| |
|

This overlay will guide you through the buttons:

पृथोस्तु नप्ता पृथुधर्मकर्मठः प्राचीनबर्हिर्युवतौ शतदॄतौ । प्रचेतसो नाम सुचेतसः सुतानजीजनत्त्वत्करुणाङ्कुरानिव ॥ 19.1 ॥
पृथोः तु नप्ता पृथु-धर्मकर्मठः प्राचीनबर्हिः-युवतौ । प्रचेतसः नाम सु चेतसः सुतान् अजीजनत् त्वद्-करुणा-अङ्कुरान् इव ॥ १९।१ ॥
pṛthoḥ tu naptā pṛthu-dharmakarmaṭhaḥ prācīnabarhiḥ-yuvatau . pracetasaḥ nāma su cetasaḥ sutān ajījanat tvad-karuṇā-aṅkurān iva .. 19.1 ..
पितुः सिसृक्षानिरतस्य शासनाद्भवत्तपस्याभिरता दशापि ते । पयोनिधिं पश्चिममेत्य तत्तटे सरोवरं सन्ददृशुर्मनोहरम् ॥ 19.2 ॥
पितुः सिसृक्षा-निरतस्य शासनात् भवत्-तपस्य-अभिरताः दशा अपि ते । पयोनिधिम् पश्चिमम् एत्य तत् तटे सरोवरम् सन् ददृशुः मनोहरम् ॥ १९।२ ॥
pituḥ sisṛkṣā-niratasya śāsanāt bhavat-tapasya-abhiratāḥ daśā api te . payonidhim paścimam etya tat taṭe sarovaram san dadṛśuḥ manoharam .. 19.2 ..
तदा भवत्तीर्थमिदं समागतो भवो भवत्सेवकदर्शनादृतः । प्रकाशमासाद्य पुरः प्रचेतसामुपादिशद्भक्ततमस्तवस्तवम् ॥ 19.3 ॥
तदा भवत्-तीर्थम् इदम् समागतः भवः भवत्-सेवक-दर्शन-आदृतः । प्रकाशम् आसाद्य पुरस् प्रचेतसाम् उपादिशत् भक्ततम-स्तव-स्तवम् ॥ १९।३ ॥
tadā bhavat-tīrtham idam samāgataḥ bhavaḥ bhavat-sevaka-darśana-ādṛtaḥ . prakāśam āsādya puras pracetasām upādiśat bhaktatama-stava-stavam .. 19.3 ..
स्तवं जपन्तस्तममी जलान्तरे भवन्तमासेविषतायुतं समाः । भवत्सुखास्वादरसादमीष्वियान्बभूव कलो ध्रुववन्न शीघ्रता ॥ 19.4 ॥
स्तवम् जपन्तः तम् अमी जल-अन्तरे भवन्तम् आसेविषत अयुतम् समाः । भवत्-सुख-आस्वाद-रसात् अमीषु इयान् बभूव कलः ध्रुव-वत् न शीघ्र-ता ॥ १९।४ ॥
stavam japantaḥ tam amī jala-antare bhavantam āseviṣata ayutam samāḥ . bhavat-sukha-āsvāda-rasāt amīṣu iyān babhūva kalaḥ dhruva-vat na śīghra-tā .. 19.4 ..
तपोभिरेषामतिमात्रवर्धिभिः स यज्ञहिंसानिरतोऽपि पावितः । पिताऽपि तेषां गृहयातनारदप्रदर्शितात्मा भवदात्मतां ययौ ॥ 19.5 ॥
तपोभिः एषाम् अतिमात्र-वर्धिभिः स यज्ञ-हिंसा-निरतः अपि पावितः । पिता अपि तेषाम् गृह-यात-नारद-प्रदर्शित-आत्मा भवत्-आत्म-ताम् ययौ ॥ १९।५ ॥
tapobhiḥ eṣām atimātra-vardhibhiḥ sa yajña-hiṃsā-nirataḥ api pāvitaḥ . pitā api teṣām gṛha-yāta-nārada-pradarśita-ātmā bhavat-ātma-tām yayau .. 19.5 ..
कृपाबलेनैव पुरः प्रचेतसां प्रकाशमागाः पतगेन्द्रवाहनः । विराजि चक्रादिवरायुधांशुभिः भुजाभिरष्टाभिरुदञ्चितद्युतिः ॥ 19.6 ॥
कृपा-बलेन एव पुरस् प्रचेतसाम् प्रकाशम् आगाः पतग-इन्द्र-वाहनः । विराजि चक्र-आदि-वर-आयुध-अंशुभिः भुजाभिः अष्टाभिः उदञ्चित-द्युतिः ॥ १९।६ ॥
kṛpā-balena eva puras pracetasām prakāśam āgāḥ pataga-indra-vāhanaḥ . virāji cakra-ādi-vara-āyudha-aṃśubhiḥ bhujābhiḥ aṣṭābhiḥ udañcita-dyutiḥ .. 19.6 ..
प्रचेतसां तावदयाचतामपिः त्वमेव कारुण्यभराद्वारानदाः । भवद्विचिन्ताऽपि शिवायदेहिनां भवत्वसौ रुद्रनुतिश्च कामदा ॥ 19.7 ॥
प्रचेतसाम् तावत् अ याचताम् अपिः त्वम् एव कारुण्य-भरात् वारानदाः । भवत्-विचिन्ता अपि शिवाय देहिनाम् भवतु असौ रुद्र-नुतिः च काम-दा ॥ १९।७ ॥
pracetasām tāvat a yācatām apiḥ tvam eva kāruṇya-bharāt vārānadāḥ . bhavat-vicintā api śivāya dehinām bhavatu asau rudra-nutiḥ ca kāma-dā .. 19.7 ..
अवाप्य कान्तां तनयां महीरुहां तया रमध्वं दशलक्षवत्सरीम् । सुतोऽस्तु दक्षो ननु तत्क्षणाच्च मां प्रयास्यथेति न्यगदो मुदैव तान् ॥ 19.8 ॥
अवाप्य कान्ताम् तनयाम् महीरुहाम् तया रमध्वम् । सुतः अस्तु दक्षः ननु तद्-क्षणात् च माम् प्रयास्यथ इति न्यगदः मुदा एव तान् ॥ १९।८ ॥
avāpya kāntām tanayām mahīruhām tayā ramadhvam . sutaḥ astu dakṣaḥ nanu tad-kṣaṇāt ca mām prayāsyatha iti nyagadaḥ mudā eva tān .. 19.8 ..
ततश्च ते भूतलरोधिनस्तरून्कृधा दहन्तो द्रुहिणेन वारिताः । द्रुमैश्च दत्तां तनयामवाप्य तां त्वदुक्तकालं सुखिनोऽभिरेमिरे ॥ 19.9 ॥
ततस् च ते भू-तल-रोधिनः तरून् कृधा दहन्तः द्रुहिणेन वारिताः । द्रुमैः च दत्ताम् तनयाम् अवाप्य ताम् त्वद्-उक्त-कालम् सुखिनः अभिरेमिरे ॥ १९।९ ॥
tatas ca te bhū-tala-rodhinaḥ tarūn kṛdhā dahantaḥ druhiṇena vāritāḥ . drumaiḥ ca dattām tanayām avāpya tām tvad-ukta-kālam sukhinaḥ abhiremire .. 19.9 ..
अवाप्य दक्षं च सुतं कृताध्वराः प्रचेतसो नारदलब्धयाधिया । अवापुरानन्दपदं तथाविधस्त्वमीश वातालयनाथ पाहिमाम् ॥ 19.10 ॥
अवाप्य दक्षम् च सुतम् कृत-अध्वराः प्रचेतसः नारद-लब्धया अधिया । अवापुः आनन्द-पदम् तथाविधः त्वम् ईश वातालयनाथ पाहि इमाम् ॥ १९।१० ॥
avāpya dakṣam ca sutam kṛta-adhvarāḥ pracetasaḥ nārada-labdhayā adhiyā . avāpuḥ ānanda-padam tathāvidhaḥ tvam īśa vātālayanātha pāhi imām .. 19.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In