| |
|

This overlay will guide you through the buttons:

सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटम् । गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्वलत्कौस्तुभं त्वद्रूपं वनमाल्यहारपटलश्रीवत्सदीप्रं भजे ॥ 2.1 ॥
सूर्य-स्पर्धि-किरीटम् ऊर्ध्व-तिलक-प्रोद्भासि-फाल-अन्तरम् कारुण्य-आकुल-नेत्रम् आर्द्र-हसित-उल्लासम् सु नासा-पुटम् । गण्ड-उद्यत्-मकर-आभ-कुण्डल-युगम् कण्ठ-उज्वलत्-कौस्तुभम् त्वद्-रूपम् वनमाल्य-हार-पटल-श्रीवत्स-दीप्रम् भजे ॥ २।१ ॥
sūrya-spardhi-kirīṭam ūrdhva-tilaka-prodbhāsi-phāla-antaram kāruṇya-ākula-netram ārdra-hasita-ullāsam su nāsā-puṭam . gaṇḍa-udyat-makara-ābha-kuṇḍala-yugam kaṇṭha-ujvalat-kaustubham tvad-rūpam vanamālya-hāra-paṭala-śrīvatsa-dīpram bhaje .. 2.1 ..
केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कित श्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहाम् । काञ्चित्काञ्चिनकाञ्चिलाञ्च्छितलसत्पीताम्बरालम्बिनी मालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदम् ॥ 2.2 ॥
केयूर-अङ्गद-कङ्कण-उत्तम-महा-रत्न-अङ्गुलीय-अङ्कित-श्रीमत्-बाहु-चतुष्क-सङ्ग-त-गदा-शङ्ख-अरि-पङ्केरुहाम् । काञ्चिद्-काञ्चिनकाञ्चि-लाञ्छित-लसत्-पीत-अम्बर-आलम्बिनी मा आलम्बे विमल-अम्बुज-द्युति-पदाम् मूर्तिम् तव आर्ति-छिदम् ॥ २।२ ॥
keyūra-aṅgada-kaṅkaṇa-uttama-mahā-ratna-aṅgulīya-aṅkita-śrīmat-bāhu-catuṣka-saṅga-ta-gadā-śaṅkha-ari-paṅkeruhām . kāñcid-kāñcinakāñci-lāñchita-lasat-pīta-ambara-ālambinī mā ālambe vimala-ambuja-dyuti-padām mūrtim tava ārti-chidam .. 2.2 ..
यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात् कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि । सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्cअर्यतोऽ प्याश्cअर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥ 2.3 ॥
यत् त्रैलोक्य-महीयसः अपि महितम् सम्मोहनम् मोहनात् कान्तम् कान्ति-निधानतः अपि मधुरम् माधुर्य-धुर्यात् अपि । सौन्दर्य-उत्तरतः अपि सुन्दरतरम् त्वद्-रूपम् आश्चर्यतः अ पि आश्चर्यम् भुवने न कस्य कुतुकम् पुष्णाति विष्णो विभो ॥ २।३ ॥
yat trailokya-mahīyasaḥ api mahitam sammohanam mohanāt kāntam kānti-nidhānataḥ api madhuram mādhurya-dhuryāt api . saundarya-uttarataḥ api sundarataram tvad-rūpam āścaryataḥ a pi āścaryam bhuvane na kasya kutukam puṣṇāti viṣṇo vibho .. 2.3 ..
तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य संपन्मयी सा देवी परमोत्सुका चिरतरं नाऽस्ते स्वभक्तेष्वपि । तेनास्या बत कष्टमच्युत विभो त्वद्रूपमानोज्ञक प्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥ 2.4 ॥
तत् तादृश् मधुर-आत्मकम् तव वपुः सम्प्राप्य संपद्-मयी सा देवी परम-उत्सुका चिरतरम् ना आस्ते स्व-भक्तेषु अपि । तेन अस्याः बत कष्टम् अच्युत विभो त्वद्-रूप-मानोज्ञक प्रेम-स्थैर्यम् अयात् अचापल-बलात् चापल्य-वार्त्ता उदभूत् ॥ २।४ ॥
tat tādṛś madhura-ātmakam tava vapuḥ samprāpya saṃpad-mayī sā devī parama-utsukā cirataram nā āste sva-bhakteṣu api . tena asyāḥ bata kaṣṭam acyuta vibho tvad-rūpa-mānojñaka prema-sthairyam ayāt acāpala-balāt cāpalya-vārttā udabhūt .. 2.4 ..
लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरे त्यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्ध्यानगुणानुकीर्तनरसासक्ता हि भक्ता जना स्तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥ 2.5 ॥
लक्ष्मीः तावक-रामणीयक-हृता एवा इयम् परेषु अस्थिरे त्यस्मिन् अन्यत् अपि प्रमाणम् अधुना वक्ष्यामि लक्ष्मीपते । ये त्वद्-ध्यान-गुण-अनुकीर्तन-रस-आसक्ताः हि भक्ताः जनाः स्तेषु एषा वसति स्थिरा एव दयित-प्रस्ताव-दत्त-आदरा ॥ २।५ ॥
lakṣmīḥ tāvaka-rāmaṇīyaka-hṛtā evā iyam pareṣu asthire tyasmin anyat api pramāṇam adhunā vakṣyāmi lakṣmīpate . ye tvad-dhyāna-guṇa-anukīrtana-rasa-āsaktāḥ hi bhaktāḥ janāḥ steṣu eṣā vasati sthirā eva dayita-prastāva-datta-ādarā .. 2.5 ..
एवंभूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं त्वद्रूपं परचिद्रसायनमयं चेतोहरं श्रृण्वताम् । सद्यः प्रेरयते मतिं मदयते रोमाञ्चयत्यङ्गकं व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥ 2.6 ॥
एवंभूत-मनोज्ञ-तान-वसुधा-निस्यन्द-सन्दोहनम् त्वद्-रूपम् पर-चित्-रसायन-मयम् चेतः-हरम् श्रृण्वताम् । सद्यस् प्रेरयते मतिम् मदयते रोमाञ्चयति अङ्गकम् व्यासिञ्चति अपि शीत-बाष्प-विसरैः आनन्द-मूर्च्छा-उद्भवैः ॥ २।६ ॥
evaṃbhūta-manojña-tāna-vasudhā-nisyanda-sandohanam tvad-rūpam para-cit-rasāyana-mayam cetaḥ-haram śrṛṇvatām . sadyas prerayate matim madayate romāñcayati aṅgakam vyāsiñcati api śīta-bāṣpa-visaraiḥ ānanda-mūrcchā-udbhavaiḥ .. 2.6 ..
एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत् कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते । सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका भक्तिर्निश्रममेव विश्वपुरुषैर्लभ्या रमावल्लभ ॥ 2.7 ॥
एवम्भूत-तया हि भक्ति-अभिहितः योगः स कर्म-ज्ञान-मयात् भृश-उत्तमतरः योगि-ईश्वरैः गीयते । सौन्दर्य-एक-रस-आत्मके त्वयि खलु प्रेम-प्रकर्ष-आत्मिका भक्तिः निश्रमम् एव विश्व-पुरुषैः लभ्या रमावल्लभ ॥ २।७ ॥
evambhūta-tayā hi bhakti-abhihitaḥ yogaḥ sa karma-jñāna-mayāt bhṛśa-uttamataraḥ yogi-īśvaraiḥ gīyate . saundarya-eka-rasa-ātmake tvayi khalu prema-prakarṣa-ātmikā bhaktiḥ niśramam eva viśva-puruṣaiḥ labhyā ramāvallabha .. 2.7 ..
निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः । तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥ 2.8 ॥
निष्कामम् नियत-स्वधर्म-चरणम् यत् कर्मयोग-अभिधम् तत् दूर-इति अफलम् यत् औपनिषद-ज्ञान-उपलभ्यम् पुनर् । तत्त्व-व्यक्त-तया सु दुर्गमतरम् चित्तस्य तस्मात् विभो त्वद्-प्रेम-आत्मक-भक्तिः एव सततम् स्वदीयसी श्रेयसी ॥ २।८ ॥
niṣkāmam niyata-svadharma-caraṇam yat karmayoga-abhidham tat dūra-iti aphalam yat aupaniṣada-jñāna-upalabhyam punar . tattva-vyakta-tayā su durgamataram cittasya tasmāt vibho tvad-prema-ātmaka-bhaktiḥ eva satatam svadīyasī śreyasī .. 2.8 ..
अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मलाः बोधे भक्तिपथेऽथवाप्युcइततामायान्ति किं तावता । क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुन श्cइत्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥ 2.9 ॥
अति आयास-कराणि कर्म-पटलानि आचर्य निर्यत्-मलाः बोधे भक्ति-पथे अथवा अपि उचित-ताम् आयान्ति किम् तावता । क्लिष्ट्वा तर्क-पथे परम् तव वपुः ब्रह्म-आख्यम् अन्ये पुनर् ॥ २।९ ॥
ati āyāsa-karāṇi karma-paṭalāni ācarya niryat-malāḥ bodhe bhakti-pathe athavā api ucita-tām āyānti kim tāvatā . kliṣṭvā tarka-pathe param tava vapuḥ brahma-ākhyam anye punar .. 2.9 ..
त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं सिद्ध्यन्ती विमलप्रषोधपदवीमक्लेशतस्तन्वती । सद्यः सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥ 2.10 ॥
त्वद्-भक्तिः तु कथा-रस-अमृत-ज्ञरी-निर्मज्जनेन स्वयम् सिद्धि-अन्ती विमल-प्रषोध-पदवीम् अक्लेशतः तन्वती । सद्यस् सिद्धिकरी जयति अयि विभो सा एव अस्तु मे त्वद्-पद प्रेम-प्रौढि-रस-आर्द्र-ता द्रुततरम् वातालय-अधीश्वर ॥ २।१० ॥
tvad-bhaktiḥ tu kathā-rasa-amṛta-jñarī-nirmajjanena svayam siddhi-antī vimala-praṣodha-padavīm akleśataḥ tanvatī . sadyas siddhikarī jayati ayi vibho sā eva astu me tvad-pada prema-prauḍhi-rasa-ārdra-tā drutataram vātālaya-adhīśvara .. 2.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In