तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्यादौ रुरोद किल तेन स रुद्रनामा ॥ 10.4 ॥
PADACHEDA
तावत् प्रकोप-मुदितम् प्रतिरुन्धतः अस्य भ्रू-मध्यतः अजनि मृडः भवत्-एक-देशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्य-आदौ रुरोद किल तेन स रुद्र-नामा ॥ १०।४ ॥
TRANSLITERATION
tāvat prakopa-muditam pratirundhataḥ asya bhrū-madhyataḥ ajani mṛḍaḥ bhavat-eka-deśaḥ . nāmāni me kuru padāni ca hā viriñce tya-ādau ruroda kila tena sa rudra-nāmā .. 10.4 ..
एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा । तावन्त्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् ॥ 10.5 ॥
PADACHEDA
एकादश-आह्वय-तया च विभिन्न-रूपम् रुद्रम् विधाय दयिताः वनिताः च दत्त्वा । तावन्ति अदत्त च पदानि भवत्-प्रणुन्नः प्राह प्रजा-विरचनाय च स आदरम् तम् ॥ १०।५ ॥
TRANSLITERATION
ekādaśa-āhvaya-tayā ca vibhinna-rūpam rudram vidhāya dayitāḥ vanitāḥ ca dattvā . tāvanti adatta ca padāni bhavat-praṇunnaḥ prāha prajā-viracanāya ca sa ādaram tam .. 10.5 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.