| |
|

This overlay will guide you through the buttons:

स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णयन्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः । श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतंकम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टरात् ॥ 25.1 ॥
स्तम्भे घट्टयतः हिरण्यकशिपोः कर्णौ समाचूर्णयन् आधूर्णत्-जगत्-अण्द-कुण्ड-कुहरः घोरः तव अभूत् द्रवः । श्रुत्वा यम् किल दैत्य-राज-हृदये पूर्वम् कदापि अश्रुतंकम्पः कश्चन सम्पपात् चलितः अपि अम्भोज-भूः विष्टरात् ॥ २५।१ ॥
stambhe ghaṭṭayataḥ hiraṇyakaśipoḥ karṇau samācūrṇayan ādhūrṇat-jagat-aṇda-kuṇḍa-kuharaḥ ghoraḥ tava abhūt dravaḥ . śrutvā yam kila daitya-rāja-hṛdaye pūrvam kadāpi aśrutaṃkampaḥ kaścana sampapāt calitaḥ api ambhoja-bhūḥ viṣṭarāt .. 25.1 ..
दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतःसम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो । किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरेविस्फूर्जद्धवलोग्ररोमविकसद्वर्ष्मा समाजृम्भथाः ॥ 25.2 ॥
दैत्ये दिक्षु विसृष्ट-चक्षुषि महा-संराम्भिणी स्तम्भतः सम्भूतम् न मृग-आत्मकम् न मनुज-आकारम् वपुः ते विभो । किम् किम् भीषणम् एतत् अद्भुतम् इति व्युद्भ्रान्त-चित्ते असुरे विस्फूर्जत्-धवल-उग्र-रोम-विकसत्-वर्ष्मा समाजृम्भथाः ॥ २५।२ ॥
daitye dikṣu visṛṣṭa-cakṣuṣi mahā-saṃrāmbhiṇī stambhataḥ sambhūtam na mṛga-ātmakam na manuja-ākāram vapuḥ te vibho . kim kim bhīṣaṇam etat adbhutam iti vyudbhrānta-citte asure visphūrjat-dhavala-ugra-roma-vikasat-varṣmā samājṛmbhathāḥ .. 25.2 ..
तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसरप्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः । व्यात्तव्याप्तमहादरीसखमुखं खङ्गोग्रवद्गन्महाजिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरम् ॥ 25.3 ॥
तप्त-स्वर्ण-सवर्ण-घूर्णत्-अति रूक्ष-अक्षम् सटा-केसर-प्रोत्कम्प-प्रनिकुम्बित-अम्बरम् अहो जीयात् तव इदम् वपुः । व्यात्त-व्याप्त-महा-दरीसख-मुखम् खङ्ग-उग्र-वद्गत्-महा-जिह्वा-निर्गम-दृश्यमान-सु महा-दंष्ट्रा-युग-उड्डामरम् ॥ २५।३ ॥
tapta-svarṇa-savarṇa-ghūrṇat-ati rūkṣa-akṣam saṭā-kesara-protkampa-pranikumbita-ambaram aho jīyāt tava idam vapuḥ . vyātta-vyāpta-mahā-darīsakha-mukham khaṅga-ugra-vadgat-mahā-jihvā-nirgama-dṛśyamāna-su mahā-daṃṣṭrā-yuga-uḍḍāmaram .. 25.3 ..
उत्सर्पद्वलिभङ्गभीषुणहनुं ह्रस्वस्थवीयस्तरग्रीवं पीवरदोश्शतोद्गतनखकॄरांशुदूरोद्बणम् । व्योमोल्लंघिघनाघनोपमघनप्रध्वाननिर्धावितस्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥ 25.4 ॥
उत्सर्पत्-वलि-भङ्ग-भीषुण-हनुम् ह्रस्व-स्थवीयः-तर-ग्रीवम् पीवर-दोस्-शत-उद्गत-नख-कॄर-अंशु-दूर-उद्बणम् । व्योम-उल्लंघि-घनाघन-उपम-घन-प्रध्वान-निर्धावित-स्पर्धालु-प्रकरम् नमामि भवतः तत् नारसिंहम् वपुः ॥ २५।४ ॥
utsarpat-vali-bhaṅga-bhīṣuṇa-hanum hrasva-sthavīyaḥ-tara-grīvam pīvara-dos-śata-udgata-nakha-kṝra-aṃśu-dūra-udbaṇam . vyoma-ullaṃghi-ghanāghana-upama-ghana-pradhvāna-nirdhāvita-spardhālu-prakaram namāmi bhavataḥ tat nārasiṃham vapuḥ .. 25.4 ..
नूनं विष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणंदैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्याममुम् । वीरो निर्गळितोऽथ खड्गफलकौ गृह्णन्विचित्रश्रमान्व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥ 25.5 ॥
नूनम् विष्णुः अयम् निहन्मि अमुम् इति भ्राम्यत्-गदा-भीषणम् दैत्य-इन्द्रम् समुपाद्रवन्तम् अधृथाः दोर्भ्याम् पृथुभ्याम् अमुम् । वीरः निर्गळितः अथ खड्ग-फलकौ गृह्णन् विचित्र-श्रमान् व्यावृण्वन् पुनर् आपपात भुवन-ग्रास-उद्यतम् त्वाम् अहो ॥ २५।५ ॥
nūnam viṣṇuḥ ayam nihanmi amum iti bhrāmyat-gadā-bhīṣaṇam daitya-indram samupādravantam adhṛthāḥ dorbhyām pṛthubhyām amum . vīraḥ nirgal̤itaḥ atha khaḍga-phalakau gṛhṇan vicitra-śramān vyāvṛṇvan punar āpapāta bhuvana-grāsa-udyatam tvām aho .. 25.5 ..
भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि । निर्भिन्दन्नधिगर्भनिर्भरगळद्रक्ताम्बु बद्धोत्सवंपायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥ 25.6 ॥
भ्राम्यन्तम् दितिहा-अधमम् पुनर् अपि प्रोद्गृह्य दोर्भ्याम् जवात् द्वारे अथ ऊरु-युगे निपात्य नखरान् व्युत्न्खाय वक्षः-भुवि । निर्भिन्दन् अधि गर्भ-निर्भर-गळत्-रक्त-अम्बु बद्ध-उत्सवम् पायम् बहु-जगत्-संहारि-सिंह-आरवान् ॥ २५।६ ॥
bhrāmyantam ditihā-adhamam punar api prodgṛhya dorbhyām javāt dvāre atha ūru-yuge nipātya nakharān vyutnkhāya vakṣaḥ-bhuvi . nirbhindan adhi garbha-nirbhara-gal̤at-rakta-ambu baddha-utsavam pāyam bahu-jagat-saṃhāri-siṃha-āravān .. 25.6 ..
त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणिप्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि । भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करंप्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥ 25.7 ॥
त्यक्त्वा तम् हतम् आशु रक्त-लहरी-सिक्त-उन्नमत्-वर्ष्मणि प्रत्युत्पत्य समस्त-दैत्य-पटलीम् च आखाद्यमाने त्वयि । भ्राम्यत्-भूमि विकम्पित-अम्बुधि-कुलम् व्यालोल-शैल-उत्करम् प्रोत्सर्पत् ख-चरम् चराचरम् अहो दुःस्थाम् अवस्थाम् ॥ २५।७ ॥
tyaktvā tam hatam āśu rakta-laharī-sikta-unnamat-varṣmaṇi pratyutpatya samasta-daitya-paṭalīm ca ākhādyamāne tvayi . bhrāmyat-bhūmi vikampita-ambudhi-kulam vyālola-śaila-utkaram protsarpat kha-caram carācaram aho duḥsthām avasthām .. 25.7 ..
तावन्मांसवपाकराळवपुषं घोरान्त्रमालाधरंत्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवम् । अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवःसर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥ 25.8 ॥
तावत् मांस-वपा-कराल-वपुषम् घोर-अन्त्र-माला-धरम् त्वाम् मध्येसभम् इद्ध-रोष-मुषितम् दुर्वार-गुरु-आरवम् । अभ्येतुम् न शशक कः अपि भुवने दूरे स्थिताः भीरवः सर्वे शर्व-विरिञ्च-वासव-मुखाः प्रत्येकम् अस्तोषत ॥ २५।८ ॥
tāvat māṃsa-vapā-karāla-vapuṣam ghora-antra-mālā-dharam tvām madhyesabham iddha-roṣa-muṣitam durvāra-guru-āravam . abhyetum na śaśaka kaḥ api bhuvane dūre sthitāḥ bhīravaḥ sarve śarva-viriñca-vāsava-mukhāḥ pratyekam astoṣata .. 25.8 ..
भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालकेप्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः । शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायतस्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥ 25.9 ॥
भूयस् अपि अक्षत-रोष-धाम्नि भवति ब्रह्म-आज्ञया पदयोः नमति अपभये कारुण्य-भार-आकुलः । शान्तः त्वम् करम् अस्य मूर्ध्नि समधाः स्तोत्रैः अथ उद्नायतः तस्य अ काम-धियः अपि तेनिथ वरम् लोकाय च अनुग्रहम् ॥ २५।९ ॥
bhūyas api akṣata-roṣa-dhāmni bhavati brahma-ājñayā padayoḥ namati apabhaye kāruṇya-bhāra-ākulaḥ . śāntaḥ tvam karam asya mūrdhni samadhāḥ stotraiḥ atha udnāyataḥ tasya a kāma-dhiyaḥ api tenitha varam lokāya ca anugraham .. 25.9 ..
एवं नाटितरौद्रचेष्टित विभो श्रीतापनीयाभिधश्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते । तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लंघयेत्प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात्पाहि माम् ॥ 25.10 ॥
एवम् नाटित-रौद्र-चेष्टित विभो श्री-तापनीय-अभिध-श्रुति-अन्त-स्फुट-गीत-सर्व-महिमन् अत्यन्त-शुद्ध-आकृते । तत् तादृश् निखिल-उत्तरम् पुनर् अहो कः त्वाम् परः लंघयेत् प्रह्लाद-प्रिय हे मरुत्-पुर-पते सर्व-आमयात् पाहि माम् ॥ २५।१० ॥
evam nāṭita-raudra-ceṣṭita vibho śrī-tāpanīya-abhidha-śruti-anta-sphuṭa-gīta-sarva-mahiman atyanta-śuddha-ākṛte . tat tādṛś nikhila-uttaram punar aho kaḥ tvām paraḥ laṃghayet prahlāda-priya he marut-pura-pate sarva-āmayāt pāhi mām .. 25.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In