| |
|

This overlay will guide you through the buttons:

दुर्वासास्सुरवनिताप्तदिव्यमाल्यं शक्राय स्वयमुपदाय तत्र भूयः । नागेन्द्रप्रतिमृदिते शशाय शक्रं का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥ 27.1 ॥
शक्राय स्वयम् उपदाय तत्र भूयस् । नाग-इन्द्र-प्रतिमृदिते शशाय शक्रम् का क्षान्तिः त्वद्-इतर-देवता-अंश-जानाम् ॥ २७।१ ॥
śakrāya svayam upadāya tatra bhūyas . nāga-indra-pratimṛdite śaśāya śakram kā kṣāntiḥ tvad-itara-devatā-aṃśa-jānām .. 27.1 ..
शापेन प्रथितजरेऽथ निर्जरेन्द्रे देवेष्वप्यसुरजितेषु निष्प्रभेषु । शर्वाद्याः कमलजमेत्य सर्वदेवा निर्वाणप्रभव समं भवन्तमापुः ॥ 27.2 ॥
शापेन प्रथित-जरे अथ निर्जर-इन्द्रे देवेषु अपि असुर-जितेषु निष्प्रभेषु । शर्व-आद्याः कमल-जम् एत्य सर्व-देवाः निर्वाण-प्रभव समम् भवन्तम् आपुः ॥ २७।२ ॥
śāpena prathita-jare atha nirjara-indre deveṣu api asura-jiteṣu niṣprabheṣu . śarva-ādyāḥ kamala-jam etya sarva-devāḥ nirvāṇa-prabhava samam bhavantam āpuḥ .. 27.2 ..
ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं प्रादुष्षन्वरद पुरः परेण धाम्ना । हे देवा दितिजकुलैर्विधाय सन्धिं पीयूषं परिमथतेति पर्यशास्त्वम् ॥ 27.3 ॥
ब्रह्म-आद्यैः स्तुत-महिमा चिरम् तदानीम् प्रादुष्षन् वर-द पुरस् परेण धाम्ना । हे देवाः दितिज-कुलैः विधाय सन्धिम् पीयूषम् परिमथत इति पर्यशास्त्वम् त्वम् ॥ २७।३ ॥
brahma-ādyaiḥ stuta-mahimā ciram tadānīm prāduṣṣan vara-da puras pareṇa dhāmnā . he devāḥ ditija-kulaiḥ vidhāya sandhim pīyūṣam parimathata iti paryaśāstvam tvam .. 27.3 ..
सन्धानं कृतवति दानवैः सुरौधे मन्थानं नयति मदेन मन्दराद्रिम् । भ्रष्टेऽस्मिन्बदरमिवोद्वहन्खगेन्द्रे सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥ 27.4 ॥
सन्धानम् कृतवति दानवैः सुरौधे मन्थानम् नयति मदेन मन्दर-अद्रिम् । भ्रष्टे अस्मिन् बदरम् इव उद्वहन् खग-इन्द्रे सद्यस् त्वम् विनिहितवान् पयः-पयोधौ ॥ २७।४ ॥
sandhānam kṛtavati dānavaiḥ suraudhe manthānam nayati madena mandara-adrim . bhraṣṭe asmin badaram iva udvahan khaga-indre sadyas tvam vinihitavān payaḥ-payodhau .. 27.4 ..
आधाय द्रुतमथ वासुकिं वरत्रां पाथोधौ विनिहितसर्वबीजजाले । प्रारब्धे मथनविधौ सुरासुरैस्तैर्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥ 27.5 ॥
आधाय द्रुतम् अथ वासुकिम् वरत्राम् पाथोधौ विनिहित-सर्व-बीज-जाले । प्रारब्धे मथन-विधौ सुर-असुरैः तैः व्याजात् त्वम् भुजग-मुखे अकरोः सुरारीन् ॥ २७।५ ॥
ādhāya drutam atha vāsukim varatrām pāthodhau vinihita-sarva-bīja-jāle . prārabdhe mathana-vidhau sura-asuraiḥ taiḥ vyājāt tvam bhujaga-mukhe akaroḥ surārīn .. 27.5 ..
क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं दुग्धाब्धौ गुरुतरभारतो निमग्ने । देवेषु व्यथिततमेषु तत्प्रियैषी प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥ 27.6 ॥
क्षुब्ध-अद्रौ क्षुभित-जल-उदरे तदानीम् दुग्ध-अब्धौ गुरुतर-भारतः निमग्ने । देवेषु व्यथिततमेषु तद्-प्रिय-एषी प्राणैषीः कमठ-तनुम् कठोर-पृष्ठाम् ॥ २७।६ ॥
kṣubdha-adrau kṣubhita-jala-udare tadānīm dugdha-abdhau gurutara-bhārataḥ nimagne . deveṣu vyathitatameṣu tad-priya-eṣī prāṇaiṣīḥ kamaṭha-tanum kaṭhora-pṛṣṭhām .. 27.6 ..
वज्रातिस्थिरतरकर्परेण विष्णो विस्तारात्परिगतलक्षयोजनेन । अम्भोधेः कुहरगतेन वर्ष्मणा त्वं निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥ 27.7 ॥
वज्र-अति स्थिरतर-कर्परेण विष्णो विस्तारात् परिगत-लक्ष-योजनेन । अम्भोधेः कुहर-गतेन वर्ष्मणा त्वम् निर्मग्नम् क्षितिधर-नाथम् उन्निनेथ ॥ २७।७ ॥
vajra-ati sthiratara-karpareṇa viṣṇo vistārāt parigata-lakṣa-yojanena . ambhodheḥ kuhara-gatena varṣmaṇā tvam nirmagnam kṣitidhara-nātham unninetha .. 27.7 ..
उन्मग्ने झटिति तदा धराधरेन्द्रे निर्मेथुर्दृढमिह सम्मदेन सर्वे । आविश्य द्वितयगणेऽपि सर्पराजे वैवश्यं परिशमयन्नवीवृधस्तान् ॥ 27.8 ॥
उन्मग्ने झटिति तदा धराधर-इन्द्रे निर्मेथुः दृढम् इह सम्मदेन सर्वे । आविश्य द्वितय-गणे अपि सर्प-राजे वैवश्यम् परिशमयन् अवीवृधः तान् ॥ २७।८ ॥
unmagne jhaṭiti tadā dharādhara-indre nirmethuḥ dṛḍham iha sammadena sarve . āviśya dvitaya-gaṇe api sarpa-rāje vaivaśyam pariśamayan avīvṛdhaḥ tān .. 27.8 ..
उद्दामभ्रमणजवोन्नमद्गिरीन्द्रन्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् । अभ्रान्ते विधिगिरिशादयः प्रमोदादुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥ 27.9 ॥
उद्दाम-भ्रमण-जव-उन्नमत्-गिरीन्द्र-न्यस्त-एक-स्थिरतर-हस्त-पङ्कजम् त्वाम् । अभ्र-अन्ते विधि-गिरिश-आदयः प्रमोदात् उद्भ्रान्ताः नुनुवुः उपात्त-पुष्प-वर्षाः ॥ २७।९ ॥
uddāma-bhramaṇa-java-unnamat-girīndra-nyasta-eka-sthiratara-hasta-paṅkajam tvām . abhra-ante vidhi-giriśa-ādayaḥ pramodāt udbhrāntāḥ nunuvuḥ upātta-puṣpa-varṣāḥ .. 27.9 ..
दैत्यौधे भुजगमुखानिलेन तप्ते तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते । कारुण्यात्तव किल देव वारिवाहाः प्रावर्षन्नमरगणान्न दैत्यसंघान् ॥ 27.10 ॥
दैत्य-ओधे भुजग-मुख-अनिलेन तप्ते तेन एव त्रिदश-कुले अपि किञ्चिद् आर्ते । कारुण्यात् तव किल देव वारिवाहाः प्रावर्षन् अमर-गणान् न दैत्य-संघान् ॥ २७।१० ॥
daitya-odhe bhujaga-mukha-anilena tapte tena eva tridaśa-kule api kiñcid ārte . kāruṇyāt tava kila deva vārivāhāḥ prāvarṣan amara-gaṇān na daitya-saṃghān .. 27.10 ..
उद्भ्राम्यद्बहुतिमिनक्रcअक्रवाळे तत्राब्धौ cइरमथितेऽपि निर्विकारे । एकस्त्वं करयुगकृष्टसर्पराजः संराजन् पवनपुरेश पाहि रोगात् ॥ 27.11 ॥
उद्भ्राम्यत्-बहु-तिमि-नक्र-चक्रवाळे तत्र अब्धौ चिर-मथिते अपि निर्विकारे । एकः त्वम् कर-युग-कृष्ट-सर्प-राजः संराजन् पवनपुर-ईश पाहि रोगात् ॥ २७।११ ॥
udbhrāmyat-bahu-timi-nakra-cakravāl̤e tatra abdhau cira-mathite api nirvikāre . ekaḥ tvam kara-yuga-kṛṣṭa-sarpa-rājaḥ saṃrājan pavanapura-īśa pāhi rogāt .. 27.11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In