| |
|

This overlay will guide you through the buttons:

दक्षो विरिञ्चतनयोऽथ मनोस्तनूजांलब्ध्वा प्रसूतिमिह षोडश चाप कन्याः । धर्मे त्रयोदश ददौ पितृषु स्वधां चस्वाहां हविर्भुजि सतीं गिरिशे त्वदंशे ॥ 16.1 ॥
दक्षः विरिञ्च-तनयः अथ मनोः तनूजाम् लब्ध्वा प्रसूतिम् इह षोडश च आप कन्याः । धर्मे त्रयोदश ददौ पितृषु स्वधाम् च स्वाहाम् हविर्भुजि सतीम् गिरिशे त्वद्-अंशे ॥ १६।१ ॥
dakṣaḥ viriñca-tanayaḥ atha manoḥ tanūjām labdhvā prasūtim iha ṣoḍaśa ca āpa kanyāḥ . dharme trayodaśa dadau pitṛṣu svadhām ca svāhām havirbhuji satīm giriśe tvad-aṃśe .. 16.1 ..
मूर्तिर्हि धर्मगृहिणी सुषुवे भवन्तंनारायणं नरसखं महितानुभावम् । यज्जन्मनि प्रमुदिताः कृततुर्यघोषाःपुष्पोत्करान्प्रववृषुर्नुनुवुः सुरौघाः ॥ 16.2 ॥
मूर्तिः हि धर्म-गृहिणी सुषुवे भवन्तम् नारायणम् नरसखम् महित-अनुभावम् । यद्-जन्मनि प्रमुदिताः कृत-तुर्य-घोषाः पुष्प-उत्करान् प्रववृषुः नुनुवुः सुर-ओघाः ॥ १६।२ ॥
mūrtiḥ hi dharma-gṛhiṇī suṣuve bhavantam nārāyaṇam narasakham mahita-anubhāvam . yad-janmani pramuditāḥ kṛta-turya-ghoṣāḥ puṣpa-utkarān pravavṛṣuḥ nunuvuḥ sura-oghāḥ .. 16.2 ..
दैत्यं सहस्रकवचं कवचैः परीतंसाहस्रवत्सरतपस्समराभिलव्यैः । पर्यायनीर्मिततपस्समरौ भवन्तौशिष्टैककङ्कटममुं न्यहतां सललिम् ॥ 16.3 ॥
दैत्यम् सहस्र-कवचम् कवचैः परीतम् साहस्र-वत्सर-तपः-समर-अभिलव्यैः । पर्याय-नीर्मित-तपः-समरौ भवन्तौ शिष्ट-एक-कङ्कटम् अमुम् न्यहताम् स ललिम् ॥ १६।३ ॥
daityam sahasra-kavacam kavacaiḥ parītam sāhasra-vatsara-tapaḥ-samara-abhilavyaiḥ . paryāya-nīrmita-tapaḥ-samarau bhavantau śiṣṭa-eka-kaṅkaṭam amum nyahatām sa lalim .. 16.3 ..
अन्वाचरन्नुपदिशन्नपि मोक्षधर्मंत्वं भ्रातृमान् बदरिकाश्रममध्यवात्सीः । शक्रोऽथ ते शमतपोबलनिस्सहात्मादिव्याङ्गनापरिवृतं प्रजिघाय मारम् ॥ 16.4 ॥
अन्वाचरन् उपदिशन् अपि मोक्ष-धर्मंत्वम् भ्रातृमान् बदरिकाश्रमम् अध्यवात्सीः । शक्रः अथ ते शम-तपः-बल-निस्सह-आत्मा दिव्य-अङ्गना-परिवृतम् प्रजिघाय मारम् ॥ १६।४ ॥
anvācaran upadiśan api mokṣa-dharmaṃtvam bhrātṛmān badarikāśramam adhyavātsīḥ . śakraḥ atha te śama-tapaḥ-bala-nissaha-ātmā divya-aṅganā-parivṛtam prajighāya māram .. 16.4 ..
कामो वसन्तमलयानिलबन्धुशालीकान्ताकटाक्षविशिखैर्विकसद्विलासैः । विध्यन्मुहुर्मुहुरकम्पमुदीक्ष्य च त्वांभीतस्त्वायाथ जगदे मृदुहासभाजा ॥ 16.5 ॥
कामः वसन्त-मलय-अनिल-बन्धु-शाली-कान्ता-कटाक्ष-विशिखैः विकसत्-विलासैः । विध्यन् मुहुर् मुहुर् अकम्पम् उदीक्ष्य च त्वां भीतः त्वाया अथ जगदे मृदु-हास-भाजा ॥ १६।५ ॥
kāmaḥ vasanta-malaya-anila-bandhu-śālī-kāntā-kaṭākṣa-viśikhaiḥ vikasat-vilāsaiḥ . vidhyan muhur muhur akampam udīkṣya ca tvāṃ bhītaḥ tvāyā atha jagade mṛdu-hāsa-bhājā .. 16.5 ..
भीत्यालमङ्गजवसन्तसुराङ्गना वोमन्मानसन्त्विह जुषुध्वमिति ब्रुवाणः । त्वं विस्मयेन परितः स्तुवतामथैषांप्रादर्शयः स्वपरिचारककातराक्षीः ॥ 16.6 ॥
भीत्या अलम् अङ्गज-वसन्त-सुर-अङ्गनाः वः मद्-मानसन्तु इह जुषुध्वम् इति ब्रुवाणः । त्वम् विस्मयेन परितस् स्तुवताम् अथ एषाम् प्रादर्शयः स्व-परिचारक-कातर-अक्षीः ॥ १६।६ ॥
bhītyā alam aṅgaja-vasanta-sura-aṅganāḥ vaḥ mad-mānasantu iha juṣudhvam iti bruvāṇaḥ . tvam vismayena paritas stuvatām atha eṣām prādarśayaḥ sva-paricāraka-kātara-akṣīḥ .. 16.6 ..
सम्मोहनाय मिलिता मदनादयस्तेत्वद्दासिकापरिमळैः किल मोहमापुः । दत्तां त्वया च जगृहुस्त्रपयैव सर्वस्वर्वासिगर्वशमनीं पुनरुर्वशीं ताम् ॥ 16.7 ॥
सम्मोहनाय मिलिताः मदन-आदयः ते त्वद्-दासिका-परिमळैः किल मोहम् आपुः । दत्ताम् त्वया च जगृहुः त्रपया एव सर्व-स्वर्वासि-गर्व-शमनीम् पुनर् उर्वशीम् ताम् ॥ १६।७ ॥
sammohanāya militāḥ madana-ādayaḥ te tvad-dāsikā-parimal̤aiḥ kila moham āpuḥ . dattām tvayā ca jagṛhuḥ trapayā eva sarva-svarvāsi-garva-śamanīm punar urvaśīm tām .. 16.7 ..
दृष्ट्वोर्वशीं त्वं कथां च निशम्य शक्रःपर्याकुलोऽजनि भवन्महिमावमर्शात् । एवं प्रशान्तरमणीयतरोऽवतारस्त्वत्तोऽधिको वरद कृष्णतनुस्त्वमेव ॥ 16.8 ॥
दृष्ट्वा उर्वशीम् त्वम् कथाम् च निशम्य शक्रः पर्याकुलः अजनि भवत्-महिम-अवमर्शात् । एवम् प्रशान्त-रमणीयतरः अवतारः त्वत्तः अधिकः वर-द कृष्ण-तनुः त्वम् एव ॥ १६।८ ॥
dṛṣṭvā urvaśīm tvam kathām ca niśamya śakraḥ paryākulaḥ ajani bhavat-mahima-avamarśāt . evam praśānta-ramaṇīyataraḥ avatāraḥ tvattaḥ adhikaḥ vara-da kṛṣṇa-tanuḥ tvam eva .. 16.8 ..
दक्षस्तु धातुरतिलाळनया रजोन्धोनात्यादृतस्त्वयि च कष्टमशान्तिरासीत् । येन व्यरुन्ध स भवत्तनुमेव शर्वंयज्ञो च वैरपिशुने स्वसुतां व्यमानीत् ॥ 16.9 ॥
दक्षः तु धातुः अति लाळनया त्वयि च कष्टम् अशान्तिः आसीत् । येन व्यरुन्ध स भवत्-तनुम् एव शर्वंयज्ञो च वैर-पिशुने स्व-सुताम् व्यमानीत् ॥ १६।९ ॥
dakṣaḥ tu dhātuḥ ati lāl̤anayā tvayi ca kaṣṭam aśāntiḥ āsīt . yena vyarundha sa bhavat-tanum eva śarvaṃyajño ca vaira-piśune sva-sutām vyamānīt .. 16.9 ..
कृद्धेशमर्दितमखः स तु कृत्तशीर्षोदेवप्रसादितहरादथ लब्धजीवः । त्वत्पूरितक्रतुवरः पुनराप शान्तिंस त्वं प्रशान्तिकर पाहि मरुत्पुरेश ॥ 16.10 ॥
कृद्ध-ईश-मर्दित-मखः स तु कृत्त-शीर्षः देव-प्रसादित-हरात् अथ लब्ध-जीवः । त्वद्-पूरित-क्रतु-वरः पुनर् आप शान्तिम् स त्वम् प्रशान्ति-कर पाहि मरुत्-पुर-ईश ॥ १६।१० ॥
kṛddha-īśa-mardita-makhaḥ sa tu kṛtta-śīrṣaḥ deva-prasādita-harāt atha labdha-jīvaḥ . tvad-pūrita-kratu-varaḥ punar āpa śāntim sa tvam praśānti-kara pāhi marut-pura-īśa .. 16.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In