| |
|

This overlay will guide you through the buttons:

मध्योद्भवओ भुव इळावृतनाम्नि वर्षेगौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मन्त्रनुतिभिः सुमुपास्यमानंसङ्कर्षणात्मकमधीश्वर संश्रये त्वाम् ॥ 21.1 ॥
इळावृत-नाम्नि वर्षेगौरी-प्रधान-वनिता-जन-मात्र-भाजि । शर्वेण मन्त्र-नुतिभिः सुम् उपास्यमानम् सङ्कर्षण-आत्मकम् अधीश्वर संश्रये त्वाम् ॥ २१।१ ॥
il̤āvṛta-nāmni varṣegaurī-pradhāna-vanitā-jana-mātra-bhāji . śarveṇa mantra-nutibhiḥ sum upāsyamānam saṅkarṣaṇa-ātmakam adhīśvara saṃśraye tvām .. 21.1 ..
भद्राश्वनामक इळावृतपूर्ववर्षेभद्रश्रवोभिरृषिभिः परिणूयमानम् । कल्पान्तगूढनिगमोद्धरणप्रवीणंध्यायामि देव हयशीर्षतनुं भवन्तम् ॥ 21.2 ॥
भद्राश्व-नामके इळावृत-पूर्व-वर्षे भद्रश्रवोभिः ऋषिभिः परिणूयमानम् । कल्पान्त-गूढ-निगम-उद्धरण-प्रवीणम् ध्यायामि देव हयशीर्ष-तनुम् भवन्तम् ॥ २१।२ ॥
bhadrāśva-nāmake il̤āvṛta-pūrva-varṣe bhadraśravobhiḥ ṛṣibhiḥ pariṇūyamānam . kalpānta-gūḍha-nigama-uddharaṇa-pravīṇam dhyāyāmi deva hayaśīrṣa-tanum bhavantam .. 21.2 ..
ध्यायामि दक्षिणगते हरिवर्षवर्षेप्राह्लादमुख्यपुरुषैः परिषेव्यमाणम् । उत्तुङ्गशान्तधवलाकृतिमेकशुद्धज्ञानप्रदं नरहरिं भगवन् भवन्तम् ॥ 21.3 ॥
ध्यायामि दक्षिण-गते हरिवर्ष-वर्षेप्राह्लाद-मुख्य-पुरुषैः परिषेव्यमाणम् । उत्तुङ्ग-शान्त-धवल-आकृतिम् एक-शुद्ध-ज्ञान-प्रदम् नरहरिम् भगवन् भवन्तम् ॥ २१।३ ॥
dhyāyāmi dakṣiṇa-gate harivarṣa-varṣeprāhlāda-mukhya-puruṣaiḥ pariṣevyamāṇam . uttuṅga-śānta-dhavala-ākṛtim eka-śuddha-jñāna-pradam naraharim bhagavan bhavantam .. 21.3 ..
वर्षे प्रतीचि ललितात्मनि केतुमालेलीलाविशेषललितस्मितशोभनाङ्गम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं ॥ 21.4 ॥
वर्षे प्रतीचि ललित-आत्मनि । लक्ष्म्या प्रजापति-सुतैः च निषेव्यमाणम् ॥ २१।४ ॥
varṣe pratīci lalita-ātmani . lakṣmyā prajāpati-sutaiḥ ca niṣevyamāṇam .. 21.4 ..
रम्येह्युदीचि खलु रम्यकनाम्नि वर्षेतद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भान्तंमत्स्याकृतिं भुवननाथ भजे भवन्तम् ॥ 21.5 ॥
रम्या इहि उदीचि खलु रम्यक-नाम्नि वर्षेत वर्षनाथ-मनु-वर्य-सपर्यमाणम् । भक्त-एक-वत्सलम् अमत्सर-हृत्सु भान्तम् मत्स्य-आकृतिम् भुवन-नाथ भजे भवन्तम् ॥ २१।५ ॥
ramyā ihi udīci khalu ramyaka-nāmni varṣeta varṣanātha-manu-varya-saparyamāṇam . bhakta-eka-vatsalam amatsara-hṛtsu bhāntam matsya-ākṛtim bhuvana-nātha bhaje bhavantam .. 21.5 ..
वर्षं हिरण्मयसमाह्वयमौत्तराहमासीनमद्रिधृतिकर्मठकामठाङ्गम् । संसेवते पितृगणप्रवरोऽर्यमायंतं त्वां भजामि भगवन् परचिन्मयात्मन् ॥ 21.6 ॥
वर्षम् हिरण्मय-समाह्वयम् औत्तराहम् आसीनम् अद्रि-धृति-कर्मठ-कामठ-अङ्गम् । संसेवते पितृ-गण-प्रवरः अर्यमायंतम् त्वाम् भजामि भगवन् पर-चित्-मय-आत्मन् ॥ २१।६ ॥
varṣam hiraṇmaya-samāhvayam auttarāham āsīnam adri-dhṛti-karmaṭha-kāmaṭha-aṅgam . saṃsevate pitṛ-gaṇa-pravaraḥ aryamāyaṃtam tvām bhajāmi bhagavan para-cit-maya-ātman .. 21.6 ..
किं चोत्तरेषु कुरुषु प्रियया धरण्यासंसेवितो महितमन्त्रनुतिप्रभेदैः । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मात्वं पाहि विज्ञनुतयज्ञवराहमूर्ते ॥ 21.7 ॥
किम् च उत्तरेषु कुरुषु प्रियया धरण्या अ संसेवितः महित-मन्त्र-नुति-प्रभेदैः । दंष्ट्र-अग्र-घृष्ट-घन-पृष्ठ-गरिष्ठ-वर्ष्मा त्वम् पाहि विज्ञ-नुत-यज्ञवराह-मूर्ते ॥ २१।७ ॥
kim ca uttareṣu kuruṣu priyayā dharaṇyā a saṃsevitaḥ mahita-mantra-nuti-prabhedaiḥ . daṃṣṭra-agra-ghṛṣṭa-ghana-pṛṣṭha-gariṣṭha-varṣmā tvam pāhi vijña-nuta-yajñavarāha-mūrte .. 21.7 ..
याम्यां दिशं भजति किंपुरुषाख्यवर्षेसंसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशालीरामात्मकः परिलसन्परिपाहि विष्णो ॥ 21.8 ॥
याम्याम् दिशम् भजति किंपुरुष-आख्य-वर्षे संसेवितः हनुमता दृढ-भक्ति-भाजा । सीता-अभिराम-परम-अद्भुत-रूप-शाली-राम-आत्मकः परिलसन् परिपाहि विष्णो ॥ २१।८ ॥
yāmyām diśam bhajati kiṃpuruṣa-ākhya-varṣe saṃsevitaḥ hanumatā dṛḍha-bhakti-bhājā . sītā-abhirāma-parama-adbhuta-rūpa-śālī-rāma-ātmakaḥ parilasan paripāhi viṣṇo .. 21.8 ..
श्रीनारदेन सह भारतखण्डमुख्यैस्त्वं सांख्ययोगनुतिभिः समुपास्यमानः । आकल्पकालमिह साधुजनाभिरक्षीनारायणो नरसखः परिपाहि भूमन् ॥ 21.9 ॥
श्री-नारदेन सह भारतखण्ड-मुख्यैः त्वम् सांख्य-योग-नुतिभिः समुपास्यमानः । आकल्प-कालम् इह साधु-जन-अभिरक्षी-नारायणः नरसखः परिपाहि भूमन् ॥ २१।९ ॥
śrī-nāradena saha bhāratakhaṇḍa-mukhyaiḥ tvam sāṃkhya-yoga-nutibhiḥ samupāsyamānaḥ . ākalpa-kālam iha sādhu-jana-abhirakṣī-nārāyaṇaḥ narasakhaḥ paripāhi bhūman .. 21.9 ..
प्लाक्षेऽर्करूपमयि शाल्मल इन्दुरूपंद्वीये भजन्ति कुशनामनि वह्निरूपम् । क्रौञ्चेऽम्बुरूपमथ वायुमयं च शाकेत्वां ब्रह्मरूपमयि पुष्करनाम्नि लोकाः ॥ 21.10 ॥
प्लाक्षे अर्क-रूप-मयि शाल्मले भजन्ति कुश-नामनि वह्नि-रूपम् । क्रौञ्चे अम्बु-रूपम् अथ वायु-मयम् च ब्रह्म-रूप-मयि पुष्कर-नाम्नि लोकाः ॥ २१।१० ॥
plākṣe arka-rūpa-mayi śālmale bhajanti kuśa-nāmani vahni-rūpam . krauñce ambu-rūpam atha vāyu-mayam ca brahma-rūpa-mayi puṣkara-nāmni lokāḥ .. 21.10 ..
सर्वैर्ध्रुवीदिभिरुडुप्रकरैर्ग्रहैश्चपुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । त्वं शिंशुमारवपुषा महतामुपास्यःसन्ध्यासु रुन्धि नरकं मम सिन्धुशायैन् ॥ 21.11 ॥
सर्वैः ध्रुवी-दिभिः उडु-प्रकरैः ग्रहैः च पुच्छ-आदिकेषु अवयवेषु अभिकल्प्यमानैः । त्वम् शिंशुमार-वपुषा महताम् उपास्यः सन्ध्यासु रुन्धि नरकम् मम ॥ २१।११ ॥
sarvaiḥ dhruvī-dibhiḥ uḍu-prakaraiḥ grahaiḥ ca puccha-ādikeṣu avayaveṣu abhikalpyamānaiḥ . tvam śiṃśumāra-vapuṣā mahatām upāsyaḥ sandhyāsu rundhi narakam mama .. 21.11 ..
पाताळमूलभुवि शेषतनुं भवन्तंलोकैककुण्डलविराजिसहस्रशीर्षम् । नीलाम्बरं धृतहलं भुजगाङ्गनाभिर्जुष्टं भजे हर गदान्गुरुगेहनाथ ॥ 21.12 ॥
पाताळ-मूल-भुवि शेष-तनुम् भवन्तम् लोक-एक-कुण्डल-विराजि-सहस्र-शीर्षम् । नील-अम्बरम् धृत-हलम् भुजग-अङ्गनाभिः जुष्टम् भजे हर गदान् गुरु-गेह-नाथ ॥ २१।१२ ॥
pātāl̤a-mūla-bhuvi śeṣa-tanum bhavantam loka-eka-kuṇḍala-virāji-sahasra-śīrṣam . nīla-ambaram dhṛta-halam bhujaga-aṅganābhiḥ juṣṭam bhaje hara gadān guru-geha-nātha .. 21.12 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In