| |
|

This overlay will guide you through the buttons:

स्वायम्भुवो मनुरथो जनसर्गशीलोदृष्ट्वा महीमसमये सलिले निमग्नाम् । स्रष्टारमाप शरणं भवदङ्घ्रिसेवातुष्टाशयं मुनिजनैः सह सत्यलोके ॥ 12.1 ॥
स्वायम्भुवः मनु-रथः दृष्ट्वा महीम् असमये सलिले निमग्नाम् । स्रष्टारम् आप शरणम् भवत्-अङ्घ्रि-सेवा-तुष्ट-आशयम् मुनि-जनैः सह सत्य-लोके ॥ १२।१ ॥
svāyambhuvaḥ manu-rathaḥ dṛṣṭvā mahīm asamaye salile nimagnām . sraṣṭāram āpa śaraṇam bhavat-aṅghri-sevā-tuṣṭa-āśayam muni-janaiḥ saha satya-loke .. 12.1 ..
कष्टं प्रजाः सृजति मय्यवन्र्निमग्नास्थानं सरोजभव कल्पय तत्प्रजानाम् । इत्येवमेष कथितो मनुना स्वयम्भूरम्भोरुहाक्ष तव पादयुगं व्यचिन्तीत् ॥ 12.2 ॥
कष्टम् प्रजाः सृजति सरोज-भव कल्पय तत् प्रजानाम् । इति एवम् एष कथितः मनुना स्वयम्भूः अम्भोरुह-अक्ष तव पाद-युगम् व्यचिन्तीत् ॥ १२।२ ॥
kaṣṭam prajāḥ sṛjati saroja-bhava kalpaya tat prajānām . iti evam eṣa kathitaḥ manunā svayambhūḥ ambhoruha-akṣa tava pāda-yugam vyacintīt .. 12.2 ..
हा हा विभो जलमहं न्यपिबं पुरस्ताद्अद्यापि मज्जति मही किमहं करोमि । इत्थं त्वदङ्घ्रियुगळं शरणं यतोऽस्यनासापुटात्समभवः शिशुकोलरूपी ॥ 12.3 ॥
हा हा विभो जलम् अहम् न्यपिबम् पुरस्तात् अद्य अपि मज्जति मही किम् अहम् करोमि । इत्थम् त्वद्-अङ्घ्रि-युगळम् शरणम् यतस् असि अ नासा-पुटात् समभवः शिशु-कोल-रूपी ॥ १२।३ ॥
hā hā vibho jalam aham nyapibam purastāt adya api majjati mahī kim aham karomi . ittham tvad-aṅghri-yugal̤am śaraṇam yatas asi a nāsā-puṭāt samabhavaḥ śiśu-kola-rūpī .. 12.3 ..
अङ्गुष्ठमात्रवपुरुत्पतितः पुरस्तात्भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् । अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥ 12.4 ॥
अङ्गुष्ठ-मात्र-वपूः उत्पतितः पुरस्तात् भूयस् अथ कुम्भि-सदृशः समजृम्भथाः त्वम् । अभ्रे तथाविधम् उदीक्ष्य भवन्तम् उच्चैस् विस्मेर-ताम् विधिः अगात् सह सूनुभिः स्वैः ॥ १२।४ ॥
aṅguṣṭha-mātra-vapūḥ utpatitaḥ purastāt bhūyas atha kumbhi-sadṛśaḥ samajṛmbhathāḥ tvam . abhre tathāvidham udīkṣya bhavantam uccais vismera-tām vidhiḥ agāt saha sūnubhiḥ svaiḥ .. 12.4 ..
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मेनासापुटात्किमु भवेदजितस्य माया । इत्थं विचिन्तयति धातरिशैलमात्रःसद्यो भवन्किल जगर्ज्जिथ घोरघोरम् ॥ 12.5 ॥
कः असौ अचिन्त्य-महिमा किटिः उत्थितः मेना-सा पुटात् किमु भवेत् अजितस्य माया । इत्थम् विचिन्तयति धातरिशैल-मात्रः सद्यस् भवन् किल जगर्जिथ घोर-घोरम् ॥ १२।५ ॥
kaḥ asau acintya-mahimā kiṭiḥ utthitaḥ menā-sā puṭāt kimu bhavet ajitasya māyā . ittham vicintayati dhātariśaila-mātraḥ sadyas bhavan kila jagarjitha ghora-ghoram .. 12.5 ..
तं ते निनादमुपकर्ण्य जनस्तपःस्थाःसत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् । तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ 12.6 ॥
तम् ते निनादम् उपकर्ण्य जनः तपः-स्थाः सत्य-स्थिताः च मुनयः नुनुवुः भवन्तम् । तद्-स्तोत्र-हर्षुल-मनाः परिणद्य भूयस् तोय-आशयम् विपुल-मूर्तिः अवातरः त्वम् ॥ १२।६ ॥
tam te ninādam upakarṇya janaḥ tapaḥ-sthāḥ satya-sthitāḥ ca munayaḥ nunuvuḥ bhavantam . tad-stotra-harṣula-manāḥ pariṇadya bhūyas toya-āśayam vipula-mūrtiḥ avātaraḥ tvam .. 12.6 ..
ऊर्ध्वप्रसारिपरिधूम्राविधूतरोमाप्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः । तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णास्तोतॄन्मुनीन् शिशिरयन्नवतेरिथ त्वम् ॥ 12.7 ॥
ऊर्ध्व-प्रसारि-परिधूम्र-अविधूत-रोमा-प्रोत्क्षिप्त-वालधिः अवाङ्मुख-घोर-घोणः । तूर्ण-प्रदीर्ण-जलदः परिघूर्णत्-दक्ष्णा-स्तोतॄन् मुनीन् शिशिरयन् अवतेरिथ त्वम् ॥ १२।७ ॥
ūrdhva-prasāri-paridhūmra-avidhūta-romā-protkṣipta-vāladhiḥ avāṅmukha-ghora-ghoṇaḥ . tūrṇa-pradīrṇa-jaladaḥ parighūrṇat-dakṣṇā-stotṝn munīn śiśirayan avateritha tvam .. 12.7 ..
अन्तर्जलं तदनु सङ्कुलनक्रचक्रंभ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् । आविश्य भीषणरवेण रसातलस्थानाकम्पयन्वसुमतीमगवेषयस्त्वम् ॥ 12.8 ॥
अन्तर् जलम् तदनु सङ्कुल-नक्र-चक्रंभ्राम्यत्-तिमिङ्गिल-कुलम् कलुष-ऊर्मि-मालम् । आविश्य भीषण-रवेण रसातल-स्थान् आकम्पयन् वसुमतीम् अगवेषयः त्वम् ॥ १२।८ ॥
antar jalam tadanu saṅkula-nakra-cakraṃbhrāmyat-timiṅgila-kulam kaluṣa-ūrmi-mālam . āviśya bhīṣaṇa-raveṇa rasātala-sthān ākampayan vasumatīm agaveṣayaḥ tvam .. 12.8 ..
दृष्ट्वाऽथ दैत्यहतकेन रसातलान्तेसंवेशितां झटिति कूटकिटिर्विभो त्वम् । आपातुकानविगणय्य सुरारिखेटान्दंष्ट्राङ्कुरेण वसुधामदधाः सलीलम् ॥ 12.9 ॥
दृष्ट्वा अथ दैत्य-हतकेन रसातल-अन्ते संवेशिताम् झटिति कूट-किटिः विभो त्वम् । आपातुकान् अ विगणय्य सुरारि-खेटान् दंष्ट्र-अङ्कुरेण वसुधाम् अदधाः स लीलम् ॥ १२।९ ॥
dṛṣṭvā atha daitya-hatakena rasātala-ante saṃveśitām jhaṭiti kūṭa-kiṭiḥ vibho tvam . āpātukān a vigaṇayya surāri-kheṭān daṃṣṭra-aṅkureṇa vasudhām adadhāḥ sa līlam .. 12.9 ..
अभ्युद्धरन्नथ धरां दशनाग्रलग्नमुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा । उद्धातघोरसलिलाज्जलधेरुदञ्चन्क्तीडावराहवपुरीश्वर पाहि रोगात् ॥ 12.10 ॥
अभ्युद्धरन् अथ धराम् दशन-अग्र-लग्न-मुस्ता-अङ्कुर-अङ्कितः इव अधिक-पीवर-आत्मा । उद्धात-घोर-सलिलात् जलधेः उदञ्चन् क्तीडा-वराह-वपुः ईश्वर पाहि रोगात् ॥ १२।१० ॥
abhyuddharan atha dharām daśana-agra-lagna-mustā-aṅkura-aṅkitaḥ iva adhika-pīvara-ātmā . uddhāta-ghora-salilāt jaladheḥ udañcan ktīḍā-varāha-vapuḥ īśvara pāhi rogāt .. 12.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In