| |
|

This overlay will guide you through the buttons:

हिरण्याक्षं तावद्वरद भवदन्वेषणपरंचरन्तं सांवर्ते पयसि निजजङ्घापरिमिते । भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिःशनैरूचे नन्दन् दनुजमपि निन्दंस्तव बलम् ॥ 13.1 ॥
हिरण्याक्षम् तावत् वर-द भवत्-अन्वेषण-परंचरन्तम् सांवर्ते पयसि निज-जङ्घा-परिमिते । भवत्-भक्तः गत्वा कपट-पटु-धीः नारद-मुनिः शनैस् ऊचे नन्दन् दनुजम् अपि निन्दन् तव बलम् ॥ १३।१ ॥
hiraṇyākṣam tāvat vara-da bhavat-anveṣaṇa-paraṃcarantam sāṃvarte payasi nija-jaṅghā-parimite . bhavat-bhaktaḥ gatvā kapaṭa-paṭu-dhīḥ nārada-muniḥ śanais ūce nandan danujam api nindan tava balam .. 13.1 ..
स मायावी विष्णुर्हरति भवदीयं वसुमतींप्रभो कष्टं कष्टं किमिदमिति तेनाभिगदितः । नदन् क्वासौ क्वासाविति स मुनिना दर्शितपथोभवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥ 13.2 ॥
स मायावी विष्णुः हरति भवदीयम् वसुमतीम् प्रभो कष्टम् कष्टम् किम् इदम् इति तेन अभिगदितः । नदन् क्व असौ क्व असौ इति स मुनिना दर्शित-पथः भवन्तम् संप्रापत् धरणिधरम् उद्यन्तम् उदकात् ॥ १३।२ ॥
sa māyāvī viṣṇuḥ harati bhavadīyam vasumatīm prabho kaṣṭam kaṣṭam kim idam iti tena abhigaditaḥ . nadan kva asau kva asau iti sa muninā darśita-pathaḥ bhavantam saṃprāpat dharaṇidharam udyantam udakāt .. 13.2 ..
अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् । महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसापयोधावाधाय प्रसभमुदयुङ्था मृधविधौ ॥ 13.3 ॥
अहो आरण्यः अयम् मृगः इति हसन्तम् बहुतरैः दुरुक्तैः विध्यन्तम् दितिसुतम् अवज्ञाय भगवन् । महीम् दृष्ट्वा दंष्ट्र-शिरसि चकिताम् स्वेन महसा अ पयोधौ आधाय प्रसभम् उदयुङ्थाः मृध-विधौ ॥ १३।३ ॥
aho āraṇyaḥ ayam mṛgaḥ iti hasantam bahutaraiḥ duruktaiḥ vidhyantam ditisutam avajñāya bhagavan . mahīm dṛṣṭvā daṃṣṭra-śirasi cakitām svena mahasā a payodhau ādhāya prasabham udayuṅthāḥ mṛdha-vidhau .. 13.3 ..
गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदोनियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता । रणालोकैत्सुक्यान्मिलति सुरसंघे द्रुतममुंनिरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥ 13.4 ॥
गदा-पाणौ दैत्ये त्वम् अपि हि गृहीत-उन्नत-गदः नियुद्धेन क्रीडन् घट-घट-रव-उद्घुष्ट-वियता । रण-आलोक-ऐत्सुक्यात् मिलति सुर-संघे द्रुतम् अमुम् निरुन्ध्याः सन्ध्यातः प्रथमम् इति धात्रा जगदिषे ॥ १३।४ ॥
gadā-pāṇau daitye tvam api hi gṛhīta-unnata-gadaḥ niyuddhena krīḍan ghaṭa-ghaṭa-rava-udghuṣṭa-viyatā . raṇa-āloka-aitsukyāt milati sura-saṃghe drutam amum nirundhyāḥ sandhyātaḥ prathamam iti dhātrā jagadiṣe .. 13.4 ..
गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवोगदाघाताद्भूमौ झटिति पतितायामहह ! भोः ! । मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणंमहाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥ 13.5 ॥
गद-उन्मर्दे तस्मिन् तव खलु गदायाम् दितिभुवः गदा-घातात् भूमौ झटिति पतितायाम् अहह ! भोः ! । मृदु-स्मेर-आस्यः त्वम् दनुज-कुल-निर्मूलन-चणम् महा-चक्रम् स्मृत्वा कर-भुवि दधानः रुरुचिषे ॥ १३।५ ॥
gada-unmarde tasmin tava khalu gadāyām ditibhuvaḥ gadā-ghātāt bhūmau jhaṭiti patitāyām ahaha ! bhoḥ ! . mṛdu-smera-āsyaḥ tvam danuja-kula-nirmūlana-caṇam mahā-cakram smṛtvā kara-bhuvi dadhānaḥ ruruciṣe .. 13.5 ..
ततः शूलं कालप्रतिमरुषि दैत्ये विसृजतित्वयि छिन्दत्येनत् करकलितचक्रप्रहरणात् । समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतनोत्गळन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ 13.6 ॥
ततस् शूलम् काल-प्रतिम-रुषि दैत्ये विसृजति त्वयि छिन्दति एनत् कर-कलित-चक्र-प्रहरणात् । समारुष्टः मुष्ट्या स खलु वितुदन् त्वाम् समतनोत् गळत् माये मायाः त्वयि किल जगत्-मोहन-करीः ॥ १३।६ ॥
tatas śūlam kāla-pratima-ruṣi daitye visṛjati tvayi chindati enat kara-kalita-cakra-praharaṇāt . samāruṣṭaḥ muṣṭyā sa khalu vitudan tvām samatanot gal̤at māye māyāḥ tvayi kila jagat-mohana-karīḥ .. 13.6 ..
भवच्चक्रज्योतिष्कणलवनिपातेन विधुतेततो मायाचक्रे विततघनरोषान्धमनसम् । गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरंस्वपादाङ्गुष्ठेन श्रवणपदमूले निरवधीः ॥ 13.7 ॥
भवत्-चक्र-ज्योतिष्कण-लव-निपातेन विधुत-इततः माया-चक्रे वितत-घन-रोष-अन्ध-मनसम् । गरिष्ठाभिः मुष्टि-प्रहृतिभिः अभिघ्नन्तम् असुरम् स्व-पादाङ्गुष्ठेन श्रवण-पद-मूले निरवधीः ॥ १३।७ ॥
bhavat-cakra-jyotiṣkaṇa-lava-nipātena vidhuta-itataḥ māyā-cakre vitata-ghana-roṣa-andha-manasam . gariṣṭhābhiḥ muṣṭi-prahṛtibhiḥ abhighnantam asuram sva-pādāṅguṣṭhena śravaṇa-pada-mūle niravadhīḥ .. 13.7 ..
महाकायःस्सोऽयं तव करसरोजप्रमथितोगळद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः । तदा त्वामुद्दामप्रमदभरविद्योतिहृदयामुनीन्द्रास्सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनुम् ॥ 13.8 ॥
महा-कायः सः अयम् तव कर-सरोज-प्रमथितः गळत्-रक्तः वक्त्रात् अपतत् ऋषिभिः श्लाघित-हतिः । तदा त्वाम् उद्दाम-प्रमद-भर-विद्योति-हृदया मुनि-इन्द्राः सान्द्राभिः स्तुतिभिः अनुवन् अध्वर-तनुम् ॥ १३।८ ॥
mahā-kāyaḥ saḥ ayam tava kara-saroja-pramathitaḥ gal̤at-raktaḥ vaktrāt apatat ṛṣibhiḥ ślāghita-hatiḥ . tadā tvām uddāma-pramada-bhara-vidyoti-hṛdayā muni-indrāḥ sāndrābhiḥ stutibhiḥ anuvan adhvara-tanum .. 13.8 ..
त्वचि च्छन्दो रोमस्वपि कुशगणश्चक्षुषि घृतंचतुर्होतारोऽंघ्रौ स्रुगपि वदने चोदर इडा । ग्रहा जिह्वायां ते परपुरुष कर्णे च चमसाविभो सोमो वीर्यं वरद गळदेशेऽप्युपसदः ॥ 13.9 ॥
त्वचि छन्दः रोमसु अपि कुश-गणः चक्षुषि घृतम् चतुर्-होतारः अंघ्रौ स्रुच् अपि वदने च उदरे इडा । ग्रहाः जिह्वायाम् ते पर-पुरुष कर्णे च चमसौ इभो सोमः वीर्यम् वर-द गळ-देशे अपि उपसदः ॥ १३।९ ॥
tvaci chandaḥ romasu api kuśa-gaṇaḥ cakṣuṣi ghṛtam catur-hotāraḥ aṃghrau sruc api vadane ca udare iḍā . grahāḥ jihvāyām te para-puruṣa karṇe ca camasau ibho somaḥ vīryam vara-da gal̤a-deśe api upasadaḥ .. 13.9 ..
मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमनामहीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् । स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपोनिरुन्ध्या रोगं मे सकलमपि वातालयपते ॥ 13.10 ॥
मुनि-इन्द्रैः इत्यादि-स्तवन-मुखरैः मोदित-मना-महीयस्या मूर्त्या विमलतर-कीर्त्या च विलसन् । स्व-धिष्ण्यम् संप्राप्तः सुख-रस-विहारी मधुरिपो-निरुन्ध्या रोगम् मे सकलम् अपि वात-आलय-पते ॥ १३।१० ॥
muni-indraiḥ ityādi-stavana-mukharaiḥ modita-manā-mahīyasyā mūrtyā vimalatara-kīrtyā ca vilasan . sva-dhiṣṇyam saṃprāptaḥ sukha-rasa-vihārī madhuripo-nirundhyā rogam me sakalam api vāta-ālaya-pate .. 13.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In