| |
|

This overlay will guide you through the buttons:

मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्तात्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिम् । महदनुगमलभ्या भक्तिरेवात्र साध्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.1 ॥
मतिः इह गुण-सक्ता बन्ध-कृत् तेषु असक्त-त्व-मृत-कृत् उपरुन्धे भक्ति-योगः तु सक्तिम् । महत्-अनुगम-लभ्या भक्तिः एव अत्र साध्या-कपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।१ ॥
matiḥ iha guṇa-saktā bandha-kṛt teṣu asakta-tva-mṛta-kṛt uparundhe bhakti-yogaḥ tu saktim . mahat-anugama-labhyā bhaktiḥ eva atra sādhyā-kapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.1 ..
प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपिहृदपि दशाक्षी पूरुषः पञ्चविंशः । इति विदितविभागो मुच्यतेऽसौ प्रकृत्याकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.2 ॥
प्रकृति-महत्-अहङ्काराः च मात्राः च भूतानि अपि हृद् अपि दश-अक्षी पूरुषः पञ्चविंशः । इति विदित-विभागः मुच्यते असौ प्रकृत्या अ कपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।२ ॥
prakṛti-mahat-ahaṅkārāḥ ca mātrāḥ ca bhūtāni api hṛd api daśa-akṣī pūruṣaḥ pañcaviṃśaḥ . iti vidita-vibhāgaḥ mucyate asau prakṛtyā a kapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.2 ..
प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयंयदि तु सजति तस्यां तद्गुणास्तं भजेरन् । मदनुभजनतत्त्वालोचनैः साप्यपेयात्कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.3 ॥
प्रकृति-गत-गुण-ओघैः न अज्यते पूरुषः अयम् यदि तु सजति तस्याम् तद्-गुणाः तम् भजेरन् । मद्-अनुभजन-तत्त्व-आलोचनैः सा अपि अपेयात् कपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।३ ॥
prakṛti-gata-guṇa-oghaiḥ na ajyate pūruṣaḥ ayam yadi tu sajati tasyām tad-guṇāḥ tam bhajeran . mad-anubhajana-tattva-ālocanaiḥ sā api apeyāt kapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.3 ..
विमलमतिरुपात्तैरासनाद्यैर्मदङ्गंगरुडसमधिरूढं दिव्यभूषायुधाङ्कम् । रुचितुलिततमालं शीलयेतानुवेलंकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.4 ॥
विमल-मतिः उपात्तैः आसन-आद्यैः मद्-अङ्गम् गरुड-समधिरूढम् दिव्य-भूषा-आयुध-अङ्कम् । रुचि-तुलित-तमालम् शीलयेत अनुवेलम् कपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।४ ॥
vimala-matiḥ upāttaiḥ āsana-ādyaiḥ mad-aṅgam garuḍa-samadhirūḍham divya-bhūṣā-āyudha-aṅkam . ruci-tulita-tamālam śīlayeta anuvelam kapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.4 ..
मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैःमयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः । भवति परमभक्तिः सा हि मृत्योर्विजेत्रीकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.5 ॥
मम गुण-गुण-लीला-आकर्णनैः कीर्ति-नाद्यैः मयि सुरसरित्-ओघ-प्रख्य-चित्त-अनुवृत्तिः । भवति परम-भक्तिः सा हि मृत्योः विजेत्री-कपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।५ ॥
mama guṇa-guṇa-līlā-ākarṇanaiḥ kīrti-nādyaiḥ mayi surasarit-ogha-prakhya-citta-anuvṛttiḥ . bhavati parama-bhaktiḥ sā hi mṛtyoḥ vijetrī-kapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.5 ..
अह ह बहुलहिंसासञ्चितार्थैः कुटुम्बंप्रतिदिनमनुपुष्णन् स्त्रीजितो बाललाळी । विशति हि गृहसक्तो यातनां मय्यभक्तःकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.6 ॥
अह ह बहुल-हिंसा-सञ्चित-अर्थैः कुटुम्बम् प्रतिदिनम् अनुपुष्णन् स्त्री-जितः बाल-लाळी । विशति हि गृह-सक्तः यातनाम् मयि अभक्तः कपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।६ ॥
aha ha bahula-hiṃsā-sañcita-arthaiḥ kuṭumbam pratidinam anupuṣṇan strī-jitaḥ bāla-lāl̤ī . viśati hi gṛha-saktaḥ yātanām mayi abhaktaḥ kapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.6 ..
युवतिजठरखिन्नो जातबोधोऽप्यकाण्डेप्रसवगलितबोधः पीडयोल्लंङ्घ्य बाल्यम् । पुनरपि बत मुह्यत्येव तारुण्यकालेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.7 ॥
युवति-जठर-खिन्नः जात-बोधः अपि अकाण्डे प्रसव-गलित-बोधः पीडय उल्लंङ्घ्य बाल्यम् । पुनर् अपि बत मुह्यति एव तारुण्य-काले कपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।७ ॥
yuvati-jaṭhara-khinnaḥ jāta-bodhaḥ api akāṇḍe prasava-galita-bodhaḥ pīḍaya ullaṃṅghya bālyam . punar api bata muhyati eva tāruṇya-kāle kapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.7 ..
पितृसुरगणयाजी धार्मिको यो गृहस्थःस च निपतति काले दक्षिणाध्वोपगामी । मयि निहितमकामं कर्म तूदक्पथार्थेकपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥ 15.8 ॥
पितृ-सुर-गण-याजी धार्मिकः यः गृहस्थः स च निपतति काले दक्षिण-अध्व-उपगामी । मयि निहितम् अकामम् कर्म तु उदक्पथ-अर्थ-इकपिल-तनुः इति त्वम् देवहूत्यै न्यगादीः ॥ १५।८ ॥
pitṛ-sura-gaṇa-yājī dhārmikaḥ yaḥ gṛhasthaḥ sa ca nipatati kāle dakṣiṇa-adhva-upagāmī . mayi nihitam akāmam karma tu udakpatha-artha-ikapila-tanuḥ iti tvam devahūtyai nyagādīḥ .. 15.8 ..
इति सुविदितवेद्यां देव हे देवहूतिंकृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः । विमलमतिरथाऽसौ भक्तियोगेन मुक्तात्वमपि जनहितीर्थं वर्तसे प्रागुदीच्याम् ॥ 15.9 ॥
इति सु विदित-वेद्याम् देव हे देवहूतिंकृत-नुतिम् अनुगृह्य त्वम् गतः योगि-सङ्घैः । विमल-मतिः अथा असौ भक्ति-योगेन मुक्ता-त्वम् अपि जन-हि तीर्थम् वर्तसे प्राच्-उदीच्याम् ॥ १५।९ ॥
iti su vidita-vedyām deva he devahūtiṃkṛta-nutim anugṛhya tvam gataḥ yogi-saṅghaiḥ . vimala-matiḥ athā asau bhakti-yogena muktā-tvam api jana-hi tīrtham vartase prāc-udīcyām .. 15.9 ..
परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिंसकलभयविनेत्रीं सर्वकामोपनेत्रीम् । वदसि खलु दृढं त्वं त्वद्विधूयामयान्मेगुरुपवनपुरेश त्वय्युपाधत्स्व भक्तिम् ॥ 15.10 ॥
परम किमु बहु-उक्त्या त्वद्-पद-अम्भोज-भक्तिम् सकल-भय-विनेत्रीम् सर्व-काम-उपनेत्रीम् । वदसि खलु दृढम् त्वम् त्वद्-विधूय आमयान् मेगुरु-पवन-पुर-ईश त्वयि उपाधत्स्व भक्तिम् ॥ १५।१० ॥
parama kimu bahu-uktyā tvad-pada-ambhoja-bhaktim sakala-bhaya-vinetrīm sarva-kāma-upanetrīm . vadasi khalu dṛḍham tvam tvad-vidhūya āmayān meguru-pavana-pura-īśa tvayi upādhatsva bhaktim .. 15.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In