a (debtor), and produces him not, shall pay the debt out of his own property.
प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् । दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ ८.१५९॥
प्रातिभाव्यम् वृथादान-माक्षिकम् सौरिकाम् च यत् । दण्ड-शुल्क-अवशेषम् च न पुत्रः दातुम् अर्हति ॥ ८।१५९॥
prātibhāvyam vṛthādāna-mākṣikam saurikām ca yat . daṇḍa-śulka-avaśeṣam ca na putraḥ dātum arhati .. 8.159..
8.159. But money due by a surety, or idly promised, or lost at play, or due for spirituous liquor, or what remains unpaid of a fine and a tax or duty, the son (of the party owing it) shall not be obliged to pay.
दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः । दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ ८.१६०॥
दर्शन-प्रातिभाव्ये तु विधिः स्यात् पूर्व-चोदितः । दान-प्रतिभुवि प्रेते दायादान् अपि दापयेत् ॥ ८।१६०॥
darśana-prātibhāvye tu vidhiḥ syāt pūrva-coditaḥ . dāna-pratibhuvi prete dāyādān api dāpayet .. 8.160..
8.160. This just mentioned rule shall apply to the case of a surety for appearance (only); if a surety for payment should die, the (judge) may compel even his heirs to discharge the debt.
अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् । पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना ॥ ८.१६१॥
अ दातरि पुनर् दाता विज्ञात-प्रकृतौ ऋणम् । पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥ ८।१६१॥
a dātari punar dātā vijñāta-prakṛtau ṛṇam . paścāt pratibhuvi prete parīpset kena hetunā .. 8.161..
8.161. On what account then is it that after the death of a surety other than for payment, whose affairs are fully known, the creditor may (in some cases) afterwards demand the debt (of the heirs)?
निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः । स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः ॥ ८.१६२॥
निरादिष्ट-धनः चेद् तु प्रतिभूः स्यात् अलंधनः । स्व-धनात् एव तत् दद्यात् निरादिष्टः इति स्थितिः ॥ ८।१६२॥
nirādiṣṭa-dhanaḥ ced tu pratibhūḥ syāt alaṃdhanaḥ . sva-dhanāt eva tat dadyāt nirādiṣṭaḥ iti sthitiḥ .. 8.162..
8.162. If the surety had received money (from him for whom he stood bail) and had money enough (to pay), then (the heir of him) who received it, shall pay (the debt) out of his property; that is the settled rule.
मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा । असम्बद्धकृतश्चैव व्यवहारो न सिध्यति ॥ ८.१६३॥
मत्त-उन्मत्त-आर्त-अध्यधीनैः बालेन स्थविरेण वा । असंबद्ध-कृतः च एव व्यवहारः न सिध्यति ॥ ८।१६३॥
matta-unmatta-ārta-adhyadhīnaiḥ bālena sthavireṇa vā . asaṃbaddha-kṛtaḥ ca eva vyavahāraḥ na sidhyati .. 8.163..
8.163. A contract made by a person intoxicated, or insane, or grievously disordered (by disease and so forth), or wholly dependent, by an infant or very aged man, or by an unauthorised (party) is invalid.
सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता । बहिश्चेद्भाष्यते धर्मात्नियताद्व्यवहारिकात् ॥ ८.१६४॥
सत्या न भाषा भवति यदि अपि स्यात् प्रतिष्ठिता । बहिस् चेद् भाष्यते धर्मात् नियतात् व्यवहारिकात् ॥ ८।१६४॥
satyā na bhāṣā bhavati yadi api syāt pratiṣṭhitā . bahis ced bhāṣyate dharmāt niyatāt vyavahārikāt .. 8.164..
8.164. That agreement which has been made contrary to the law or to the settled usage (of the virtuous), can have no legal force, though it be established (by proofs).
योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् ॥ ८.१६५॥
योगाधमनविक्रीतम् योगदान-प्रतिग्रहम् । यत्र वा अपि उपधिम् पश्येत् तत् सर्वम् विनिवर्तयेत् ॥ ८।१६५॥
yogādhamanavikrītam yogadāna-pratigraham . yatra vā api upadhim paśyet tat sarvam vinivartayet .. 8.165..
8.165. A fraudulent mortgage or sale, a fraudulent gift or acceptance, and (any transaction) where he detects fraud, the (judge) shall declare null and void.
ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः । दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः ॥ ८.१६६॥
ग्रहीता यदि नष्टः स्यात् कुटुम्ब-अर्थे कृतः व्ययः । दातव्यम् बान्धवैः तत् स्यात् प्रविभक्तैः अपि स्वतस् ॥ ८।१६६॥
grahītā yadi naṣṭaḥ syāt kuṭumba-arthe kṛtaḥ vyayaḥ . dātavyam bāndhavaiḥ tat syāt pravibhaktaiḥ api svatas .. 8.166..
8.166. If the debtor be dead and (the money borrowed) was expended for the family, it must be paid by the relatives out of their own estate even if they are divided.
कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ ८.१६७॥
कुटुम्ब-अर्थे अध्यधीनः अपि व्यवहारम् यम् आचरेत् । स्व-देशे वा विदेशे वा तम् ज्यायान् न विचालयेत् ॥ ८।१६७॥
kuṭumba-arthe adhyadhīnaḥ api vyavahāram yam ācaret . sva-deśe vā videśe vā tam jyāyān na vicālayet .. 8.167..
8.167. Should even a person wholly dependent make a contract for the behoof of the family, the master (of the house), whether (living) in his own country or abroad, shall not rescind it.
बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् । सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ॥ ८.१६८॥
बलात् दत्तम् बलात् भुक्तम् बलात् यत् च अपि लेखितम् । सर्वान् बल-कृतान् अर्थान् अकृतान् मनुः अब्रवीत् ॥ ८।१६८॥
balāt dattam balāt bhuktam balāt yat ca api lekhitam . sarvān bala-kṛtān arthān akṛtān manuḥ abravīt .. 8.168..
8.168. What is given by force, what is enjoyed by force, also what has been caused to be written by force, and all other transactions done by force, Manu has declared void.
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः ॥ ८.१६९॥
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारः तु उपचीयन्ते विप्रः आढ्यः वणिज् नृपः ॥ ८।१६९॥
trayaḥ parārthe kliśyanti sākṣiṇaḥ pratibhūḥ kulam . catvāraḥ tu upacīyante vipraḥ āḍhyaḥ vaṇij nṛpaḥ .. 8.169..
8.169. Three suffer for the sake of others, witnesses, a surety, and judges; but four enrich themselves (through others), a Brahmana, a money-lender, a merchant, and a king.
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ ८.१७०॥
अनादेयम् न आददीत परिक्षीणः अपि पार्थिवः । न च आदेयम् समृद्धः अपि सूक्ष्मम् अपि अर्थम् उत्सृजेत् ॥ ८।१७०॥
anādeyam na ādadīta parikṣīṇaḥ api pārthivaḥ . na ca ādeyam samṛddhaḥ api sūkṣmam api artham utsṛjet .. 8.170..
8.170. No king, however indigent, shall take anything that ought not to be taken, nor shall he, however wealthy, decline taking that which he ought to take, be it ever so small.
अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्यैह च नश्यति ॥ ८.१७१॥
अनादेयस्य च आदान-अदादेयस्य च वर्जनात् । दौर्बल्यम् ख्याप्यते राज्ञः स प्रेत्य इह च नश्यति ॥ ८।१७१॥
anādeyasya ca ādāna-adādeyasya ca varjanāt . daurbalyam khyāpyate rājñaḥ sa pretya iha ca naśyati .. 8.171..
8.171. In consequence of his taking what ought not to be taken, or of his refusing what ought to be received, a king will be accused of weakness and perish in this (world) and after death.
स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । बलं सञ्जायते राज्ञः स प्रेत्यैह च वर्धते ॥ ८.१७२॥
स्व-आदानात् वर्ण-संसर्गात् तु अ बलानाम् च रक्षणात् । बलम् सञ्जायते राज्ञः स प्रेत्य इह च वर्धते ॥ ८।१७२॥
sva-ādānāt varṇa-saṃsargāt tu a balānām ca rakṣaṇāt . balam sañjāyate rājñaḥ sa pretya iha ca vardhate .. 8.172..
8.172. By taking his due, by preventing the confusion of the castes (varna), and by protecting the weak, the power of the king grows, and he prospers in this (world) and after death.
तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ ८.१७३॥
तस्मात् यमः इव स्वामी स्वयम् हित्वा प्रिय-अप्रिये । वर्तेत याम्यया वृत्त्या जित-क्रोधः जित-इन्द्रियः ॥ ८।१७३॥
tasmāt yamaḥ iva svāmī svayam hitvā priya-apriye . varteta yāmyayā vṛttyā jita-krodhaḥ jita-indriyaḥ .. 8.173..
8.173. Let the prince, therefore, like Yama, not heeding his own likings and dislikings, behave exactly like Yama, suppressing his anger and controlling himself.
यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ ८.१७४॥
यः तु अधर्मेण कार्याणि मोहात् कुर्यात् नराधिपः । अचिरात् तम् दुरात्मानम् वशे कुर्वन्ति शत्रवः ॥ ८।१७४॥
yaḥ tu adharmeṇa kāryāṇi mohāt kuryāt narādhipaḥ . acirāt tam durātmānam vaśe kurvanti śatravaḥ .. 8.174..
8.174. But that evil-minded king who in his folly decides causes unjustly, his enemies soon subjugate.
कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति । प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ ८.१७५॥
काम-क्रोधौ तु संयम्य यः अर्थान् धर्मेण पश्यति । प्रजाः तम् अनुवर्तन्ते समुद्रम् इव सिन्धवः ॥ ८।१७५॥
kāma-krodhau tu saṃyamya yaḥ arthān dharmeṇa paśyati . prajāḥ tam anuvartante samudram iva sindhavaḥ .. 8.175..
8.175. If, subduing love and hatred, he decides the causes according to the law, (the hearts of) his subjects turn towards him as the rivers (run) towards the ocean.
यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे । स राज्ञा तत्चतुर्भागं दाप्यस्तस्य च तद्धनम् ॥ ८.१७६॥
यः साधयन्तम् छन्देन वेदयेत् धनिकम् नृपे । स राज्ञा तद्-चतुर्-भागम् दाप्यः तस्य च तत् धनम् ॥ ८।१७६॥
yaḥ sādhayantam chandena vedayet dhanikam nṛpe . sa rājñā tad-catur-bhāgam dāpyaḥ tasya ca tat dhanam .. 8.176..
8.176. (The debtor) who complains to the king that his creditor recovers (the debt) independently (of the court), shall be compelled by the king to pay (as a fine) one quarter (of the sum) and to his (creditor) the money(due).
कर्मणाऽपि समं कुर्याद्धनिकायाधमर्णिकः । समोऽवकृष्टजातिस्तु दद्यात्श्रेयांस्तु तत्शनैः ॥ ८.१७७॥
कर्मणा अपि समम् कुर्यात् धनिकाय अधमर्णिकः । समः अवकृष्ट-जातिः तु दद्यात् श्रेयान् तु तत् शनैस् ॥ ८।१७७॥
karmaṇā api samam kuryāt dhanikāya adhamarṇikaḥ . samaḥ avakṛṣṭa-jātiḥ tu dadyāt śreyān tu tat śanais .. 8.177..
8.177. Even by (personal) labour shall the debtor make good (what he owes) to his creditor, if he be of the same caste or of a lower one; but a (debtor) of a higher caste shall pay it gradually (when he earns something).
अनेन विधिना राजा मिथो विवदतां नृणाम् । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ ८.१७८॥
अनेन विधिना राजा मिथस् विवदताम् नृणाम् । साक्षि-प्रत्यय-सिद्धानि कार्याणि समताम् नयेत् ॥ ८।१७८॥
anena vidhinā rājā mithas vivadatām nṛṇām . sākṣi-pratyaya-siddhāni kāryāṇi samatām nayet .. 8.178..
8.178. According to these rules let the king equitably decide between men, who dispute with each other the matters, which are proved by witnesses and (other) evidence.
कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः ॥ ८.१७९॥
कुल-जे वृत्त-सम्पन्ने धर्म-ज्ञे सत्य-वादिनि । महापक्षे धनिनि आर्ये निक्षेपम् निक्षिपेत् बुधः ॥ ८।१७९॥
kula-je vṛtta-sampanne dharma-jñe satya-vādini . mahāpakṣe dhanini ārye nikṣepam nikṣipet budhaḥ .. 8.179..
8.179. A se nsible man should make a deposit (only) with a person of (good) family, of good conduct, well acquainted with the law, veracious, having many relatives, wealthy, and honourable (arya).
यो यथा निक्षिपेद्धस्ते यमर्थं यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ ८.१८०॥
यः यथा निक्षिपेत् हस्ते यम् अर्थम् यस्य मानवः । स तथा एव ग्रहीतव्यः यथा दायः तथा ग्रहः ॥ ८।१८०॥
yaḥ yathā nikṣipet haste yam artham yasya mānavaḥ . sa tathā eva grahītavyaḥ yathā dāyaḥ tathā grahaḥ .. 8.180..
8.180. In whatever manner a person shall deposit anything in the hands of another, in the same manner ought the same thing to be received back (by the owner); as the delivery (was, so must be) the re-delivery.
यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति । स याच्यः प्राड्विवाकेन तत्निक्षेप्तुरसंनिधौ ॥ ८.१८१॥
यः निक्षेपम् याच्यमानः निक्षेप्तुः न प्रयच्छति । स याच्यः प्राड्विवाकेन तद्-निक्षेप्तुः असंनिधौ ॥ ८।१८१॥
yaḥ nikṣepam yācyamānaḥ nikṣeptuḥ na prayacchati . sa yācyaḥ prāḍvivākena tad-nikṣeptuḥ asaṃnidhau .. 8.181..
8.181. He who restores not his deposit to the depositor at his request, may be tried by the judge in the depositor’s absence.
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ ८.१८२॥
साक्षी अभावे प्रणिधिभिः वयः-रूप-समन्वितैः । अपदेशैः च संन्यस्य हिरण्यम् तस्य तत्त्वतः ॥ ८।१८२॥
sākṣī abhāve praṇidhibhiḥ vayaḥ-rūpa-samanvitaiḥ . apadeśaiḥ ca saṃnyasya hiraṇyam tasya tattvataḥ .. 8.182..
8.182. On failure of witnesses let the (judge) actually deposit gold with that (defendant) under some pretext or other through spies of suitable age and appearance (and afterwards demand it back).
स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् । न तत्र विद्यते किं चिद्यत्परैरभियुज्यते ॥ ८.१८३॥
स यदि प्रतिपद्येत यथान्यस्तम् यथाकृतम् । न तत्र विद्यते किम् चित् यत् परैः अभियुज्यते ॥ ८।१८३॥
sa yadi pratipadyeta yathānyastam yathākṛtam . na tatra vidyate kim cit yat paraiḥ abhiyujyate .. 8.183..
8.183. If the (defendant) restores it in the manner and shape in which it was bailed, there is nothing (of that description) in his hands, for which others accuse him.
तेषां न दद्याद्यदि तु तधिरण्यं यथाविधि । उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥ ८.१८४॥
तेषाम् न दद्यात् यदि तु तत् हिरण्यम् यथाविधि । उभौ निगृह्य दाप्यः स्यात् इति धर्मस्य धारणा ॥ ८।१८४॥
teṣām na dadyāt yadi tu tat hiraṇyam yathāvidhi . ubhau nigṛhya dāpyaḥ syāt iti dharmasya dhāraṇā .. 8.184..
8.184. But if he restores not that gold, as be ought, to those (spies), then he shall be compelled by force to restore both (deposits); that is a settled rule of law.
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥ ८.१८५॥
निक्षेप-उपनिधी नित्यम् न देयौ प्रत्यनन्तरे । नश्यतः विनिपाते तौ अनिपाते तु अनाशिनौ ॥ ८।१८५॥
nikṣepa-upanidhī nityam na deyau pratyanantare . naśyataḥ vinipāte tau anipāte tu anāśinau .. 8.185..
8.185. An open or a sealed deposit must never be returned to a near relative (of the depositor during the latter’s lifetime); for if (the recipient) dies (without delivering them), they are lost, but if he does not die, they are not lost.
स्वयमेव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे । न स राज्ञाऽभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ ८.१८६॥
स्वयम् एव तु यौ दद्यात् मृतस्य प्रत्यनन्तरे । न स राज्ञा अभियोक्तव्यः न निक्षेप्तुः च बन्धुभिः ॥ ८।१८६॥
svayam eva tu yau dadyāt mṛtasya pratyanantare . na sa rājñā abhiyoktavyaḥ na nikṣeptuḥ ca bandhubhiḥ .. 8.186..
8.186. But (a depositary) who of his own accord returns them to a near relative of a deceased (depositor), must not be harassed (about them) by the king or by the depositor’s relatives.
अच्छलेनैव चान्विच्छेत्तमर्थं प्रीतिपूर्वकम् । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ ८.१८७॥
अच्छलेन एव च अन्विच्छेत् तम् अर्थम् प्रीति-पूर्वकम् । विचार्य तस्य वा वृत्तम् साम्ना एव परिसाधयेत् ॥ ८।१८७॥
acchalena eva ca anvicchet tam artham prīti-pūrvakam . vicārya tasya vā vṛttam sāmnā eva parisādhayet .. 8.187..
8.187. And (in doubtful cases) he should try to obtain that object by friendly means, without (having recourse to) artifice, or having inquired into (depositary’s) conduct, he should settle (the matter) with gentle means.
निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने । समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् ॥ ८.१८८॥
निक्षेपेषु एषु सर्वेषु विधिः स्यात् परिसाधने । समुद्रे न आप्नुयात् किम् चित् यदि तस्मात् न संहरेत् ॥ ८।१८८॥
nikṣepeṣu eṣu sarveṣu vidhiḥ syāt parisādhane . samudre na āpnuyāt kim cit yadi tasmāt na saṃharet .. 8.188..
8.188. Such is the rule for obtaining back all those open deposits; in the case of a sealed deposit (the depositary) shall incur no (censure), unless he has taken out something.
चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा । न दद्याद्यदि तस्मात्स न संहरति किं चन ॥ ८.१८९॥
चौरैः हृतम् जलेन ऊढम् अग्निना दग्धम् एव वा । न दद्यात् यदि तस्मात् स न संहरति किम् चन ॥ ८।१८९॥
cauraiḥ hṛtam jalena ūḍham agninā dagdham eva vā . na dadyāt yadi tasmāt sa na saṃharati kim cana .. 8.189..
8.189. (A deposit) which has been stolen by thieves or washed away by water or burned by fire, (the bailee) shall not make it good, unless he took part of it (for himself).
निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च । सर्वैरुपायैरन्विच्छेत्शपथैश्चैव वैदिकैः ॥ ८.१९०॥
निक्षेपस्य अपहर्तारम् अ निक्षेप्तारम् एव च । सर्वैः उपायैः अन्विच्छेत् शपथैः च एव वैदिकैः ॥ ८।१९०॥
nikṣepasya apahartāram a nikṣeptāram eva ca . sarvaiḥ upāyaiḥ anvicchet śapathaiḥ ca eva vaidikaiḥ .. 8.190..
8.190. Him who appropriates a deposit and him (who asks for it) without having made it, (the judge) shall try by all (sorts of) means, and by the oaths prescribed in the Veda.
यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवत्शास्यौ दाप्यौ वा तत्समं दमम् ॥ ८.१९१॥
यः निक्षेपम् न अर्पयति यः च अ निक्षिप्य याचते । तौ उभौ चौर-वत् शास्यौ दाप्यौ वा तद्-समम् दमम् ॥ ८।१९१॥
yaḥ nikṣepam na arpayati yaḥ ca a nikṣipya yācate . tau ubhau caura-vat śāsyau dāpyau vā tad-samam damam .. 8.191..
8.191. He who does not return a deposit and he who demands what he never bailed shall both be punished like thieves, or be compelled to pay a fine equal (to the value of the object retained or claimed).
निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् । तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥ ८.१९२॥
निक्षेपस्य अपहर्तारम् तद्-समम् दापयेत् दमम् । तथा उपनिधि-हर्तारम् अविशेषेण पार्थिवः ॥ ८।१९२॥
nikṣepasya apahartāram tad-samam dāpayet damam . tathā upanidhi-hartāram aviśeṣeṇa pārthivaḥ .. 8.192..
8.192. The king should compel him who does not restore an open deposit, and in like manner him who retains a sealed deposit, to pay a fine equal (to its value).
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ ८.१९३॥
उपधाभिः च यः कश्चिद् पर-द्रव्यम् हरेत् नरः । स सहायः स हन्तव्यः प्रकाशम् विविधैः वधैः ॥ ८।१९३॥
upadhābhiḥ ca yaḥ kaścid para-dravyam haret naraḥ . sa sahāyaḥ sa hantavyaḥ prakāśam vividhaiḥ vadhaiḥ .. 8.193..
8.193. That man who by false pretences may possess himself of another’s property, shall be publicly punished by various (modes of) corporal (or capital) chastisement, together with his accomplices.
निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ । तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति ॥ ८.१९४॥
निक्षेपः यः कृतः येन यावान् च कुल-संनिधौ । तावान् एव स विज्ञेयः विब्रुवन् दण्डम् अर्हति ॥ ८।१९४॥
nikṣepaḥ yaḥ kṛtaḥ yena yāvān ca kula-saṃnidhau . tāvān eva sa vijñeyaḥ vibruvan daṇḍam arhati .. 8.194..
8.194. If a deposit of a particular description or quantity is bailed by anybody in the presence of a number (of witnesses), it must be known to be of that particular (description and quantity; the depositary) who makes a false statement (regarding it) is liable to a fine.
मिथो दायः कृतो येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥ ८.१९५॥
मिथस् दायः कृतः येन गृहीतः मिथस् एव वा । मिथस् एव प्रदातव्यः यथा दायः तथा ग्रहः ॥ ८।१९५॥
mithas dāyaḥ kṛtaḥ yena gṛhītaḥ mithas eva vā . mithas eva pradātavyaḥ yathā dāyaḥ tathā grahaḥ .. 8.195..
8.195. But if anything is delivered or received privately, it must be privately returned; as the bailment (was, so should be) the re-delivery.
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ॥ ८.१९६॥
निक्षिप्तस्य धनस्य एवम् प्रीत्या उपनिहितस्य च । राजा विनिर्णयम् कुर्यात् अक्षिण्वन् न्यास-धारिणम् ॥ ८।१९६॥
nikṣiptasya dhanasya evam prītyā upanihitasya ca . rājā vinirṇayam kuryāt akṣiṇvan nyāsa-dhāriṇam .. 8.196..
8.196. Thus let the king decide (causes) concerning a deposit and a friendly loan (for use) without showing (undue) rigour to the depositary.
विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसंमतः । न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ ८.१९७॥
विक्रीणीते परस्य स्वम् यः अस्वामी स्वामी अ संमतः । न तम् नयेत साक्ष्यम् तु स्तेनम् अ स्तेन-मानिनम् ॥ ८।१९७॥
vikrīṇīte parasya svam yaḥ asvāmī svāmī a saṃmataḥ . na tam nayeta sākṣyam tu stenam a stena-māninam .. 8.197..
8.197. If anybody sells the property of another man, without being the owner and without the assent of the owner, the (judge) shall not admit him who is a thief, though he may not consider himself as a thief, as a witness (in any case).
अवहार्यो भवेत्चैव सान्वयः षट्शतं दमम् । निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् ॥ ८.१९८॥
अवहार्यः भवेत् च एव स अन्वयः षट्शतम् दमम् । निरन्वयः अनपसरः प्राप्तः स्यात् चौर-किल्बिषम् ॥ ८।१९८॥
avahāryaḥ bhavet ca eva sa anvayaḥ ṣaṭśatam damam . niranvayaḥ anapasaraḥ prāptaḥ syāt caura-kilbiṣam .. 8.198..
8.198. If the (offender) is a kinsman (of the owner), he shall be fined six hundred panas; if he is not a kinsman, nor has any excuse, he shall be guilty of theft.
अस्वामिना कृतो यस्तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ ८.१९९॥
अस्वामिना कृतः यः तु दायः विक्रयः एव वा । अकृतः स तु विज्ञेयः व्यवहारे यथा स्थितिः ॥ ८।१९९॥
asvāminā kṛtaḥ yaḥ tu dāyaḥ vikrayaḥ eva vā . akṛtaḥ sa tu vijñeyaḥ vyavahāre yathā sthitiḥ .. 8.199..
8.199. A gift or sale, made by anybody else but the owner, must be considered as null and void, according to the rule in judicial proceedings.
सम्भोगो दृश्यते यत्र न दृश्येतागमः क्व चित् । आगमः कारणं तत्र न सम्भोग इति स्थितिः ॥ ८.२००॥
सम्भोगः दृश्यते यत्र न दृश्येत आगमः क्व चित् । आगमः कारणम् तत्र न सम्भोगः इति स्थितिः ॥ ८।२००॥
sambhogaḥ dṛśyate yatra na dṛśyeta āgamaḥ kva cit . āgamaḥ kāraṇam tatra na sambhogaḥ iti sthitiḥ .. 8.200..
8.200. Where possession is evident, but no title is perceived, there the title (shall be) a proof (of ownership), not possession; such is the settled rule.
विक्रयाद्यो धनं किं चिद्गृह्णीयात्कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ ८.२०१॥
विक्रयात् यः धनम् किम् चित् गृह्णीयात् कुल-संनिधौ । क्रयेण स विशुद्धम् हि न्यायतः लभते धनम् ॥ ८।२०१॥
vikrayāt yaḥ dhanam kim cit gṛhṇīyāt kula-saṃnidhau . krayeṇa sa viśuddham hi nyāyataḥ labhate dhanam .. 8.201..
8.201. He who obtains a chattel in the market before a number (of witnesses), acquires that chattel with a clear legal title by purchase.
अथ मूलमनाहार्यं प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ ८.२०२॥
अथ मूलम् अनाहार्यम् प्रकाश-क्रय-शोधितः । अ दण्ड्यः मुच्यते राज्ञा नाष्टिकः लभते धनम् ॥ ८।२०२॥
atha mūlam anāhāryam prakāśa-kraya-śodhitaḥ . a daṇḍyaḥ mucyate rājñā nāṣṭikaḥ labhate dhanam .. 8.202..
8.202. If the original (seller) be not producible, (the buyer) being exculpated by a public sale, must be dismissed by the king without punishment, but (the former owner) who lost the chattel shall receive it (back from the buyer).
नान्यदन्येन संसृष्टरूपं विक्रयमर्हति । न चासारं न च न्यूनं न दूरेण तिरोहितम् ॥ ८.२०३॥
न अन्य-दन्येन संसृष्ट-रूपम् विक्रयम् अर्हति । न च आसारम् न च न्यूनम् न दूरेण तिरोहितम् ॥ ८।२०३॥
na anya-danyena saṃsṛṣṭa-rūpam vikrayam arhati . na ca āsāram na ca nyūnam na dūreṇa tirohitam .. 8.203..
8.203. One commodity mixed with another must not be sold (as pure), nor a bad one (as good), nor less (than the proper quantity or weight), nor anything that is not at hand or that is concealed.
अन्यां चेद्दर्शयित्वाऽन्या वोढुः कन्या प्रदीयते । उभे त एकशुल्केन वहेदित्यब्रवीन् मनुः ॥ ८.२०४॥
अन्याम् चेद् दर्शयित्वा अन्या वोढुः कन्या प्रदीयते । उभे ते एक-शुल्केन वहेत् इति अब्रवीत् मनुः ॥ ८।२०४॥
anyām ced darśayitvā anyā voḍhuḥ kanyā pradīyate . ubhe te eka-śulkena vahet iti abravīt manuḥ .. 8.204..
8.204. If, after one damsel has been shown, another be given to the bridegroom, he may marry them both for the same price; that Manu ordained.
नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना । पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥ ८.२०५॥
न उन्मत्तायाः न कुष्ठिन्याः न च या स्पृष्ट-मैथुना । पूर्वम् दोषान् अभिख्याप्य प्रदाता दण्डम् अर्हति ॥ ८।२०५॥
na unmattāyāḥ na kuṣṭhinyāḥ na ca yā spṛṣṭa-maithunā . pūrvam doṣān abhikhyāpya pradātā daṇḍam arhati .. 8.205..
8.205. He who gives (a damsel in marriage), having first openly declared her blemishes, whether she be insane, or afflicted with leprosy, or have lost her virginity, is not liable to punishment.
ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयोंशः सहकर्तृभिः ॥ ८.२०६॥
ऋत्विज् यदि वृतः यज्ञे स्व-कर्म परिहापयेत् । तस्य कर्म-अनुरूपेण देयः ऊंशः सहकर्तृभिः ॥ ८।२०६॥
ṛtvij yadi vṛtaḥ yajñe sva-karma parihāpayet . tasya karma-anurūpeṇa deyaḥ ūṃśaḥ sahakartṛbhiḥ .. 8.206..
8.206. If an officiating priest, chosen to perform a sacrifice, abandons his work, a share only (of the fee) in proportion to the work (done) shall be given to him by those who work with him.
दक्षिणासु च दत्तासु स्वकर्म परिहापयन् । कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥ ८.२०७॥
दक्षिणासु च दत्तासु स्व-कर्म परिहापयन् । कृत्स्नम् एव लभेत अंशम् अन्येन एव च कारयेत् ॥ ८।२०७॥
dakṣiṇāsu ca dattāsu sva-karma parihāpayan . kṛtsnam eva labheta aṃśam anyena eva ca kārayet .. 8.207..
8.207. But he who abandons his work after the sacrificial fees have been given, shall obtain his full share and cause to be performed (what remains) by another (priest).
यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः । स एव ता आददीत भजेरन् सर्व एव वा ॥ ८.२०८॥
यस्मिन् कर्मणि याः तु स्युः उक्ताः प्रत्यङ्ग-दक्षिणाः । सः एव ताः आददीत भजेरन् सर्वे एव वा ॥ ८।२०८॥
yasmin karmaṇi yāḥ tu syuḥ uktāḥ pratyaṅga-dakṣiṇāḥ . saḥ eva tāḥ ādadīta bhajeran sarve eva vā .. 8.208..
8.208. But if (specific) fees are ordained for the several parts of a rite, shall he (who performs the part) receive them, or shall they all share them?
रथं हरेत्चाध्वर्युर्ब्रह्माऽधाने च वाजिनम् । होता वाऽपि हरेदश्वमुद्गाता चाप्यनः क्रये ॥ ८.२०९॥
रथम् हरेत् च अध्वर्युः ब्रह्मा अधाने च वाजिनम् । होता वा अपि हरेत् अश्वम् उद्गाता च अपि अनः क्रये ॥ ८।२०९॥
ratham haret ca adhvaryuḥ brahmā adhāne ca vājinam . hotā vā api haret aśvam udgātā ca api anaḥ kraye .. 8.209..
8.209. The Adhvaryu priest shall take the chariot, and the Brahman at the kindling of the fires (Agnyadhana) a horse, the Hotri priest shall also take a horse, and the Udgatri the cart, (used) when (the Soma) is purchased.
सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥ ८.२१०॥
सर्वेषाम् अर्धिनः मुख्याः तद्-अर्धेन अर्धिनः अपरे । तृतीयिनः तृतीयांशाः चतुर्थ-अंशाः च पादिनः ॥ ८।२१०॥
sarveṣām ardhinaḥ mukhyāḥ tad-ardhena ardhinaḥ apare . tṛtīyinaḥ tṛtīyāṃśāḥ caturtha-aṃśāḥ ca pādinaḥ .. 8.210..
8.210. The (four) chief priests among all (the sixteen), who are entitled to one half, shall receive a moiety (of the fee), the next (four) one half of that, the set entitled to a third share, one third, and those entitled to a fourth a quarter.
सम्भूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः । अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ ८.२११॥
सम्भूय स्वानि कर्माणि कुर्वद्भिः इह मानवैः । अनेन विधि-योगेन कर्तव्या अंशप्रकल्पना ॥ ८।२११॥
sambhūya svāni karmāṇi kurvadbhiḥ iha mānavaiḥ . anena vidhi-yogena kartavyā aṃśaprakalpanā .. 8.211..
8.211. By the application of these principles the allotment of shares must be made among those men who here (below) perform their work conjointly.
धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम् । पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् ॥ ८.२१२॥
धर्म-अर्थम् येन दत्तम् स्यात् कस्मै चित् याचते धनम् । पश्चात् च न तथा तत् स्यात् न देयम् तस्य तत् भवेत् ॥ ८।२१२॥
dharma-artham yena dattam syāt kasmai cit yācate dhanam . paścāt ca na tathā tat syāt na deyam tasya tat bhavet .. 8.212..
8.212. Should money be given (or promised) for a pious purpose by one man to another who asks for it, the gift shall be void, if the (money is) afterwards not (used) in the manner (stated).
यदि संसाधयेत्तत्तु दर्पात्लोभेन वा पुनः । राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः ॥ ८.२१३॥
यदि संसाधयेत् तत् तु दर्पात् लोभेन वा पुनर् । राज्ञा दाप्यः सुवर्णम् स्यात् तस्य स्तेयस्य निष्कृतिः ॥ ८।२१३॥
yadi saṃsādhayet tat tu darpāt lobhena vā punar . rājñā dāpyaḥ suvarṇam syāt tasya steyasya niṣkṛtiḥ .. 8.213..
8.213. But if the (recipient) through pride or greed tries to enforce (the fulfilment of the promise), he shall be compelled by the king to pay one suvarna as an expiation for his theft.
दत्तस्यैषौदिता धर्म्या यथावदनपक्रिया । अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ ८.२१४॥
दत्तस्य एषा औदिता धर्म्या यथावत् अनपक्रिया । अतस् ऊर्ध्वम् प्रवक्ष्यामि वेतनस्य अनपक्रियाम् ॥ ८।२१४॥
dattasya eṣā auditā dharmyā yathāvat anapakriyā . atas ūrdhvam pravakṣyāmi vetanasya anapakriyām .. 8.214..
8.214. Thus the lawful subtraction of a gift has been fully explained; I will next propound (the law for) the non- payment of wages.
भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् । अनार्तो स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ ८.२१५॥
भृतः न आर्तः न कुर्यात् यः दर्पात् कर्म यथा उदितम् । अन् आर्तः स दण्ड्यः कृष्णलानि अष्टौ न देयम् च अस्य वेतनम् ॥ ८।२१५॥
bhṛtaḥ na ārtaḥ na kuryāt yaḥ darpāt karma yathā uditam . an ārtaḥ sa daṇḍyaḥ kṛṣṇalāni aṣṭau na deyam ca asya vetanam .. 8.215..
8.215. A hired (servant or workman) who, without being ill, out of pride fails to perform his work according to the agreement, shall be fined eight krishnalas and no wages shall be paid to him.
आर्तस्तु कुर्यात्स्वस्थः सन् यथाभाषितमादितः । स दीर्घस्यापि कालस्य तत्लभेतेव वेतनम् ॥ ८.२१६॥
आर्तः तु कुर्यात् स्वस्थः सन् यथा भाषितम् आदितस् । स दीर्घस्य अपि कालस्य तत् लभेत इव वेतनम् ॥ ८।२१६॥
ārtaḥ tu kuryāt svasthaḥ san yathā bhāṣitam āditas . sa dīrghasya api kālasya tat labheta iva vetanam .. 8.216..
8.216. But (if he is really) ill, (and) after recovery performs (his work) according to the original agreement, he shall receive his wages even after (the lapse of) a very long time.
यथोक्तमार्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ ८.२१७॥
यथोक्तम् आर्तः सुस्थः वा यः तत् कर्म न कारयेत् । न तस्य वेतनम् देयम् अल्पोनस्य अपि कर्मणः ॥ ८।२१७॥
yathoktam ārtaḥ susthaḥ vā yaḥ tat karma na kārayet . na tasya vetanam deyam alponasya api karmaṇaḥ .. 8.217..
8.217. But if he, whether sick or well, does not (perform or) cause to be performed (by others) his work according to his agreement, the wages for that work shall not be given to him, even (if it be only) slightly incomplete.
एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ ८.२१८॥
एष धर्मः अखिलेन उक्तः वेतनादान-कर्मणः । अतस् ऊर्ध्वम् प्रवक्ष्यामि धर्मम् समयभेदिनाम् ॥ ८।२१८॥
eṣa dharmaḥ akhilena uktaḥ vetanādāna-karmaṇaḥ . atas ūrdhvam pravakṣyāmi dharmam samayabhedinām .. 8.218..
8.218. Thus the law for the non-payment of wages has been completely stated; I will next explain the law concerning men who break an agreement.
यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् ॥ ८.२१९॥
यः ग्राम-देश-सङ्घानाम् कृत्वा सत्येन संविदम् । विसंवदेत् नरः लोभात् तम् राष्ट्रात् विप्रवासयेत् ॥ ८।२१९॥
yaḥ grāma-deśa-saṅghānām kṛtvā satyena saṃvidam . visaṃvadet naraḥ lobhāt tam rāṣṭrāt vipravāsayet .. 8.219..
8.219. If a man belonging to a corporation inhabiting a village or a district, after swearing to an agreement, breaks it through avarice, (the king) shall banish him from his realm,
निगृह्य दापयेच्चैनं समयव्यभिचारिणम् । चतुःसुवर्णान् षण्निष्कांश्शतमानं च राजकम् ॥ ८.२२०॥
निगृह्य दापयेत् च एनम् समयव्यभिचारिणम् । चतुर्-सुवर्णान् षट् निष्कान् शतमानम् च राजकम् ॥ ८।२२०॥
nigṛhya dāpayet ca enam samayavyabhicāriṇam . catur-suvarṇān ṣaṭ niṣkān śatamānam ca rājakam .. 8.220..
8.220. And having imprisoned such a breaker of an agreement, he shall compel him to pay six nishkas, (each of) four suvarnas, and one satamana of silver.
एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः । ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ ८.२२१॥
एतद्-दण्ड-विधिम् कुर्यात् धार्मिकः पृथिवीपतिः । ग्राम-जाति-समूहेषु समयव्यभिचारिणाम् ॥ ८।२२१॥
etad-daṇḍa-vidhim kuryāt dhārmikaḥ pṛthivīpatiḥ . grāma-jāti-samūheṣu samayavyabhicāriṇām .. 8.221..
8.221. A righteous king shall apply this law of fines in villages and castes (gati) to those who break an agreement.
क्रीत्वा विक्रीय वा किं चिद्यस्यैहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा ॥ ८.२२२॥
क्रीत्वा विक्रीय वा किम् चित् यस्य एह अनुशयः भवेत् । सः अन्तर् दश-अहात् तत् द्रव्यम् दद्यात् च एव आददीत वा ॥ ८।२२२॥
krītvā vikrīya vā kim cit yasya eha anuśayaḥ bhavet . saḥ antar daśa-ahāt tat dravyam dadyāt ca eva ādadīta vā .. 8.222..
8.222. If anybody in this (world), after buying or selling anything, repent (of his bargain), he may return or take (back) that chattel within ten days.
परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददत्चैव राज्ञा दण्ड्यौ शतानि षट् ॥ ८.२२३॥
परेण तु दश-अहस्य न दद्यात् न अपि दापयेत् । आददानः ददत् च एव राज्ञा दण्ड्यौ शतानि षष् ॥ ८।२२३॥
pareṇa tu daśa-ahasya na dadyāt na api dāpayet . ādadānaḥ dadat ca eva rājñā daṇḍyau śatāni ṣaṣ .. 8.223..
8.223. But after (the lapse of) ten days he may neither give nor cause it to be given (back); both he who takes it (back) and he who gives it (back, except by consent) shall be fined by the king six hundred (panas).
यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ ८.२२४॥
यः तु दोषवतीम् कन्याम् अन् आख्याय प्रयच्छति । तस्य कुर्यात् नृपः दण्डम् स्वयम् षण्णवतिम् पणान् ॥ ८।२२४॥
yaḥ tu doṣavatīm kanyām an ākhyāya prayacchati . tasya kuryāt nṛpaḥ daṇḍam svayam ṣaṇṇavatim paṇān .. 8.224..
8.224. But the king himself shall impose a fine of ninety-six panas on him who gives a blemished damsel (to a suitor) without informing (him of the blemish).
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः । स शतं प्राप्नुयाद्दण्डं तस्या दोषमदर्शयन् ॥ ८.२२५॥
अकन्या इति तु यः कन्याम् ब्रूयात् द्वेषेण मानवः । स शतम् प्राप्नुयात् दण्डम् तस्याः दोषम् अ दर्शयन् ॥ ८।२२५॥
akanyā iti tu yaḥ kanyām brūyāt dveṣeṇa mānavaḥ . sa śatam prāpnuyāt daṇḍam tasyāḥ doṣam a darśayan .. 8.225..
8.225. But that man who, out of malice, says of a maiden, ’She is not a maiden,’ shall be fined one hundred (panas), if he cannot prove her blemish.
पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ॥ ८.२२६॥
पाणिग्रहणिकाः मन्त्राः कन्यासु एव प्रतिष्ठिताः । न अकन्यासु क्व चित् नॄणाम् लुप्त-धर्म-क्रियाः हि ताः ॥ ८।२२६॥
pāṇigrahaṇikāḥ mantrāḥ kanyāsu eva pratiṣṭhitāḥ . na akanyāsu kva cit nṝṇām lupta-dharma-kriyāḥ hi tāḥ .. 8.226..
8.226. The nuptial texts are applied solely to virgins, (and) nowhere among men to females who have lost their virginity, for such (females) are excluded from religious ceremonies.
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ८.२२७॥
पाणिग्रहणिकाः मन्त्राः नियतम् दार-लक्षणम् । तेषाम् निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ ८।२२७॥
pāṇigrahaṇikāḥ mantrāḥ niyatam dāra-lakṣaṇam . teṣām niṣṭhā tu vijñeyā vidvadbhiḥ saptame pade .. 8.227..
8.227. The nuptial texts are a certain proof (that a maiden has been made a lawful) wife; but the learned should know that they (and the marriage ceremony are complete with the seventh step (of the bride around the sacred fire).
यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् । तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८.२२८॥
यस्मिन् यस्मिन् कृते कार्ये यस्य इह अनुशयः भवेत् । तम् अनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ ८।२२८॥
yasmin yasmin kṛte kārye yasya iha anuśayaḥ bhavet . tam anena vidhānena dharmye pathi niveśayet .. 8.228..
8.228. If anybody in this (world) repent of any completed transaction, (the king) shall keep him on the road of rectitude in accordance with the rules given above.
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे । विवादं सम्प्रवक्ष्यामि यथावद्धर्मतत्त्वतः ॥ ८.२२९॥
पशुषु स्वामिनाम् च एव पालानाम् च व्यतिक्रमे । विवादम् सम्प्रवक्ष्यामि यथावत् धर्म-तत्त्वतः ॥ ८।२२९॥
paśuṣu svāminām ca eva pālānām ca vyatikrame . vivādam sampravakṣyāmi yathāvat dharma-tattvataḥ .. 8.229..
8.229. I will fully declare in accordance with the true law (the rules concerning) the disputes, (arising) from the transgressions of owners of cattle and of herdsmen.
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥ ८.२३०॥
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्-गृहे । योगक्षेमे अन्यथा चेद् तु पालः वक्तव्यताम् इयात् ॥ ८।२३०॥
divā vaktavyatā pāle rātrau svāmini tad-gṛhe . yogakṣeme anyathā ced tu pālaḥ vaktavyatām iyāt .. 8.230..
8.230. During the day the responsibility for the safety (of the cattle rests) on the herdsman, during the night on the owner, (provided they are) in his house; (if it be) otherwise, the herdsman will be responsible (for them also during the night).
गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ॥ ८.२३१॥
गोपः क्षीर-भृतः यः तु स दुह्यात् दशतस् वराम् । गोस्वामि-अनुमते भृत्यः सा स्यात् पाले अभृते भृतिः ॥ ८।२३१॥
gopaḥ kṣīra-bhṛtaḥ yaḥ tu sa duhyāt daśatas varām . gosvāmi-anumate bhṛtyaḥ sā syāt pāle abhṛte bhṛtiḥ .. 8.231..
8.231. A hired herdsman who is paid with milk, may milk with the consent of the owner the best (cow) out of ten; such shall be his hire if no (other) wages (are paid).
नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥ ८.२३२॥
नष्टम् विनष्टम् कृमिभिः श्व-हतम् विषमे मृतम् । हीनम् पुरुषकारेण प्रदद्यात् पालः एव तु ॥ ८।२३२॥
naṣṭam vinaṣṭam kṛmibhiḥ śva-hatam viṣame mṛtam . hīnam puruṣakāreṇa pradadyāt pālaḥ eva tu .. 8.232..
8.232. The herdsman alone shall make good (the loss of a beast) strayed, destroyed by worms, killed by dogs or (by falling) into a pit, if he did not duly exert himself (to prevent it).
विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ ८.२३३॥
विघुष्य तु हृतम् चौरैः न पालः दातुम् अर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ ८।२३३॥
vighuṣya tu hṛtam cauraiḥ na pālaḥ dātum arhati . yadi deśe ca kāle ca svāminaḥ svasya śaṃsati .. 8.233..
8.233. But for (an animal) stolen by thieves, though he raised an alarm, the herdsman shall not pay, provided he gives notice to his master at the proper place and time.
कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् । पशुषु स्वामिनां दद्यान् मृतेष्व अङ्कांश्च दर्शयेत् ॥ ८.२३४॥
कर्णौ चर्म च वालान् च बस्तिम् स्नायुम् च रोचनाम् । पशुषु स्वामिनाम् दद्यात् मृतेषु अ अङ्कान् च दर्शयेत् ॥ ८।२३४॥
karṇau carma ca vālān ca bastim snāyum ca rocanām . paśuṣu svāminām dadyāt mṛteṣu a aṅkān ca darśayet .. 8.234..
8.234. If cattle die, let him carry to his master their ears, skin, tails, bladders, tendons, and the yellow concrete bile, and let him point out their particular. marks.
अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ॥ ८.२३५॥
अजाविके तु संरुद्धे वृकैः पाले तु अनायति । याम् प्रसह्य वृकः हन्यात् पाले तद्-किल्बिषम् भवेत् ॥ ८।२३५॥
ajāvike tu saṃruddhe vṛkaiḥ pāle tu anāyati . yām prasahya vṛkaḥ hanyāt pāle tad-kilbiṣam bhavet .. 8.235..
8.235. But if goats or sheep are surrounded by wolves and the herdsman does not hasten (to their assistance), lie shall be responsible for any (animal) which a wolf may attack and kill.
तासां चेदवरुद्धानां चरन्तीनां मिथो वने । यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥ ८.२३६॥
तासाम् चेद् अवरुद्धानाम् चरन्तीनाम् मिथस् वने । याम् उत्प्लुत्य वृकः हन्यात् न पालः तत्र किल्बिषी ॥ ८।२३६॥
tāsām ced avaruddhānām carantīnām mithas vane . yām utplutya vṛkaḥ hanyāt na pālaḥ tatra kilbiṣī .. 8.236..
8.236. But if they, kept in (proper) order, graze together in the forest, and a wolf, suddenly jumping on one of them, kills it, the herdsman shall bear in that case no responsibility.
धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः । शम्यापातास्त्रयो वाऽपि त्रिगुणो नगरस्य तु ॥ ८.२३७॥
धनुः-शतम् परीहारः ग्रामस्य स्यात् समन्ततः । शम्यापाताः त्रयः वा अपि त्रिगुणः नगरस्य तु ॥ ८।२३७॥
dhanuḥ-śatam parīhāraḥ grāmasya syāt samantataḥ . śamyāpātāḥ trayaḥ vā api triguṇaḥ nagarasya tu .. 8.237..
8.237. On all sides of a village a space, one hundred dhanus or three samya-throws (in breadth), shall be reserved (for pasture), and thrice (that space) round a town.
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ॥ ८.२३८॥
तत्र अपरिवृतम् धान्यम् विहिंस्युः पशवः यदि । न तत्र प्रणयेत् दण्डम् नृपतिः पशुरक्षिणाम् ॥ ८।२३८॥
tatra aparivṛtam dhānyam vihiṃsyuḥ paśavaḥ yadi . na tatra praṇayet daṇḍam nṛpatiḥ paśurakṣiṇām .. 8.238..
8.238. If the cattle do damage to unfenced crops on that (common), the king shall in that case not punish the herdsmen.
वृतिं तत्र प्रकुर्वीत यामुष्त्रो न विलोकयेत् । छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम् ॥ ८.२३९॥
वृतिम् तत्र प्रकुर्वीत याम् उष्त्रः न विलोकयेत् । छिद्रम् च वारयेत् सर्वम् श्व-सूकर-मुख-अनुगम् ॥ ८।२३९॥
vṛtim tatra prakurvīta yām uṣtraḥ na vilokayet . chidram ca vārayet sarvam śva-sūkara-mukha-anugam .. 8.239..
8.239. (The owner of the field) shall make there a hedge over which a camel cannot look, and stop every gap through which a dog or a boar can thrust his head.
पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः । सपालः शतदण्डार्हो विपालान् वारयेत्पशून् ॥ ८.२४०॥
पथि क्षेत्रे परिवृते ग्रामान्तीये अथ वा पुनर् । स पालः शत-दण्ड-अर्हः विपालान् वारयेत् पशून् ॥ ८।२४०॥
pathi kṣetre parivṛte grāmāntīye atha vā punar . sa pālaḥ śata-daṇḍa-arhaḥ vipālān vārayet paśūn .. 8.240..
8.240. (If cattle do mischief) in an enclosed field near a highway or near a village, the herdsman shall be fined one hundred (panas); (but cattle), unattended by a herdsman, (the watchman in the field) shall drive away.
क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति । सर्वत्र तु सदो देयः क्षेत्रिकस्यैति धारणा ॥ ८.२४१॥
क्षेत्रेषु अन्येषु तु पशुः सपादम् पणम् अर्हति । सर्वत्र तु सदः देयः क्षेत्रिकस्य एति धारणा ॥ ८।२४१॥
kṣetreṣu anyeṣu tu paśuḥ sapādam paṇam arhati . sarvatra tu sadaḥ deyaḥ kṣetrikasya eti dhāraṇā .. 8.241..
8.241. (For damage) in other fields (each head of) cattle shall (pay a fine of one (pana) and a quarter, and in all (cases the value of) the crop (destroyed) shall be made good to the owner of the field; that is the settled rule.
अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा । सपालान् वा विपालान् वा न दण्ड्यान् मनुरब्रवीत् ॥ ८.२४२॥
अनिर्दश-अहाम् गाम् सूताम् वृषान् देवपशून् तथा । स पालान् वा विपालान् वा न दण्ड्यान् मनुः अब्रवीत् ॥ ८।२४२॥
anirdaśa-ahām gām sūtām vṛṣān devapaśūn tathā . sa pālān vā vipālān vā na daṇḍyān manuḥ abravīt .. 8.242..
8.242. But Manu has declared that no fine shall be paid for (damage done by) a cow within ten days after her calving, by bulls and by cattle sacred to the gods, whether they are attended by a herdsman or not.
क्षेत्रिकस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानामज्ञानात्क्षेत्रिकस्य तु ॥ ८.२४३॥
क्षेत्रिकस्य अत्यये दण्डः भागात् दशगुणः भवेत् । ततस् अर्ध-दण्डः भृत्यानाम् अज्ञानात् क्षेत्रिकस्य तु ॥ ८।२४३॥
kṣetrikasya atyaye daṇḍaḥ bhāgāt daśaguṇaḥ bhavet . tatas ardha-daṇḍaḥ bhṛtyānām ajñānāt kṣetrikasya tu .. 8.243..
8.243. If (the crops are destroyed by) the husbandman’s (own) fault, the fine shall amount to ten times as much as (the king’s) share; but the fine (shall be) only half that amount if (the fault lay) with the servants and the farmer had no knowledge of it.
एतद्विधानमातिष्ठेद्धार्मिकः पृथिवीपतिः । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ ८.२४४॥
एतत् विधानम् आतिष्ठेत् धार्मिकः पृथिवीपतिः । स्वामिनाम् च पशूनाम् च पालानाम् च व्यतिक्रमे ॥ ८।२४४॥
etat vidhānam ātiṣṭhet dhārmikaḥ pṛthivīpatiḥ . svāminām ca paśūnām ca pālānām ca vyatikrame .. 8.244..
8.244. To these rules a righteous king shall keep in (all cases of) transgressions by masters, their cattle, and herdsmen.
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः । ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ॥ ८.२४५॥
सीमाम् प्रति समुत्पन्ने विवादे ग्रामयोः द्वयोः । ज्येष्ठे मासि नयेत् सीमाम् सु प्रकाशेषु सेतुषु ॥ ८।२४५॥
sīmām prati samutpanne vivāde grāmayoḥ dvayoḥ . jyeṣṭhe māsi nayet sīmām su prakāśeṣu setuṣu .. 8.245..
8.245. If a dispute has arisen between two villages concerning a boundary, the king shall settle the limits in the month of Gyaishtha, when the landmarks are most distinctly visible.
सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान् ॥ ८.२४६॥
सीमा-वृक्षान् च कुर्वीत न्यग्रोध-अश्वत्थ-किंशुकान् । शाल्मलीन् साल-तालान् च क्षीरिणः च एव पादपान् ॥ ८।२४६॥
sīmā-vṛkṣān ca kurvīta nyagrodha-aśvattha-kiṃśukān . śālmalīn sāla-tālān ca kṣīriṇaḥ ca eva pādapān .. 8.246..
8.246. Let him mark the boundaries (by) trees, (e.g.) Nyagrodhas, Asvatthas, Kimsukas, cotton-trees, Salas, Palmyra palms, and trees with milky juice,
गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च । शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥ ८.२४७॥
गुल्मान् वेणून् च विविधान् शमी-वल्ली-स्थलानि च । शरान् कुब्जक-गुल्मान् च तथा सीमा न नश्यति ॥ ८।२४७॥
gulmān veṇūn ca vividhān śamī-vallī-sthalāni ca . śarān kubjaka-gulmān ca tathā sīmā na naśyati .. 8.247..
8.247. By clustering shrubs, bamboos of different kinds, Samis, creepers and raised mounds, reeds, thickets of Kubgaka; thus the boundary will not be forgotten.
तडागान्युदपानानि वाप्यः प्रस्रवणानि च । सीमासंधिषु कार्याणि देवतायतनानि च ॥ ८.२४८॥
तडागानि उदपानानि वाप्यः प्रस्रवणानि च । सीमा-संधिषु कार्याणि देवतायतनानि च ॥ ८।२४८॥
taḍāgāni udapānāni vāpyaḥ prasravaṇāni ca . sīmā-saṃdhiṣu kāryāṇi devatāyatanāni ca .. 8.248..
8.248. Tanks, wells, cisterns, and fountains should be built where boundaries meet, as well as temples
उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ ८.२४९॥
उपछन्नानि च अन्यानि सीमालिङ्गानि कारयेत् । सीमा-अज्ञाने नृणाम् वीक्ष्य नित्यम् लोके विपर्ययम् ॥ ८।२४९॥
upachannāni ca anyāni sīmāliṅgāni kārayet . sīmā-ajñāne nṛṇām vīkṣya nityam loke viparyayam .. 8.249..
8.249. And as he will see that through men’s ignorance of the boundaries trespasses constantly occur in the world, let him cause to be made other hidden marks for boundaries,
अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः । करीषमिष्टकाऽङ्गारांश्छर्करा वालुकास्तथा ॥ ८.२५०॥
अश्मनः अस्थीनि गोवालान् तुषान् भस्म कपालिकाः । करीषम् इष्टका अङ्गारान् शर्कराः वालुकाः तथा ॥ ८।२५०॥
aśmanaḥ asthīni govālān tuṣān bhasma kapālikāḥ . karīṣam iṣṭakā aṅgārān śarkarāḥ vālukāḥ tathā .. 8.250..
8.250. Stones, bones, cow’s hair, chaff, ashes, potsherds, dry cowdung, bricks, cinders, pebbles, and sand,
यानि चैवम्प्रकाराणि कालाद्भूमिर्न भक्षयेत् । तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ ८.२५१॥
यानि च एवम्प्रकाराणि कालात् भूमिः न भक्षयेत् । तानि संधिषु सीमायाम् अप्रकाशानि कारयेत् ॥ ८।२५१॥
yāni ca evamprakārāṇi kālāt bhūmiḥ na bhakṣayet . tāni saṃdhiṣu sīmāyām aprakāśāni kārayet .. 8.251..
8.251. And whatever other things of a similar kind the earth does not corrode even after a long time, those he should cause to be buried where one boundary joins (the other).
एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः । पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥ ८.२५२॥
एतैः लिङ्गैः नयेत् सीमाम् राजा विवदमानयोः । पूर्वभुक्त्या च सततम् उदकस्य आगमेन च ॥ ८।२५२॥
etaiḥ liṅgaiḥ nayet sīmām rājā vivadamānayoḥ . pūrvabhuktyā ca satatam udakasya āgamena ca .. 8.252..
8.252. By these signs, by long continued possession, and by constantly flowing streams of water the king shall ascertain the boundary (of the land) of two disputing parties.
यदि स्ंशय एव स्यात्लिङ्गानामपि दर्शने । साक्षिप्रत्यय एव स्यात्सीमावादविनिश्चयः ॥ ८.२५३॥
यदि स्ंशयः एव स्यात् लिङ्गानाम् अपि दर्शने । साक्षिप्रत्ययः एव स्यात् सीमावाद-विनिश्चयः ॥ ८।२५३॥
yadi sṃśayaḥ eva syāt liṅgānām api darśane . sākṣipratyayaḥ eva syāt sīmāvāda-viniścayaḥ .. 8.253..
8.253. If there be a doubt even on inspection of the marks, the settlement of a dispute regarding boundaries shall depend on witnesses.
ग्रामेयककुलानां च समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमालिङ्गानि तयोश्चैव विवादिनोः ॥ ८.२५४॥
ग्रामेयक-कुलानाम् च समक्षम् सीम्नि साक्षिणः । प्रष्टव्याः सीमालिङ्गानि तयोः च एव विवादिनोः ॥ ८।२५४॥
grāmeyaka-kulānām ca samakṣam sīmni sākṣiṇaḥ . praṣṭavyāḥ sīmāliṅgāni tayoḥ ca eva vivādinoḥ .. 8.254..
8.254. The witnesses, (giving evidence) regarding a boundary, shall be examined concerning the landmarks in the presence of the crowd of the villagers and also of the two litigants.
ते पृष्तास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् । निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः ॥ ८.२५५॥
ते पृष्ताः तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् । निबध्नीयात् तथा सीमाम् सर्वान् तान् च एव नामतः ॥ ८।२५५॥
te pṛṣtāḥ tu yathā brūyuḥ samastāḥ sīmni niścayam . nibadhnīyāt tathā sīmām sarvān tān ca eva nāmataḥ .. 8.255..
8.255. As they, being questioned, unanimously decide, even so he shall record the boundary (in writing), together with their names.
शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥ ८.२५६॥
शिरोभिः ते गृहीत्वा उर्वीम् स्रग्विणः रक्त-वाससः । सुकृतैः शापिताः स्वैः स्वैः नयेयुः ते समञ्जसम् ॥ ८।२५६॥
śirobhiḥ te gṛhītvā urvīm sragviṇaḥ rakta-vāsasaḥ . sukṛtaiḥ śāpitāḥ svaiḥ svaiḥ nayeyuḥ te samañjasam .. 8.256..
8.256. Let them, putting earth on their heads, wearing chaplets (of red flowers) and red dresses, being sworn each by (the rewards for) his meritorious deeds, settle (the boundary) in accordance with the truth.
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥ ८.२५७॥
यथा उक्तेन नयन्तः ते पूयन्ते सत्य-साक्षिणः । विपरीतम् नयन्तः तु दाप्याः स्युः द्विशतम् दमम् ॥ ८।२५७॥
yathā uktena nayantaḥ te pūyante satya-sākṣiṇaḥ . viparītam nayantaḥ tu dāpyāḥ syuḥ dviśatam damam .. 8.257..
8.257. If they determine (the boundary) in the manner stated, they are guiltless (being) veracious witnesses; but if they determine it unjustly, they shall be compelled to pay a fine of two hundred (panas).
साक्ष्यभावे तु चत्वारो ग्रामसीमान्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ ८.२५८॥
साक्षि-अभावे तु चत्वारः ग्राम-सीमान्तवासिनः । सीमा-विनिर्णयम् कुर्युः प्रयताः राज-संनिधौ ॥ ८।२५८॥
sākṣi-abhāve tu catvāraḥ grāma-sīmāntavāsinaḥ . sīmā-vinirṇayam kuryuḥ prayatāḥ rāja-saṃnidhau .. 8.258..
8.258. On failure of witnesses (from the two villages, men of) the four neighbouring villages, who are pure, shall make (as witnesses) a decision concerning the boundary in the presence of the king.
सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥ ८.२५९॥
सामन्तानाम् अभावे तु मौलानाम् सीम्नि साक्षिणाम् । इमान् अपि अनुयुञ्जीत पुरुषान् वन-गोचरान् ॥ ८।२५९॥
sāmantānām abhāve tu maulānām sīmni sākṣiṇām . imān api anuyuñjīta puruṣān vana-gocarān .. 8.259..
8.259. On failure of neighbours (who are) original inhabitants (of the country and can be) witnesses with respect to the boundary, (the king) may hear the evidence even of the following inhabitants of the forest.
व्याधांशाकुनिकान् गोपान् कैवर्तान् मूलखानकान् । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥ ८.२६०॥
व्याधान् शाकुनिकान् गोपान् कैवर्तान् मूलखानकान् । व्याल-ग्राहान् उञ्छ-वृत्तीन् अन्यान् च वन-चारिणः ॥ ८।२६०॥
vyādhān śākunikān gopān kaivartān mūlakhānakān . vyāla-grāhān uñcha-vṛttīn anyān ca vana-cāriṇaḥ .. 8.260..
8.260. (Viz.) hunters, fowlers, herdsmen, fishermen, root-diggers, snake-catchers, gleaners, and other foresters.
ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः ॥ ८.२६१॥
ते पृष्टाः तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । तत् तथा स्थापयेत् राजा धर्मेण ग्रामयोः द्वयोः ॥ ८।२६१॥
te pṛṣṭāḥ tu yathā brūyuḥ sīmāsaṃdhiṣu lakṣaṇam . tat tathā sthāpayet rājā dharmeṇa grāmayoḥ dvayoḥ .. 8.261..
8.261. As they, being examined, declare the marks for the meeting of the boundaries (to be), even so the king shall justly cause them to be fixed between the two villages.
क्षेत्रकूपतडागानामारामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ ८.२६२॥
क्षेत्र-कूप-तडागानाम् आरामस्य गृहस्य च । सामन्त-प्रत्ययः ज्ञेयः सीमासेतु-विनिर्णयः ॥ ८।२६२॥
kṣetra-kūpa-taḍāgānām ārāmasya gṛhasya ca . sāmanta-pratyayaḥ jñeyaḥ sīmāsetu-vinirṇayaḥ .. 8.262..
8.262. The decision concerning the boundary-marks of fields, wells, tanks, of gardens and houses depends upon (the evidence of) the neighbours.
सामन्ताश्चेत्मृषा ब्रूयुः सेतौ विवादतां नृणाम् । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ॥ ८.२६३॥
सामन्ताः चेद् मृषा ब्रूयुः सेतौ विवाद-ताम् नृणाम् । सर्वे पृथक् पृथक् दण्ड्याः राज्ञा मध्यमसाहसम् ॥ ८।२६३॥
sāmantāḥ ced mṛṣā brūyuḥ setau vivāda-tām nṛṇām . sarve pṛthak pṛthak daṇḍyāḥ rājñā madhyamasāhasam .. 8.263..
8.263. Should the neighbours give false evidence, when men dispute about a boundary-mark, the king shall make each of them pay the middlemost amercement as a fine.
गृहं तडागमारामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ॥ ८.२६४॥
गृहम् तडागम् आरामम् क्षेत्रम् वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यात् अज्ञानात् द्विशतः दमः ॥ ८।२६४॥
gṛham taḍāgam ārāmam kṣetram vā bhīṣayā haran . śatāni pañca daṇḍyaḥ syāt ajñānāt dviśataḥ damaḥ .. 8.264..
8.264. He who by intimidation possesses himself of a house, a tank, a garden, or a field, shall be fined five hundred (panas); (if he trespassed) through ignorance, the fine (shall be) two hundred (panas).
सीमायामविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिमेकेषामुपकारादिति स्थितिः ॥ ८.२६५॥
सीमायाम् अविषह्यायाम् स्वयम् राजा एव धर्म-विद् । प्रदिशेत् भूमिम् एकेषाम् उपकारात् इति स्थितिः ॥ ८।२६५॥
sīmāyām aviṣahyāyām svayam rājā eva dharma-vid . pradiśet bhūmim ekeṣām upakārāt iti sthitiḥ .. 8.265..
8.265. If the boundary cannot be ascertained (by any evidence), let a righteous king with (the intention of) benefiting them (all), himself assign (his) land (to each); that is the settled rule.
एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ ८.२६६॥
एषः अखिलेन अभिहितः धर्मः सीमा-विनिर्णये । अतस् ऊर्ध्वम् प्रवक्ष्यामि वाच्-पारुष्य-विनिर्णयम् ॥ ८।२६६॥
eṣaḥ akhilena abhihitaḥ dharmaḥ sīmā-vinirṇaye . atas ūrdhvam pravakṣyāmi vāc-pāruṣya-vinirṇayam .. 8.266..
8.266. Thus the law for deciding boundary (disputes) has been fully declared, I will next propound the (manner of) deciding (cases of) defamation.
शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति । वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ ८.२६७॥
शतम् ब्राह्मणम् आक्रुश्य क्षत्रियः दण्डम् अर्हति । वैश्यः अपि अर्धशतम् द्वे वा शूद्रः तु वधम् अर्हति ॥ ८।२६७॥
śatam brāhmaṇam ākruśya kṣatriyaḥ daṇḍam arhati . vaiśyaḥ api ardhaśatam dve vā śūdraḥ tu vadham arhati .. 8.267..
8.267. A Kshatriya, having defamed a Brahmana, shall be fined one hundred (panas); a Vaisya one hundred and fifty or two hundred; a Sudra shall suffer corporal punishment.
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्धपञ्चाशत्शूद्रे द्वादशको दमः ॥ ८.२६८॥
पञ्चाशत्-ब्राह्मणः दण्ड्यः क्षत्रियस्य अभिशंसने । वैश्ये स्यात् अर्धपञ्चाशत् शूद्रे द्वादशकः दमः ॥ ८।२६८॥
pañcāśat-brāhmaṇaḥ daṇḍyaḥ kṣatriyasya abhiśaṃsane . vaiśye syāt ardhapañcāśat śūdre dvādaśakaḥ damaḥ .. 8.268..
8.268. A Brahmana shall be fined fifty (panas) for defaming a Kshatriya; in (the case of) a Vaisya the fine shall be twenty-five (panas); in (the case of) a Sudra twelve.
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ ८.२६९॥
सम-वर्णे द्विजातीनाम् द्वादश एव व्यतिक्रमे । वादेषु अवचनीयेषु तत् एव द्विगुणम् भवेत् ॥ ८।२६९॥
sama-varṇe dvijātīnām dvādaśa eva vyatikrame . vādeṣu avacanīyeṣu tat eva dviguṇam bhavet .. 8.269..
8.269. For offences of twice-born men against those of equal caste (varna, the fine shall be) also twelve (panas); for speeches which ought not to be uttered, that (and every fine shall be) double.
एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ ८.२७०॥
एकजातिः द्विजातीन् तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयात् छेदम् जघन्यप्रभवः हि सः ॥ ८।२७०॥
ekajātiḥ dvijātīn tu vācā dāruṇayā kṣipan . jihvāyāḥ prāpnuyāt chedam jaghanyaprabhavaḥ hi saḥ .. 8.270..
8.270. A once-born man (a Sudra), who insults a twice-born man with gross invective, shall have his tongue cut out; for he is of low origin.
नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः । निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥ ८.२७१॥
नाम-जाति-ग्रहम् तु एषाम् अभिद्रोहेण कुर्वतः । निक्षेप्यः अयः-मयः शङ्कुः ज्वलन् आस्ये दश-अङ्गुलः ॥ ८।२७१॥
nāma-jāti-graham tu eṣām abhidroheṇa kurvataḥ . nikṣepyaḥ ayaḥ-mayaḥ śaṅkuḥ jvalan āsye daśa-aṅgulaḥ .. 8.271..
8.271. If he mentions the names and castes (gati) of the (twice-born) with contumely, an iron nail, ten fingers long, shall be thrust red-hot into his mouth.
धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः । तप्तमासेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ ८.२७२॥ श्रौत्रे
धर्म-उपदेशम् दर्पेण विप्राणाम् अस्य कुर्वतः । तप्तम् आसेचयेत् तैलम् वक्त्रे श्रोत्रे च पार्थिवः ॥ ८।२७२॥ श्रौत्रे
dharma-upadeśam darpeṇa viprāṇām asya kurvataḥ . taptam āsecayet tailam vaktre śrotre ca pārthivaḥ .. 8.272.. śrautre
8.272. If he arrogantly teaches Brahmanas their duty, the king shall cause hot oil to be poured into his mouth and into his ears.
श्रुतं देशं च जातिं च कर्म शरीरमेव च । वितथेन ब्रुवन् दर्पाद्दाप्यः स्याद्द्विशतं दमम् ॥ ८.२७३॥
श्रुतम् देशम् च जातिम् च कर्म शरीरम् एव च । वितथेन ब्रुवन् दर्पात् दाप्यः स्यात् द्विशतम् दमम् ॥ ८।२७३॥
śrutam deśam ca jātim ca karma śarīram eva ca . vitathena bruvan darpāt dāpyaḥ syāt dviśatam damam .. 8.273..
8.273. He who through arrogance makes false statements regarding the learning (of a caste-fellow), his country, his caste (gati), or the rites by which his body was sanctified, shall be compelled to pay a fine of two hundred (panas).
काणं वाऽप्यथ वा खञ्जमन्यं वाऽपि तथाविधम् । तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ ८.२७४॥
काणम् वा अपि अथ वा खञ्जम् अन्यम् वा अपि तथाविधम् । तथ्येन अपि ब्रुवन् दाप्यः दण्डम् कार्षापण-अवरम् ॥ ८।२७४॥
kāṇam vā api atha vā khañjam anyam vā api tathāvidham . tathyena api bruvan dāpyaḥ daṇḍam kārṣāpaṇa-avaram .. 8.274..
8.274. He who even in accordance with the true facts (contemptuously) calls another man one-eyed, lame, or the like (names), shall be fined at least one karshapana.
मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयंशतं दाप्यः पन्थानं चाददद्गुरोः ॥ ८.२७५॥
मातरम् पितरम् जायाम् भ्रातरम् तनयम् गुरुम् । आक्षारयन् शतम् दाप्यः पन्थानम् च अददत्-गुरोः ॥ ८।२७५॥
mātaram pitaram jāyām bhrātaram tanayam gurum . ākṣārayan śatam dāpyaḥ panthānam ca adadat-guroḥ .. 8.275..
8.275. He who defames his mother, his father, his wife, his brother, his son, or his teacher, and he who gives not the way to his preceptor, shall be compelled to pay one hundred (panas).
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता । ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ ८.२७६॥
ब्राह्मण-क्षत्रियाभ्याम् तु दण्डः कार्यः विजानता । ब्राह्मणे साहसः पूर्वः क्षत्रिये तु एव मध्यमः ॥ ८।२७६॥
brāhmaṇa-kṣatriyābhyām tu daṇḍaḥ kāryaḥ vijānatā . brāhmaṇe sāhasaḥ pūrvaḥ kṣatriye tu eva madhyamaḥ .. 8.276..
8.276. (For mutual abuse) by a Brahmana and a Kshatriya a fine must be imposed by a discerning (king), on the Brahmana the lowest amercement, but on the Kshatriya the middlemost.
विट् शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः । छेदवर्जं प्रणयनं दण्डस्यैति विनिश्चयः ॥ ८.२७७॥
विश् शूद्रयोः एवम् एव स्व-जातिम् प्रति तत्त्वतः । छेद-वर्जम् प्रणयनम् दण्डस्य एति विनिश्चयः ॥ ८।२७७॥
viś śūdrayoḥ evam eva sva-jātim prati tattvataḥ . cheda-varjam praṇayanam daṇḍasya eti viniścayaḥ .. 8.277..
8.277. A Vaisya and a Sudra must be punished exactly in the same manner according to their respective castes, but the tongue (of the Sudra) shall not be cut out; that is the decision.
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ ८.२७८॥
एष दण्ड-विधिः प्रोक्तः वाच्-पारुष्यस्य तत्त्वतः । अतस् ऊर्ध्वम् प्रवक्ष्यामि दण्ड-पारुष्य-निर्णयम् ॥ ८।२७८॥
eṣa daṇḍa-vidhiḥ proktaḥ vāc-pāruṣyasya tattvataḥ . atas ūrdhvam pravakṣyāmi daṇḍa-pāruṣya-nirṇayam .. 8.278..
8.278. Thus the rules for punishments (applicable to cases) of defamation have been truly declared; I will next propound the decision (of cases) of assault.
येन केन चिदङ्गेन हिंस्याच्चेत्श्रेष्ठमन्त्यजः । छेत्तव्यं तद्तदेवास्य तन् मनोरनुशासनम् ॥ ८.२७९॥
येन केन चित् अङ्गेन हिंस्यात् चेद् श्रेष्ठम् अन्त्यजः । छेत्तव्यम् तत् तत् एव अस्य तत् मनोः अनुशासनम् ॥ ८।२७९॥
yena kena cit aṅgena hiṃsyāt ced śreṣṭham antyajaḥ . chettavyam tat tat eva asya tat manoḥ anuśāsanam .. 8.279..
8.279. With whatever limb a man of a low caste does hurt to (a man of the three) highest (castes), even that limb shall be cut off; that is the teaching of Manu.
पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति । पादेन प्रहरन् कोपात्पादच्छेदनमर्हति ॥ ८.२८०॥
पाणिम् उद्यम्य दण्डम् वा पाणि-छेदनम् अर्हति । पादेन प्रहरन् कोपात् पाद-छेदनम् अर्हति ॥ ८।२८०॥
pāṇim udyamya daṇḍam vā pāṇi-chedanam arhati . pādena praharan kopāt pāda-chedanam arhati .. 8.280..
8.280. He who raises his hand or a stick, shall have his hand cut off; he who in anger kicks with his foot, shall have his foot cut off.
सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । कट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ॥ ८.२८१॥
सहासनम् अभिप्रेप्सुः उत्कृष्टस्य अपकृष्ट-जः । कट्याम् कृत-अङ्कः निर्वास्यः स्फिचम् वा अस्य अवकर्तयेत् ॥ ८।२८१॥
sahāsanam abhiprepsuḥ utkṛṣṭasya apakṛṣṭa-jaḥ . kaṭyām kṛta-aṅkaḥ nirvāsyaḥ sphicam vā asya avakartayet .. 8.281..
8.281. A low-caste man who tries to place himself on the same seat with a man of a high caste, shall be branded on his hip and be banished, or (the king) shall cause his buttock to be gashed.
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ्रमवशर्धयतो गुदम् ॥ ८.२८२॥
अवनिष्ठीवतः दर्पात् द्वौ ओष्ठौ छेदयेत् नृपः । अवमूत्रयतः मेढ्रम् अवशर्धयतः गुदम् ॥ ८।२८२॥
avaniṣṭhīvataḥ darpāt dvau oṣṭhau chedayet nṛpaḥ . avamūtrayataḥ meḍhram avaśardhayataḥ gudam .. 8.282..
8.282. If out of arrogance he spits (on a superior), the king shall cause both his lips to be cut off; if he urines (on him), the penis; if he breaks wind (against him), the anus.
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ॥ ८.२८३॥
केशेषु गृह्णतः हस्तौ छेदयेत् अ विचारयन् । पादयोः दाढिकायाम् च ग्रीवायाम् वृषणेषु च ॥ ८।२८३॥
keśeṣu gṛhṇataḥ hastau chedayet a vicārayan . pādayoḥ dāḍhikāyām ca grīvāyām vṛṣaṇeṣu ca .. 8.283..
8.283. If he lays hold of the hair (of a superior), let the (king) unhesitatingly cut off his hands, likewise (if he takes him) by the feet, the beard, the neck, or the scrotum.
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता तु षण्निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥ ८.२८४॥
त्वच्-भेदकः शतम् दण्ड्यः लोहितस्य च दर्शकः । मांसभेत्ता तु षष्-निष्कान् प्रवास्यः तु अस्थिभेदकः ॥ ८।२८४॥
tvac-bhedakaḥ śatam daṇḍyaḥ lohitasya ca darśakaḥ . māṃsabhettā tu ṣaṣ-niṣkān pravāsyaḥ tu asthibhedakaḥ .. 8.284..
8.284. He who breaks the skin (of an equal) or fetches blood (from him) shall be fined one hundred (panas), he who cuts a muscle six nishkas, he who breaks a bone shall be banished.
वनस्पतीनां सर्वेषामुपभोगो यथा यथा । यथा तथा दमः कार्यो हिंसायामिति धारणा ॥ ८.२८५॥
वनस्पतीनाम् सर्वेषाम् उपभोगः यथा यथा । यथा तथा दमः कार्यः हिंसायाम् इति धारणा ॥ ८।२८५॥
vanaspatīnām sarveṣām upabhogaḥ yathā yathā . yathā tathā damaḥ kāryaḥ hiṃsāyām iti dhāraṇā .. 8.285..
8.285. According to the usefulness of the several (kinds of) trees a fine must be inflicted for injuring them; that is the settled rule.
मनुष्याणां पशूनां च दुःखाय प्रहृते सति । यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा ॥ ८.२८६॥
मनुष्याणाम् पशूनाम् च दुःखाय प्रहृते सति । यथा यथा महत् दुःखम् दण्डम् कुर्यात् तथा तथा ॥ ८।२८६॥
manuṣyāṇām paśūnām ca duḥkhāya prahṛte sati . yathā yathā mahat duḥkham daṇḍam kuryāt tathā tathā .. 8.286..
8.286. If a blow is struck against men or animals in order to (give them) pain, (the judge) shall inflict a fine in proportion to the amount of pain (caused).
अङ्गावपीडनायां च प्राणशोनितयोः । समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ ८.२८७॥
अङ्ग-अवपीडनायाम् च प्राण-शोनितयोः । समुत्थान-व्ययम् दाप्यः सर्व-दण्डम् अथ अपि वा ॥ ८।२८७॥
aṅga-avapīḍanāyām ca prāṇa-śonitayoḥ . samutthāna-vyayam dāpyaḥ sarva-daṇḍam atha api vā .. 8.287..
8.287. If a limb is injured, a wound (is caused), or blood (flows, the assailant) shall be made to pay (to the sufferer) the expenses of the cure, or the whole (both the usual amercement and the expenses of the cure as a) fine (to the king).
द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् ॥ ८.२८८॥
द्रव्याणि हिंस्यात् यः यस्य ज्ञानतः अज्ञानतः अपि वा । स तस्य उत्पादयेत् तुष्टिम् राज्ञे दद्यात् च तद्-समम् ॥ ८।२८८॥
dravyāṇi hiṃsyāt yaḥ yasya jñānataḥ ajñānataḥ api vā . sa tasya utpādayet tuṣṭim rājñe dadyāt ca tad-samam .. 8.288..
8.288. He who damages the goods of another, be it intentionally or unintentionally, shall give satisfaction to the (owner) and pay to the king a fine equal to the (damage).
चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु । मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ ८.२८९॥
चर्म-चार्मिक-भाण्डेषु काष्ठ-लोष्ट-मयेषु । मूल्यात् पञ्चगुणः दण्डः पुष्प-मूल-फलेषु च ॥ ८।२८९॥
carma-cārmika-bhāṇḍeṣu kāṣṭha-loṣṭa-mayeṣu . mūlyāt pañcaguṇaḥ daṇḍaḥ puṣpa-mūla-phaleṣu ca .. 8.289..
8.289. In the case of (damage done to) leather, or to utensils of leather, of wood, or of clay, the fine (shall be) five times their value; likewise in the case of (damage to) flowers, roots, and fruit.
यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ ८.२९०॥
यानस्य च एव यातुः च यान-स्वामिनः एव च । दश अतिवर्तनानि आहुः शेषे दण्डः विधीयते ॥ ८।२९०॥
yānasya ca eva yātuḥ ca yāna-svāminaḥ eva ca . daśa ativartanāni āhuḥ śeṣe daṇḍaḥ vidhīyate .. 8.290..
8.290. They declare with respect to a carriage, its driver and its owner, (that there are) ten cases in which no punishment (for damage done) can be inflicted; in other cases a fine is prescribed.
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ ८.२९१॥
छिन्न-नास्ये भग्न-युगे तिर्यक्-प्रतिमुख-आगते । अक्ष-भङ्गे च यानस्य चक्र-भङ्गे तथा एव च ॥ ८।२९१॥
chinna-nāsye bhagna-yuge tiryak-pratimukha-āgate . akṣa-bhaṅge ca yānasya cakra-bhaṅge tathā eva ca .. 8.291..
8.291. When the nose-string is snapped, when the yoke is broken, when the carriage turns sideways or back, when the axle or a wheel is broken,
छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ ८.२९२॥
छेदने च एव यन्त्राणाम् योक्त्र-रश्म्योः तथा एव च । आक्रन्दे च अपि अपैहि इति न दण्डम् मनुः अब्रवीत् ॥ ८।२९२॥
chedane ca eva yantrāṇām yoktra-raśmyoḥ tathā eva ca . ākrande ca api apaihi iti na daṇḍam manuḥ abravīt .. 8.292..
8.292. When the leather-thongs, the rope around the neck or the bridle are broken, and when (the driver) has loudly called out, ’Make way,’ Manu has declared (that in all these cases) no punishment (shall be inflicted).
यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥ ८.२९३॥
यत्र अपवर्तते युग्यम् वैगुण्यात् प्राजकस्य तु । तत्र स्वामी भवेत् दण्ड्यः हिंसायाम् द्विशतम् दमम् ॥ ८।२९३॥
yatra apavartate yugyam vaiguṇyāt prājakasya tu . tatra svāmī bhavet daṇḍyaḥ hiṃsāyām dviśatam damam .. 8.293..
8.293. But if the cart turns off (the road) through the driver’s want of skill, the owner shall be fined, if damage (is done), two hundred (panas).
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डमर्हति । युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ ८.२९४॥
प्राजकः चेद् भवेत् आप्तः प्राजकः दण्डम् अर्हति । युग्य-स्थाः प्राजके अनाप्ते सर्वे दण्ड्याः शतम् शतम् ॥ ८।२९४॥
prājakaḥ ced bhavet āptaḥ prājakaḥ daṇḍam arhati . yugya-sthāḥ prājake anāpte sarve daṇḍyāḥ śatam śatam .. 8.294..
8.294. If the driver is skilful (but negligent), he alone shall be fined; if the driver is unskilful, the occupants of the carriage (also) shall be each fined one hundred (panas).
स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ॥ ८.२९५॥
स चेद् तु पथि संरुद्धः पशुभिः वा रथेन वा । प्रमापयेत् प्राणभृतः तत्र दण्डः अविचारितः ॥ ८।२९५॥
sa ced tu pathi saṃruddhaḥ paśubhiḥ vā rathena vā . pramāpayet prāṇabhṛtaḥ tatra daṇḍaḥ avicāritaḥ .. 8.295..
8.295. But if he is stopped on his way by cattle or by (another) carriage, and he causes the death of any living being, a fine shall without doubt be imposed.
मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् । प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥ ८.२९६॥
मनुष्य-मारणे क्षिप्रम् चौर-वत् किल्बिषम् भवेत् । प्राणभृत्सु महत्सु अर्धम् गो-गज-उष्ट्र-हय-आदिषु ॥ ८।२९६॥
manuṣya-māraṇe kṣipram caura-vat kilbiṣam bhavet . prāṇabhṛtsu mahatsu ardham go-gaja-uṣṭra-haya-ādiṣu .. 8.296..
8.296. If a man is killed, his guilt will be at once the same as (that of) a thief; for large animals such as cows, elephants, camels or horses, half of that.
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ॥ ८.२९७॥
क्षुद्रकाणाम् पशूनाम् तु हिंसायाम् द्विशतः दमः । पञ्चाशत् तु भवेत् दण्डः शुभेषु मृग-पक्षिषु ॥ ८।२९७॥
kṣudrakāṇām paśūnām tu hiṃsāyām dviśataḥ damaḥ . pañcāśat tu bhavet daṇḍaḥ śubheṣu mṛga-pakṣiṣu .. 8.297..
8.297. For injuring small cattle the fine (shall be) two hundred (panas); the fine for beautiful wild quadrupeds and birds shall amount to fifty (panas).
गर्धभाजाविकानां तु दण्डः स्यात्पाञ्चमाषिकः । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ॥ ८.२९८॥
गर्धभ-अजाविकानाम् तु दण्डः स्यात् पाञ्च-माषिकः । माषिकः तु भवेत् दण्डः श्व-सूकर-निपातने ॥ ८।२९८॥
gardhabha-ajāvikānām tu daṇḍaḥ syāt pāñca-māṣikaḥ . māṣikaḥ tu bhavet daṇḍaḥ śva-sūkara-nipātane .. 8.298..
8.298. For donkeys, sheep, and goats the fine shall be five mashas; but the punishment for killing a dog or a pig shall be one masha.
भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सौदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ ८.२९९॥
भार्या पुत्रः च दासः च प्रेष्यः भ्रात्रा च सौदरः । प्राप्त-अपराधाः ताड्याः स्युः रज्ज्वा वेणु-दलेन वा ॥ ८।२९९॥
bhāryā putraḥ ca dāsaḥ ca preṣyaḥ bhrātrā ca saudaraḥ . prāpta-aparādhāḥ tāḍyāḥ syuḥ rajjvā veṇu-dalena vā .. 8.299..
8.299. A wife, a son, a slave, a pupil, and a (younger) brother of the full blood, who have committed faults, may be beaten with a rope or a split bamboo,
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन । अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ॥ ८.३००॥
पृष्ठतस् तु शरीरस्य न उत्तमाङ्गे कथम् चन । अतस् अन्यथा तु प्रहरन् प्राप्तः स्यात् चौर-किल्बिषम् ॥ ८।३००॥
pṛṣṭhatas tu śarīrasya na uttamāṅge katham cana . atas anyathā tu praharan prāptaḥ syāt caura-kilbiṣam .. 8.300..
8.300. But on the back part of the body (only), never on a noble part; he who strikes them otherwise will incur the same guilt as a thief.
एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ ८.३०१॥
एषः अखिलेन अभिहितः दण्ड-पारुष्य-निर्णयः । स्तेनस्य अतस् प्रवक्ष्यामि विधिम् दण्ड-विनिर्णये ॥ ८।३०१॥
eṣaḥ akhilena abhihitaḥ daṇḍa-pāruṣya-nirṇayaḥ . stenasya atas pravakṣyāmi vidhim daṇḍa-vinirṇaye .. 8.301..
8.301. Thus the whole law of assault (and hurt) has been declared completely; I will now explain the rules for the decision (in cases) of theft.
परमं यत्नमातिष्ठेत्स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ ८.३०२॥
परमम् यत्नम् आतिष्ठेत् स्तेनानाम् निग्रहे नृपः । स्तेनानाम् निग्रहात् अस्य यशः राष्ट्रम् च वर्धते ॥ ८।३०२॥
paramam yatnam ātiṣṭhet stenānām nigrahe nṛpaḥ . stenānām nigrahāt asya yaśaḥ rāṣṭram ca vardhate .. 8.302..
8.302. Let the king exert himself to the utmost to punish thieves; for, if he punishes thieves, his fame grows and his kingdom prospers.
अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ ८.३०३॥
अभयस्य हि यः दाता स पूज्यः सततम् नृपः । सत्त्रम् हि वर्धते तस्य सदा एव अभय-दक्षिणम् ॥ ८।३०३॥
abhayasya hi yaḥ dātā sa pūjyaḥ satatam nṛpaḥ . sattram hi vardhate tasya sadā eva abhaya-dakṣiṇam .. 8.303..
8.303. That king, indeed, is ever worthy of honour who ensures the safety (of his subjects); for the sacrificial session (sattra, which he, as it were, performs thereby) ever grows in length, the safety (of his subjects representing) the sacrificial fee.
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ ८.३०४॥
सर्वतस् धर्म-षड्भागः राज्ञः भवति रक्षतः । अधर्मात् अपि षड्भागः भवति अस्य हि अरक्षतः ॥ ८।३०४॥
sarvatas dharma-ṣaḍbhāgaḥ rājñaḥ bhavati rakṣataḥ . adharmāt api ṣaḍbhāgaḥ bhavati asya hi arakṣataḥ .. 8.304..
8.304. A king who (duly) protects (his subjects) receives from each and all the sixth part of their spiritual merit; if he does not protect them, the sixth part of their demerit also (will fall on him).
यदधीते यद्यजते यद्ददाति यदर्चति । तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् ॥ ८.३०५॥
यत् अधीते यत् यजते यत् ददाति यत् अर्चति । तस्य सम्यक् भवति रक्षणात् ॥ ८।३०५॥
yat adhīte yat yajate yat dadāti yat arcati . tasya samyak bhavati rakṣaṇāt .. 8.305..
8.305. Whatever (merit a man gains by) reading the Veda, by sacrificing, by charitable gifts, (or by) worshipping (Gurus and gods), the king obtains a sixth part of that in consequence of his duly protecting (his kingdom).
रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन् । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ ८.३०६॥
रक्षन् धर्मेण भूतानि राजा वध्यान् च घातयन् । यजते अहर् अहर् यज्ञैः सहस्र-शत-दक्षिणैः ॥ ८।३०६॥
rakṣan dharmeṇa bhūtāni rājā vadhyān ca ghātayan . yajate ahar ahar yajñaiḥ sahasra-śata-dakṣiṇaiḥ .. 8.306..
8.306. A king who protects the created beings in accordance with the sacred law and smites those worthy of corporal punishment, daily offers (as it were) sacrifices at which hundred thousands (are given as) fees.
योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः । प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ ८.३०७॥
यः अरक्षान् बलिम् आदत्ते करम् शुल्कम् च पार्थिवः । प्रतिभागम् च दण्डम् च स सद्यस् नरकम् व्रजेत् ॥ ८।३०७॥
yaḥ arakṣān balim ādatte karam śulkam ca pārthivaḥ . pratibhāgam ca daṇḍam ca sa sadyas narakam vrajet .. 8.307..
8.307. A king who does not afford protection, (yet) takes his share in kind, his taxes, tolls and duties, daily presents and fines, will (after death) soon sink into hell.
अरक्षितारमत्तारं बलिषड्भागहारिणम् । तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ ८.३०८॥
। तम् आहुः सर्व-लोकस्य समग्र-मल-हारकम् ॥ ८।३०८॥
. tam āhuḥ sarva-lokasya samagra-mala-hārakam .. 8.308..
8.308. They declare that a king who affords no protection, (yet) receives the sixth part of the produce, takes upon himself all the foulness of his whole people.
अनवेक्षितमर्यादं नास्तिकं विप्रलुम्पकम् । अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ ८.३०९॥
अन् अवेक्षित-मर्यादम् नास्तिकम् विप्रलुम्पकम् । अरक्षितार मत्तारम् नृपम् विद्यात् अधोगतिम् ॥ ८।३०९॥
an avekṣita-maryādam nāstikam vipralumpakam . arakṣitāra mattāram nṛpam vidyāt adhogatim .. 8.309..
8.309. Know that a king who heeds not the rules (of the law), who is an atheist, and rapacious, who does not protect (his subjects, but) devours them, will sink low (after death).
अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च ॥ ८.३१०॥
अधार्मिकम् त्रिभिः न्यायैः निगृह्णीयात् प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च ॥ ८।३१०॥
adhārmikam tribhiḥ nyāyaiḥ nigṛhṇīyāt prayatnataḥ . nirodhanena bandhena vividhena vadhena ca .. 8.310..
8.310. Let him carefully restrain the wicked by three methods,- by imprisonment by putting them in fetters, and by various (kinds of) corporal punishments.
निग्रहेण हि पापानां साधूनां सङ्ग्रहेण च । द्विजातय इवैज्याभिः पूयन्ते सततं नृपाः ॥ ८.३११॥
निग्रहेण हि पापानाम् साधूनाम् सङ्ग्रहेण च । द्विजातयः इव एज्याभिः पूयन्ते सततम् नृपाः ॥ ८।३११॥
nigraheṇa hi pāpānām sādhūnām saṅgraheṇa ca . dvijātayaḥ iva ejyābhiḥ pūyante satatam nṛpāḥ .. 8.311..
8.311. For by punishing the wicked and by favouring the virtuous, kings are constantly sanctified, just as twice- born men by sacrifices.
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥ ८.३१२॥
क्षन्तव्यम् प्रभुणा नित्यम् क्षिपताम् कार्यिणाम् नृणाम् । बाल-वृद्ध-आतुराणाम् च कुर्वता हितम् आत्मनः ॥ ८।३१२॥
kṣantavyam prabhuṇā nityam kṣipatām kāryiṇām nṛṇām . bāla-vṛddha-āturāṇām ca kurvatā hitam ātmanaḥ .. 8.312..
8.312. A king who desires his own welfare must always forgive litigants, infants, aged and sick men, who inveigh against him.
यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ ८.३१३॥
यः क्षिप्तः मर्षयति आर्तैः तेन स्वर्गे महीयते । यः तु ऐश्वर्यात् न क्षमते नरकम् तेन गच्छति ॥ ८।३१३॥
yaḥ kṣiptaḥ marṣayati ārtaiḥ tena svarge mahīyate . yaḥ tu aiśvaryāt na kṣamate narakam tena gacchati .. 8.313..
8.313. He who, being abused by men in pain, pardons (them), will in reward of that (act) be exalted in heaven; but he who, (proud) of his kingly state, forgives them not, will for that (reason) sink into hell.
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धीमता । आचक्षाणेन तत्स्तेयमेवङ्कर्माऽस्मि शाधि माम् ॥ ८.३१४॥
राजा स्तेनेन गन्तव्यः मुक्तकेशेन धीमता । आचक्षाणेन तत् स्तेयम् एवङ्कर्मा अस्मि शाधि माम् ॥ ८।३१४॥
rājā stenena gantavyaḥ muktakeśena dhīmatā . ācakṣāṇena tat steyam evaṅkarmā asmi śādhi mām .. 8.314..
8.314. A thief shall, running, approach the king, with flying hair, confessing that theft (and saying), ’Thus have I done, punish me;’
स्कन्धेनादाय मुशलं लगुडं वाऽपि खादिरम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ ८.३१५॥
स्कन्धेन आदाय मुशलम् लगुडम् वा अपि खादिरम् । शक्तिम् च उभयतस् तीक्ष्णाम् आयसम् दण्डम् एव वा ॥ ८।३१५॥
skandhena ādāya muśalam laguḍam vā api khādiram . śaktim ca ubhayatas tīkṣṇām āyasam daṇḍam eva vā .. 8.315..
8.315. (And he must) carry on his shoulder a pestle, or a club of Khadira wood, or a spear sharp at both ends, or an iron staff.
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ ८.३१६॥
शासनात् वा विमोक्षात् वा स्तेनः स्तेयात् विमुच्यते । अ शासित्वा तु तम् राजा स्तेनस्य आप्नोति किल्बिषम् ॥ ८।३१६॥
śāsanāt vā vimokṣāt vā stenaḥ steyāt vimucyate . a śāsitvā tu tam rājā stenasya āpnoti kilbiṣam .. 8.316..
8.316. Whether he be punished or pardoned, the thief is freed from the (guilt of) theft; but the king, if he punishes not, takes upon himself the guilt of the thief.
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ ८.३१७॥
अन्न-आदे भ्रूण-हा मार्ष्टि पत्यौ भार्या-अपचारिणी । गुरौ शिष्यः च याज्यः च स्तेनः राजनि किल्बिषम् ॥ ८।३१७॥
anna-āde bhrūṇa-hā mārṣṭi patyau bhāryā-apacāriṇī . gurau śiṣyaḥ ca yājyaḥ ca stenaḥ rājani kilbiṣam .. 8.317..
8.317. The killer of a learned Brahmana throws his guilt on him who eats his food, an adulterous wife on her (negligent) husband, a (sinning) pupil or sacrificer on (their negligent) teacher (or priest), a thief on the king (who pardons him).
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ ८.३१८॥
राजभिः धृत-दण्डाः तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गम् आयान्ति सन्तः सुकृतिनः यथा ॥ ८।३१८॥
rājabhiḥ dhṛta-daṇḍāḥ tu kṛtvā pāpāni mānavāḥ . nirmalāḥ svargam āyānti santaḥ sukṛtinaḥ yathā .. 8.318..
8.318. But men who have committed crimes and have been punished by the king, go to heaven, being pure like those who performed meritorious deeds.
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । स दण्डं प्राप्नुयान् माषं तच्च तस्मिन् समाहरेत् ॥ ८.३१९॥
यः तु रज्जुम् घटम् कूपात् हरेत् भिन्द्यात् च यः प्रपाम् । स दण्डम् प्राप्नुयात् माषम् तत् च तस्मिन् समाहरेत् ॥ ८।३१९॥
yaḥ tu rajjum ghaṭam kūpāt haret bhindyāt ca yaḥ prapām . sa daṇḍam prāpnuyāt māṣam tat ca tasmin samāharet .. 8.319..
8.319. He who steals the rope or the water-pot from a well, or damages a hut where water is distributed, shall pay one masha as a fine and restore the (article abstracted or damaged) in its (proper place).
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ॥ ८.३२०॥
धान्यम् दशभ्यः कुम्भेभ्यः हरतः अभ्यधिकम् वधः । शेषे अपि एकादश-गुणम् दाप्यः तस्य च तत् धनम् ॥ ८।३२०॥
dhānyam daśabhyaḥ kumbhebhyaḥ harataḥ abhyadhikam vadhaḥ . śeṣe api ekādaśa-guṇam dāpyaḥ tasya ca tat dhanam .. 8.320..
8.320. On him who steals more than ten kumbhas of grain corporal punishment (shall be inflicted); in other cases he shall be fined eleven times as much, and shall pay to the (owner the value of his) property.
तथा धरिममेयानां शतादभ्यधिके वधः । सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ ८.३२१॥
तथा धरिम-मेयानाम् शतात् अभ्यधिके वधः । सुवर्ण-रजत-आदीनाम् उत्तमानाम् च वाससाम् ॥ ८।३२१॥
tathā dharima-meyānām śatāt abhyadhike vadhaḥ . suvarṇa-rajata-ādīnām uttamānām ca vāsasām .. 8.321..
8.321. So shall corporal punishment be inflicted for stealing more than a hundred (palas) of articles sold by the weight, (i.e.) of gold, silver, and so forth, and of most excellent clothes.
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते । शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ॥ ८.३२२॥
पञ्चाशतः तु अभ्यधिके हस्त-छेदनम् इष्यते । शेषे तु एकादशगुणम् मूल्यात् दण्डम् प्रकल्पयेत् ॥ ८।३२२॥
pañcāśataḥ tu abhyadhike hasta-chedanam iṣyate . śeṣe tu ekādaśaguṇam mūlyāt daṇḍam prakalpayet .. 8.322..
8.322. For (stealing) more than fifty (palas) it is enacted that the hands (of the offender) shall be cut off; but in other cases, let him inflict a fine of eleven times the value.
पुरुषाणां कुलीनानां नारीणां च विशेषतः । मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥ ८.३२३॥
पुरुषाणाम् कुलीनानाम् नारीणाम् च विशेषतः । मुख्यानाम् च एव रत्नानाम् हरणे वधम् अर्हति ॥ ८।३२३॥
puruṣāṇām kulīnānām nārīṇām ca viśeṣataḥ . mukhyānām ca eva ratnānām haraṇe vadham arhati .. 8.323..
8.323. For stealing men of noble family and especially women and the most precious gems, (the offender) deserves corporal (or capital) punishment.
महापशूनां हरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ ८.३२४॥
महापशूनाम् हरणे शस्त्राणाम् औषधस्य च । कालम् आसाद्य कार्यम् च दण्डम् राजा प्रकल्पयेत् ॥ ८।३२४॥
mahāpaśūnām haraṇe śastrāṇām auṣadhasya ca . kālam āsādya kāryam ca daṇḍam rājā prakalpayet .. 8.324..
8.324. For stealing large animals, weapons, or medicines, let the king fix a punishment, after considering the time and the purpose (for which they were destined).
गोषु ब्राह्मणसंस्थासु खरिकायाश्च भेदने । पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ ८.३२५॥
गोषु ब्राह्मण-संस्थासु खरिकायाः च भेदने । पशूनाम् हरणे च एव सद्यस् कार्यः अर्धपादिकः ॥ ८।३२५॥
goṣu brāhmaṇa-saṃsthāsu kharikāyāḥ ca bhedane . paśūnām haraṇe ca eva sadyas kāryaḥ ardhapādikaḥ .. 8.325..
8.325. For (stealing) cows belonging to Brahmanas, piercing (the nostrils of) a barren cow, and for stealing (other) cattle (belonging to Brahmanas, the offender) shall forthwith lose half his feet.
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ८.३२६॥
सूत्र-कार्पास-किण्वानाम् गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ ८।३२६॥
sūtra-kārpāsa-kiṇvānām gomayasya guḍasya ca . dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca .. 8.326..
8.326. (For stealing) thread, cotton, drugs causing fermentation, cowdung, molasses, sour milk, sweet milk, butter-milk, water, or grass
वेणुवैदलभाण्डानां लवणानां तथैव च । मृण्मयानां च हरणे मृदो भस्मन एव च ॥ ८.३२७॥
वेणुवैदल-भाण्डानाम् लवणानाम् तथा एव च । मृण्मयानाम् च हरणे मृदः भस्मनः एव च ॥ ८।३२७॥
veṇuvaidala-bhāṇḍānām lavaṇānām tathā eva ca . mṛṇmayānām ca haraṇe mṛdaḥ bhasmanaḥ eva ca .. 8.327..
8.327. Vessels made of bamboo or other cane, salt of various kinds, earthen (vessels), earth and ashes,
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यत्पशुसम्भवम् ॥ ८.३२८॥
मत्स्यानाम् पक्षिणाम् च एव तैलस्य च घृतस्य च । मांसस्य मधुनः च एव यत् च अन्यत् पशु-सम्भवम् ॥ ८।३२८॥
matsyānām pakṣiṇām ca eva tailasya ca ghṛtasya ca . māṃsasya madhunaḥ ca eva yat ca anyat paśu-sambhavam .. 8.328..
8.328. Fish, birds, oil, clarified butter, meat, honey, and other things that come from beasts,
अन्येषां चैवमादीनामद्यानाम् । पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः ॥ ८.३२९॥
अन्येषाम् च एवमादीनाम् अद्यानाम् । पक्व-अन्नानाम् च सर्वेषाम् तद्-मुल्यात् द्विगुणः दमः ॥ ८।३२९॥
anyeṣām ca evamādīnām adyānām . pakva-annānām ca sarveṣām tad-mulyāt dviguṇaḥ damaḥ .. 8.329..
8.329. Or other things of a similar kind, spirituous liquor, boiled rice, and every kind of cooked food, the fine (shall be) twice the value (of the stolen article).
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ॥ ८.३३०॥
पुष्पेषु हरिते धान्ये गुल्म-वल्ली-नगेषु च । अन्येषु अ परिपूतेषु दण्डः स्यात् पञ्च-कृष्णलः ॥ ८।३३०॥
puṣpeṣu harite dhānye gulma-vallī-nageṣu ca . anyeṣu a paripūteṣu daṇḍaḥ syāt pañca-kṛṣṇalaḥ .. 8.330..
8.330. For flowers, green corn, shrubs, creepers, trees, and other unhusked (grain) the fine (shall be) five krishnalas.
परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ ८.३३१॥
परिपूतेषु धान्येषु शाक-मूल-फलेषु च । निरन्वये शतम् दण्डः स अन्वये अर्धशतम् दमः ॥ ८।३३१॥
paripūteṣu dhānyeṣu śāka-mūla-phaleṣu ca . niranvaye śatam daṇḍaḥ sa anvaye ardhaśatam damaḥ .. 8.331..
8.331. For husked grain, vegetables, roots, and fruit the fine (shall be) one hundred (panas) if there is no connexion (between the owner and the thief), fifty (panas) if such a connexion exists.
स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं हृत्वाऽपव्ययते च यत् ॥ ८.३३२॥
स्यात् साहसम् तु अन्वयवत् प्रसभम् कर्म यत् कृतम् । निरन्वयम् भवेत् स्तेयम् च यत् ॥ ८।३३२॥
syāt sāhasam tu anvayavat prasabham karma yat kṛtam . niranvayam bhavet steyam ca yat .. 8.332..
8.332. An offence (of this description), which is committed in the presence (of the owner) and with violence, will be robbery; if (it is committed) in his absence, it will be theft; likewise if (the possession of) anything is denied after it has been taken.
यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः । तं शतं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् ॥ ८.३३३॥
यः तु एतानि उपकृप्तानि द्रव्याणि स्तेनयेत् नरः । तम् शतम् दण्डयेत् राजा यः च अग्निम् चोरयेत् गृहात् ॥ ८।३३३॥
yaḥ tu etāni upakṛptāni dravyāṇi stenayet naraḥ . tam śatam daṇḍayet rājā yaḥ ca agnim corayet gṛhāt .. 8.333..
8.333. On that man who may steal (any of) the above-mentioned articles, when they are prepared for (use), let the king inflict the first (or lowest) amercement; likewise on him who may steal (a sacred) fire out of the room (in which it is kept).
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः ॥ ८.३३४॥
येन येन यथा अङ्गेन स्तेनः नृषु विचेष्टते । तत् तत् एव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥ ८।३३४॥
yena yena yathā aṅgena stenaḥ nṛṣu viceṣṭate . tat tat eva haret tasya pratyādeśāya pārthivaḥ .. 8.334..
8.334. With whatever limb a thief in any way commits (an offence) against men, even of that (the king) shall deprive him in order to prevent (a repetition of the crime)
पिताऽचार्यः सुहृत्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ ८.३३५॥
पिता आचार्यः सुहृद् माता भार्या पुत्रः पुरोहितः । न अ दण्ड्यः नाम राज्ञः अस्ति यः स्वधर्मे न तिष्ठति ॥ ८।३३५॥
pitā ācāryaḥ suhṛd mātā bhāryā putraḥ purohitaḥ . na a daṇḍyaḥ nāma rājñaḥ asti yaḥ svadharme na tiṣṭhati .. 8.335..
8.335. Neither a father, nor a teacher, nor a friend, nor a mother, nor a wife, nor a son, nor a domestic priest must be left unpunished by a king, if they do not keep within their duty.
कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा ॥ ८.३३६॥
कार्षापणम् भवेत् दण्ड्यः यत्र अन्यः प्राकृतः जनः । तत्र राजा भवेत् दण्ड्यः सहस्रम् इति धारणा ॥ ८।३३६॥
kārṣāpaṇam bhavet daṇḍyaḥ yatra anyaḥ prākṛtaḥ janaḥ . tatra rājā bhavet daṇḍyaḥ sahasram iti dhāraṇā .. 8.336..
8.336. Where another common man would be fined one karshapana, the king shall be fined one thousand; that is the settled rule.
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ॥ ८.३३७॥
अष्टापाद्यम् तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडश एव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥ ८।३३७॥
aṣṭāpādyam tu śūdrasya steye bhavati kilbiṣam . ṣoḍaśa eva tu vaiśyasya dvātriṃśat kṣatriyasya ca .. 8.337..
8.337. In (a case of) theft the guilt of a Sudra shall be eightfold, that of a Vaisya sixteenfold, that of a Kshatriya two-and-thirtyfold,
ब्राह्मणस्य चतुःषष्टिः पूर्णं वाऽपि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः ॥ ८.३३८॥
ब्राह्मणस्य चतुःषष्टिः पूर्णम् वा अपि शतम् भवेत् । द्विगुणा वा चतुःषष्टिः तद्-दोष-गुण-विद् हि सः ॥ ८।३३८॥
brāhmaṇasya catuḥṣaṣṭiḥ pūrṇam vā api śatam bhavet . dviguṇā vā catuḥṣaṣṭiḥ tad-doṣa-guṇa-vid hi saḥ .. 8.338..
8.338. That of a Brahmana sixty-fourfold, or quite a hundredfold, or (even) twice four-and-sixtyfold; (each of them) knowing the nature of the offence
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च । तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ ८.३३९॥
वानस्पत्यम् मूल-फलम् दारु अग्नि-अर्थम् तथा एव च । तृणम् च गोभ्यः ग्रास-अर्थम् अस्तेयम् मनुः अब्रवीत् ॥ ८।३३९॥
vānaspatyam mūla-phalam dāru agni-artham tathā eva ca . tṛṇam ca gobhyaḥ grāsa-artham asteyam manuḥ abravīt .. 8.339..
8.339. (The taking of) roots and of fruit from trees, of wood for a (sacrificial) fire, and of grass for feeding cows, Manu has declared (to be) no theft.
योऽदत्तादायिनो हस्तात्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ ८.३४०॥
यः अदत्त आदायिनः हस्तात् लिप्सेत ब्राह्मणः धनम् । याजन-अध्यापनेन अपि यथा स्तेनः तथा एव सः ॥ ८।३४०॥
yaḥ adatta ādāyinaḥ hastāt lipseta brāhmaṇaḥ dhanam . yājana-adhyāpanena api yathā stenaḥ tathā eva saḥ .. 8.340..
8.340. A Brahmana, seeking to obtain property from a man who took what was not given to him, either by sacrificing for him or by teaching him, is even like a thief.
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । आददानः परक्षेत्रात्न दण्डं दातुमर्हति ॥ ८.३४१॥
द्विजः अध्वगः क्षीणवृत्तिः द्वौ इक्षू द्वे च मूलके । आददानः पर-क्षेत्रात् न दण्डम् दातुम् अर्हति ॥ ८।३४१॥
dvijaḥ adhvagaḥ kṣīṇavṛttiḥ dvau ikṣū dve ca mūlake . ādadānaḥ para-kṣetrāt na daṇḍam dātum arhati .. 8.341..
8.341. A twice-born man, who is travelling and whose provisions are exhausted, shall not be fined, if he takes two stalks of sugar-cane or two (esculent) roots from the field of another man.
असंदितानां संदाता संदितानां च मोक्षकः । दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ॥ ८.३४२॥
अ संदितानाम् संदाता संदितानाम् च मोक्षकः । दास-अश्व-रथ-हर्ता च प्राप्तः स्यात् चोर-किल्बिषम् ॥ ८।३४२॥
a saṃditānām saṃdātā saṃditānām ca mokṣakaḥ . dāsa-aśva-ratha-hartā ca prāptaḥ syāt cora-kilbiṣam .. 8.342..
8.342. He who ties up unbound or sets free tied up (cattle of other men), he who takes a slave, a horse, or a carriage will have incurred the guilt of a thief.
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । यशोऽस्मिन् प्राप्नुयात्लोके प्रेत्य चानुत्तमं सुखम् ॥ ८.३४३॥
अनेन विधिना राजा कुर्वाणः स्तेन-निग्रहम् । यशः अस्मिन् प्राप्नुयात् लोके प्रेत्य च अनुत्तमम् सुखम् ॥ ८।३४३॥
anena vidhinā rājā kurvāṇaḥ stena-nigraham . yaśaḥ asmin prāpnuyāt loke pretya ca anuttamam sukham .. 8.343..
8.343. A king who punishes thieves according to these rules, will gain fame in this world and after death unsurpassable bliss.
ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् । नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ ८.३४४॥
ऐन्द्रम् स्थानम् अभिप्रेप्सुः यशः च अक्षयम् अव्ययम् । न उपेक्षेत क्षणम् अपि राजा साहसिकम् नरम् ॥ ८।३४४॥
aindram sthānam abhiprepsuḥ yaśaḥ ca akṣayam avyayam . na upekṣeta kṣaṇam api rājā sāhasikam naram .. 8.344..
8.344. A king who desires to gain the throne of Indra and imperishable eternal fame, shall not, even for a moment, neglect (to punish) the man who commits violence.
वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ ८.३४५॥
वाग्दुष्टात् तस्करात् च एव दण्डेन एव च हिंसतः । साहसस्य नरः कर्ता विज्ञेयः पाप-कृत्तमः ॥ ८।३४५॥
vāgduṣṭāt taskarāt ca eva daṇḍena eva ca hiṃsataḥ . sāhasasya naraḥ kartā vijñeyaḥ pāpa-kṛttamaḥ .. 8.345..
8.345. He who commits violence must be considered as the worst offender, (more wicked) than a defamer, than a thief, and than he who injures (another) with a staff.
साहसे वर्तमानं तु यो मर्षयति पार्थिवः । स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ ८.३४६॥
साहसे वर्तमानम् तु यः मर्षयति पार्थिवः । स विनाशम् व्रजति आशु विद्वेषम् च अधिगच्छति ॥ ८।३४६॥
sāhase vartamānam tu yaḥ marṣayati pārthivaḥ . sa vināśam vrajati āśu vidveṣam ca adhigacchati .. 8.346..
8.346. But that king who pardons the perpetrator of violence quickly perishes and incurs hatred.
न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान् सर्वभूतभयावहान् ॥ ८.३४७॥
न मित्र-कारणात् राजा विपुलात् वा धन-आगमात् । समुत्सृजेत् साहसिकान् सर्व-भूत-भय-आवहान् ॥ ८।३४७॥
na mitra-kāraṇāt rājā vipulāt vā dhana-āgamāt . samutsṛjet sāhasikān sarva-bhūta-bhaya-āvahān .. 8.347..
8.347. Neither for friendship’s sake, nor for the sake of great lucre, must a king let go perpetrators of violence, who cause terror to all creatures.
शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ ८.३४८॥
शस्त्रम् द्विजातिभिः ग्राह्यम् धर्मः यत्र उपरुध्यते । द्विजातीनाम् च वर्णानाम् विप्लवे काल-कारिते ॥ ८।३४८॥
śastram dvijātibhiḥ grāhyam dharmaḥ yatra uparudhyate . dvijātīnām ca varṇānām viplave kāla-kārite .. 8.348..
8.348. Twice-born men may take up arms when (they are) hindered (in the fulfilment of their duties, when destruction (threatens) the twice-born castes (varna) in (evil) times,
आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे । स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ ८.३४९॥
आत्मनः च परित्राणे दक्षिणानाम् च सङ्गरे । स्त्री-विप्र-अभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ ८।३४९॥
ātmanaḥ ca paritrāṇe dakṣiṇānām ca saṅgare . strī-vipra-abhyupapattau ca ghnan dharmeṇa na duṣyati .. 8.349..
8.349. In their own defence, in a strife for the fees of officiating priests, and in order to protect women and Brahmanas; he who (under such circumstances) kills in the cause of right, commits no sin.
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ ८.३५०॥
गुरुम् वा बाल-वृद्धौ वा ब्राह्मणम् वा बहुश्रुतम् । आततायिनम् आयान्तम् हन्यात् एव अ विचारयन् ॥ ८।३५०॥
gurum vā bāla-vṛddhau vā brāhmaṇam vā bahuśrutam . ātatāyinam āyāntam hanyāt eva a vicārayan .. 8.350..
8.350. One may slay without hesitation an assassin who approaches (with murderous intent), whether (he be one’s) teacher, a child or an aged man, or a Brahmana deeply versed in the Vedas.
नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ ८.३५१॥
न आततायि-वधे दोषः हन्तुः भवति कश्चन । प्रकाशम् वा अ प्रकाशम् वा मन्युः तम् मन्युम् ऋच्छति ॥ ८।३५१॥
na ātatāyi-vadhe doṣaḥ hantuḥ bhavati kaścana . prakāśam vā a prakāśam vā manyuḥ tam manyum ṛcchati .. 8.351..
8.351. By killing an assassin the slayer incurs no guilt, whether (he does it) publicly or secretly; in that case fury recoils upon fury.
परदाराभिमर्शेषु प्रवृत्तान्नॄन् महीपतिः । उद्वेजनकरैर्दण्डैश्चिह्नयित्वा प्रवासयेत् ॥ ८.३५२॥
परदार-अभिमर्शेषु प्रवृत्तान् नॄन् महीपतिः । उद्वेजन-करैः दण्डैः चिह्नयित्वा प्रवासयेत् ॥ ८।३५२॥
paradāra-abhimarśeṣu pravṛttān nṝn mahīpatiḥ . udvejana-karaiḥ daṇḍaiḥ cihnayitvā pravāsayet .. 8.352..
8.352. Men who commit adultery with the wives of others, the king shall cause to be marked by punishments which cause terror, and afterwards banish.
तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः । येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥ ८.३५३॥
तद्-समुत्थः हि लोकस्य जायते वर्ण-सङ्करः । येन मूल-हरः अधर्मः सर्व-नाशाय कल्पते ॥ ८।३५३॥
tad-samutthaḥ hi lokasya jāyate varṇa-saṅkaraḥ . yena mūla-haraḥ adharmaḥ sarva-nāśāya kalpate .. 8.353..
8.353. For by (adultery) is caused a mixture of the castes (varna) among men; thence (follows) sin, which cuts up even the roots and causes the destruction of everything.
परस्य पत्न्या पुरुषः सम्भाषां योजयन् रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥ ८.३५४॥
परस्य पत्न्या पुरुषः सम्भाषाम् योजयन् रहः । पूर्वम् आक्षारितः दोषैः प्राप्नुयात् पूर्वसाहसम् ॥ ८।३५४॥
parasya patnyā puruṣaḥ sambhāṣām yojayan rahaḥ . pūrvam ākṣāritaḥ doṣaiḥ prāpnuyāt pūrvasāhasam .. 8.354..
8.354. A man formerly accused of (such) offences, who secretly converses with another man’s wife, shall pay the first (or lowest) amercement.
यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः ॥ ८.३५५॥
यः तु अन् आक्षारितः पूर्वम् अभिभाषेत कारणात् । न दोषम् प्राप्नुयात् किम् चित् न हि तस्य व्यतिक्रमः ॥ ८।३५५॥
yaḥ tu an ākṣāritaḥ pūrvam abhibhāṣeta kāraṇāt . na doṣam prāpnuyāt kim cit na hi tasya vyatikramaḥ .. 8.355..
8.355. But a man, not before accused, who (thus) speaks with (a woman) for some (reasonable) cause, shall not incur any guilt, since in him there is no transgression.
परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । नदीनां वाऽपि सम्भेदे स सङ्ग्रहणमाप्नुयात् ॥ ८.३५६॥
पर-स्त्रियम् यः अभिवदेत् तीर्थे अरण्ये वने अपि वा । नदीनाम् वा अपि सम्भेदे स सङ्ग्रहणम् आप्नुयात् ॥ ८।३५६॥
para-striyam yaḥ abhivadet tīrthe araṇye vane api vā . nadīnām vā api sambhede sa saṅgrahaṇam āpnuyāt .. 8.356..
8.356. He who addresses the wife of another man at a Tirtha, outside the village, in a forest, or at the confluence of rivers, suffer (the punishment for) adulterous acts (samgrahana).
उपकारक्रिया केलिः स्पर्शो भूषणवाससाम् । सह खट्वाऽसनं चैव सर्वं सङ्ग्रहणं स्मृतम् ॥ ८.३५७॥
उपकार-क्रिया केलिः स्पर्शः भूषण-वाससाम् । सह खट्वा-आसनम् च एव सर्वम् सङ्ग्रहणम् स्मृतम् ॥ ८।३५७॥
upakāra-kriyā keliḥ sparśaḥ bhūṣaṇa-vāsasām . saha khaṭvā-āsanam ca eva sarvam saṅgrahaṇam smṛtam .. 8.357..
8.357. Offering presents (to a woman), romping (with her), touching her ornaments and dress, sitting with her on a bed, all (these acts) are considered adulterous acts (samgrahana).
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया । परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ॥ ८.३५८॥
स्त्रियम् स्पृशेत् अदेशे यः स्पृष्टः वा मर्षयेत् तया । परस्परस्य अनुमते सर्वम् सङ्ग्रहणम् स्मृतम् ॥ ८।३५८॥
striyam spṛśet adeśe yaḥ spṛṣṭaḥ vā marṣayet tayā . parasparasya anumate sarvam saṅgrahaṇam smṛtam .. 8.358..
8.358. If one touches a woman in a place (which ought) not (to be touched) or allows (oneself to be touched in such a spot), all (such acts done) with mutual consent are declared (to be) adulterous (samgrahana).
अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डमर्हति । चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ८.३५९॥
अब्राह्मणः सङ्ग्रहणे प्राणान्तम् दण्डम् अर्हति । चतुर्णाम् अपि वर्णानाम् दाराः रक्ष्यतमाः सदा ॥ ८।३५९॥
abrāhmaṇaḥ saṅgrahaṇe prāṇāntam daṇḍam arhati . caturṇām api varṇānām dārāḥ rakṣyatamāḥ sadā .. 8.359..
8.359. A man who is not a Brahmana ought to suffer death for adultery (samgrahana); for the wives of all the four castes even must always be carefully guarded.
भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । सम्भाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ ८.३६०॥
भिक्षुकाः बन्दिनः च एव दीक्षिताः कारवः तथा । सम्भाषणम् सह स्त्रीभिः कुर्युः अप्रतिवारिताः ॥ ८।३६०॥
bhikṣukāḥ bandinaḥ ca eva dīkṣitāḥ kāravaḥ tathā . sambhāṣaṇam saha strībhiḥ kuryuḥ aprativāritāḥ .. 8.360..
8.360. Mendicants, bards, men who have performed the initiatory ceremony of a Vedic sacrifice, and artisans are not prohibited from speaking to married women.
न सम्भाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ॥ ८.३६१॥
न सम्भाषाम् पर-स्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धः भाषमाणः तु सुवर्णम् दण्डम् अर्हति ॥ ८।३६१॥
na sambhāṣām para-strībhiḥ pratiṣiddhaḥ samācaret . niṣiddhaḥ bhāṣamāṇaḥ tu suvarṇam daṇḍam arhati .. 8.361..
8.361. Let no man converse with the wives of others after he has been forbidden (to do so); but he who converses (with them), in spite of a prohibition, shall be fined one suvarna.
नैष चारणदारेषु विधिर्नात्मोपजीविषु । सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥ ८.३६२॥
न एष चारण-दारेषु विधिः न आत्मोपजीविषु । सज्जयन्ति हि ते नारीः निगूढाः चारयन्ति च ॥ ८।३६२॥
na eṣa cāraṇa-dāreṣu vidhiḥ na ātmopajīviṣu . sajjayanti hi te nārīḥ nigūḍhāḥ cārayanti ca .. 8.362..
8.362. This rule does not apply to the wives of actors and singers, nor (of) those who live on (the intrigues of) their own (wives); for such men send their wives (to others) or, concealing themselves, allow them to hold criminal intercourse.
किं चिदेव तु दाप्यः स्यात्सम्भाषां ताभिराचरन् । प्रेष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ ८.३६३॥
किम् चित् एव तु दाप्यः स्यात् सम्भाषाम् ताभिः आचरन् । प्रेष्यासु च एकभक्तासु रहः प्रव्रजितासु च ॥ ८।३६३॥
kim cit eva tu dāpyaḥ syāt sambhāṣām tābhiḥ ācaran . preṣyāsu ca ekabhaktāsu rahaḥ pravrajitāsu ca .. 8.363..
8.363. Yet he who secretly converses with such women, or with female slaves kept by one (master), and with female ascetics, shall be compelled to pay a small fine.
योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ ८.३६४॥
यः अकामाम् दूषयेत् कन्याम् स सद्यस् वधम् अर्हति । स कामाम् दूषयन् तुल्यः न वधम् प्राप्नुयात् नरः ॥ ८।३६४॥
yaḥ akāmām dūṣayet kanyām sa sadyas vadham arhati . sa kāmām dūṣayan tulyaḥ na vadham prāpnuyāt naraḥ .. 8.364..
8.364. He who violates an unwilling maiden shall instantly suffer corporal punishment; but a man who enjoys a willing maiden shall not suffer corporal punishment, if (his caste be) the same (as hers).
कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेद्गृहे ॥ ८.३६५॥
कन्याम् भजन्तीम् उत्कृष्टम् न किम् चित् अपि दापयेत् । जघन्यम् सेवमानाम् तु संयताम् वासयेत् गृहे ॥ ८।३६५॥
kanyām bhajantīm utkṛṣṭam na kim cit api dāpayet . jaghanyam sevamānām tu saṃyatām vāsayet gṛhe .. 8.365..
8.365. From a maiden who makes advances to a (man of) high (caste), he shall not take any fine; but her, who courts a (man of) low (caste), let him force to live confined in her house.
उत्तमां सेवमानस्तु जघन्यो वधमर्हति । शुल्कं दद्यात्सेवमानः समामिच्छेत्पिता यदि ॥ ८.३६६॥
उत्तमाम् सेवमानः तु जघन्यः वधम् अर्हति । शुल्कम् दद्यात् सेवमानः समाम् इच्छेत् पिता यदि ॥ ८।३६६॥
uttamām sevamānaḥ tu jaghanyaḥ vadham arhati . śulkam dadyāt sevamānaḥ samām icchet pitā yadi .. 8.366..
8.366. A (man of) low (caste) who makes love to a maiden (of) the highest (caste) shall suffer corporal punishment; he who addresses a maiden (on) equal (caste) shall pay the nuptial fee, if her father desires it.
अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु कर्त्या अङ्गुल्यो दण्डं चार्हति षट्शतम् ॥ ८.३६७॥
अभिषह्य तु यः कन्याम् कुर्यात् दर्पेण मानवः । तस्य आशु कर्त्याः अङ्गुल्यः दण्डम् च अर्हति षट्शतम् ॥ ८।३६७॥
abhiṣahya tu yaḥ kanyām kuryāt darpeṇa mānavaḥ . tasya āśu kartyāḥ aṅgulyaḥ daṇḍam ca arhati ṣaṭśatam .. 8.367..
8.367. But if any man through insolence forcibly contaminates a maiden, two of his fingers shall be instantly cut off, and he shall pay a fine of six hundred (panas).
सकामां दूषयंस्तुल्यो नाङ्गुलिछेदमाप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ ८.३६८॥
स कामाम् दूषयन् तुल्यः न अङ्गुलि-छेदम् आप्नुयात् । द्विशतम् तु दमम् दाप्यः प्रसङ्ग-विनिवृत्तये ॥ ८।३६८॥
sa kāmām dūṣayan tulyaḥ na aṅguli-chedam āpnuyāt . dviśatam tu damam dāpyaḥ prasaṅga-vinivṛttaye .. 8.368..
8.368. A man (of) equal (caste) who defiles a willing maiden shall not suffer the amputation of his fingers, but shall pay a fine of two hundred (panas) in order to deter him from a repetition (of the offence).
कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः । शुल्कं च द्विगुणं दद्यात्शिफाश्चैवाप्नुयाद्दश ॥ ८.३६९॥
कन्या एव कन्याम् या कुर्यात् तस्याः स्यात् द्विशतः दमः । शुल्कम् च द्विगुणम् दद्यात् शिफाः च एव आप्नुयात् दश ॥ ८।३६९॥
kanyā eva kanyām yā kuryāt tasyāḥ syāt dviśataḥ damaḥ . śulkam ca dviguṇam dadyāt śiphāḥ ca eva āpnuyāt daśa .. 8.369..
8.369. A damsel who pollutes (another) damsel must be fined two hundred (panas), pay the double of her (nuptial) fee, and receive ten (lashes with a) rod.
या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यमर्हति । अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ ८.३७०॥
या तु कन्याम् प्रकुर्यात् स्त्री सा सद्यस् मौण्ड्यम् अर्हति । अङ्गुल्योः एव वा छेदम् खरेण उद्वहनम् तथा ॥ ८।३७०॥
yā tu kanyām prakuryāt strī sā sadyas mauṇḍyam arhati . aṅgulyoḥ eva vā chedam khareṇa udvahanam tathā .. 8.370..
8.370. But a woman who pollutes a damsel shall instantly have (her head) shaved or two fingers cut off, and be made to ride (through the town) on a donkey.
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ॥ ८.३७१॥
भर्तारम् लङ्घयेत् या तु स्त्री ज्ञाति-गुण-दर्पिता । ताम् श्वभिः खादयेत् राजा संस्थाने बहु-संस्थिते ॥ ८।३७१॥
bhartāram laṅghayet yā tu strī jñāti-guṇa-darpitā . tām śvabhiḥ khādayet rājā saṃsthāne bahu-saṃsthite .. 8.371..
8.371. If a wife, proud of the greatness of her relatives or (her own) excellence, violates the duty which she owes to her lord, the king shall cause her to be devoured by dogs in a place frequented by many.
पुमांसं दाहयेत्पापं शयने तप्त आयसे । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ ८.३७२॥
पुमांसम् दाहयेत् पापम् शयने तप्ते आयसे । अभ्यादध्युः च काष्ठानि तत्र दह्येत पाप-कृत् ॥ ८।३७२॥
pumāṃsam dāhayet pāpam śayane tapte āyase . abhyādadhyuḥ ca kāṣṭhāni tatra dahyeta pāpa-kṛt .. 8.372..
8.372. Let him cause the male offender to be burnt on a red-hot iron bed; they shall put logs under it, (until) the sinner is burned (to death).
संवत्सरेऽभिशस्तस्य दुष्टस्य द्विगुणो दमः । व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ ८.३७३॥
संवत्सरे अभिशस्तस्य दुष्टस्य द्विगुणः दमः । व्रात्यया सह संवासे चाण्डाल्या तावत् एव तु ॥ ८।३७३॥
saṃvatsare abhiśastasya duṣṭasya dviguṇaḥ damaḥ . vrātyayā saha saṃvāse cāṇḍālyā tāvat eva tu .. 8.373..
8.373. On a man (once) convicted, who is (again) accused within a year, a double fine (must be inflicted); even thus (must the fine be doubled) for (repeated) intercourse with a Vratya and a Kandali.
शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् । अङ्गसर्वस्वी सर्वेण हीयते ॥ ८.३७४॥
शूद्रः गुप्तम् अगुप्तम् वा द्वैजातम् वर्णम् आवसन् । अङ्ग-सर्वस्वी सर्वेण हीयते ॥ ८।३७४॥
śūdraḥ guptam aguptam vā dvaijātam varṇam āvasan . aṅga-sarvasvī sarveṇa hīyate .. 8.374..
8.374. A Sudra who has intercourse with a woman of a twice-born caste (varna), guarded or unguarded, (shall be punished in the following manner): if she was unguarded, he loses the part (offending) and all his property; if she was guarded, everything (even his life).
वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः । सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ ८.३७५॥
वैश्यः सर्वस्व-दण्डः स्यात् संवत्सर-निरोधतः । सहस्रम् क्षत्रियः दण्ड्यः मौण्ड्यम् मूत्रेण च अर्हति ॥ ८।३७५॥
vaiśyaḥ sarvasva-daṇḍaḥ syāt saṃvatsara-nirodhataḥ . sahasram kṣatriyaḥ daṇḍyaḥ mauṇḍyam mūtreṇa ca arhati .. 8.375..
8.375. (For intercourse with a guarded Brahmana a Vaisya shall forfeit all his property after imprisonment for a year; a Kshatriya shall be fined one thousand (panas) and be shaved with the urine (of an ass).
ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ॥ ८.३७६॥
ब्राह्मणीम् यदि अगुप्ताम् तु गच्छेताम् वैश्य-पार्थिवौ । वैश्यम् पञ्चशतम् कुर्यात् क्षत्रियम् तु सहस्रिणम् ॥ ८।३७६॥
brāhmaṇīm yadi aguptām tu gacchetām vaiśya-pārthivau . vaiśyam pañcaśatam kuryāt kṣatriyam tu sahasriṇam .. 8.376..
8.376. If a Vaisya or a Kshatriya has connexion with an unguarded Brahmana, let him fine the Vaisya five hundred (panas) and the Kshatriya one thousand.
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ८.३७७॥
उभौ अपि तु तौ एव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्र-वत् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ ८।३७७॥
ubhau api tu tau eva brāhmaṇyā guptayā saha . viplutau śūdra-vat daṇḍyau dagdhavyau vā kaṭāgninā .. 8.377..
8.377. But even these two, if they offend with a Brahmani (not only) guarded (but the wife of an eminent man), shall be punished like a Sudra or be burnt in a fire of dry grass.
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ ८.३७८॥
सहस्रम् ब्राह्मणः दण्ड्यः गुप्ताम् विप्राम् बलात् व्रजन् । शतानि पञ्च दण्ड्यः स्यात् इच्छन्त्या सह सङ्गतः ॥ ८।३७८॥
sahasram brāhmaṇaḥ daṇḍyaḥ guptām viprām balāt vrajan . śatāni pañca daṇḍyaḥ syāt icchantyā saha saṅgataḥ .. 8.378..
8.378. A Brahmana who carnally knows a guarded Brahmani against her will, shall be fined one thousand (panas); but he shall be made to pay five hundred, if he had connexion with a willing one.
मौण्ड्यं प्राणान्तको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् ॥ ८.३७९॥
मौण्ड्यम् प्राण-अन्तकः दण्डः ब्राह्मणस्य विधीयते । इतरेषाम् तु वर्णानाम् दण्डः प्राण-अन्तकः भवेत् ॥ ८।३७९॥
mauṇḍyam prāṇa-antakaḥ daṇḍaḥ brāhmaṇasya vidhīyate . itareṣām tu varṇānām daṇḍaḥ prāṇa-antakaḥ bhavet .. 8.379..
8.379. Tonsure (of the head) is ordained for a Brahmana (instead of) capital punishment; but (men of) other castes shall suffer capital punishment.
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम् ॥ ८.३८०॥
न जातु ब्राह्मणम् हन्यात् सर्व-पापेषु अपि स्थितम् । राष्ट्रात् एनम् बहिस् कुर्यात् समग्र-धनम् अक्षतम् ॥ ८।३८०॥
na jātu brāhmaṇam hanyāt sarva-pāpeṣu api sthitam . rāṣṭrāt enam bahis kuryāt samagra-dhanam akṣatam .. 8.380..
8.380. Let him never slay a Brahmana, though he have committed all (possible) crimes; let him banish such an (offender), leaving all his property (to him) and (his body) unhurt.
न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ ८.३८१॥
न ब्राह्मण-वधात् भूयान् अधर्मः विद्यते भुवि । तस्मात् अस्य वधम् राजा मनसा अपि न चिन्तयेत् ॥ ८।३८१॥
na brāhmaṇa-vadhāt bhūyān adharmaḥ vidyate bhuvi . tasmāt asya vadham rājā manasā api na cintayet .. 8.381..
8.381. No greater crime is known on earth than slaying a Brahmana; a king, therefore, must not even conceive in his mind the thought of killing a Brahmana.
वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥ ८.३८२॥
वैश्यः चेद् क्षत्रियाम् गुप्ताम् वैश्याम् वा क्षत्रियः व्रजेत् । यः ब्राह्मण्याम् अगुप्तायाम् तौ उभौ दण्डम् अर्हतः ॥ ८।३८२॥
vaiśyaḥ ced kṣatriyām guptām vaiśyām vā kṣatriyaḥ vrajet . yaḥ brāhmaṇyām aguptāyām tau ubhau daṇḍam arhataḥ .. 8.382..
8.382. If a Vaisya approaches a guarded female of the Kshatriya caste, or a Kshatriya a (guarded) Vaisya woman, they both deserve the same punishment as in the case of an unguarded Brahmana female.
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्राया क्षत्रियविशोः साहस्रो वै भवेद्दमः ॥ ८.३८३॥
सहस्रम् ब्राह्मणः दण्डम् दाप्यः गुप्ते तु ते व्रजन् । शूद्रायाः क्षत्रिय-विशोः साहस्रः वै भवेत् दमः ॥ ८।३८३॥
sahasram brāhmaṇaḥ daṇḍam dāpyaḥ gupte tu te vrajan . śūdrāyāḥ kṣatriya-viśoḥ sāhasraḥ vai bhavet damaḥ .. 8.383..
8.383. A Brahmana shall be compelled to pay a fine of one thousand (panas) if he has intercourse with guarded (females of) those two (castes); for (offending with) a (guarded) Sudra female a fine of one thousand (panas shall be inflicted) on a Kshatriya or a Vaisya.
क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः । मूत्रेण मौण्ड्यमि ऋच्छेत्तु क्षत्रियो दण्डमेव वा ॥ ८.३८४॥
क्षत्रियायाम् अगुप्तायाम् वैश्ये पञ्चशतम् दमः । मूत्रेण ऋच्छेत् तु क्षत्रियः दण्डम् एव वा ॥ ८।३८४॥
kṣatriyāyām aguptāyām vaiśye pañcaśatam damaḥ . mūtreṇa ṛcchet tu kṣatriyaḥ daṇḍam eva vā .. 8.384..
8.384. For (intercourse with) an unguarded Kshatriya a fine of five hundred (panas shall fall) on a Vaisya; but (for the same offence) a Kshatriya shall be shaved with the urine (of a donkey) or (pay) the same fine.
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम् ॥ ८.३८५॥
अगुप्ते क्षत्रिया-वैश्ये शूद्राम् वा ब्राह्मणः व्रजन् । शतानि पञ्च दण्ड्यः स्यात् सहस्रम् तु अन्त्यज-स्त्रियम् ॥ ८।३८५॥
agupte kṣatriyā-vaiśye śūdrām vā brāhmaṇaḥ vrajan . śatāni pañca daṇḍyaḥ syāt sahasram tu antyaja-striyam .. 8.385..
8.385. A Brahmana who approaches unguarded females (of the) Kshatriya or Vaisya (castes), or a Sudra female, shall be fined five hundred (panas); but (for intercourse with) a female (of the) lowest (castes), one thousand.
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ ८.३८६॥
यस्य स्तेनः पुरे ना अस्ति न अन्यस्त्रीगः न दुष्ट-वाच् । न साहसिक-दण्ड-घ्नः स राजा शक्र-लोक-भाज् ॥ ८।३८६॥
yasya stenaḥ pure nā asti na anyastrīgaḥ na duṣṭa-vāc . na sāhasika-daṇḍa-ghnaḥ sa rājā śakra-loka-bhāj .. 8.386..
8.386. That king in whose town lives no thief, no adulterer, no defamer, no man guilty of violence, and no committer of assaults, attains the world of Sakra (Indra).
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । सांराज्यकृत्सजात्येषु लोके चैव यशस्करः ॥ ८.३८७॥
एतेषाम् निग्रहः राज्ञः पञ्चानाम् विषये स्वके । सांराज्य-कृत् सजात्येषु लोके च एव यशस्करः ॥ ८।३८७॥
eteṣām nigrahaḥ rājñaḥ pañcānām viṣaye svake . sāṃrājya-kṛt sajātyeṣu loke ca eva yaśaskaraḥ .. 8.387..
8.387. The suppression of those five in his dominions secures to a king paramount sovereignty among his peers and fame in the world.
ऋत्विजं यस्त्यजेद्याज्यो याज्यं चर्त्विक्त्यजेद्यदि । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ ८.३८८॥
ऋत्विजम् यः त्यजेत् याज्यः याज्यम् च ऋत्विजः त्यजेत् यदि । शक्तम् कर्मणि अदुष्टम् च तयोः दण्डः शतम् शतम् ॥ ८।३८८॥
ṛtvijam yaḥ tyajet yājyaḥ yājyam ca ṛtvijaḥ tyajet yadi . śaktam karmaṇi aduṣṭam ca tayoḥ daṇḍaḥ śatam śatam .. 8.388..
8.388. A sacrificer who forsakes an officiating priest, and an officiating priest who forsakes a sacrificer, (each being) able to perform his work and not contaminated (by grievous crimes), must each be fined one hundred (panas).
न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति । त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ ८.३८९॥
न माता न पिता न स्त्री न पुत्रः त्यागम् अर्हति । त्यजन् अ पतितान् एतान् राज्ञा दण्ड्यः शतानि षड् ॥ ८।३८९॥
na mātā na pitā na strī na putraḥ tyāgam arhati . tyajan a patitān etān rājñā daṇḍyaḥ śatāni ṣaḍ .. 8.389..
8.389. Neither a mother, nor a father, nor a wife, nor a son shall be cast off; he who casts them off, unless guilty of a crime causing loss of caste, shall be fined six hundred (panas).
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः ॥ ८.३९०॥
आश्रमेषु द्विजातीनाम् कार्ये विवदताम् मिथस् । न विब्रूयात् नृपः धर्मम् चिकीर्षन् हितम् आत्मनः ॥ ८।३९०॥
āśrameṣu dvijātīnām kārye vivadatām mithas . na vibrūyāt nṛpaḥ dharmam cikīrṣan hitam ātmanaḥ .. 8.390..
8.390. If twice-born men dispute among each other concerning the duty of the orders, a king who desires his own welfare should not (hastily) decide (what is) the law.
यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ ८.३९१॥
यथार्हम् एतान् अभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्य आदौ स्वधर्मम् प्रतिपादयेत् ॥ ८।३९१॥
yathārham etān abhyarcya brāhmaṇaiḥ saha pārthivaḥ . sāntvena praśamayya ādau svadharmam pratipādayet .. 8.391..
8.391. Having shown them due honor, he should, with (the assistance of) Brahmanas, first soothe them by gentle (speech) and afterwards teach them their duty.
प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् ॥ ८.३९२॥
प्रतिवेश्य-आनुवेश्यौ च कल्याणे विंशति-द्विजे । अर्ह-अवभोजयन् विप्रः दण्डम् अर्हति माषकम् ॥ ८।३९२॥
prativeśya-ānuveśyau ca kalyāṇe viṃśati-dvije . arha-avabhojayan vipraḥ daṇḍam arhati māṣakam .. 8.392..
8.392. A Brahmana who does not invite his next neighbour and his neighbour next but one, (though) both (he) worthy (of the honour), to a festival at which twenty Brahmanas are entertained, is liable to a fine of one masha.
श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । तदन्नं द्विगुणं दाप्यो हैरण्यं चैव माषकम् ॥ ८.३९३॥
श्रोत्रियः श्रोत्रियम् साधुम् भूति-कृत्येषु अभोजयान् । तद्-अन्नम् द्विगुणम् दाप्यः हैरण्यम् च एव माषकम् ॥ ८।३९३॥
śrotriyaḥ śrotriyam sādhum bhūti-kṛtyeṣu abhojayān . tad-annam dviguṇam dāpyaḥ hairaṇyam ca eva māṣakam .. 8.393..
8.393. A Srotriya who does not entertain a virtuous Srotriya at auspicious festive rites, shall be made to pay him twice (the value of) the meal and a masha of gold (as a fine to the king).
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित्करम् ॥ ८.३९४॥
अन्धः जडः पीठसर्पी सप्तत्या स्थविरः च यः । श्रोत्रियेषु उपकुर्वन् च न दाप्याः केन चित्-करम् ॥ ८।३९४॥
andhaḥ jaḍaḥ pīṭhasarpī saptatyā sthaviraḥ ca yaḥ . śrotriyeṣu upakurvan ca na dāpyāḥ kena cit-karam .. 8.394..
8.394. A blind man, an idiot, (a cripple) who moves with the help of a board, a man full seventy years old, and he who confers benefits on Srotriyas, shall not be compelled by any (king) to pay a tax.
श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् । महाकुलीनमार्यं च राजा सम्पूजयेत्सदा ॥ ८.३९५॥
श्रोत्रियम् व्याधित-आर्तौ च बाल-वृद्धौ अकिञ्चनम् । महाकुलीनम् आर्यम् च राजा सम्पूजयेत् सदा ॥ ८।३९५॥
śrotriyam vyādhita-ārtau ca bāla-vṛddhau akiñcanam . mahākulīnam āryam ca rājā sampūjayet sadā .. 8.395..
8.395. Let the king always treat kindly a Srotriya, a sick or distressed man, an infant and an aged or indigent man, a man of high birth, and an honourable man (Arya).
शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ ८.३९६॥
शाल्मली-फलके श्लक्ष्णे नेनिज्यात् नेजकः शनैस् । न च वासांसि वासोभिः निर्हरेत् न च वासयेत् ॥ ८।३९६॥
śālmalī-phalake ślakṣṇe nenijyāt nejakaḥ śanais . na ca vāsāṃsi vāsobhiḥ nirharet na ca vāsayet .. 8.396..
8.396. A washerman shall wash (the clothes of his employers) gently on a smooth board of Salmaliwood he shall not return the clothes (of one person) for those (of another), nor allow anybody (but the owner) to wear them.
तन्तुवायो दशपलं दद्यादेकपलाधिकम् । अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ८.३९७॥
दद्यात् । अतस् अन्यथा वर्तमानः दाप्यः द्वादशकम् दमम् ॥ ८।३९७॥
dadyāt . atas anyathā vartamānaḥ dāpyaḥ dvādaśakam damam .. 8.397..
8.397. A weaver (who has received) ten palas (of thread), shall return (cloth weighing) one pala more; he who acts differently shall be compelled to pay a fine of twelve (panas).
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ ८.३९८॥
शुल्कस्थानेषु कुशलाः सर्व-पण्य-विचक्षणाः । कुर्युः अर्घम् यथापण्यम् ततस् विंशम् नृपः हरेत् ॥ ८।३९८॥
śulkasthāneṣu kuśalāḥ sarva-paṇya-vicakṣaṇāḥ . kuryuḥ argham yathāpaṇyam tatas viṃśam nṛpaḥ haret .. 8.398..
8.398. Let the king take one-twentieth of that (amount) which men, well acquainted with the settlement of tolls and duties (and) skilful in (estimating the value of) all kinds of merchandise, may fix as the value for each saleable commodity.
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । ताणि निर्हरतो लोभात्सर्वहारं हरेन्नृपः ॥ ८.३९९॥
राज्ञः प्रख्यात-भाण्डानि प्रतिषिद्धानि यानि च । ताणि निर्हरतः लोभात् सर्वहारम् हरेत् नृपः ॥ ८।३९९॥
rājñaḥ prakhyāta-bhāṇḍāni pratiṣiddhāni yāni ca . tāṇi nirharataḥ lobhāt sarvahāram haret nṛpaḥ .. 8.399..
8.399. Let the king confiscate the whole property of (a trader) who out of greed exports goods of which the king has a monopoly or (the export of which is) forbidden.
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ ८.४००॥
शुल्कस्थानम् परिहरन् अकाले क्रयविक्रयी । मिथ्यावादी च सङ्ख्याने दाप्यः अष्टगुणम् अत्ययम् ॥ ८।४००॥
śulkasthānam pariharan akāle krayavikrayī . mithyāvādī ca saṅkhyāne dāpyaḥ aṣṭaguṇam atyayam .. 8.400..
8.400. He who avoids a custom-house (or a toll), he who buys or sells at an improper time, or he who makes a false statement in enumerating (his goods), shall be fined eight times (the amount of duty) which he tried to evade.
आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ ॥ ८.४०१॥
आगमम् निर्गमम् स्थानम् तथा वृद्धि-क्षयौ उभौ । विचार्य सर्व-पण्यानाम् कारयेत् क्रय-विक्रयौ ॥ ८।४०१॥
āgamam nirgamam sthānam tathā vṛddhi-kṣayau ubhau . vicārya sarva-paṇyānām kārayet kraya-vikrayau .. 8.401..
8.401. Let (the king) fix (the rates for) the purchase and sale of all marketable goods, having (duly) considered whence they come, whither they go, how long they have been kept, the (probable) profit and the (probable) outlay.
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते । कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ ८.४०२॥
पञ्च-रात्रे पञ्च-रात्रे पक्षे पक्षे अथ वा गते । कुर्वीत च एषाम् प्रत्यक्षम् अर्घ-संस्थापनम् नृपः ॥ ८।४०२॥
pañca-rātre pañca-rātre pakṣe pakṣe atha vā gate . kurvīta ca eṣām pratyakṣam argha-saṃsthāpanam nṛpaḥ .. 8.402..
8.402. Once in five nights, or at the close of each fortnight, let the king publicly settle the prices for the (merchants).
तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ ८.४०३॥
तुला-मानम् प्रतीमानम् सर्वम् च स्यात् सु लक्षितम् । षट्सु षट्सु च मासेषु पुनर् एव परीक्षयेत् ॥ ८।४०३॥
tulā-mānam pratīmānam sarvam ca syāt su lakṣitam . ṣaṭsu ṣaṭsu ca māseṣu punar eva parīkṣayet .. 8.403..
8.403. All weights and measures must be duly marked, and once in six months let him re-examine them.
पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । पादे पशुश्च योषित्च पादार्धं रिक्तकः पुमान् ॥ ८.४०४॥
पणम् यानम् तरे दाप्यम् पौरुषः अर्ध-पणम् तरे । पादे पशुः च योषित् च पाद-अर्धम् रिक्तकः पुमान् ॥ ८।४०४॥
paṇam yānam tare dāpyam pauruṣaḥ ardha-paṇam tare . pāde paśuḥ ca yoṣit ca pāda-ardham riktakaḥ pumān .. 8.404..
8.404. At a ferry an (empty) cart shall be made to pay one pana, a man’s (load) half a pana, an animal and a woman one quarter of a (pana), an unloaded man one-half of a quarter.
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किं चित्पुमांसश्चपरिच्छदाः ॥ ८.४०५॥
भाण्ड-पूर्णानि यानानि तार्यम् दाप्यानि सारतः । रिक्त-भाण्डानि यत् किम् चित् पुमांसः च परिच्छदाः ॥ ८।४०५॥
bhāṇḍa-pūrṇāni yānāni tāryam dāpyāni sārataḥ . rikta-bhāṇḍāni yat kim cit pumāṃsaḥ ca paricchadāḥ .. 8.405..
8.405. Carts (laden) with vessels full (of merchandise) shall be made to pay toll at a ferry according to the value (of the goods), empty vessels and men without luggage some trifle.
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् ॥ ८.४०६॥
दीर्घ-अध्वनि यथादेशम् यथाकालम् तरः भवेत् । नदी-तीरेषु तत् विद्यात् समुद्रे ना अस्ति लक्षणम् ॥ ८।४०६॥
dīrgha-adhvani yathādeśam yathākālam taraḥ bhavet . nadī-tīreṣu tat vidyāt samudre nā asti lakṣaṇam .. 8.406..
8.406. For a long passage the boat-hire must be proportioned to the places and times; know that this (rule refers) to (passages along) the banks of rivers; at sea there is no settled (freight).
गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ ८.४०७॥
गर्भिणी तु द्वि-मास-आदिः तथा प्रव्रजितः मुनिः । ब्राह्मणाः लिङ्गिनः च एव न दाप्याः तारिकम् तरे ॥ ८।४०७॥
garbhiṇī tu dvi-māsa-ādiḥ tathā pravrajitaḥ muniḥ . brāhmaṇāḥ liṅginaḥ ca eva na dāpyāḥ tārikam tare .. 8.407..
8.407. But a woman who has been pregnant two months or more, an ascetic, a hermit in the forest, and Brahmanas who are students of the Veda, shall not be made to pay toll at a ferry.
यन्नावि किं चिद्दाशानां विशीर्येतापराधतः । तद्दाशैरेव दातव्यं समागम्य स्वतोऽंशतः ॥ ८.४०८॥
यत् नावि किम् चित् दाशानाम् विशीर्येत अपराधतः । तत् दाशैः एव दातव्यम् समागम्य स्वतस् अंशतः ॥ ८।४०८॥
yat nāvi kim cit dāśānām viśīryeta aparādhataḥ . tat dāśaiḥ eva dātavyam samāgamya svatas aṃśataḥ .. 8.408..
8.408. Whatever may be damaged in a boat by the fault of the boatmen, that shall be made good by the boatmen collectively, (each paying) his share.
एष नौयायिनामुक्तो व्यवहारस्य निर्णयः । दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥ ८.४०९॥
एष नौयायिनाम् उक्तः व्यवहारस्य निर्णयः । दाश-अपराधतः तोये दैविके न अस्ति निग्रहः ॥ ८।४०९॥
eṣa nauyāyinām uktaḥ vyavahārasya nirṇayaḥ . dāśa-aparādhataḥ toye daivike na asti nigrahaḥ .. 8.409..
8.409. This decision in suits (brought) by passengers (holds good only) in case the boatmen are culpably negligent on the water; in the case of (an accident) caused by (the will of) the gods, no fine can be (inflicted on them) .
वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिमेव च । पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ ८.४१०॥
वाणिज्यम् कारयेत् वैश्यम् कुसीदम् कृषिम् एव च । पशूनाम् रक्षणम् च एव दास्यम् शूद्रम् द्विजन्मनाम् ॥ ८।४१०॥
vāṇijyam kārayet vaiśyam kusīdam kṛṣim eva ca . paśūnām rakṣaṇam ca eva dāsyam śūdram dvijanmanām .. 8.410..
8.410. (The king) should order a Vaisya to trade, to lend money, to cultivate the land, or to tend cattle, and a Sudra to serve the twice-born castes
क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ॥ ८.४११॥
क्षत्रियम् च एव वैश्यम् च ब्राह्मणः वृत्ति-कर्शितौ । बिभृयात् आनृशंस्येन स्वानि कर्माणि कारयेत् ॥ ८।४११॥
kṣatriyam ca eva vaiśyam ca brāhmaṇaḥ vṛtti-karśitau . bibhṛyāt ānṛśaṃsyena svāni karmāṇi kārayet .. 8.411..
8.411. (Some wealthy) Brahmana shall compassionately support both a Kshatriya and a Vaisya, if they are distressed for a livelihood, employing them on work (which is suitable for) their (castes).
दास्यं तु कारयन्लोभाद्ब्राह्मणः संस्कृतान् द्विजान् । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् ॥ ८.४१२॥
दास्यम् तु कारयन् लोभात् ब्राह्मणः संस्कृतान् द्विजान् । अन् इच्छतः प्राभवत्यात् राज्ञा दण्ड्यः शतानि षड् ॥ ८।४१२॥
dāsyam tu kārayan lobhāt brāhmaṇaḥ saṃskṛtān dvijān . an icchataḥ prābhavatyāt rājñā daṇḍyaḥ śatāni ṣaḍ .. 8.412..
8.412. But a Brahmana who, because he is powerful, out of greed makes initiated (men of the) twice-born (castes) against their will do the work of slaves, shall be fined by the king six hundred (panas).
शूद्रं तु कारयेद्दास्यं क्रीतमक्रीतमेव वा । दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयम्भुवा ॥ ८.४१३॥
शूद्रम् तु कारयेत् दास्यम् क्रीतम् अक्रीतम् एव वा । दास्याय एव हि सृष्टः असौ ब्राह्मणस्य स्वयम्भुवा ॥ ८।४१३॥
śūdram tu kārayet dāsyam krītam akrītam eva vā . dāsyāya eva hi sṛṣṭaḥ asau brāhmaṇasya svayambhuvā .. 8.413..
8.413. But a Sudra, whether bought or unbought, he may compel to do servile work; for he was created by the Self-existent (Svayambhu) to be the slave of a Brahmana.
न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति ॥ ८.४१४॥
न स्वामिना निसृष्टः अपि शूद्रः दास्यात् विमुच्यते । निसर्ग-जम् हि तत् तस्य कः तस्मात् तत् अपोहति ॥ ८।४१४॥
na svāminā nisṛṣṭaḥ api śūdraḥ dāsyāt vimucyate . nisarga-jam hi tat tasya kaḥ tasmāt tat apohati .. 8.414..
8.414. A Sudra, though emancipated by his master, is not released from servitude; since that is innate in him, who can set him free from it?
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥ ८.४१५॥
ध्वज-आहृतः भक्तदासः गृह-जः क्रीत-दत्त्रिमौ । पैत्रिकः दण्डदासः च सप्ता एते दास-योनयः ॥ ८।४१५॥
dhvaja-āhṛtaḥ bhaktadāsaḥ gṛha-jaḥ krīta-dattrimau . paitrikaḥ daṇḍadāsaḥ ca saptā ete dāsa-yonayaḥ .. 8.415..
8.415. There are slaves of seven kinds, (viz.) he who is made a captive under a standard, he who serves for his daily food, he who is born in the house, he who is bought and he who is given, he who is inherited from ancestors, and he who is enslaved by way of punishment.
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ८.४१६॥
भार्या पुत्रः च दासः च त्रयः एव अधनाः स्मृताः । यत् ते समधिगच्छन्ति यस्य ते तस्य तत् धनम् ॥ ८।४१६॥
bhāryā putraḥ ca dāsaḥ ca trayaḥ eva adhanāḥ smṛtāḥ . yat te samadhigacchanti yasya te tasya tat dhanam .. 8.416..
8.416. A wife, a son, and a slave, these three are declared to have no property; the wealth which they earn is (acquired) for him to whom they belong.
विस्रब्धं ब्राह्मणः शूद्राद्द्रव्योपादानमाचरेत् । न हि तस्यास्ति किं चित्स्वं भर्तृहार्यधनो हि सः ॥ ८.४१७॥
विस्रब्धम् ब्राह्मणः शूद्रात् द्रव्य-उपादानम् आचरेत् । न हि तस्य अस्ति किम् चित् स्वम् भर्तृ-हार्य-धनः हि सः ॥ ८।४१७॥
visrabdham brāhmaṇaḥ śūdrāt dravya-upādānam ācaret . na hi tasya asti kim cit svam bhartṛ-hārya-dhanaḥ hi saḥ .. 8.417..
8.417. A Brahmana may confidently seize the goods of (his) Sudra (slave); for, as that (slave) can have no property, his master may take his possessions.
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ ८.४१८॥
वैश्य-शूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्व-कर्मभ्यः क्षोभयेताम् इदम् जगत् ॥ ८।४१८॥
vaiśya-śūdrau prayatnena svāni karmāṇi kārayet . tau hi cyutau sva-karmabhyaḥ kṣobhayetām idam jagat .. 8.418..
8.418. (The king) should carefully compel Vaisyas and Sudra to perform the work (prescribed) for them; for if these two (castes) swerved from their duties, they would throw this (whole) world into confusion.
अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च । आयव्ययौ च नियतावाकरान् कोशमेव च ॥ ८.४१९॥
अहनि अहनि अवेक्षेत कर्मान्तान् वाहनानि च । आय-व्ययौ च नियतौ आकरान् कोशम् एव च ॥ ८।४१९॥
ahani ahani avekṣeta karmāntān vāhanāni ca . āya-vyayau ca niyatau ākarān kośam eva ca .. 8.419..
8.419. Let him daily look after the completion of his undertakings, his beasts of burden, and carriages, (the collection of) his revenues and the disbursements, his mines and his treasury.
एवं सर्वानिमान् राजा व्यवहारान् समापयन् । व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ ८.४२०॥
एवम् सर्वान् इमान् राजा व्यवहारान् समापयन् । व्यपोह्य किल्बिषम् सर्वम् प्राप्नोति परमाम् गतिम् ॥ ८।४२०॥
evam sarvān imān rājā vyavahārān samāpayan . vyapohya kilbiṣam sarvam prāpnoti paramām gatim .. 8.420..
8.420. A king who thus brings to a conclusion. all the legal business enumerated above, and removes all sin, reaches the highest state (of bliss).

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In