| |
|

This overlay will guide you through the buttons:

इन्द्रद्युम्नः पाण्ड्यखण्डाधिराजस्त्वद्भक्तात्मा चन्दनाद्रौ कदाचित् । त्वत्सेवायां मग्नधीरालुलोके नैवागस्त्यं प्राप्तमातिथ्यकामम् ॥ 26.1 ॥
इन्द्रद्युम्नः पाण्ड्यखण्ड-अधिराजः त्वद्-भक्त-आत्मा चन्दनाद्रौ कदाचिद् । त्वद्-सेवायाम् मग्न-धीर-आलुलोके ना एव अगस्त्यम् प्राप्तम् आतिथ्य-कामम् ॥ २६।१ ॥
indradyumnaḥ pāṇḍyakhaṇḍa-adhirājaḥ tvad-bhakta-ātmā candanādrau kadācid . tvad-sevāyām magna-dhīra-āluloke nā eva agastyam prāptam ātithya-kāmam .. 26.1 ..
कुम्भोद्भूतिस्संभृतक्रोधभारः स्तब्धात्मा त्वं हस्तिभूयं भजेति । शप्त्वाथैनं प्रत्यगात्सोऽपि लेभे हस्तीन्द्रत्वं त्वत्स्मृतिव्यक्तिधन्यम् ॥ 26.2 ॥
कुम्भ-उद्भूतिः संभृत-क्रोध-भारः स्तब्ध-आत्मा त्वम् हस्ति-भूयम् भज इति । शप्त्वा अथ एनम् प्रत्यगात् सः अपि लेभे हस्ति-इन्द्र-त्वम् त्वद्-स्मृति-व्यक्ति-धन्यम् ॥ २६।२ ॥
kumbha-udbhūtiḥ saṃbhṛta-krodha-bhāraḥ stabdha-ātmā tvam hasti-bhūyam bhaja iti . śaptvā atha enam pratyagāt saḥ api lebhe hasti-indra-tvam tvad-smṛti-vyakti-dhanyam .. 26.2 ..
दुग्धाम्भोधेर्मध्यभाजि त्रिकूटे क्रीडञ्छैले यूथपोऽयं वशाभिः । सर्वान् जन्तूनत्यवर्तिष्ट शक्त्या त्वद्भक्तानां कुत्र नोत्कर्षलाभः ॥ 26.3 ॥
दुग्ध-अम्भोधेः मध्य-भाजि त्रिकूटे क्रीडन् शैले यूथपः अयम् वशाभिः । सर्वान् जन्तून् अत्यवर्तिष्ट शक्त्या त्वद्-भक्तानाम् कुत्र ना उत्कर्ष-लाभः ॥ २६।३ ॥
dugdha-ambhodheḥ madhya-bhāji trikūṭe krīḍan śaile yūthapaḥ ayam vaśābhiḥ . sarvān jantūn atyavartiṣṭa śaktyā tvad-bhaktānām kutra nā utkarṣa-lābhaḥ .. 26.3 ..
स्वेन स्थेम्ना दिव्यदेहत्वशक्त्या सोऽयं खेदानप्रजानन् कदाचित् । शैलप्रान्ते घर्मतान्तः सरस्यां यूथैः सार्धं त्वत्प्रणुन्नोऽभिरेमे ॥ 26.4 ॥
स्वेन स्थेम्ना दिव्य-देह-त्व-शक्त्या सः अयम् खेदान् अ प्रजानन् कदाचिद् । शैल-प्रान्ते घर्म-तान्तः सरस्याम् यूथैः सार्धम् त्वद्-प्रणुन्नः अभिरेमे ॥ २६।४ ॥
svena sthemnā divya-deha-tva-śaktyā saḥ ayam khedān a prajānan kadācid . śaila-prānte gharma-tāntaḥ sarasyām yūthaiḥ sārdham tvad-praṇunnaḥ abhireme .. 26.4 ..
हूहूस्तावद्देवलस्यापि शापाद् ग्राहीभूतस्तज्जले वर्तमानः । जग्राहैनं हस्तिनं पाददेशे शान्त्यर्थं हि श्रान्तिदोऽसि स्वकानाम् ॥ 26.5 ॥
हूहूः तावत् देवलस्य अपि शापात् ग्राहीभूतः तद्-जले वर्तमानः । जग्राह एनम् हस्तिनम् पाद-देशे शान्ति-अर्थम् हि श्रान्ति-दः असि स्वकानाम् ॥ २६।५ ॥
hūhūḥ tāvat devalasya api śāpāt grāhībhūtaḥ tad-jale vartamānaḥ . jagrāha enam hastinam pāda-deśe śānti-artham hi śrānti-daḥ asi svakānām .. 26.5 ..
त्वत्सेवाया वैभवाद्दुर्निरोधं युध्यन्तं तं वत्सराणां सहस्रम् । प्राप्ते काले त्वत्पदैकाग्र्यसिद्ध्यै नक्राक्रान्तं हस्तिवीरं व्यधास्त्वम् ॥ 26.6 ॥
त्वद्-सेवायाः वैभवात् दुर्निरोधम् युध्यन्तम् तम् वत्सराणाम् सहस्रम् । प्राप्ते काले त्वद्-पद-ऐकाग्र्य-सिद्ध्यै नक्र-आक्रान्तम् हस्ति-वीरम् व्यधाः त्वम् ॥ २६।६ ॥
tvad-sevāyāḥ vaibhavāt durnirodham yudhyantam tam vatsarāṇām sahasram . prāpte kāle tvad-pada-aikāgrya-siddhyai nakra-ākrāntam hasti-vīram vyadhāḥ tvam .. 26.6 ..
आर्तिव्यक्तप्राक्तनज्ञानभक्तिः शुण्डोत्क्षिप्तैः पुण्डरीकैस्समर्चन् । पूर्वाभ्यस्तं निर्विशेषात्मनिष्ठं स्तोत्रश्रेष्ठं सोऽन्वगादीत् परात्मन् ॥ 26.7 ॥
आर्ति-व्यक्त-प्राक्तन-ज्ञान-भक्तिः शुण्ड-उत्क्षिप्तैः पुण्डरीकैः समर्चन् । पूर्व-अभ्यस्तम् निर्विशेष-आत्म-निष्ठम् स्तोत्र-श्रेष्ठम् सः अन्वगादीत् परात्मन् ॥ २६।७ ॥
ārti-vyakta-prāktana-jñāna-bhaktiḥ śuṇḍa-utkṣiptaiḥ puṇḍarīkaiḥ samarcan . pūrva-abhyastam nirviśeṣa-ātma-niṣṭham stotra-śreṣṭham saḥ anvagādīt parātman .. 26.7 ..
श्रुत्वा स्तोत्रं निर्गुणस्थं समस्तं ब्रह्मेशाद्यैर्नाहमित्यप्रयाते । सर्वात्मा त्वं भूरिकारुण्यवेगात् तार्क्ष्यारूढः प्रेक्षितोऽभूः पुरस्तात् ॥ 26.8 ॥
श्रुत्वा स्तोत्रम् निर्गुण-स्थम् समस्तम् ब्रह्म-ईश-आद्यैः न अहम् इति अप्रयाते । सर्व-आत्मा त्वम् भूरि-कारुण्य-वेगात् तार्क्ष्य-आरूढः प्रेक्षितः अभूः पुरस्तात् ॥ २६।८ ॥
śrutvā stotram nirguṇa-stham samastam brahma-īśa-ādyaiḥ na aham iti aprayāte . sarva-ātmā tvam bhūri-kāruṇya-vegāt tārkṣya-ārūḍhaḥ prekṣitaḥ abhūḥ purastāt .. 26.8 ..
हस्तीन्द्रं तं हस्तपद्मेन धृत्वा चक्रेण त्वं नक्रवर्यं व्यदारीः । गन्धर्वेऽस्मिन्मुक्तशापे स हस्ती त्वत्सारूप्यं प्राप्य देदीप्यते स्म ॥ 26.9 ॥
हस्ति-इन्द्रम् तम् हस्त-पद्मेन धृत्वा चक्रेण त्वम् नक्र-वर्यम् व्यदारीः । गन्धर्वे अस्मिन् मुक्त-शापे स हस्ती त्वद्-सारूप्यम् प्राप्य देदीप्यते स्म ॥ २६।९ ॥
hasti-indram tam hasta-padmena dhṛtvā cakreṇa tvam nakra-varyam vyadārīḥ . gandharve asmin mukta-śāpe sa hastī tvad-sārūpyam prāpya dedīpyate sma .. 26.9 ..
एतद्वृत्तं त्वां च मां च प्रगे यो गायेत्सोऽयं भूयसे श्रेयसे स्यात् । इत्युक्त्वैनं तेन सार्धं गतस्त्वं धिष्ण्यं विष्णो पाहि वातालयेश ॥ 26.10 ॥
एतद्-वृत्तम् त्वाम् च माम् च प्रगे यः गायेत् सः अयम् भूयसे श्रेयसे स्यात् । इति उक्त्वा एनम् तेन सार्धम् गतः त्वम् धिष्ण्यम् विष्णो पाहि वातालय-ईश ॥ २६।१० ॥
etad-vṛttam tvām ca mām ca prage yaḥ gāyet saḥ ayam bhūyase śreyase syāt . iti uktvā enam tena sārdham gataḥ tvam dhiṣṇyam viṣṇo pāhi vātālaya-īśa .. 26.10 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In