| |
|

This overlay will guide you through the buttons:

उत्तानपादनृपतेर्मनुनन्दनस्यजाया बभूव सुरुचिर्नितरामभीष्टा । अन्या सुनीतिरिति भर्तुरनादृता सात्वामेव नित्यमगतिः शरणं गताऽभूत् ॥ 17.1 ॥
उत्तानपाद-नृपतेः मनु-नन्दनस्य जाया बभूव सुरुचिः नितराम् अभीष्टा । अन्या सुनीतिः इति भर्तुः अन् आदृता सा त्वाम् एव नित्यम् अगतिः शरणम् गता अभूत् ॥ १७।१ ॥
uttānapāda-nṛpateḥ manu-nandanasya jāyā babhūva suruciḥ nitarām abhīṣṭā . anyā sunītiḥ iti bhartuḥ an ādṛtā sā tvām eva nityam agatiḥ śaraṇam gatā abhūt .. 17.1 ..
अङ्के पितुः सुरुचिपुत्रकमुत्तमं तंदृष्ट्वा ध्रुवः किल सुनीतिसुतोऽधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतरां सुरुच्यादुस्सन्त्यजा खलु भवद्विमुखैरसूया ॥ 17.2 ॥
अङ्के पितुः सुरुचि-पुत्रकम् उत्तमम् तम् दृष्ट्वा ध्रुवः किल सुनीति-सुतः अधिरोक्ष्यन् । आचिक्षिपे किल शिशुः सुतराम् खलु भवत्-विमुखैः असूया ॥ १७।२ ॥
aṅke pituḥ suruci-putrakam uttamam tam dṛṣṭvā dhruvaḥ kila sunīti-sutaḥ adhirokṣyan . ācikṣipe kila śiśuḥ sutarām khalu bhavat-vimukhaiḥ asūyā .. 17.2 ..
त्वन्मोहिते पितरि पश्यति दारवश्येदूरं दुरुक्तिनिहतः स गतो निजाम्बाम् । साऽपि स्वकर्मगतिसन्तरणाय पुंसांत्वत्पादमेव शरणं शिशवे शशंस ॥ 17.3 ॥
त्वद्-मोहिते पितरि पश्यति दुरुक्ति-निहतः स गतः निज-अम्बाम् । सा अपि स्व-कर्म-गति-सन्तरणाय पुंसाम् त्वद्-पादम् एव शरणम् शिशवे शशंस ॥ १७।३ ॥
tvad-mohite pitari paśyati durukti-nihataḥ sa gataḥ nija-ambām . sā api sva-karma-gati-santaraṇāya puṃsām tvad-pādam eva śaraṇam śiśave śaśaṃsa .. 17.3 ..
आकर्ण्य सोऽपि भवदर्चनिश्चितात्मामानी निरेत्य नगरात्किल पञ्चवर्षः । सन्दृष्टनारदनिवेदितमन्त्रमार्गस्त्वामारराध तपसा मधुकाननान्ते ॥ 17.4 ॥
आकर्ण्य सः अपि भवत्-अर्च-निश्चित-आत्म-आमानी निरेत्य नगरात् किल पञ्च-वर्षः । सन् दृष्ट-नारद-निवेदित-मन्त्र-मार्गः त्वाम् आरराध तपसा मधु-कानन-अन्ते ॥ १७।४ ॥
ākarṇya saḥ api bhavat-arca-niścita-ātma-āmānī niretya nagarāt kila pañca-varṣaḥ . san dṛṣṭa-nārada-nivedita-mantra-mārgaḥ tvām ārarādha tapasā madhu-kānana-ante .. 17.4 ..
ताते विषण्णहृदये नगरीं गतेनश्रीनारदेन परिसान्त्वितचित्तवृत्तौ । बालस्त्वदर्पितमनाः क्रमवर्धितेननिन्ये कठोरतपसा किल पञ्च मासान् ॥ 17.5 ॥
ताते विषण्ण-हृदये नगरीम् गतेन श्री-नारदेन परिसान्त्वित-चित्तवृत्तौ । बालः त्वद्-अर्पित-मनाः कठोर-तपसा किल पञ्च मासान् ॥ १७।५ ॥
tāte viṣaṇṇa-hṛdaye nagarīm gatena śrī-nāradena parisāntvita-cittavṛttau . bālaḥ tvad-arpita-manāḥ kaṭhora-tapasā kila pañca māsān .. 17.5 ..
तावत्तपोबलनिरुच्छ्वसिते दिगन्तेदेवार्थितस्त्वमुदयत्करुणार्द्रचेताः । त्वद्रूपचिद्रसनिलीनमतेः पुरस्तादाविर्बभूविथ विभो गरुडाधिरूढः ॥ 17.6 ॥
तावत् तपः-बल-निरुच्छ्वसिते दिगन्ते देव-अर्थितः त्वम् उदयत्-करुणा-आर्द्र-चेताः । त्वद्-रूप-चित्-रस-निलीन-मतेः पुरस्तात् आविर्बभूविथ विभो गरुड-अधिरूढः ॥ १७।६ ॥
tāvat tapaḥ-bala-nirucchvasite digante deva-arthitaḥ tvam udayat-karuṇā-ārdra-cetāḥ . tvad-rūpa-cit-rasa-nilīna-mateḥ purastāt āvirbabhūvitha vibho garuḍa-adhirūḍhaḥ .. 17.6 ..
त्वद्दर्शनप्रमदभारतरङ्गितं तंदृग्भ्यां निमग्नमिव रूपरसायने ते । तुष्टूषमाणमवगम्य कपोलदेशेसंस्पृष्टवानसि दरेण तथाऽऽदरेण ॥ 17.7 ॥
त्वद्-दर्शन-प्रमद-भार-तरङ्गितम् तंदृग्भ्याम् निमग्नम् इव रूप-रसायने ते । तुष्टूषमाणम् अवगम्य कपोल-देशे संस्पृष्टवान् असि दरेण तथा आदरेण ॥ १७।७ ॥
tvad-darśana-pramada-bhāra-taraṅgitam taṃdṛgbhyām nimagnam iva rūpa-rasāyane te . tuṣṭūṣamāṇam avagamya kapola-deśe saṃspṛṣṭavān asi dareṇa tathā ādareṇa .. 17.7 ..
तावद्विबोधविमलं प्रणुवन्तमेनमाभाषथास्त्वमवगम्य तदीयभावम् । राज्यं चिरं समनुभूय भजस्व भूयःसर्वोत्तरं ध्रुव पदं विनिवृत्तिहीनम् ॥ 17.8 ॥
तावत् विबोध-विमलम् प्रणुवन्तम् एनम् आभाषथाः त्वम् अवगम्य तदीय-भावम् । राज्यम् चिरम् समनुभूय भजस्व भूयस् सर्व-उत्तरम् ध्रुव पदम् विनिवृत्ति-हीनम् ॥ १७।८ ॥
tāvat vibodha-vimalam praṇuvantam enam ābhāṣathāḥ tvam avagamya tadīya-bhāvam . rājyam ciram samanubhūya bhajasva bhūyas sarva-uttaram dhruva padam vinivṛtti-hīnam .. 17.8 ..
इत्यूचिषि त्वयि गते नृपनन्दनोऽसौआनन्दिताखिलजनो नगरीमुपेतः । रेमे चिरं भवदनुग्रहपूर्णकामस्ताते गते च वनमादृतराज्यभारः ॥ 17.9 ॥
इति ऊचिषि त्वयि गते नृप-नन्दनः असौ आनन्दित-अखिल-जनः नगरीम् उपेतः । रेमे चिरम् भवत्-अनुग्रह-पूर्ण-कामः ताते गते च वनम् आदृत-राज्य-भारः ॥ १७।९ ॥
iti ūciṣi tvayi gate nṛpa-nandanaḥ asau ānandita-akhila-janaḥ nagarīm upetaḥ . reme ciram bhavat-anugraha-pūrṇa-kāmaḥ tāte gate ca vanam ādṛta-rājya-bhāraḥ .. 17.9 ..
यक्षेण देव निहते पुनरुत्तमेऽस्मिन्यक्षैः स युद्धनिरतो विरतो मनूक्त्या । शान्त्या प्रसन्नहृदयाद्धनदादुपेतात्त्वद्भक्तिमेव सुदृढामवृणोन्महात्मा ॥ 17.10 ॥
यक्षेण देव निहते पुनर् उत्तमे अस्मिन् यक्षैः स युद्ध-निरतः विरतः मनु-उक्त्या । शान्त्या प्रसन्न-हृदयात् धनदात् उपेतात् त्वद्-भक्तिम् एव सु दृढाम् अवृणोत् महात्मा ॥ १७।१० ॥
yakṣeṇa deva nihate punar uttame asmin yakṣaiḥ sa yuddha-nirataḥ virataḥ manu-uktyā . śāntyā prasanna-hṛdayāt dhanadāt upetāt tvad-bhaktim eva su dṛḍhām avṛṇot mahātmā .. 17.10 ..
अन्ते भवत्पुरुषनीतविमानयातोमात्रा समं ध्रुवपदे मुदितोऽयमास्ते । एवं स्वभृत्यजनपालनलोलधीस्त्वंवातालयाधिप निरुन्धि ममामयौघान् ॥ 17.11 ॥
अन्ते भवत्-पुरुष-नीत-विमान-यातः मात्रा समम् ध्रुव-पदे मुदितः अयम् आस्ते । एवम् स्व-भृत्य-जन-पालन-लोल-धीः त्वम् वातालय-अधिप निरुन्धि मम आमय-ओघान् ॥ १७।११ ॥
ante bhavat-puruṣa-nīta-vimāna-yātaḥ mātrā samam dhruva-pade muditaḥ ayam āste . evam sva-bhṛtya-jana-pālana-lola-dhīḥ tvam vātālaya-adhipa nirundhi mama āmaya-oghān .. 17.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In