| |
|

This overlay will guide you through the buttons:

क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते । भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ॥ 11.1 ॥
क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनक-आदयः ते । भवत्-विलोकाय विकुण्ठ-लोकम् प्रपेदिरे मारुत-मन्दिर-ईश ॥ ११।१ ॥
krameṇa sarge parivardhamāne kadāpi divyāḥ sanaka-ādayaḥ te . bhavat-vilokāya vikuṇṭha-lokam prapedire māruta-mandira-īśa .. 11.1 ..
मनोज्ञनौश्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च । अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ 11.2 ॥
मनोज्ञ-नौश्रेयस-कानन-आद्यैः अनेक-वाप-मिणि-मन्दिरैः च । अनोपमम् तम् भवतः निकेतम् मुनि-ईश्वराः प्रापुः अतीत-कक्ष्याः ॥ ११।२ ॥
manojña-nauśreyasa-kānana-ādyaiḥ aneka-vāpa-miṇi-mandiraiḥ ca . anopamam tam bhavataḥ niketam muni-īśvarāḥ prāpuḥ atīta-kakṣyāḥ .. 11.2 ..
भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्थान् विजयोऽप्यरुन्धाम् । तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥ 11.3 ॥
भवत्-दिदृक्षून् भवनम् विविक्षून् द्वाःस्थौ जय-स्थान् विजयः अपि अरुन्धाम् । तेषाम् च चित्ते पदम् आप कोपः सर्वम् भवत्-प्रेरणया एव भूमन् ॥ ११।३ ॥
bhavat-didṛkṣūn bhavanam vivikṣūn dvāḥsthau jaya-sthān vijayaḥ api arundhām . teṣām ca citte padam āpa kopaḥ sarvam bhavat-preraṇayā eva bhūman .. 11.3 ..
वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतम् । इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥ 11.4 ॥
वैकुण्ठ-लोक-अनुचित-प्रचेष्तौ कष्टौ युवाम् दैत्य-गतिम् भजेतम् । इति प्रशप्तौ भवत्-आश्रयौ तौ हरि-स्मृतिः नः अस्तु इति नेमतुः तान् ॥ ११।४ ॥
vaikuṇṭha-loka-anucita-praceṣtau kaṣṭau yuvām daitya-gatim bhajetam . iti praśaptau bhavat-āśrayau tau hari-smṛtiḥ naḥ astu iti nematuḥ tān .. 11.4 ..
तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरंबुजाक्ष । खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥ 11.5 ॥
ते इद् एतत् आज्ञाय भवान् अवाप्तः सह एव लक्ष्म्या बहिस् अंबुज-अक्ष । खगेश्वर-अंस-अर्पित-चारु-बाहुः आनन्दयन् तान् अभिराम-मूर्त्या ॥ ११।५ ॥
te id etat ājñāya bhavān avāptaḥ saha eva lakṣmyā bahis aṃbuja-akṣa . khageśvara-aṃsa-arpita-cāru-bāhuḥ ānandayan tān abhirāma-mūrtyā .. 11.5 ..
प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौसंरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥ 11.6 ॥
प्रसाद्य गीर्भिः स्तुवतः मुनि-इन्द्र-आनन-न्यनाथौ अथ पार्षदौ तौ संरम्भ-योगेन भवैः त्रिभिः माम् उपेतम् इति आत्त-कृपाम् न्यगादीः ॥ ११।६ ॥
prasādya gīrbhiḥ stuvataḥ muni-indra-ānana-nyanāthau atha pārṣadau tau saṃrambha-yogena bhavaiḥ tribhiḥ mām upetam iti ātta-kṛpām nyagādīḥ .. 11.6 ..
त्वदीयभृत्यावथ काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ । सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ 11.7 ॥
त्वदीय-भृत्यौ अथ काश्यपात् तौ सुरारि-वीरौ उदितौ दितौ द्वौ । सन्ध्या-समुत्पादन-कष्ट-चेष्टौ यमौ च लोकस्य यमौ इव अन्यौ ॥ ११।७ ॥
tvadīya-bhṛtyau atha kāśyapāt tau surāri-vīrau uditau ditau dvau . sandhyā-samutpādana-kaṣṭa-ceṣṭau yamau ca lokasya yamau iva anyau .. 11.7 ..
हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः । उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥ 11.8 ॥
हिरण्य-पूर्वः कशिपुः किल एकः पुरस् हिरण्याक्षः इति प्रतीतः । उभौ भवत्-नाथम् अशेष-लोकम् रुषा न्यरुन्धाम् निज-वासना-अन्धौ ॥ ११।८ ॥
hiraṇya-pūrvaḥ kaśipuḥ kila ekaḥ puras hiraṇyākṣaḥ iti pratītaḥ . ubhau bhavat-nātham aśeṣa-lokam ruṣā nyarundhām nija-vāsanā-andhau .. 11.8 ..
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । भवत्प्रियां क्ष्मां सलिले निमज्य चचार गर्वाद्विनदन् गदावान् ॥ 11.9 ॥
तयोः हिरण्याक्ष-महा-असुर-इन्द्रः रणाय धावन् अन् अवाप्त-वैरी । भवत्-प्रियाम् क्ष्माम् सलिले निमज्य चचार गर्वात् विनदन् गदावान् ॥ ११।९ ॥
tayoḥ hiraṇyākṣa-mahā-asura-indraḥ raṇāya dhāvan an avāpta-vairī . bhavat-priyām kṣmām salile nimajya cacāra garvāt vinadan gadāvān .. 11.9 ..
ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । भक्तैकदृश्यः स कृपानिधे त्वं निरुन्धि रोगान् मरुदालयेश ॥ 11.10 ॥
ततस् जलेशात् सदृशम् भवन्तम् निशम्य बभ्राम गवेषयन् त्वाम् । भक्त-एक-दृश्यः स कृपा-निधे त्वम् निरुन्धि रोगान् मरुदालय-ईश ॥ ११।१० ॥
tatas jaleśāt sadṛśam bhavantam niśamya babhrāma gaveṣayan tvām . bhakta-eka-dṛśyaḥ sa kṛpā-nidhe tvam nirundhi rogān marudālaya-īśa .. 11.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In