| |
|

This overlay will guide you through the buttons:

जातस्य ध्रुवकुल एव तुङ्गकीर्तेरङ्गस्य व्यजनि सुतः स वेननामा । तद्दोषव्यथितमतिः स राजवर्यस्त्वत्पादे विहितमना वनं गतोऽभूत् ॥ 18.1 ॥
जातस्य ध्रुव-कुले एव तुङ्ग-कीर्तेः अङ्गस्य व्यजनि सुतः स वेन-नामा । तद्-दोष-व्यथित-मतिः स राज-वर्यः त्वद्-पादे विहित-मनाः वनम् गतः अभूत् ॥ १८।१ ॥
jātasya dhruva-kule eva tuṅga-kīrteḥ aṅgasya vyajani sutaḥ sa vena-nāmā . tad-doṣa-vyathita-matiḥ sa rāja-varyaḥ tvad-pāde vihita-manāḥ vanam gataḥ abhūt .. 18.1 ..
पापोऽपि क्षितितलपालनाय वेनःपौराद्यैरुपनिहितः कठोरवीर्यः । सर्वेभ्यो निजबलमेव संप्रशंसन्भूचक्रे तव यजनान्ययं न्यरौत्सीत् ॥ 18.2 ॥
पापः अपि क्षिति-तल-पालनाय वेनः पौर-आद्यैः उपनिहितः कठोर-वीर्यः । सर्वेभ्यः निज-बलम् एव संप्रशंसन् भू-चक्रे तव यजनानि अयम् न्यरौत्सीत् ॥ १८।२ ॥
pāpaḥ api kṣiti-tala-pālanāya venaḥ paura-ādyaiḥ upanihitaḥ kaṭhora-vīryaḥ . sarvebhyaḥ nija-balam eva saṃpraśaṃsan bhū-cakre tava yajanāni ayam nyarautsīt .. 18.2 ..
सम्प्राप्ते हितकथनाय तापसौधेमत्तोऽन्यो भवनपतिर्न कश्चनेति । त्वन्निन्दावचनपरो मुनीश्वरैस्तैःशापाग्नौ शलभदशामनायि वेनः ॥ 18.3 ॥
सम्प्राप्ते हित-कथनाय तापस-ओधेमत्तः अन्यः भवन-पतिः न कश्चन इति । त्वद्-निन्दा-वचन-परः मुनि-ईश्वरैः तैः शाप-अग्नौ शलभ-दशाम् अनायि वेनः ॥ १८।३ ॥
samprāpte hita-kathanāya tāpasa-odhemattaḥ anyaḥ bhavana-patiḥ na kaścana iti . tvad-nindā-vacana-paraḥ muni-īśvaraiḥ taiḥ śāpa-agnau śalabha-daśām anāyi venaḥ .. 18.3 ..
तन्नाशात्खलजनभीरुकैर्मुनीन्द्रैस्तन्मात्रा चिरपरिरक्षिते तदङ्गे । त्यक्ताघे परिमथितादथोरुदण्डात्दोर्दण्डे परिमथिते त्वमाविरासीः ॥ 18.4 ॥
तद्-नाशात् खल-जन-भीरुकैः मुनि-इन्द्रैः तद्-मात्रा चिर-परिरक्षिते तद्-अङ्गे । त्यक्त-अघे परिमथितात् अथ ऊरुदण्डात् दोर्दण्डे परिमथिते त्वम् आविरासीः ॥ १८।४ ॥
tad-nāśāt khala-jana-bhīrukaiḥ muni-indraiḥ tad-mātrā cira-parirakṣite tad-aṅge . tyakta-aghe parimathitāt atha ūrudaṇḍāt dordaṇḍe parimathite tvam āvirāsīḥ .. 18.4 ..
विख्यातः पृथुरिति तापसोपदिष्टैःसूताद्यैः परिणुतभाविभूरिवीर्यः । वेनार्त्या कबलितसम्पदं धरित्रींआक्रान्तां निजधनुषा समामकार्षीः ॥ 18.5 ॥
विख्यातः पृथुः इति तापस-उपदिष्टैः सूत-आद्यैः परिणुत-भावि-भूरि-वीर्यः । वेन-आर्त्या कबलित-सम्पदम् धरित्रीम् आक्रान्ताम् निज-धनुषा समाम् अकार्षीः ॥ १८।५ ॥
vikhyātaḥ pṛthuḥ iti tāpasa-upadiṣṭaiḥ sūta-ādyaiḥ pariṇuta-bhāvi-bhūri-vīryaḥ . vena-ārtyā kabalita-sampadam dharitrīm ākrāntām nija-dhanuṣā samām akārṣīḥ .. 18.5 ..
भूयस्तां निजकुलमुख्यवत्सयुक्तैर्देवाद्यैः समुचितचारुभाजनेषु । अन्नादीन्यभिलषितानि यानि तानिस्वच्छन्दं सुरभितनूमदूदुहस्त्वम् ॥ 18.6 ॥
भूयस् ताम् निज-कुल-मुख्य-वत्स-युक्तैः देव-आद्यैः समुचित-चारु-भाजनेषु । अन्न-आदीनि अभिलषितानि यानि तानि स्वच्छन्दम् सुरभि-तनूम् अदूदुहः त्वम् ॥ १८।६ ॥
bhūyas tām nija-kula-mukhya-vatsa-yuktaiḥ deva-ādyaiḥ samucita-cāru-bhājaneṣu . anna-ādīni abhilaṣitāni yāni tāni svacchandam surabhi-tanūm adūduhaḥ tvam .. 18.6 ..
आत्मानं यहति मखैस्त्वयि त्रिधामन्नारब्धे शततमवाजिमेधयागे । स्पर्धालुः शतमख एत्य नीचवेषोहृत्वाऽश्वं तव तनयात् पराजितोऽभूत् ॥ 18.7 ॥
आत्मानम् मखैः त्वयि त्रिधामन् आरब्धे शततम-वाजिमेध-यागे । स्पर्धालुः शतमखः एत्य नीच-वेषः हृत्वा अश्वम् तव तनयात् पराजितः अभूत् ॥ १८।७ ॥
ātmānam makhaiḥ tvayi tridhāman ārabdhe śatatama-vājimedha-yāge . spardhāluḥ śatamakhaḥ etya nīca-veṣaḥ hṛtvā aśvam tava tanayāt parājitaḥ abhūt .. 18.7 ..
देवेन्द्रं मुहुरिति वाजिनं हरन्तंवह्नौ तं मुनवरमण्डले जुहूषौ । रुन्धाने कमलभवे क्रतोः समाप्तौसाक्षात्त्वं मधुरिपुमैक्षथाः स्वयं स्वम् ॥ 18.8 ॥
देव-इन्द्रम् मुहुर् इति वाजिनम् हरन्तम् वह्नौ तम् मुन-वर-मण्डले जुहूषौ । रुन्धाने कमलभवे क्रतोः समाप्तौ साक्षात् त्वम् मधुरिपुम् ऐक्षथाः स्वयम् स्वम् ॥ १८।८ ॥
deva-indram muhur iti vājinam harantam vahnau tam muna-vara-maṇḍale juhūṣau . rundhāne kamalabhave kratoḥ samāptau sākṣāt tvam madhuripum aikṣathāḥ svayam svam .. 18.8 ..
तद्दत्तं वरमुपलभ्य भक्तिमेकांगङ्गान्ते विहितपदः कदापि देव । सत्रस्थं मुनिनिवहं हितानि शंसन्नैक्षिष्ठाः सनकमुखान् मुनीन् पुरस्तात् ॥ 18.9 ॥
तद्-दत्तम् वरम् उपलभ्य भक्तिम् एक-अंग-अङ्ग-अन्ते विहित-पदः कदापि देव । सत्र-स्थम् मुनि-निवहम् हितानि शंसन् ऐक्षिष्ठाः सनक-मुखान् मुनीन् पुरस्तात् ॥ १८।९ ॥
tad-dattam varam upalabhya bhaktim eka-aṃga-aṅga-ante vihita-padaḥ kadāpi deva . satra-stham muni-nivaham hitāni śaṃsan aikṣiṣṭhāḥ sanaka-mukhān munīn purastāt .. 18.9 ..
विज्ञानं सनकमुखोदितं दधानःस्वात्मानं स्वयमगमो वनान्तसेवी । तत्तादृक्पृथुवपुरीश सत्वरं मेरोगौघं प्रशमय वातगेहवासिन् ॥ 18.10 ॥
विज्ञानम् सनक-मुख-उदितम् दधानः स्व-आत्मानम् स्वयम् अगमः वनान्त-सेवी । तत् तादृश् पृथु-वपुः ईश सत्वरम् मे रोग-ओघम् प्रशमय वातगेह-वासिन् ॥ १८।१० ॥
vijñānam sanaka-mukha-uditam dadhānaḥ sva-ātmānam svayam agamaḥ vanānta-sevī . tat tādṛś pṛthu-vapuḥ īśa satvaram me roga-ogham praśamaya vātageha-vāsin .. 18.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In