| |
|

This overlay will guide you through the buttons:

हिरण्याक्षे पोत्रीप्रवरवपुषा देव भवताहते शोकक्रोधग्लपितघृतिरेतस्य सहजः । हिरण्यप्रारम्भः कशिपुरमररातिसदसिप्रतिज्ञामातेने तव किल वधार्थं मुररिपो ॥ 24.1 ॥
हिरण्याक्षे पोत्री-प्रवर-वपुषा देव भवता आहते शोक-क्रोध-ग्लपित-घृतिः एतस्य सहजः । हिरण्य-प्रारम्भः कशिपुः अमर-राति-सदसि प्रतिज्ञाम् आतेने तव किल वध-अर्थम् मुररिपो ॥ २४।१ ॥
hiraṇyākṣe potrī-pravara-vapuṣā deva bhavatā āhate śoka-krodha-glapita-ghṛtiḥ etasya sahajaḥ . hiraṇya-prārambhaḥ kaśipuḥ amara-rāti-sadasi pratijñām ātene tava kila vadha-artham muraripo .. 24.1 ..
विधातारं घोरं स खलु तपसित्वा नचिरतःपुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनम् । वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदंपरिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥ 24.2 ॥
विधातारम् घोरम् स खलु तपसित्वा नचिर-तःपुरः साक्षात्कुर्वन् सुर-नर-मृग-आद्यैः अ निधनम् । वरम् लब्ध्वा दृप्तः जगत् इह भवत्-नायकम् इदम् परिक्षुन्दन् इन्द्रात् अहरत दिवम् त्वाम् अगणयन् ॥ २४।२ ॥
vidhātāram ghoram sa khalu tapasitvā nacira-taḥpuraḥ sākṣātkurvan sura-nara-mṛga-ādyaiḥ a nidhanam . varam labdhvā dṛptaḥ jagat iha bhavat-nāyakam idam parikṣundan indrāt aharata divam tvām agaṇayan .. 24.2 ..
निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा । नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्भिया यातं मत्वा स खलु जितकाशी निववृते ॥ 24.3 ॥
निहन्तुम् त्वाम् भूयस् तव पदम् अवाप्तस्य च रिपोः बहिस् दृष्टेः अन्तर् दधिथ हृदये सूक्ष्म-वपुषा । नदन् उच्चैस् तत्र अपि अखिल-भुवन-अन्ते च मृगयन् भिया यातम् मत्वा स खलु जित-काशी निववृते ॥ २४।३ ॥
nihantum tvām bhūyas tava padam avāptasya ca ripoḥ bahis dṛṣṭeḥ antar dadhitha hṛdaye sūkṣma-vapuṣā . nadan uccais tatra api akhila-bhuvana-ante ca mṛgayan bhiyā yātam matvā sa khalu jita-kāśī nivavṛte .. 24.3 ..
ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौमुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा । स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिंगतस्त्वद्भक्तानां वरद परमोदाहरणताम् ॥ 24.4 ॥
ततस् अस्य प्रह्लादः समजनि सुतः गर्भ-वस-तौमुनेः वीणा-पाणेः अधिगत-भबत्-भक्ति-महिमा । स वै जात्या दैत्यः शिशुः अपि समेत्य त्वयि रतिंगतः त्वद्-भक्तानाम् वर-द परम-उदाहरणताम् ॥ २४।४ ॥
tatas asya prahlādaḥ samajani sutaḥ garbha-vasa-taumuneḥ vīṇā-pāṇeḥ adhigata-bhabat-bhakti-mahimā . sa vai jātyā daityaḥ śiśuḥ api sametya tvayi ratiṃgataḥ tvad-bhaktānām vara-da parama-udāharaṇatām .. 24.4 ..
सुरारीणां हास्यं तव चरणदास्यं निजसुतेस दृष्ट्वा दुष्टात्मा गुरुभिरशिशिक्षच्चिरममुम् । गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमित्यपाकुर्वन् सर्वं तव चरणभक्त्यैव ववृधे ॥ 24.5 ॥
सुर-अरीणाम् हास्यम् तव चरण-दास्यम् निज-सुत-इस दृष्ट्वा दुष्ट-आत्मा गुरुभिः अशिशिक्षत् चिरम् अमुम् । गुरु-प्रोक्तम् च असौ इदम् इदम् अभद्राय दृढम् इति अपाकुर्वन् सर्वम् तव चरण-भक्त्या एव ववृधे ॥ २४।५ ॥
sura-arīṇām hāsyam tava caraṇa-dāsyam nija-suta-isa dṛṣṭvā duṣṭa-ātmā gurubhiḥ aśiśikṣat ciram amum . guru-proktam ca asau idam idam abhadrāya dṛḍham iti apākurvan sarvam tava caraṇa-bhaktyā eva vavṛdhe .. 24.5 ..
अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनयेभवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः । गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन्वधिपायानस्मिन् व्यतत्नुत भवत्पादशरणे ॥ 24.6 ॥
अधीतेषु श्रेष्ठम् किम् इति परिपृष्टे अथ तनये भवत्-भक्तिम् वर्याम् अभिगदति पर्याकुल-धृतिः । गुरुभ्यः रोषित्वा सहज-मतिः अस्य उति अभिविदन् वधिपायान् अस्मिन् व्यतत्नुत भवत्-पाद-शरणे ॥ २४।६ ॥
adhīteṣu śreṣṭham kim iti paripṛṣṭe atha tanaye bhavat-bhaktim varyām abhigadati paryākula-dhṛtiḥ . gurubhyaḥ roṣitvā sahaja-matiḥ asya uti abhividan vadhipāyān asmin vyatatnuta bhavat-pāda-śaraṇe .. 24.6 ..
स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः । गिरीन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभोत्वयि न्यस्तात्मत्वात् किमपि न निपीडामभजत ॥ 24.7 ॥
स शूलैः आविद्धः सु बहु मथितः दिग्गज-गणैः महा-सर्पैः दष्टः अपि अनशन-गर-आहार-विधुतः । गिरीन्द्र-अवक्षिप्तः अपि अहह परमात्मन् अयि विभो त्वयि न्यस्त-आत्मत्वात् किम् अपि न निपीडाम् अभजत ॥ २४।७ ॥
sa śūlaiḥ āviddhaḥ su bahu mathitaḥ diggaja-gaṇaiḥ mahā-sarpaiḥ daṣṭaḥ api anaśana-gara-āhāra-vidhutaḥ . girīndra-avakṣiptaḥ api ahaha paramātman ayi vibho tvayi nyasta-ātmatvāt kim api na nipīḍām abhajata .. 24.7 ..
ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनकोगुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् । गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान्भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥ 24.8 ॥
ततस् शङ्का-आविष्टः स पुनर् अति दुष्टः अस्य जनकः गुरु-उक्त्या तत् गेह किल वरुण-पाशैः तम् अरुणत् । गुरोः च अ सान्निध्ये स पुनर् अनुगान् दैत्य-तनयान् भवत्-भक्तेः तत्त्वम् परम् अपि विज्ञानम् अशिषत् ॥ २४।८ ॥
tatas śaṅkā-āviṣṭaḥ sa punar ati duṣṭaḥ asya janakaḥ guru-uktyā tat geha kila varuṇa-pāśaiḥ tam aruṇat . guroḥ ca a sānnidhye sa punar anugān daitya-tanayān bhavat-bhakteḥ tattvam param api vijñānam aśiṣat .. 24.8 ..
पिता षृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरंरुषान्धः प्राहैनं कुलहतक कस्ते बलमिति । बलं मे वैकुण्ठस्तव च जगतां चापि स बलंस एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥ 24.9 ॥
पिता षृण्वन् बाल-प्रकरम् अखिलम् त्वद्-स्तुति-परंरुषा अन्धः प्राह एनम् कुल-हतक कः ते बलम् इति । बलम् मे वैकुण्ठः तव च जगताम् च अपि स बलंसः एव त्रैलोक्यम् सकलम् इति धीरः अयम् अगदीत् ॥ २४।९ ॥
pitā ṣṛṇvan bāla-prakaram akhilam tvad-stuti-paraṃruṣā andhaḥ prāha enam kula-hataka kaḥ te balam iti . balam me vaikuṇṭhaḥ tava ca jagatām ca api sa balaṃsaḥ eva trailokyam sakalam iti dhīraḥ ayam agadīt .. 24.9 ..
अरे क्वासौ क्वासौ सकलजगदात्मा हरिरितिप्रभिन्ते स्म स्तम्भं चलितकरवाळो दितिसुतः । अतः पश्चाद्विष्णो न हि वदितुमीशोऽस्मि सहसाकृपात्मन् विश्वात्मन् पवनपुरवासिन् मृडय माम् ॥ 24.10 ॥
अरे क्व असौ क्व असौ सकल-जगत्-आत्मा हरिः इति स्म स्तम्भम् चलित-करवाळः दितिसुतः । अतस् पश्चात् विष्णो न हि वदितुम् ईशः अस्मि सहसा कृपा-आत्मन् विश्वात्मन् पवनपुर-वासिन् मृडय माम् ॥ २४।१० ॥
are kva asau kva asau sakala-jagat-ātmā hariḥ iti sma stambham calita-karavāl̤aḥ ditisutaḥ . atas paścāt viṣṇo na hi vaditum īśaḥ asmi sahasā kṛpā-ātman viśvātman pavanapura-vāsin mṛḍaya mām .. 24.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In