तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य भ्रूमध्यतोऽजनि मृडो भवदेकदेशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्यादौ रुरोद किल तेन स रुद्रनामा ॥ 10.4 ॥
PADACHEDA
तावत् प्रकोप-मुदितम् प्रतिरुन्धतः अस्य भ्रू-मध्यतः अजनि मृडः भवत्-एक-देशः । नामानि मे कुरु पदानि च हा विरिञ्चे त्य-आदौ रुरोद किल तेन स रुद्र-नामा ॥ १०।४ ॥
TRANSLITERATION
tāvat prakopa-muditam pratirundhataḥ asya bhrū-madhyataḥ ajani mṛḍaḥ bhavat-eka-deśaḥ . nāmāni me kuru padāni ca hā viriñce tya-ādau ruroda kila tena sa rudra-nāmā .. 10.4 ..
एकादशाह्वयतया च विभिन्नरूपं रुद्रं विधाय दयिता वनिताश्च दत्त्वा । तावन्त्यदत्त च पदानि भवत्प्रणुन्नः प्राह प्रजाविरचनाय च सादरं तम् ॥ 10.5 ॥
PADACHEDA
एकादश-आह्वय-तया च विभिन्न-रूपम् रुद्रम् विधाय दयिताः वनिताः च दत्त्वा । तावन्ति अदत्त च पदानि भवत्-प्रणुन्नः प्राह प्रजा-विरचनाय च स आदरम् तम् ॥ १०।५ ॥
TRANSLITERATION
ekādaśa-āhvaya-tayā ca vibhinna-rūpam rudram vidhāya dayitāḥ vanitāḥ ca dattvā . tāvanti adatta ca padāni bhavat-praṇunnaḥ prāha prajā-viracanāya ca sa ādaram tam .. 10.5 ..